अथाष्टनवत्यधिकशततमोऽध्यायः

अग्निपुराणम्
















मासव्रतानि
अग्निरुवाच
मासव्रतकमाख्यास्ये भुक्तिमुक्तिप्रदायकं ।१९८.००१
आषाढादिचतुर्मासमभ्यङ्गं वर्जयेत्सुधीः ॥१९८.००१
वैशाखे पुष्पलवणन्त्यक्त्वा गोदो नृपो भवेत् ।१९८.००२
गोदो मासोपवासी च(१) भीमव्रतकरो हरिः(२) ॥१९८.००२
आषाढादिचतुर्मासं प्रातःस्नायी च विष्णुगः ।१९८.००३
माघे मास्यथ चैत्रे वा गुडधेनुप्रदो भवेत् ॥१९८.००३
गुडव्रतस्तृतीयायां गौरीशः स्यान्महाव्रती ।१९८.००४
मार्गशीर्षादिमासेषु नक्तकृद्विष्णुलोकभाक् ॥१९८.००४
एकभक्तव्रती तद्वद्द्वादशीव्रतकं पृठक्(३) ।१९८.००५
फलव्रती चतुर्मासं फलं त्यक्त्वा प्रदापयेत् ॥१९८.००५
श्रावणादिचतुर्मासं व्रतैः सर्वं लभेद्व्रती ।१९८.००६
आषाढस्य सिते पक्षे एकादश्यामुपोषितः ॥१९८.००६
चातुर्मास्यव्रतानान्तु कुर्वीत परिकल्पनं ।१९८.००७
आषाढ्याञ्चाथ सङ्क्रान्तौ कर्कटस्य(४) हरिं यजेत् ॥१९८.००७
इदं व्रतं मया देव गृहीतं पुरतस्तव ।१९८.००८
टिप्पणी
१ मासे यवाशो चेति ख..
२ भीमव्रतपरो हरिरिति ङ..
३ द्वादशीव्रतकं परमिति ङ..
४ आषाढगं वृषसङ्क्रान्त्यां कर्कटे चेति झ..

निर्विघ्नां सिद्धिमायातु प्रसन्ने त्वयि केशव ॥१९८.००८
गृहीतेऽस्मिन् व्रते देव यद्यपूर्णे म्रिये ह्यहं ।१९८.००९
तन्मे भवतु सम्पूर्णं त्वत्प्रसादाज्जनार्दन ॥१९८.००९
मांसादि त्यक्त्वा(१) विप्रः स्यात्तैलत्यागी हरिं यजेत् ।१९८.०१०
एकान्तरोपवासी च त्रिरात्रं विष्णुलोकभाक् ॥१९८.०१०
चान्द्रायणी विष्णुलोकी मौनी स्यान्मुक्तिभाजनं ।१९८.०११
प्राजापत्यव्रती स्वर्गी शक्तुयावकभक्षकः ॥१९८.०११
गुग्धाद्याहारवान् स्वर्गी पञ्चगव्याम्बुभ्क्तथा ।१९८.०१२
शाकमूलफलाहारी नरो विष्णुपुरीं व्रजेत्(२) ॥१९८.०१२
मांसवर्जी यवाहारो रसवर्जी हरिं व्रजेत् ।१९८.०१३
कौमुदव्रतमाख्यास्ये आश्विने समुपोषितः ॥१९८.०१३
द्वादश्यां पूजयेद्विष्णुं प्रलिप्याब्जोत्पलादिभिः ।१९८.०१४
घृतेन तिलतैलेन दीपनैवेद्यमर्पयेत् ॥१९८.०१४
ओं नमो वासुदेवाय मालत्या मालया यजेत् ।१९८.०१५
धर्मकामार्थमोक्षांश्च प्राप्नुयात्कौमुदव्रती ॥१९८.०१५
सर्वं लभेद्धरिं प्रार्च्य मासोपवासकव्रती ।१९८.०१६
टिप्पणी
१ मत्स्यादि त्यक्त्वेति ख.. , घ.. , छ.. च । मत्स्यत्यागी तु इति ङ.
२ विष्णुपुरं व्रजेदिति ख.. , ट.. च

इत्याग्नेये महापुराणे मासव्रतानि नाम अष्टनवत्यधिकशततमोऽध्यायः ॥