अग्निपुराणम्
















अथ षट्सप्तत्यधिकशततमोऽध्यायः

प्रतिपद्व्रतानि

अग्निरुवाच
वक्ष्ये प्रतिपदादीनि व्रतान्यखिलदानि ते ।१७६.००१
कार्त्तिकाश्वयुजे चैत्रे प्रतिपद्ब्रह्मणस्तिथिः ॥१७६.००१
पञ्चदश्यान्निराहारः प्रतिपद्यर्चयेदजं ।१७६.००२
ओं तत्सद्ब्रह्मणे नमो गायत्र्या वाब्दमेककं ॥१७६.००२
अक्षमालां स्रुवं दक्षे(१) वामे स्रुचं कमण्डलु(२) ।१७६.००३
लम्बकूर्चञ्च जटिलं हैमं ब्रह्माणमर्चयेत् ॥१७६.००३
शक्त्या क्षीरं प्रदद्यात्तु ब्रह्मा मे प्रीयतामिति ।१७६.००४
निर्मलो भोगभुक् स्वर्गे भूमौ विप्रो धनी भवेत् ॥१७६.००४
धन्यं व्रतं प्रवक्ष्यामि अधन्यो धन्यतां व्रजेत् ।१७६.००५
मार्गशीर्षे प्रतिपदि नक्तं हुत्वाप्युपोषितः(३) ॥१७६.००५
अग्नये नम इत्यग्निं प्रार्च्याब्दं सर्वभाग्भवेत् ।१७६.००६
प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः ॥१७६.००६
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतं ।१७६.००७
टिप्पणी
१ अक्षमालास्रुचं दक्षे इति छ..
२ वामे दण्डकमण्डलु इति छ.. , झ.. । वामे स्रुवकमण्डलु इति छ..
३ नक्तं कृच्चाभ्युपोषित इति ग..

इत्याग्नेये महापुराणे प्रतिपद्व्रतानि नाम षट्सप्तत्यधिकशततमोऽध्यायः ॥