अग्निपुराणम्
















अथ पञ्चषष्ट्यधिकशततमोऽध्यायः

नानाधर्माः

अग्निरुवाच
ध्येय आत्मा स्थितो योऽसौ हृदये दीपवत्प्रभुः ।१६५.००१
अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥१६५.००१
श्राद्धन्तु ध्यायिने देयं[](३) गव्यं दधि घृतं पयः ।१६५.००२
प्रियङ्गवो मसूराश्च वार्ताकुः कोद्रवो न हि ॥१६५.००२
सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ।१६५.००३
हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिकेऽक्ष्या ॥१६५.००३
पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ।१६५.००४
तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥१६५.००४
अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ।१६५.००५
अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥१६५.००५
न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।१६५.००६
बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा[](१) ॥१६५.००६
सन्त्यजेद्दूषितान्नारीमृतुकाले न शुद्ध्यति ।१६५.००७
य आत्मव्यतिरेकेण द्वितीयं नात्र पश्यति[](२) ॥१६५.००७
ब्रह्मभूतः स एवेह योगी चात्मरतोऽमलः ।१६५.००८
विषयेन्द्रियसंयोगात्केचिद्योगं वदन्ति वै ॥१६५.००८
अधर्मो धर्मबुद्ध्या तु गृहीतस्तैरपण्डितैः ।१६५.००९
आत्मनो मनसश्चैव संयोगञ्च तथा परे ॥१६५.००९
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।१६५.०१०
एकीकृत्य विमुच्येत बन्धाद्योगोऽयमुत्तमः ॥१६५.०१०
कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ।१६५.०११
देवासुरमनुष्यैर्वा स जेतुं नैव शक्यते[](३) ॥१६५.०११
बहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।१६५.०१२
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥१६५.०१२
सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।१६५.०१३
एतज्ज्ञानञ्च ध्यानञ्च शेषोऽन्यो ग्रन्थविस्तरः[](४) ॥१६५.०१३
यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ।१६५.०१४
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥१६५.०१४
असंवेद्यं हि तद्ब्रह्म[](१) कुमारी स्त्रीमुखं यथा ।१६५.०१५
अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥१६५.०१५
सन्न्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।१६५.०१६
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥१६५.०१६
उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ।१६५.०१७
द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत्फलं ॥१६५.०१७
एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।१६५.०१८
सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥१६५.०१८
पूर्वं स्त्रियः सुरैर्भुक्ताः सोमगन्धर्ववह्निभिः ।१६५.०१९
भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥१६५.०१९
असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।१६५.०२०
अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥१६५.०२०
निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ।१६५.०२१
ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥१६५.०२१
श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ।१६५.०२२
आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥१६५.०२२
अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ।१६५.०२३
आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥१६५.०२३
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ।१६५.०२४
ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥१६५.०२४
विदुरा नाम चण्डाला जायन्ते नात्र संशयः ।१६५.०२५
शतिको म्रियते गृध्रः श्वासौ द्वादशिकस्तथा ॥१६५.०२५
भासो विंशतिवर्षाणि सूकरो दशभिस्तथा ।१६५.०२६
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥१६५.०२६
ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ।१६५.०२७
ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः ॥१६५.०२७
पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।१६५.०२८
प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥१६५.०२८
योगमेव निषेवेतेत नान्यं मन्त्रमघापहम् ॥२९॥१६५.०२९

इत्याग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमोऽध्यायः ॥

  1. व्यापिने देयमिति ङ..
  2. चौरहस्तगतापि वेति ख.. , घ.. , ञ च
  3. द्वितीयं नानुपश्यतीति घ.. , ट.. च
  4. स जेतुं न च शक्यत इति ग.. , ङ.. च
  5. शेषा ये ग्रन्थविस्तरा इति ङ
  6. स्वसंवेद्यं हि तद्ब्रह्म इति ग.. , ङ.. च । सुसंवेद्यं हि तद्ब्रह्म इति ज.. , ट.. च । स्वयं वेद्यं हि तद्ब्रह्म इति घ.. , ञ.. च