अग्निपुराणम्
















संस्कारदीक्षाकथनम् सम्पाद्यताम्

ईश्वर उवाच
वक्ष्ये संस्कारदीक्षायां विधानं शृणु षण्मुख ।८२.००१
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ॥८२.००१
संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्य हृदयात्मना ।८२.००२
तयोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ॥८२.००२
कुसुमेनास्त्रलिप्तेन[१](३) ताडयेत्तं हृदा शिशुं ।८२.००३
प्रस्फुरत्तारकाकारं चैतन्यं तत्र भावयेत् ॥८२.००३
प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः ।८२.००४
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ॥८२.००४
ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया ।८२.००५
हृत्सम्पुटितमन्त्रेण[२](१) रेचकेन विनिक्षिपेत् ॥८२.००५
ओं हां हां हां आत्मने नमः[३](२)
जाज्वल्यमाने निर्धूमे जुहुयादिष्टसिद्धये ।८२.००६
अप्रवृद्धे सधूमे तु होमो वह्नौ न सिद्ध्यति ॥८२.००६
स्निग्धः प्रदक्षिणावर्तः सुगन्धिः शस्यतेऽनलः ।८२.००७
विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ॥८२.००७
इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यस्य कल्मषं ।८२.००८
पापभक्षणहोमेन[४](३) दहेद्वा तं भवात्मना ॥८२.००८
द्विजत्वापादनार्थाय तथा रुद्रांशभावने ।८२.००९
आहारवीजसंशुद्धौ[५](४) गर्भाधानाय संस्थितौ ॥८२.००९
सीमन्ते जन्मतो नामकरणाय च होमयेत् ।८२.०१०
शतानि पञ्च मूलेन वौषडादिदशांशतः ॥८२.०१०
शिथिलीभूतबन्धस्य शक्तावुत्कर्षणं च यत् ।८२.०११
आत्मनो रुद्रपुत्त्रत्वे गर्भाधानं तदुच्यते ॥८२.०११
स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं ।८२.०१२
मायात्मनोर्विवेकेन ज्ञानं सीमन्तवर्धनं ॥८२.०१२
शिवादितत्त्वशुद्धेस्तु स्वीकारो जननं मतं ।८२.०१३
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं[६](१) ॥८२.०१३
संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं ।८२.०१४
विदधीत समादाय निजे हृदयपङ्कजे ॥८२.०१४
ततः कुम्भयोगेन मूलमन्त्रमुदीरयेत् ।८२.०१५
कुर्यात्समवशीभावं तदा च शिवयोर्हृदि ॥८२.०१५
ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः ।८२.०१६
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ॥८२.०१६
हृत्सम्पुटितमन्त्रेण रेचकेन विधानवित् ।८२.०१७
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ॥८२.०१७
पूजां शिवस्य वह्नेश्च गुरुः कुर्यात्तदोचितां ।८२.०१८
प्रणतिञ्चात्मने शिष्यं समयान् श्रावयेत्तथा ॥८२.०१८
देवं न निन्देच्छास्त्राणि निर्माल्यादि न लङ्घयेत् ।८२.०१९
शिवाग्निगुरुपूजा च कर्तव्या जीवितावधि ॥८२.०१९
बालबालिशवृद्धस्त्रीभोगभुग्व्याधितात्मनां ।८२.०२०
यथाशक्ति ददीतार्थं[७](२) समर्थस्य समग्रकान् ॥८२.०२०
भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान् ।८२.०२१
ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ॥८२.०२१
स्वाहान्तसंहितमन्त्रैः पात्रेष्वारोप्य पूर्ववत् ।८२.०२२
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ॥८२.०२२
रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं ।८२.०२३
शिवादाज्ञां समादाय ददीत यतिने गुरुः ॥८२.०२३
एवं समयदीक्षायां विशिष्टायां विशेषतः ।८२.०२४
वह्निहोमागमज्ञानयोग्यः सञ्जायते शिश्रुः ॥८२.०२४
इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः ॥

ईश्वर उवाच
वक्ष्ये संस्कारदीक्षाया विधानं शृणु षण्मुक।
आवाहयेन्महेशस्य वह्निस्थस्य शिरो हृदि ।। १ ।।

संश्लिष्टौ तौ समभ्यर्च्य सन्तर्प्प हृदयान्मना।
ततोः सन्निधये दद्यात्तेनैवाहुतिपञ्चकं ।। २ ।।

कुसुमेनास्त्रलिप्तेन ताडयेत्तं हृदा शिशुं।
प्रस्फुरत्तारकाकारं चैतन्यं तत्र बावयेत् ।। ३ ।।

प्रविश्य तत्र हुङ्कारमुक्तं रेचकयोगतः।
संहारिण्या तदाकृष्य पूरकेण हृदि न्यसेत् ।। ४ ।।

ततो वागीश्वरीयौनौ मुद्रयोद्भवसञ्ज्ञया।
हृत्‌सम्पुटितमन्त्रेण रेचकेन विनिक्षिपेत् ।। ५ ।।

ओं हां हां हां आत्मने नमः ।
जाज्वल्यमाने निर्द्धूमे जुहुयादिष्टसिद्धये।

अप्रवृद्धे सधूमे तु होमो वह्नौ न सिध्यति ।। ६ ।।
स्निग्धः प्रदक्षिणावर्त्तः सुगन्धिः शस्यतेऽनलः।

विपरीतस्फुलिङ्गी च भूमिस्पर्शः प्रशस्यते ।। ७ ।।
इत्येवमादिभिश्चिह्नैर्हुत्वा शिष्यष्य कल्मषं।

पापभक्षणहोमेन दहेद्वा तं भवात्मना ।। ८ ।।

द्विजत्वापादनार्थाय तथा रुद्रांशभावने।
आहारवीज संशुद्धौ गर्भाधानाय संस्थितो ।। ९ ।।

सीमन्ते जन्मतो नामकरणाच च होमयेत्।
शतानि पञ्च मूलेन वौषडादिदशांशतः ।। १० ।।

शिथिलीभूतबन्धस्य शक्तावुत्‌कर्षणं च यत्।
आत्मनो रुद्रपुत्रत्वे गर्भाधानं तदुच्यते ।। ११ ।।

स्वान्तत्र्यात्मगुणव्यक्तिरिह पुंसवनं मतं।
मायात्मनोविवेकेन ज्ञानं सीमन्तवर्द्धनं ।। १२ ।।

शिवादितत्त्वश्रुद्धेस्तु स्वीकारोजननं मतं।
बोधनं यच्छिवत्वेन शिवत्वार्हस्य नो मतं ।। १३ ।।

संहारमुद्रयात्मानं स्फुरद्वह्निकणोपमं।
विदधीत समादाय निजे हृदयपङ्कजे ।। १४ ।।

ततः कुम्भकयोगेन मूलमन्त्रमुदीरयेत्।
कुर्य्यात् समवशीभावं तदा च शिवयोर्हृदि ।। १५ ।।

ब्रह्मादिकारणात्यागक्रमाद्रेचकयोगतः।
नीत्वा शिवान्तमात्मानमादायोद्भवमुद्रया ।। १६ ।।

हृत्‌सम्पुटितमन्त्रेण रेचकेन विधानवित्।
शिष्यस्य हृदयाम्भोजकर्णिकायां विनिक्षिपेत् ।। १७ ।।

पूजां शिवस्य वह्नेश्च गुरुः कुर्य्यात्तदोचितां।
प्रणतिञ्चात्मने शिषयं समयान् श्रावयेत्तथा ।। १८ ।।

देवं न निन्देच्छास्त्राणि निर्म्माल्यादिन लङ्घयेत्।
शिवाग्निगुरुपूजा च कर्त्तव्या जीवतावधि ।। १९ ।।

बालबालिशवृद्धस्त्रीभोगभुग्‌व्याधितात्मनां।
यथाशक्ति ददीतार्थं समर्थस्य समग्रकान् ।। २० ।।

भूताङ्गानि जटाभस्मदण्डकौपीनसंयमान्।
ईशानाद्यैर्हृदाद्यैर्वा परिजप्य यथाक्रमात् ।। २१ ।।

स्वाहान्तसंहितामन्त्रैः प्रात्रेष्वारोप्य पूर्ववत्।
सम्पादितद्रुतं हुत्वा स्थण्डिलेशाय दर्शयेत् ।। २२ ।।

रक्षणाय घटाधस्तादारोप्य क्षणमात्रकं।
शिवादाज्ञां समादाय ददीत व्रतिने गुरुः ।। २३ ।।

एवं समयदीक्षायां विशिष्टायां विशेषतः।
वह्निहोमागमज्ञानयोग्यः सञ्जायते शिशुः ।। २४ ।।

इत्यादिमहापुराणे आग्नेये समयदीक्षाकथनं नाम द्व्यशीतितमोऽध्यायः।

  1. कुसुमेनाष्टजप्तेनेति ङ, चिह्नितपुस्तकपाठः
  2. हृत्सम्पुटात्ममन्त्रेणेति ङ, चिह्नितपुस्तकपाठः
  3. ओं हां हां आत्मने नम इति ग, घ, चिह्नितपुस्तकपाठः । ओं हां आत्मने नम इति ङ, चिह्नितपुस्तकपाठः
  4. पापक्षयेण होमनेति ङ, चिह्नितपुस्तकपाठः
  5. वीजसंसिद्धौ इति ङ, चिह्नितपुस्तकपाठः
  6. वर्धनमिति घ, चिह्नितपुस्तकपाठः
  7. ददीतान्नमिति घ, चिह्नितपुस्तकपाठः