अग्निपुराणम्
















उत्पातशान्तिः

सम्पाद्यताम्

पुष्कर उवाच
श्रीसूक्तं प्रतिवेदञ्च क्षेयं लक्षअमीविवर्द्धनं ।
हिरण्यवर्णा हरिणीमृचः पञ्चदश श्रियः ।। २६३.१ ।।

रथेष्वक्षेषु वाजेति चतस्रो यजुषि श्रियः ।
स्रावन्तीयं तथा साम श्रीसूक्तं सामवेदके ।। २६३.२ ।।

श्रियं धातर्मयि धेहि प्रोक्तमाथर्वणे तथा ।
श्रीसूक्तं यो जपेद्‌भक्त्या हत्वा श्रीस्तस्य वै भवेत् ।। २६३.३ ।।

पद्मानि चाथ विल्वानि हुत्वाज्यं वा लिलान् श्रियः ।
एकन्तु पौरुषं सूक्तं प्रतिवेदन्तु सर्वदं ।। २६३.४ ।।

सूक्तेन दद्यान्निष्पापो ह्येकैकया१ जलाञ्जलिं ।
स्नात एकैकया पुष्पं विष्णोर्द्दत्वाघहा भवेत् ।। २६३.५ ।।

स्नात एकैकया दत्वा फलं स्यात् सर्वकामभाक् ।
महापापोपपापान्तो भवेज्जप्त्वा तु पैरुषं ।। २६३.६ ।।

कृच्छ्रैर्विशुद्धो जप्त्वा च हुत्वा स्नात्वाऽथ सर्वभाक् ।
अष्टादशभ्यः सान्तिभ्यस्तिस्रोऽन्याः शान्तयो वराः ।। २६३.७ ।।

अमृता चाभ्या सौम्या सर्व्वोत्पातविमर्द्दनाः ।
अमृता सर्वदैवत्या अभ्या ब्रह्मदैवता ।। २६३.८ ।।

सौम्या च सर्वदैवत्या एका स्यात्सर्व्वकामदा ।
अभयायामणिः कार्य्यो वरुणस्य भृगूत्तम ।। २६३.९ ।।

शतकाण्डोऽमृतायाश्च सौम्यायाः शङ्खजो मणिः ।
तद्दैवत्यास्तथा मन्त्राः सिद्धौ स्यान्मणिबन्धनं ।। २६३.१० ।।

दिव्यान्तरीक्षभौमादिसमुत्पातार्दनाइमाः ।
द्विव्यान्तरीक्षभौमन्तु अद्भुतं त्रिविधं श्रृणु ।। २६३.११ ।।

ग्रहर्क्षवैकृतं दिव्यमान्तरीक्षन्निबोध मे ।
उल्कापातश्च दिग्दाहः परिवेशस्तथैव च ।। २६३.१२ ।।

गन्धर्वनगरञ्चैव वृष्टिश्च विकृता च या ।
चरस्थिरभवं भूमौ भूकम्पमपि भूमिजं ।। २६३.१३ ।।

सप्ताहाभ्यन्तरे वष्टावद्भुतं निष्फलं भवेत् ।
शान्तिं विना त्रिभिर्वर्षैरद्भुतं भयकृद्भवेत् ।। २६३.१४ ।।

देवतार्च्चाः प्रनृत्यन्ति वेपन्ते प्रज्वलन्ति च ।
आरठन्ति च रोदन्ति प्रस्विद्यन्तेहसन्ति च ।। २६३.१५ ।।

अर्च्चाविकारोपशमोऽभ्यर्च्य हुत्वा प्रजापतेः ।
अनग्निर्दीप्यते यत्र राष्ट्रे च भृशनिस्वनं ।। २६३.१६ ।।

न दीप्यते चेन्धनवांस्तद्राष्ट्रं पीड्यते नृपैः ।
अग्निवैकृत्यशमनमग्निमन्त्रैश्च भार्गव ।। २६३.१७ ।।

अकाले फलिता वृक्षाः क्षीरं रक्तं स्रवन्ति च ।
वृक्षोत्पातप्रशमनं शिवं पूज्य च कारयेत् ।। २६३.१८ ।।

अतिवृष्टिरनावृष्टिर्दुर्भिक्षायोभयं मतं ।
अनृतौ त्रिदिनारब्घवृष्टिर्ज्ञेया भयाय हि ।। २६३.१९ ।।

वृष्टिवैकृत्यनाशः स्यात्पर्जन्येन्द्वर्कपूजनात् ।
नगरादपसर्पन्ते समीपमुपयान्ति च ।। २६३.२० ।।

नद्यो ह्रदप्रश्रवणा विरसाश्च भवन्ति च ।
सलिलाशयवैकृत्ये जप्तव्यो वारुणो मनुः ।। २६३.२१ ।।

अकालप्रसवा नार्य्यः कालतो वाप्रजास्तथा ।
विकृतप्रसवाश्चैव युग्मप्रसवनादिकं ।। २६३.२२ ।।

स्त्रीणां प्रसववैकृत्ये स्त्रीविप्रादि प्रपूजयेत् ।
वड़वा हस्तिनी गौर्वा यदि युग्मं प्रसूयते ।। २६३.२३ ।।

विजात्यं विकृतं वापि षड्‌भिर्मासैर्म्रियेत् वै ।
विकृतं वा प्रसूयन्ते परचक्रभयं भवेत् ।। २६३.२४ ।।

होमः प्रसूतिवैकृत्ये जपो विप्रादिपूजनं ।
यानि यानान्ययुक्तानि युक्तानि न वहन्ति च ।। २६३.२५ ।।

आकाशे तूर्यनादाश्च महद्भयमुपस्थितं ।
प्रविशन्ति यदा ग्राममारण्या मृगपक्षिणः ।। २६३.२६ ।।

अरण्यं यान्ति वा ग्राम्याः जलं यान्ति स्थलोद्भवाः ।
स्थलं वा जलजा यान्ति राजाद्वारादिके शिवाः ।। २६३.२७ ।।

प्रदोषे कुक्कुटो वासे शिवा चार्कोदये भवेत् ।
गृहङ्कपोतः प्रविशेत् क्रव्याद्वा मूर्दिध्न लीयते ।। २६३.२८ ।।

मधुरां मक्षिकां कुर्य्यांत् काको मैथुनगो दृशि ।
प्रासादतोरणोद्यानद्वारप्राकारवेश्मनां ।। २६३.२९ ।।

अनिमित्तन्तु पतनं दृढ़ानां राजमृत्यवे ।
रजसा वाथ कधूमेन दिशो यत्र समाकुलाः ।। २६३.३० ।।

केतूदयोपरागौ च छिद्रता शशिसूर्ययोः ।
ग्रहर्क्षविकृतिर्यत्र तत्रापि भयमादिशेत् ।। २६३.३१ ।।

अग्निर्यत्र न दीप्येत स्त्रवन्ते चोदकुम्भकाः ।
मृतिर्भयं शून्य्तादिरुत्पातानां फलम्भवेत् ।। २६३.३२ ।।

द्विजदेवादिपूजाब्यः शान्तिर्जप्यैस्तु होमतः ।

इत्यादिमहापुराणे आग्नेये उत्पातशन्तिर्नाम त्रिषष्ट्यधिकद्विशततमोऽध्यायः ।।