← अध्यायः १२७ अग्निपुराणम्
अध्यायः १२८
वेदव्यासः
अध्यायः १२९ →

कोटचक्रम्

ईश्वर उवाच
कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् ।१२८.००१
चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम् ॥१२८.००१
नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः ।१२८.००२
कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे ॥१२८.००२
भरणी दक्षिणे देया विशाखां नैर्ऋते न्यसेत् ।१२८.००३
अनुराधां पश्चिमे च श्रवणं वायुगोचरे ॥१२८.००३
धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा ।१२८.००४
वाह्यनाड्यां स्थितान्येव अष्टौ ह्यृक्षाणि यत्नतः ॥१२८.००४
रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु ।१२८.००५
अभिजिच्छततारा तु अश्विनी मध्यनाडिका ॥१२८.००५
कोटमध्ये तु या नाडी कथयामि प्रयत्नतः ।१२८.००६
मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः ॥१२८.००६
उत्तराफल्गुनी याम्ये चित्रा नैर्ऋतसंस्थिता ।१२८.००७
मूलन्तु पश्चिमे न्यस्योत्तराषाढान्तु वायवे ॥१२८.००७
पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे ।१२८.००८
कोटस्याभ्यन्तरे नाडी ह्यृक्षाष्टकसमन्विता ॥१२८.००८
आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् ।१२८.००९
मध्ये स्तम्भचतुष्कन्तु दद्यात्कोटस्य कोटरे ॥१२८.००९
एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् ।१२८.०१०
आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः ॥१२८.०१०
कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः ।१२८.०११
जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः ॥१२८.०११
प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् ।१२८.०१२
भृगुः सौम्यस्तथा भौम ऋक्षान्तं सकलं यदा ॥१२८.०१२
तदा भङ्गं विजानीयाज्जयमागन्तुकस्य च ।१२८.०१३
प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद्यदा ॥१२८.०१३
तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥१४॥१२८.०१४

इत्याग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं नामाष्टाविंशत्यधिकशततमोऽध्यायः ॥