अग्निपुराणम्
















दिक्पालादिस्नानम् सम्पाद्यताम्

अग्निरुवाच
सर्वार्थसाधनं स्नानं वक्ष्ये शान्तिकरं श्रृणु ।
स्नापयेच्य सरित्तीरे ग्रहान् विष्णु विचक्षणः ।। २६५.१ ।।

देवालये ज्वरार्त्त्यादौ विनायकग्रहार्द्दिते ।
विद्यार्थिनो ह्रदे गेहे जयकामस्य तीर्थके ।। २६५.२ ।।

पद्मिन्यां स्नापयेन्नारीं गर्भो यस्याः स्नवेत्तथा ।
अशोकसन्निधौ स्नायाज्जातो यस्या विनश्यति ।। २६५.३ ।।

पुष्पार्थिनाञ्च पुष्पाढ्ये पुत्रार्थिनाञ्च सागरे ।
गृहसौभाग्यकामानां सर्वेषां विष्णुसन्निधौ ।। २६५.४ ।।

वैष्णवे रेवतीपुष्ये सर्वेषां स्नानमुत्तमं ।
स्नानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ।। २६५.५ ।।

पुनर्न्नवां रोचनाञ्च शताङ्गं गुरुणी त्वचं ।
मधूकं रजनी द्वे च तगरन्नागकेशरम् ।। २६५.६ ।।

अम्बरीञ्चैव मञ्जिष्ठां मांसीयासकमर्दनैः ।
प्रियङ्गुसर्षपं कुष्ठम्बलाम्ब्राह्मीञ्च कुङ्कुमं ।। २६५.७ ।।

पञ्चगव्यं शक्तुमिश्रं उद्वर्त्त्य स्नानमाचरेत् ।
मण्डले कर्णिकायाञ्च विष्णुं ब्राह्मणमर्च्चयेत् ।। २६५.८ ।।

दक्षएवामे हरं पूर्वं पत्रे पूर्वादिके क्रमात् ।
लिखेदिन्द्रादिकान्देवान् सायुधान् सहबान्धवान्१ ।। २६५.९ ।।

स्नानमण्डलकान् दिक्षु कुर्य्याच्चैव वादिक्षु च ।
विष्णुब्रह्मेशशक्रादींस्तदस्त्राण्यर्घ्य होमयेत् ।। २६५.१० ।।

एकैकस्य त्वष्टशतं समिधस्तु तिलान् घृतं ।
भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्द्धनाः ।। २६५.११ ।।

अमोघश्चित्रबानुश्च पर्ज्जन्योऽथ सुदर्शनः ।
स्थापयेत्तु घटानेतान् साश्विरुद्रमरुद्‌गणान् ।। २६५.१२ ।।

विश्वे देवास्तथा दैत्या वसवो मुनयस्तथा ।
आवेशयन्तु सुप्रीतास्तथान्या अपि देवताः ।। २६५.१३ ।।

ओषधीर्न्निक्षिपेत् कुम्भे जयन्तीं विजयां जयां ।
शतावरीं शतपुष्पां विष्णुक्रान्तापराजिताम् ।। २६५.१४ ।।

उयोतिष्मतीमतिबलाञ्चन्दनोशीरकेशरं ।
कस्तूरिकाञ्च कर्पूरं बालकं पत्रकं त्वचं ।। २६५.१५ ।।

जातीफलं लवङ्गञ्च मृत्तिकां पञअचगव्यकं ।
भद्रपीठे स्थितं साध्यं स्नापयेयुर्द्विजा बलात् ।। २६५.१६ ।।

राजाभिषेकमन्त्रोक्तदेवानां होमकाः पृथक् ।
पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ।। २६५.१७ ।।

इन्द्रोऽभिषिक्तो गुरुणा पुरा दैत्यान् जघान् ह ।
लिक्पालस्नानङ्कथितं संग्रामादौ जयादिकं ।। २६५.१८ ।।

इत्यादिमहापुराणे आग्नेये दिक्‌पालादिस्नानं नाम पञ्चषष्ट्यधिकद्विशततमोऽध्यायः ।।