अग्निपुराणम्
















अश्वचिकित्सा

सम्पाद्यताम्


शालिहोत्र उवाच
अश्वानां लक्षणं वक्ष्ये चिकित्साञ्चैव सुश्रुत् ।
हीनदन्तो विदन्तश्च कराली कृष्णतालुकः ।। २८९.१ ।।

कृष्णजिह्वश्च यमजो जातमुष्कश्च यस्तथा ।
द्विशफश्च तथा श्रृङ्गी त्रिवर्णो व्याघ्रवर्णकः ।। २८९.२ ।।

शरवर्णो भस्मवर्णो जातवर्णश्च काकुदी ।
श्वित्री च काकसादी च खरसारस्तथैव च ।। २८९.३ ।।

वानराक्षः कृष्णशटः कृष्णगुह्यस्तथैव च ।
कृष्णप्रोथश्च यश्च तित्तिरिसन्निभः ।। २८९.४ ।।

विषमः श्वेतपादश्च ध्रुवावर्त्तविवर्जितः ।
अशुभावर्त्तसंयुक्तो वर्जनीयस्तुरङ्गमः ।। २८९.५ ।।

रन्ध्रोपरन्ध्रयोर्द्वौ द्वौ द्वौ द्वौ मस्तकवक्षसोः ।
प्रयाणो च ललाटे च कण्ठावर्त्ताः शुभा दश ।। २८९.६ ।।

सृक्कण्याञ्च ललाटे च कर्णमूले निगालके ।
बाहुमूले गले श्रेष्ठा आवर्त्तास्त्वशुभाः परे ।। २८९.७ ।।

शुकेन्द्रगोपचन्द्राभा ये च वायससन्निभाः ।
सुवर्णवर्णाः स्निग्धाश्च प्रशस्यास्तु सदैव हि ।। २८९.८ ।।

दीर्घग्रीवाक्षिकूटाश्च ह्रस्वकर्णाश्च शोभनाः ।
राज्ञान्तुरङ्गमा यत्र विजयं वर्जयेत्ततः ।। २८९.९ ।।

पालितस्तु हयो दन्तो शुभदो दुःखदोऽन्यथा ।
क्षियः पुत्रास्तु गन्धर्व्वा वाजिनो रत्नमुत्तमम् ।। २८९.१० ।।

अश्वमेधे तु तुरगः पवित्रत्वात्तु हूयते ।
वृषो निम्बवृहत्यौ च गुडूची च समाक्षिका ।। २८९.११ ।।

सिंहा गन्धकरी पिण्डी स्वेदश्च शिरसस्तथा ।
हिङ्गु पुष्करमूलञ्च नागरं साम्लवेतसं ।। २८९.१२ ।।

पिप्पलीसैन्धवयुतं शूलघ्नं चोष्णवारिणा ।
नागरातिविषा मुस्ता सानन्ता विल्वमालिका ।। २८९.१३ ।।

क्काथमेषां पिवेद्वाजी सर्व्वातीसारनाशनम् ।
प्रियङ्गुसारिवाभ्याञ्च युक्तमाजं श्रृतं पयः ।। २८९.१४ ।।

पर्य्याप्तशर्करं पीत्वा श्रमाद्वाजी विमुच्यते ।
द्रोणिकायान्तु दातव्या तैलवस्तिस्तुरङ्गमे ।। २८९.१५ ।।

कोष्ठजा च शिरा वेध्या तेन तस्य सुखं भवेत् ।
दाड़िमं त्रिफला व्योषं गुड़ञ्च समभाविकम् ।। २८९.१६ ।।

पिण्डमेतत् प्रदातव्यमश्वानां काशनाशनम् ।
प्रियङ्गुलोध्रमधुभिः पिवेद्वृषरसं हयः ।। २८९.१७ ।।

क्षीरं वा पञ्चकोलाद्यं काशनाद्धि प्रमुच्यते ।
प्रस्कन्धेषु च सर्व्वेषु श्रेय आदौ विशोधनम् ।। २८९.१८ ।।

अभ्यङ्गोद्‌वर्त्तनैः स्नेहं नस्यवर्त्तिक्रमः स्मृतः ।
ज्वरितानां तुरङ्गाणां पयसैव क्रियाक्रमः ।। २८९.१९ ।।

लोध्रकन्धरयोर्मूलं मातुलाङ्गाग्निनागराः ।
कुष्ठहिङ्गुवचारास्नालेपोयं शोथनाशनः ।। २८९.२० ।।

मञ्जिष्ठा मधुकं द्राक्षावृहत्यौ रक्तचन्दनम् ।
त्रपुषीवीजमूलानि श्रृङ्गाटककशेरुकम् ।। २८९.२१ ।।

अजापयः श्रृतमिदं सुशीतं शर्करान्वितं ।
पीत्वा नीरशनो वाजी रक्तमेहात् प्रमुच्यते ।। २८९.२२ ।।

मन्याहनुनिगालस्थशिराशोथो गलग्रहः ।
अभ्यङ्गः कटुतैलेन तत्र तेष्वेव शस्यते ।। २८९.२३ ।।

गलग्रहगदी शोथः प्रायशो गलदेशके ।
प्रत्यक्पुष्पी तथा वह्निः सैन्धवं सौरसो रसः ।। २८९.२४ ।।

कृष्णाहिङ्गुयुतैरेभिः कृत्वा नस्यं न सीदति ।
निशे ज्योतिष्मती पाठा कृष्णा कुष्ठं वचा मधु ।। २८९.२५ ।।

जिह्वास्तम्भे च लोपोऽयं गुड़मूत्रयुतो हितः ।
तिलैर्यष्ट्या रजन्या च निम्बपत्रैश्च योजिता ।। २८९.२६ ।।

क्षौद्रेण शोधनी पिण्डी सर्पिषा व्रणरोपणी ।
अभिघातेन खञ्जन्ति ये ह्यश्वास्तीव्रवेदनाः ।। २८९.२७ ।।

परिषेकक्रिया तेषां तैलेनाशु रुजापहा ।
दोषकोपाभिघाताभ्यां पक्कभिन्ने ब्रणक्रमः ।। २८९.२८ ।।

अश्वत्थोडुम्बरप्लक्षमधूकवटकल्कनैः ।। २८९.२९ ।।

प्रभूतसलिलः क्काथः सुखोष्णो व्रणशोधनः ।
शताह्वा नागरं रास्ना मञ्जिष्ठाकुष्ठसैन्धवैः ।। २८९.३० ।।

देवदारुवचायुग्मरजनीरक्तवन्दनैः ।
तैलसिद्धं कषायेण गुडूच्याः पयसा सह ।। २८९.३१ ।।

म्रक्षणे वस्तिनश्ये च योज्यं सर्वत्र लिङ्गिने ।
रक्तस्रावो जलौकाभिर्न्नेत्रान्ते नेत्ररोगिणः ।। २८९.३२ ।।

खादिरोडुम्बराश्वत्थकषायेण च साधनम् ।
थात्रीदुरालभातिक्ताप्रियङ्गुकुङ्कुमैः ।। २८९.३३ ।।

गुडूच्या च कृतः कल्को हितो युक्तावलम्बिने ।
उत्पाते च शिले श्राव्ये शुष्कशेफे तथैव च ।। २८९.३४ ।।

क्षिप्रकारिणि दोषे च सद्यो विदलमिष्यते ।
गोशकृन्मञ्जिकाकुष्ठरजनीतिलसर्षपैः ।। २८९.३५ ।।

गवां मूत्रेण पिष्टैश्च मर्द्दनं कण्डुनाशनम् ।
शीतो मधुयुतः क्काथो नाशिकायां सशर्करः ।। २८९.३६ ।।

रक्तपित्तहरः पानादश्वकर्णैस्तथैव च ।
सप्तमे सप्तमे देयमश्वानां लवणं दिने ।। २८९.३७ ।।

तथा भुक्तवतान्देया अतिपाने तु वारुणी ।
दीवनीयैः समधुरैर्मृद्वीकाशर्करायुतैः ।। २८९.३८ ।।

सपिप्पलीकैः शरदि प्रतिपानं सपद्मकैः ।
विड़ङ्गापिप्पलीधान्यशताह्वालोध्रसैनधवैः ।। २८९.३९ ।।

सचित्रकैस्तुरङ्गाणं प्रतिपानं हिमागमे ।
लोध्रपिरियङ्गुकामुस्तापिप्पलीविश्वभेषजै ।। २८९.४० ।।

सक्षौद्रैः प्रतिपानं स्याद्वसन्ते कफनाशनम् ।
प्रियङ्गुपिप्पलीलोध्रयष्ट्याक्षैः समहौषधैः ।। २८९.४१ ।।

निदाघे सगुड़ा देया मदिरा प्रतिपानके ।
लोध्रकाष्ठं सलवणं पिप्पल्यो विश्वभेषजम् ।। २८९.४२ ।।

प्रावृड्‌भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् ।
पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.४३ ।।

प्रावृड्‌भिन्नपुरीषाश्च पिवेयुर्वाजिनो घृतम् ।
पिवेयुर्वाजिनस्तैलं कफवाय्वधिकास्तु ये ।। २८९.४४ ।।

स्रेहव्यापद्भ्वो येषां कार्य्यं तेषां विरूक्षणम् ।
त्र्यहं यवागू रूक्षा स्याद् भोजनं तक्रसंयुतम् ।। २८९.४५ ।।

शरन्निदाघ्योः सर्पिस्तैलं शीतवसन्तयोः ।
वर्षासु शिशिरे चैव वस्तौ यमकमिष्यते ।। २८९.४६ ।।

गुर्वभिष्यन्दिभक्तानि व्यायामं स्नानमातपम् ।
वायुवर्जञ्च वाहस्य स्नेहपीतस्य वर्जितम् ।। २८९.४७ ।।

स्नानं पानं शकृत्क्रूष्ठमश्वानां सलिलागमे ।
अत्यर्थं दुर्द्दिने काले पानमेकं प्रशस्यते ।। २८९.४८ ।।

युक्तशीतातपे काले द्विःपानं स्नपनं सकृत् ।
ग्रीष्मे त्रिस्नानपानं स्याच्चिरं तस्यावगाहनम् ।। २८९.४९ ।।

निस्तुषाणां प्रदातव्या यवानां चतुराढकी ।
चणकव्रीहिमौद्‌गानि कलायं वापि दापयेत् ।। २८९.५० ।।

अहोरात्रेण चार्द्धस्य यवसस्य तुला दश ।
अष्टौ शुष्कस्य दातव्याश्चतस्रोऽथ वुषस्य वा ।। २८९.५१ ।।

दूर्वा पित्तं यवः कासं वुषश्च श्लेष्मसञ्चयम् ।
नाशयत्यर्जुनः श्वासं तथा मानो बलक्षयम् ।। २८९.५२ ।।

वातिकाः पैत्तिकाश्चैव श्लेष्मजाः सान्निपातिकाः ।
न रोगाः पीडयिष्यन्ति दूर्वाहारन्तुरङ्गमम् ।। २८९.५३ ।।

द्वौ रज्जुबन्धौ दुष्टानां पक्षयोरुभयोरपि ।
पश्चाद्धनुस्च कर्त्तर्व्यो दूरकीलव्यपाश्रयः ।। २८९.५४ ।।

वासेयुस्त्वास्तृते स्थाने कृतधूपनभूमयः ।
यत्नोपन्यस्तयवसाः सप्रदीपाः सुरक्षिता ।। २८९.५५ ।।

कृकवाक्कजकपयो धार्य्याश्चाश्वगृहे मृगाः ।। २८९.५६ ।।

इत्यादिमहापुराणे आग्नेये अश्वायुर्वेदो नामोननवत्यधिकद्विशततमोऽध्यायः ।।