अग्निपुराणम्
















पञ्चाह्गरुद्रविधानम् सम्पाद्यताम्


अग्निरुवाच
वक्ष्ये रुद्रविधानन्तु पञ्चाङ्गं सर्व्वदं परं ।
हृदयं शिवसङ्कल्पः शिवः सूक्तन्तु पौरुषम् ।। २९६.१ ।।
शिखाद्भ्यः सम्भृतं सूक्तमाशुः कवचमेव च ।
शतरुद्रीयमस्त्रञ्च रुद्रस्याङ्गानि पञ्च हि ।। २९६.२ ।।
पञ्चाङ्गान्न्यस्य तं ध्यात्वा जपेद्रुद्रांस्ततः क्रमात् ।
यज्जाग्रत इति सूक्तं षडृचं मानसं विदुः ।। २९६.३ ।।
ऋषिः स्याच्छिवसङ्कल्पश्छन्दस्त्रिष्टुबुदाहृतं ।
शिवः सहस्रशीर्षेति तस्य नारायणोऽप्यृषिः।। २९६.४ ।।
देवता पुरुषोऽनुष्टुप्‌छन्दो ज्ञेयञ्च त्रैष्टुभम् ।
[१]अद्भ्यः सम्भृतं सूक्तमृषिरुत्तरगोनरः ।। २९६.५ ।।
आद्यानान्तिसृणां त्रिष्टुप्‌छन्दोऽनुष्टुब्द्वयोरपि ।
छन्दस्त्रैष्टुभमन्त्यायाः पुरुषोऽस्यापि देवता ।। २९६.६ ।।
आशुरिन्द्रो द्वादशानां छन्दस्त्रिष्टुबुदाहृतं ।
ऋषिः प्रोक्तः प्रतिरथः सूक्ते सप्तदशार्च्चके ।। २९६.७ ।।
पृथक्‌पृथक् देवताः स्युः पुरुविदङ्गदेवता ।
अवशिष्टदैवतेषु छन्दोऽनुष्टुबुदाहृतं ।। २९६.८ ।।
असौ यस्ताम्रो भवतीन्द्रः पुरुलिङ्गोक्तदेवताः ।
पङ्क्तिच्छन्दोऽथ मर्म्माणि त्वपो लिङ्गोक्तदेवताः ।। २९६.९ ।।
रौद्राध्याये च सर्व्वस्मिन्नृषिः स्यात् परमेष्ठ्यपि ।
प्रजापतिर्व्वा देवानां कुत्सस्य तिसृणां पुनः ।। २९६.१० ।।
[२]मनोद्वयोरुमैका स्याद्रुद्रो रुद्राश्च देवताः ।
आद्योनुवाकोऽथ पूर्व्व एकरुद्राख्यदैवतः ।। २९६.११ ।।
छन्दो गायत्रमाद्याया अनुष्टुप्‌ तिसृणामृचाम् ।
तिसृणाञ्च तथा पङ्क्तिरनुष्टुबथ संस्मृतम् ।। २९६.१२ ।।
द्वयोश्च जगतीछन्दो रुद्राणामप्यशीतयः ।
[३]हिरण्यबाहवस्तिस्रो नमो वः किरिकाय[४] च ।। २९६.१३ ।।
पञ्चर्च्चो रुद्रदेवाः स्युर्मन्त्रे रुद्रानुवाकके ।
विंशके रुद्रदेवास्ताः प्रथमा बृहती स्मृता ।। २९६.१४ ।।
ऋग्‌द्वितीया त्रिजगती तृतीया त्रिष्टुबेव च ।
अनुष्टुभो यजुस्तिस्र आर्योभिज्ञः सुसिद्धिभाक् ।। २९६.१५ ।
त्रैलोक्यमोहनेनापि विषव्याध्यरिमर्द्दनं ।
इँ श्रीँ ह्रीँ ह्रैँ हूँ त्रैलोक्यमोहनाय विष्णवे नमः ।। २९६.१६ ।।
ओं हं इँ उग्रवीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युन्नमाम्यहं ।। २९६.१७ ।।
अयमेव तु पञ्चाङ्गो मन्त्रः सर्वार्थसाधकः ।
द्वादशाष्टाक्षरौ मन्त्रौ विषव्याधिविमर्द्दनौ ।। २९६.१८ ।।
कुब्जिका त्रिपुरा गौरी चन्द्रिका विषहारिणी ।
प्रसादमन्त्रो विषहृदायुरारोग्यवर्द्धनं ।। २९६.१९ ।।
सौरो विनायकस्तद्वद्रुद्रमन्त्राः सदाखिलाः ।। २९६.२० ।।

इत्यादिमहापुराणे आग्नेये पञ्चाङ्गरुद्रविधानं नाम षण्नवत्यधिकद्विशततमोऽध्यायः ।।

  1. यजु. ३१.१७
  2. मा नो महान्तमुत मा नो(यजु. १६.१५ एवं मा नस्तोके० (यजु १६.१६)
  3. यजु. १६.१७
  4. यजु. १६.४७