अग्निपुराणम्
















षष्टिसंवत्सराः

ईश्वर उवाच
षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु ।१३९.००१
प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः ॥१३९.००१
शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः ।१३९.००२
प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः ॥१३९.००२
श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते ।१३९.००३
पूरणो पूरते शक्रो धाता सर्वौषधीकरः ॥१३९.००३
ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः ।१३९.००४
प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः ॥१३९.००४
वृषो वृष्यति सर्वांश्च चित्रभानुश्च चित्रतां ।१३९.००५
स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः ॥१३९.००५
पार्थिवे शस्यसम्पत्तिरतिवृष्टिस्तथा जयः ।१३९.००६
सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः ॥१३९.००६
विरोधी जलदान् हन्ति विकृतश्च भयङ्करः ।१३९.००७
खरे भवेत्पुमान् वीरो नन्दने नन्दते प्रजा ॥१३९.००७
विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् ।१३९.००८
ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः ॥१३९.००८
दुर्मुखे दुर्मुखो लोको(१) हेमलम्बे न सम्पदः ।१३९.००९
संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ॥१३९.००९
विकारी शत्रुकोपाय विजये सर्वदा क्वचित् ।१३९.०१०
प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा ॥१३९.०१०
राक्षसे निष्ठुरो लोको विविधन्धान्यमानने ।१३९.०११
सुवृष्टिः पिङ्गले क्वापि काले ह्युक्तो धनक्षयः ॥१३९.०११
सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते ।१३९.०१२
दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् ॥१३९.०१२
स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः ।१३९.०१३
क्षये क्षीणधनो लोकः(२) षष्टिसंवत्सराणि तु ॥१३९.०१३
इत्याग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमोऽध्यायः ॥
टिप्पणी
१ दुर्मुखे मुख्रो लोक इति ख.. , घ.. , ङ.. , ञ.. च
२ क्षीणधवो लोक इति क.. । क्षीणजनो लोक इति ज..