अग्निपुराणम्
















त्वरिताविद्या

सम्पाद्यताम्

अग्निरुवाच
विद्याप्रस्तावमाख्यास्ये धर्म्मकामादिसिद्धिदम् ।
नवकोष्ठविभागेन विद्याभेदञ्च विन्दति ।। ३१२.१ ।।

अनुलोमविलोमेन समस्तव्यस्तयोगतः ।
कर्णाविकर्णयोगेन अत ऊद्‌र्ध्वं विभागशः ।। ३१२.२ ।।

त्रित्रिकेण च योगेन देव्या सन्नद्धविग्रहः ।
जानाति सिद्धिदान्मन्त्रान् प्रस्तावान्निर्गतान् बहून् ।। ३१२.३ ।।

शास्त्रे शास्त्रे स्मृता मन्त्राः प्रयोगास्तत्र दुर्ल्लभाः ।
गुरुः स्यात् प्रथमो वर्णः पूर्व्वेद्युर्न च वर्ण्यते ।। ३१२.४ ।।

प्रस्तावे तत्र चैकार्णा द्व्यर्णस्त्र्यर्णादयोऽभवन् ।
तिर्य्यगूद्‌र्ध्वगता रेखाश्चतुरश्चतुरो भजेत् ।। ३१२.५ ।।

नव कोष्ठा भवन्त्येवं मध्यदेशे तथा इमान् ।
प्रदक्षिणेन संस्थाप्य प्रस्तावं भेदयेत्ततः ।। ३१२.६ ।।

प्र्स्तावक्रमयोगेन प्रस्तावं यस्तु विन्दति ।
करमुष्टिस्थितास्तस्य साधकस्य हि सिद्धयः ।। ३१२.७ ।।

त्रैलोक्यं पादमूले स्यान्नवखण्डां भुवं लभेत् ।
कपाले तु समालिख्य शिवतत्त्वं समन्ततः ।। ३१२.८ ।।

श्मशानकर्पटे वाथ वाह्यं निष्क्रम्य मन्त्रवित् ।
तस्य मध्ये लिखेन्नाम कर्णिकोपरि संस्थितम् ।। ३१२.९ ।।

तापयेत्‌खादिराङ्गारैर्भूर्जमाक्रम्य पादयोः ।
सप्ताहादानयेत् सर्व्वं त्रैलोक्यं सचराचरम् ।। ३१२.१० ।।

वज्रसम्पुटगर्भे तु द्वादशारे तु लेखयेत् ।
मध्ये गर्भगतं नाम सदाशिवविदर्मितम् ।। ३१२.११ ।।

कुड्ये१ फलकके वाथ शिलापट्टे हरिद्रया।
मुखस्तम्भं गतिस्तम्भं सैन्यस्तम्भन्तु जायते ।। ३१२.१२ ।।

विषरक्तेन संलिख्य शमशाने कर्परे बुधः ।
षट्‌कोणं दण्डमाक्रान्तं समन्ताच्छक्तियोजितम् ।। ३१२.१३ ।।

मारयेदचिरादेष श्मशाने निहतं रिपुं ।
छेदं करोति राष्ट्रस्य चक्रमध्ये न्यसेद्रिपुं ।। ३१२.१४ ।।

चक्रधाराङ्गतां शक्तिं रिपुनाम्ना रिपुं हरेत् ।
तार्क्ष्येणैव चु वीजेन खड्गमध्ये तु लोखयेत् ।। ३१२.१५ ।।

विदर्भरिपुनामाथ श्मशानाङ्गारलेखितम् ।
सप्ताहात्साधयेद्देशं ताडयेत् प्रेतभस्मना ।। ३१२.१६ ।।

भेदने छेदने चैव मारणेषु शिवो भवेत् ।
तारकं नेत्रमुद्देष्टं शान्तिपुष्टी नियोजयेत् ।। ३१२.१७।।

दहनादिप्रयोगोयं शाकिनीञ्चैव कर्षयेत् ।
मध्यादिवारुणीं यावद्वक्रतुण्डसमन्वितः ।। ३१२.१८ ।।

कुष्ठाद्या व्याधयो ये तु नाशयेत्तान्न संशयः ।
मध्यादिउत्तरान्तन्तु करालीबन्धनाज्जपेत् ।। ३१२.१९ ।।

रक्षयेदात्मनो विद्यां प्रतिवादी यदा शिवः ।
वारुण्यादि ततो न्यस्य ज्वरकाशविनाशनम् ।। ३१२.२० ।.

सौम्यादि मध्यमान्तन्तु गुरुत्वं जायते वटे ।
पूर्व्वादि मध्यमान्तन्तु लघुत्वं कुरुते क्षणात् ।। ३१२.२१ ।।

भूर्ज्जे रोचनया लिख्य एतद्वज्राकुलं पुरम् ।
क्रमस्थैर्म्मन्त्रवीजैस्तु रक्षां देहेषु कारयेत् ।। ३१२.२२ ।।

वेष्टिता भावहेम्ना च रक्षेयं मृत्युनाशिनी ।
विघ्नपापारिदमनी सौभाग्यायुःप्रदा धृता ।। ३१२.२३ ।।

द्यूते रणे च जयदा शक्रसैन्ये न संशयः ।
बन्ध्यानां पुत्रदा ह्येणा चिन्तामणिरिवापरा ।। ३१२.२४ ।।

साधयेत् परराष्ट्राणि राज्यञ्च पृथिवीं जयेत् ।
फट् स्त्रीं क्षें हूँ लक्षज्प्याद्यक्षादिर्वशगो भवेत् ।। ३१२.२५ ।।

इत्यादिमहापुराणे आग्नेये त्वरिताविद्या नाम द्वादशाधिकत्रिशततमो
ऽध्यायः ।।