अग्निपुराणम्
















पवित्रारोहणकथनम्सम्पाद्यताम्

ईश्वर उवाच
पवित्रारोहणं वक्ष्ये क्रियार्च्चादिषु पूरणं।
नित्यं तन्नित्यमुद्दिष्टं नैमित्तिकमथापरं ।। १ ।।

आषाढादि चतुर्द्दश्यामथ श्रावणबाद्रयोः।
सितासितासु कर्त्तव्यं चतुर्द्दश्यष्टमीषु तत् ।। २ ।।

कुर्य्याद्वा कार्तिकीं यावत्तिथौ प्रतिपदादिके।
वह्निब्रह्माम्बिकेभास्यनागस्कन्दार्क्कशूलिनाम् ।। ३ ।।

दुर्गायमेन्द्रगोविन्दस्मरशम्भुसुधाभुजाम् ।
सौवर्णं राजतं ताम्रं कृतादिषु यथाक्रमम् ।। ४ ।।

कलौ कार्प्पासजं वापि पट्टपद्मादिसूत्रकम्।
प्रणवश्चन्द्रमा वह्निर्ब्रह्मा नागो गुहो हरिः ।। ५ ।।

सर्वेशः सर्वदेवाः स्युः क्रमेण नवतन्तुषु।
अष्टोत्तरशतान्यर्द्धं तदर्धं चोत्तमादिकम् ।। ६ ।।

एकाशीत्याऽथवा सूत्रैस्त्रिंशताऽप्यऽप्यष्टयुक्तया।
पञ्चाशता वा कर्त्तव्यं तुल्यग्रन्थ्यन्तरालकम् ।। ७ ।।

द्वादशाङ्गुलमानानि व्यासादष्टाङ्गुलानि च।
लिङ्गविस्तारमानानि चतुरङ्गुलकानि वा ।। ८ ।।

तथैव पिण्डिकास्पर्शं चतुर्थं सर्वदैवतम्।
गङ्गावतारकं कार्य्यं सुजातेन सुधौतकम् ।। ९ ।।

ग्रन्थिं कुर्य्याच्च वामेन अघोरेणाथ शोधयेत्।
रञ्जयेत् पुरुषेणैव रक्तचन्दनकुङ्कुमैः ।। १० ।।

कस्तूरीरोचनाचन्द्रैर्हरिद्रागैरिकादिभिः।
ग्रन्थयो दश कर्त्तव्या अथवा तन्तुसङ्ख्यया ।। ११ ।।

अन्तरं वा यथाशोभमेकद्विचतुरङ्गुलम्।
प्रकृतिः पौरुषी वीरा चतुर्थी त्वपराजिता ।। १२ ।।

जयाऽन्या विजया षष्ठी अजिता च सदाशिवा।
मनोन्मनी सर्वमुखी ग्रन्थयोऽभ्यधिकाः शुभाः ।। १३ ।।

कार्य्या वा चन्द्रवह्न्यर्कपवित्रं शिववद्धदि।
एकैकं निजमूर्त्तौ वा पुप्तके गुरुके गणे ।। १४ ।।

स्यादेकैकं तथा द्वारदिक्पालकलशादिषु।
हस्तादिनवहस्तान्तं लिङ्गानां स्यात्पवित्रकम्।। १५ ।।

अष्टाविंशतितो वृद्धं दशभिर्द्दशभिः क्रमात्।
द्व्यङ्गुलाभ्यन्तरास्तत्र क्रमादेकाङ्गुलान्तराः ।। १६ ।।

ग्रन्थयो मानमप्येषां लिङ्गविस्तारसस्मितम्।
सप्तम्यां वा त्रयोदश्यां कृतनित्यक्रियः शुचिः ।। १७ ।।

भूषयेत् पुष्पवस्त्रद्यैः सायाह्ने यागमन्दिरं।
कृत्वा नैमित्तिकीं सन्ध्यां विशेषेण च तर्प्पणम् ।। १८ ।।

परिगृहीते भूभागे पवित्रे सूर्य्यमर्च्चयेत् ।
आचम्य सकलीकृत्य प्रणवार्घ्यकरो गुरुः ।। १९ ।।

द्वाराण्यस्त्रेण सम्प्रोक्ष्य पूर्वादिक्रमतोऽर्च्चयेत्।
हां शन्तिकलद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ।। २० ।।

निवृत्तिकलाद्वारायप्रतिष्ठाख्यकलात्मने।
तच्छाकयोः प्रतिद्वारं द्वौ द्वौ द्वाराधिपौ यजेत् ।। २१ ।।

जन्दिने महाकालाय भृङ्गिणेऽथ गणाय च।
वृषभाय च स्कन्दाय देव्यै चण्डायचक्रमात् ।। २२ ।।

नित्यं च द्वारपालादीन् प्रविश्य द्वारपश्चिमे।
इष्ट्वा वास्तुं भूतशुद्धिं विशेषार्घ्यकरः शिवः ।। २३ ।।

प्रोक्षणाद्यं विदायाथ यज्ञसम्बारकृन्नरः।
मन्त्रयेद्दर्भदूर्वाद्यैः पुष्पाद्यैश्च हृदादिभिः ।। २४ ।।

शिवहस्तं विधायेत्थं स्वशिरस्यधिरोपयेत्।
शिवोऽहमादिः सर्वज्ञो मम यज्ञप्रधानता ।। २५ ।।

अत्यर्थं भावयेद्देवं ज्ञानखड्गकरो गुरुः।
नेर्ऋतीं दिशमासाद्य प्रक्षिपेदुदगाननः ।। २६ ।।

अर्घ्याम्बुपञ्चगव्यञ्च समस्तान् मखमण्डपे।
चतुष्पथान्तसंस्कारैर्वीक्षणाद्यैः सुसंस्कृतैः ।। २७ ।।

विक्षिप्य विकिरांस्तत्र कुशकूर्च्चोपसंहरेत् ।
तानीशदिशि वर्द्धन्यामासनायोपकल्पयेत् ।। २८ ।।

नैर्ऋते वास्तुगीर्वाणा द्वारे लक्ष्मीं प्रपूजयेत्।
पश्चिमाभिमुखं कुम्भं सर्वदान्योपरि स्थितम् ।। २९ ।।

प्रणवेन वृषारूढं सिहस्थां वर्द्धनीन्ततः।
कुम्भे शाङ्गं शिवन्देवं वर्द्धन्यामस्त्रमर्च्चयेत् ।। ३० ।।

दिक्षु शक्रादिदिक्पालान् विष्णुब्रह्मशिवादिकान्।
वर्द्धनीं सम्यगादाय घटप्टष्ठानुगामिनीं ।। ३१ ।।

शिवाज्ञां श्रावयेन्मन्त्री पूर्वादीशानगोचरम्।
अविच्छिन्नपयोधारां मूलमन्त्रमुदीरयेत् ।। ३२ ।।

समन्ताद् भ्रामयेदेनां रक्षार्थं शस्त्ररूपिणीम्।
पूर्वं कलशमारोप्य शस्त्रार्थन्तस्य वामतः ।। ३३ ।।

समग्रासनके कुम्भे यजेद्देवं स्थिरासने।
वर्द्धन्यां प्रणवस्थायामायुधन्तदनु द्वयोः ।। ३४ ।।
भगलिङ्गसमायोगं विदध्याल्लिङ्गमुद्रया।
कुम्भे निवेद्य बोधासिं मूलमन्त्रजपन्तथा ।। ३५ ।।

तद्दशांश्न वर्द्धन्यां रक्षां विज्ञापयेदपि ।
गणेशं वायवेऽभ्यर्च्य हरं पञ्चामृतादिभिः ।। ३६ ।।

स्नापयेत् पूर्ववत् प्रार्च्य कुण्डे च शिवपावकम्।
विधिवच्च चरुं कृत्वा सम्पाताहुतिशोधितम् ।। ३७ ।।

देवाग्न्यात्मविभेदेन दर्व्या तं विभजेत्त्रिधा।
दत्वा भागौ शिवाग्निभ्यां संरक्षेद्भागमात्मनि ।। ३८ ।।

शरेण वर्म्मणा देयं पूर्वतो दन्तधावनम्।
तस्माद्‌घोरशिखाभ्यां वा दक्षिणे पश्चिमे मृदां ।। ३९ ।।

सद्योजातेन च हृदा चोत्तरे वामनीकृतम् ।
जलं वामेन शिरसा ईशे गन्धान्वितं जलम् ।। ४० ।।

पञ्चगव्यं पलाशादिपुटकं वै समन्ततः।
ऐशान्यां कुसुमं दद्यादाग्नेय्यां दिशि रोचनां ।। ४१ ।।

अगुरुं निर्ऋताशायां वायव्यां च चतुः समम्।
होमद्रव्याणि सर्वाणि सद्योजातैः कुशैः ।। ४२ ।।

दण्डाक्षसूत्रकौपीनभिक्षापात्राणि रूपिणे।
कज्जलं कुङ्कुमन्तैलं शलाकां केशशोधनीं ।। ४३ ।।
ताम्बूलं दर्पणं दद्यादुत्तरे रोचनामपि।
आसनं पादुके पात्रं योगपट्टातपत्रकम् ।। ४४ ।।

ऐशान्यामीशमन्त्रेण दद्यादीशानतुष्टये।
पूर्वस्याञ्चरुकं साज्यं दद्याद् गन्धादिकं नवे ।। ४५ ।।

पवित्राणि समादाय प्रोक्षितान्यर्घ्यवारिणा।
संहितामन्त्रपूतानि नीत्वा पावकसन्निधिं ।। ४६ ।।

कृष्णाजिनादिनाऽऽच्छाद्य स्मरन् संवत्सरात्मकम्।
साक्षइणं सर्वकृत्यानां गोप्तारं शिवमव्ययं ।। ४७ ।।

स्वेति हेति प्रयोगेण मन्त्रसंहितया पुनः।
शोधयेच्च पवित्राणि वाराणामेकविंशतिं ।। ४८ ।।

गृहादि वेष्टयेत्सूत्रैर्गन्धाद्यं रवये ददेत्।
पूजिताय समाचम्य कृतन्यासः कृतार्घ्यकः ।। ४९ ।।

नन्द्यादिब्योऽथ गन्धाख्यं वास्तोश्चाथ प्रविश्य च ।
शस्त्रेभ्यो लोकपालेब्यः स्वनाम्ना शिवकुम्भके ।। ५० ।।

वर्द्धन्यै विघ्नराजाय गुरवे ह्यात्मने यजेत्।
अथ सर्वौषधीलिप्तं धूपितं पुष्पदूर्वया ।। ५१ ।।

आमन्त्रय च पवित्रं तत् विधायाञ्जलिमध्यगम्।
आसस्तविधिच्छिद्रपूरणे च विधि प्रति ।। ५२ ।।

प्रभवामन्त्रयामि त्वां त्वदिच्छावाप्तिकारिकां।
तत्सिद्धिमनुजानीहि यजतश्चिदचित्पते ।। ५३ ।।

सर्वथा सर्वदा शम्भो नमस्तेऽस्तु प्रसीद मे।
आमन्त्रितोऽसि देवेश सह देव्या गणेश्वरैः ।। ५४ ।।

मन्त्रेसैर्ल्लेकपालैश्च सहितः परिचारकैः।
निमन्त्रयाम्यहन्तुभ्यं प्रभाते तु पवित्रकम् ।। ५५ ।।

नियमञ्च करिष्यामि परमेश तवाज्ञया।
इत्येवन्देवमामन्त्र्य रेचकेनामृतीकृतम् ।। ५६ ।।

शिवान्तं मूलमुच्चार्य्य तच्छिवाय निवेदयेत्।
जपं स्तोत्रं प्रणामञ्च कृत्वा शम्भुं क्षमापयेत् ।। ५७ ।।

हुत्वा चरोस्तृतीयांशं तद्ददीत शिवाग्नये ।
दिग्वासिब्यो दिगीशेभ्यो भूतमातृगणेभ्य उ ।। ५८ ।।

रुद्रेभ्यः क्षेत्रपादिभ्यो नमः स्वाहा बलिस्त्वयं।
दिङ्नागाद्यैश्च पूर्वादौ क्षेत्राय चाग्नये बलिः ।। ६० ।।

समाचम्य विधिच्छिद्रपूरकं होममाचरेत्।
पूर्णां व्याहृतिहोमञ्च कृत्वा रुन्धीत पावकं ।। ६० ।।

तत ओमग्नये स्वाहा स्वाहा सोमाय चैव हि।
ओमग्नीषोमाभ्यां स्वाहाऽग्नये स्विष्टकृते तथा ।। ६१ ।

इत्याहुतिच्तुष्कन्तु दत्वा कुर्य्यात्तु योजनाम्।
वह्निकुण्डार्च्चितं देवं मण्डलाभ्यर्च्चिते शिवे ।। ६२ ।।

नाडीसन्धानरूपेण विधिना योजयेत्तत्तः।
वंशादिपात्रे विन्यस्य अस्त्रञ्च हृदयन्ततः ।। ६३ ।।

अधिरोप्य पवित्राणि कलाभिर्वाऽथ मन्त्रयेत्।
षडङ्गं ब्रह्ममूलैर्व्वां हृद्वर्म्मास्त्रञ्च योजयेत् ।। ६४ ।।

विधाय सूत्रैः संवेष्ट्य पूजयित्वाऽङ्गसम्भवैः ।
रक्षार्थं जगदीशाय भक्तिनम्रः समर्पयेत् ।। ६५ ।।

पूजिते पुष्पधूपाद्यैर्द्दत्वा सिद्धान्तपुस्तके।
गुरोः पादान्तिकं गत्वा भक्त्या दद्यात् पवित्रकम् ।। ६६ ।।

निर्गत्य वहिराचम्य गोमये मण्डलत्रये।
पञ्चगव्यञ्चरुन्दन्तधावनञ्च क्रमाद यजेत् ।. ६७ ।।

आचान्तो मन्त्रसम्बद्धः कृतसङ्गीतजागरः।
स्वपेदन्तः स्मरन्नीशं बुभुक्षुर्दर्भसंस्तरे ।। ६८ ।।

अनेनैव प्रकारेण मुमुक्षुरपि संविशेत्।
केवलम्भस्मशय्यायां सोपवासः समाहितः ।। ६९ ।।

इत्यादिमहापुराणे आग्नेये पवित्राधिवासनविधिर्नाम अष्टसप्ततितमोऽध्यायः॥