अग्निपुराणम्
















मन्त्ररूपौषधकथनम् सम्पाद्यताम्

धन्वन्तरिरुवाच
आयुरारोग्यकर्तार ओंकारद्याश्च नाकदाः ।
ओंकारः परमो मन्त्रस्तं जप्त्वा चामरो भवेत् ।। २८४.१ ।।

गायत्री परमो मन्त्रस्तं जप्त्वा भुक्तिमुक्तिभाक् ।
ओं नमो नारायणाय मन्त्रः सर्वार्थसाधकः ।। २८४.२ ।।

ओं नमो भगवते वासुदेवाय सर्वदः ।
ओं ह्रूँ नमो विष्णवे मन्त्रोयञ्चौषधं परं ।। २८४.३ ।।

अनेन देवा ह्यसुराः सश्रियो निरुजोऽभवन् ।
भूतानामुपकारश्च तथा धर्मो महौषधम् ।। २८४.४ ।।

धर्म्मः सद्धर्म्मकृद्धर्मी एतैर्धर्म्मैश्च निर्म्मलः ।
श्रीदः श्रीशः श्रीनिवासः श्रीधरः श्रीनिकेतनः ।। २८४.५ ।।

श्रियः पतिः श्रीपरम् एतैः श्रियमवाप्नुयात् ।
कामी कामप्रदः कामः कामपालस्तथा हरिः ।। २८४.६ ।।

आनन्दो माधवश्चैव नाम कामाय वै हरेः ।
रामः परशुरामश्च नृसिंहो विष्णुरेव च ।। २८४.७ ।।

त्रिविक्रमश्च नामानि जप्तव्यानि जिगीषुभिः ।
विद्यामभ्यस्यतां नित्यं जप्तव्यः पुरुषोत्तमः ।। २८४.८ ।।

दामोदरो बन्धहरः पुष्कराक्षोऽक्षिरोगनुत् ।
हृषीकेशो भयहरो जपेदौषधकर्म्मणि ।। २८४.९ ।।

अच्युतञ्चामृतं मन्त्रं सङ्ग्रामे चापराजितः ।
जलतारे नारसिंहं पूर्व्वादौ क्षेमकामवान् ।। २८४.१० ।।

चक्रिणङ्गदिनञ्चैव शार्ङ्गिणं खड्गिनं स्मरेत् ।
नारायणं सर्वकाले नृसिंहोऽखिलभीतिनुत् ।। २८४.११ ।।

गरुडध्वजश्च विषहृत् वासुदेवं सदा जपेत् ।
धान्यादिस्थापने स्वप्ने अनन्ताच्युतमीरयेत् ।। २८४.१२ ।।

नारायणञ्च दुःस्वप्ने दाहादौ जलशायिनं ।
हयग्रीवञ्च विद्यार्थी जगत्सृतिं सुताप्तये ।। २८४.१३ ।।

बलभद्रं शौर्यकार्य्ये एकं नामार्थसाधकम् ।। २८४.१४ ।।

इत्यादिमहापुराणे आग्नेये मन्त्ररूपौषधकथनं नाम चतुरशीत्यधिकद्विशततमोऽध्यायः ।।