अग्निपुराणम्
















दुर्गसम्पत्तिः सम्पाद्यताम्

पुष्कर उवाच
दुर्गसम्पत्तिमाख्यास्ये दुर्गदेशे वसेन्नृपः ।
वैश्यशूद्रजनप्रायोऽह्यनाहार्य्यस्तथापरैः ।। २२२.१ ।।

किञ्चिद्‌ब्राह्मणसंयुक्तो बहुकर्म्मकरस्तथा ।
अदेवमातृको भक्तजलो देशः प्रशस्यने ।। २२२.२ ।।

परैरपीडीतः पुष्पफलधान्यसमन्वितः१ ।
अगम्यः परचक्राणां व्यालतस्करवर्जितः ।। २२२.३ ।।

षण्णामेकतमं दुर्गं तच्च कृत्वा वसेद्‌ बली ।
धनुर्दुंर्गं महीदुर्गं नरदुर्गं तथैव च ।। २२२.४ ।।

वार्क्षञ्चैवाम्बुदुर्गञ्च गिरिदुर्गञ्च भार्गव ।
सर्वोत्तमं शैलदुर्गमभेद्यं चान्यभेदनं ।। २२२.५ ।।

पूरन्तत्र च हट्टाद्यदेवतायतनादिकं ।
अनुयन्त्रायुधोपेतं सोदकं दुर्गमुत्तमं ।। २२२.६ ।।

राजरक्षां प्रवक्ष्यामि रक्ष्यो भूपो विषादितः ।
पञ्चाङ्गस्तु शिरीषः स्यान्मूत्रपिष्टो विपार्द्दनः ।। २२२.७ ।।

शतावरी छिन्नरुहा विषघ्नी तण्डुलीयकं ।
कोषातकी च कल्हारी ब्राह्मी चित्रपटोलिका ।। २२२.८ ।।

मण्डूकपर्णी वाराही धात्र्यानन्दकमेव च ।
उन्मादिनी सोमराजी विषघ्नं रत्नमेव च ।। २२२.९ ।।

वास्तुलक्षणसंयुक्ते वसन् दुर्गे सुरान्यजेत् ।
प्रजाश्च पालयेद्‌दुष्टाञ्जयेद्दानानि दापयेत् ।। २२२.१० ।।

देवद्रव्यादिहरणात् कल्पन्तु नरके वसेत् ।
देवालयानि कुर्वीत देवपूजारतो नृपः ।। २२२.११ ।।

सुरालयाः पालनीयाः स्थापनीयाश्च देवताः ।
मृण्मयाद्दारुजं पुण्यं दारुजादिष्टकामयं ।। २२२.१२ ।।

ऐष्टकाच्छैलजं पुण्यं शैलजात् स्वर्णरत्नजं ।
क्रीडन् सुरगृहं कुर्वन् भुक्तिमुक्तिमवाप्नुयात् ।। २२२.१३ ।।

चित्र्कृद् गीतवाद्यादिप्रेक्षणीयादिदानकृत् ।
तैलाज्यमधुदुग्धाद्यैः स्नाप्य देवं दिवं व्रजेत् ।। २२२.१४ ।।

पूजयेत् पालयेद्विप्रान् द्विजस्वन्न हरेन्नृपः ।
सुवर्णमेकं गामेकां भूमेरप्येकमङ्गुलं ।। २२२.१५ ।।

हरन्नरकमाप्नोति यावदाहूतसम्प्लवं ।
दुराचारन्न द्विषेच्च सर्वपापेष्वपि स्थितं ।। २२२.१६ ।।

नैवास्ति ब्राह्मणबधात् पापं गुरुतरं क्वचित् ।
अदैवं दैवतं कुर्य्युः कुर्य्युर्द्दैवमदैवतं ।। २२२. १७ ।।

ब्राह्मणा हि महाभागास्तान्नमस्येत्सदैव तु२ ।
ब्राह्णणी रुदती हन्ति कुलं राज्यं प्र्जास्तथा ।। २२२.१८ ।।

साध्वीस्त्रीणां पालनञ्च राजा कुर्य्याच्च धार्मिकः ।
स्त्रिया प्रहृष्टया भाव्यं गृहकार्यैकदक्षया ।। २२२.१९ ।।

सुसंम्कृतोपस्करया व्यये चामुक्तहस्तया ।
यस्मै दद्यात्पिता त्वेनां शुश्रषेत्तं पति सदा ।। २२२.२० ।।

मृते भर्त्तरि स्वर्य्यायात् ब्रह्मचर्ये स्थिताङ्गना ।
परवेश्मरुचिर्न्न स्यान्न स्यात् कलहशालिनी ।। २२२.२१ ।।

मण्डनं वर्जयेन्नारी तथा प्रोषितभर्तृका ।
देवताराधनपरा तिष्ठेद्भर्त्तृहिते रता ।। २२२.२२ ।।

धारयेन्मङ्गलार्थाय किञ्चिदाभरणन्तथा ।
भर्त्राग्नि या विशेन्नारी सापि स्वर्गमवाप्नुयात् ।। २२२.२३ ।।

श्रियः सम्पूजनङ्कार्य्यं गृहसम्मार्जनादिकं ।
द्वादश्यांकात्तिके विष्णुं गां सवत्सां ददेत्तथा ।। २२२.२४ ।।

सावित्र्या रक्षितो भर्त्ता सत्याचारब्रतेन च३ ।
सप्तम्यां मार्गशीर्षे तु सितेऽभ्यर्च्य दिवाकरं ।। २२२.२५ ।।

पुत्रानाप्नोति च स्त्रीः नात्र कार्य्या विचारणा ।

इत्यादिमहापुराणे आग्नेये राजधर्मो नाम द्वाविंशत्यधिकद्विशततमोऽध्यायः ।