अग्निपुराणम्
















सर्वदेवपवित्रारोहणविधिः सम्पाद्यताम्

अग्निरुवाच
सङ्क्षेपात्सर्वदेवानां पवित्रारोहणं[१] शृणु ।३७.००१
पवित्र सर्वलक्ष्म स्यात्स्वरसानलगं त्वपि ॥३७.००१
जगद्योने समागच्छ परिवारगणैः सह ।३७.००२
निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकम् ॥।३७.००२
जगत्सृजे[२] नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००३
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ॥३७.००३
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।३७.००४
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः ॥३७.००४
इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।३७.००५
सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम ॥३७.००५
व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।३७.००६
सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००६
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००७
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००७
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००८
वाणेश्वर[३] नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००८
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.००९
शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ॥३७.००९
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।३७.०१०
नारायणमयं सूत्रमनिरुद्धमयं वरं[४] ॥३७.०१०
धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।३७.०११
कामदेवमयं सूत्रं सङ्कर्षणमयं वरं ॥३७.०११
विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।३७.०१२
वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं ॥३७.०१२
संसारसागरोत्तारकारणं प्रददामि ते ।३७.०१३
विश्वरूपमयं सूत्रं सर्वदं पापनाशनं ॥३७.०१३
अतीतानागतकुलसमुद्धारं ददामि ते ।३७.०१४
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ॥३७.०१४

इत्यादिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥

अग्निरुवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं श्रृणु।
पवित्रं सर्वलक्ष्म स्यात् खरमानलगं त्व ।। १ ।।

जगद्योने समागच्छ परिवारगणैः सह।
निमन्त्रयाम्यहं प्रातर्द्दद्यान्तुभ्यं पवित्रकम् ।। २ ।।

जगत्‌सृजे नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
पवित्रीकरणार्थाय वर्षपूजाफलप्रदम् ।। ३ ।।

शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम्।
मणिविद्रुममालाभिर्म्मन्दारकुसुमादिभिः ।। ४ ।।

इयं संवत्सरी पूजा तवास्तु वेदवित्पते।
सांवत्सरीमिमां पूजां सम्पाद्य विधिवन्मम ।। ५ ।।

ब्रज पवित्रकेदानीं स्वर्गलोकं विसर्ज्जितः।
सूर्य्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकम् ।। ६ ।।

पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
शिवदेव नमस्तुभ्यं गृह्णोष्वेदं पवित्रकम् ।। ७ ।।

पवित्रीकरणार्थाय वर्षपूजाफलप्रदम्।
वाणेश्वर नस्तुभ्यं गृह्लीष्वेदं पवित्रकम् ।। ८ ।।

पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
शक्तिदेवि नमस्तुभ्यं गृह्णीषवेदं पवित्रकम् ।। ९ ।।

पवित्रीकरणार्थय वर्षपूजाफलप्रदम्।
नारायणमयं सूत्रमनिरुद्धणमयं वरम् ।। १० ।।

धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरम् ।। ११ ।।

विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते।
वासुदेवमयं सूत्रं धर्म्मकामार्थमोक्षदम् ।। १२ ।।

संसारसागरोत्तारकारणं प्रददामि ते।
विश्वरूपमयं सूत्रं सर्व्वदं पापनाशनम् ।। १३ ।।

अतीतानागतकुलसमुद्दारं ददामि ते।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे ।। १४ ।।

इत्यादिमहापुराणे आग्नेये सङ्‌क्षेपपवित्रारोहणं नाम सप्तत्रिंशोऽध्यायः ॥

  1. पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः
  2. जगत्सूते इति ङ, चिह्नितपुस्तकपाठः
  3. गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः
  4. परमिति ङ, चिह्नितपुस्तकपाठः