अग्निपुराणम्
















शालग्रामादिमूर्त्तिलक्षणकथनम् सम्पाद्यताम्

भगवानुवाच
शालग्रामादिमूर्त्तिश्च वक्षयेहं भुक्तिमुक्तिदाः।
वासुदेवोऽसितो द्वारे शिलालग्नद्विचक्रकः ।। १ ।।

ज्ञेयः सङ्कर्षणो लग्नद्विचक्रो रक्त उत्तमः।
सूक्ष्मचक्रो बहुच्छिद्रः प्रद्युम्नो नीलदीर्घकः ।। २ ।।

पीतोनिरुद्धः पद्माङ्को वर्त्तुलो द्वित्रिरेखवान्।
कृष्णो नारायणो नाभ्युन्नतः शुषिरदीर्घवान् ।। ३ ।।

परमेष्ठी साब्जचक्रः पृष्ठच्छिद्रश्च विन्दुमान्।
स्थूलचक्रोऽसितो विष्णुर्मध्ये रेखा गदाकृतिः ।। ४ ।।

नृसिंहः कपिलः स्थूलचक्रः स्यात् पञ्चविन्दुकः।
वराहः शक्तिलिङ्गः स्यात् तच्चक्रौ विषमौ मृतौ ।। ५ ।।

इन्द्रनीलनिभः स्थूलस्त्रिरेखालाञ्छितः शुभः।
कूर्मस्तथोन्नतः पृष्ठे वर्त्तलावर्त्तकोऽसितः ।। ६ ।।

हयग्रीवोङ्कुशाकाररेखो नीलः सविन्दुकः।
वैकुण्ठः एकचक्रोऽब्जी मणिभः पुच्छरेखकः ।। ७ ।।

मत्स्यो दीर्घस्त्रिविन्दुः स्यात् काचवर्णस्तु पूरितः।
श्यामस्त्रिविक्रमो दक्षरेखस्तु वर्त्तुलः ।। ८ ।।

वामनो वर्त्तुलश्चातिह्रस्वो नीलः सविन्दुकः।
श्यामस्त्रिविक्रमो दक्षरेखो वामेन विन्दुकः ।। ९ ।।

अनन्तो नागभोगाङ्गो नैकाभो नैकमूर्त्तिमान्।
स्थूलो दामोदरो मध्यचक्रो द्वाः सूक्ष्मविन्दुकः ।। १० ।।

सुदर्शनस्त्वेकचक्रो लक्ष्मीनारायणो द्वयात्।
चित्रक्रश्चाच्युतो देवस्त्रिचक्रो वा त्रिविक्रमः ।। ११ ।।

जनार्द्दनश्चतुस्चक्रो वासुदेवस्च पञ्चभिः।
षट्रचक्रस्चौव प्रद्युम्नः सङ्कर्षणश्च सप्तभिः ।। १२ ।।

पुरुषोत्तमोष्टचक्रो नवव्यूहो नवाङ्कितः।
दशावतारो दशभिर्द्दशैकेनानिरुद्धकः ।। १३ ।।

द्वाधशात्मा द्वादशभिरत ऊद्‌र्ध्वमनन्तकः ।। १४ ।।

इत्यादिमहापुराणे आग्नेये शालग्रामादिमूर्त्तिलक्षणं नाम षट्‌चत्वारिंशोऽध्यायः॥