अग्निपुराणम्
















अग्निपुराणम् अध्यायः ७१- गणेशपूजाविधिः अथ एकसप्ततितमोऽध्यायः ईश्वर उवाच गणपूजां प्रवक्ष्यामि निर्विघ्नामखिलार्थदाम् । गणाय स्वाहा हृदयमेकदंष्ट्राय वै शिरः ॥१॥ गजकर्णिने च शिखा गजवक्त्राय वर्ग च । महोदराय स्वदन्तहस्तायाति तथास्त्रकम् ॥२ ॥ गणो गुरुः पादुका च शक्त्यनन्तौ च धर्मकः । मुख्यास्थिमण्डलं चाधश्चोर्ध्वच्छदनमर्चयेत् ॥३ ॥ पद्मकर्णिकवीजांश्च ज्वालिनीं नन्दयार्चयेत् । सूर्येशा कामरूपा च उदया कामवर्तिनी ॥४ ॥ सत्या च विघ्ननाशा च ग्रासनं गन्धमृत्तिका । यं शोषो रं च दहनं प्लवो लं वं तथामृतम् ॥५ ॥ लम्बोदराय विद्महे महोदराय धीमहि तन्नो दन्ती प्रचोदयात् ॥ गणपतिर्गणाधिपो गणेशो गणनायकः। गणक्रीडो वक्रतुण्ड एकदंष्ट्रो महोदरः ॥६॥ गजवक्त्रो लम्बकुक्षिर्विकटो विघ्ननाशनः। धूम्रवर्णा महेन्द्राद्याः पूज्या गणपतेः स्मृताः ॥७॥ इत्यादिमहापुराणे ग्राग्नेये विनायकपूजाकथनं नाम एकसप्ततितमोऽध्यायः॥