अग्निपुराणम्
















सृष्टिविषयकवर्णनम्

सम्पाद्यताम्

अग्निरुवाच
जगत्सर्गादिकां क्रीडां विष्णोर्वक्ष्येधुना श्रृणु।
स्वर्गादिकृत् स सर्गादिः सृष्ट्यादिः सगुणोगुणः ।। १ ।।

ब्रह्माव्यक्तं सदाग्रेऽभूत् न खं रात्रिदिनादिकम्।
प्रकृतिं पुरुषं विष्णुः प्रविश्याक्षोभयत्ततः ।। २ ।।

सर्गकाले महत्तत्त्वमहङ्कारस्ततोऽभवत्।
वैकारिकस्तैजसश्च भूतादिश्चैव तामसः ।। ३ ।।

अहङ्काराच्छब्दमात्रमाकाशमभवत्ततः ।
स्पर्शमात्रोऽनिलस्तस्माद्रूपमात्रोऽनलस्ततः ।। ४ ।।

रसमात्रा आप इतो गन्धमात्रा मही स्मृता ।
अहङ्कारात्तामसात्तु तैजसानी न्द्रियाणि च ।। ५ ।।

वैकारिका दशदेवा मन एकादशेन्द्रियम्।
ततः स्वयम्भूर्भगवान् सिसृक्षुर्विविधाः प्रजाः ।। ६ ।।

अप एव ससर्जादौ तासु वीर्यमवासृजत् ।
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।। ७ ।।

अयनन्तस्य ताः पूर्वन्तेन नारायणः स्मृतः ।
हिरण्यवर्णमभवत् तदण्डमुदकेशयम् ।। ८ ।।

तस्मिन् जज्ञे स्वयं ब्रह्मा स्वयम्भूरिति नः श्रुतम्।
हिरण्यगर्भो भगवानुषित्वा परिवत्सरम् ।। ९ ।।

तदण्डमकरोद् द्वैधन्दिवं भुवमथापि च।
तयोः शकलयोर्म्मध्ये आकाशमसृजत् प्रभुः ।। १० ।।

अप्सुं पारिप्लवां पृथ्वीं दिशश्च दशधा दधे।
तत्र कालंमनोवाचं कामं क्रोधमयो रतिम् ।। ११ ।।

ससर्ज सृष्टिन्तद्रूपां स्त्रष्टुमिच्छन् प्रजापतिः।
विद्युतोशनिमेघांश्च रोहितेन्द्रधनूंषि च ।। १२ ।।

वयांसि च ससर्जादौ पर्जन्यञ्चाथ वक्त्रतः।
ऋचो यजूंषि सामानि निर्ममे यज्ञासिद्धये ।। १३ ।।

साध्यास्तैरयजन्देवान् भूतमुच्चावचं भुजात् ।
सनत्कुमारं रुद्रञ्च ससर्ज्ज क्रोधसम्भवम् ।। १४ ।।

मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्।
वसिष्ठं मानसाः सप्त ब्रह्माण इति निश्चिताः ।। १५ ।।

सप्तैते जनयन्ति स्म प्रजा रुद्रश्च सत्तम।
द्विधा कृत्वात्मनो देहमर्द्धेन पुरुषोऽभवत् ।।
अर्द्धेन नारी तस्यां स ब्रह्मा वै चासृजत् प्रजाः ।। १६ ।।