अग्निपुराणम्
















द्वादशसङ्ग्रामाः

सम्पाद्यताम्

अग्निरुवाच
कश्यपो वसुदेवोऽभूद्देवकी चादितिर्व्वरा ।
देवक्यां वसुदेवात्तु कृष्णोऽभूत्तपसान्वितः ।। २७६.१ ।।

धर्म्मसंरक्षणार्थाय ह्यधर्म्महरणाय च ।
सुरादेः पालनार्थञ्च दैत्यादेर्म्मथनाय च ।। २७६.२ ।।

रुक्मिणी सत्यभामा च सत्या नग्नजिती प्रिया ।
सत्यभामा हरेः सेव्या गान्धारी लक्ष्मणा तथा ।। २७६.३ ।।

मित्रविन्दा१ च कालिन्दी देवी जाम्बवती तथा ।
सुशीला च तथा माद्री कौशल्या विजया जया ।। २७६.४ ।।

एवमादीनि देवीनां सहस्राणि तु षोड़श ।
प्रद्युम्नाद्याश्च रुक्मिण्यां भीमाद्याः सत्यभामया ।। २७६.५ ।।

जाम्बवत्याञ्च शाम्बाद्याः कृष्णस्यासंस्तथापरे ।
शतं शतसहस्राणां पुत्राणां तस्य धीमतः ।। २७६.६ ।।

अशीतिश्च सहस्राणि यादवाः कृष्णरक्षिताः ।
प्रद्युम्नस्य तु वैदर्भ्यामनिरुद्धो रणप्रियः ।। २७६.७ ।।

अनिरुद्धस्य वज्राद्या यादवाः सुमहावलाः ।
तिस्रः कोट्यो यादवानां षष्टिर्लक्षाणि दानवाः ।। २७६.८ ।।

मनुष्ये बाधका ये तु नन्नाशाय बभूव सः ।
कर्त्तु कर्मव्यवस्थानं मनुष्यो जायते हरिः ।। २७६.९ ।।

देवासुराणां सङ्‌ग्रामा दायार्थं द्वादशाभवन् ।
प्रथमो नारसिंहस्तु द्वितीयो वामनो रणः ।। २७६.१० ।।

सङ्‌ग्रामस्त्वथ वाराहश्चतुर्थोऽमृतमन्थनः ।
तारकामयसङ्‌ग्रामः षष्ठो ह्याजीवको रणः ।। २७६.११ ।।

त्रैपुरश्चान्धकबधो नवमो वृत्रघातकः ।
जितो हालाहलश्चाथ घोरः कोलाहलो रणः ।। २७६.१२ ।।

हिरण्यकशिपोश्चोरो विदार्य्य च नखैः पुरा ।
नारसिंहो देवपालः प्रह्लादं कृतवान् नृपम् ।। २७६.१३ ।।

देवासुरे वामनश्च छतित्वा बलिमूर्ज्जतम् ।
महेन्द्राय ददौ राज्यं काश्यपोऽदितिसम्भवः ।। २७६.१४ ।।

वराहस्तु हिरण्याक्षं हत्वा देवानपालयत् ।
उज्जहार भुवं मग्नां देवदेवैरभिष्टुतः ।। २७६.१५ ।।

मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम् ।
सुरासुरैश्च मथितं२ देवेभ्यश्चामृतं ।। २७६.१६ ।।

तारकामयसङ्‌ग्रामे तदा देवाश्च पालिताः ।
निवार्य्येन्द्रं गुरून् देवान् दानवान्सोमवंशकृत् ।। २७६.१७ ।।

विश्वामित्रवशिष्ठात्रिकवयश्च रणे सुरान् ।
अपालयन्ते निर्व्यार्य्य रगद्वेषादिदानवान् ।। २७६.१८ ।।

पृथ्वीरथे ब्रह्मयन्तुरीशस्य शरणो हरिः ।
ददाह त्रिपुरं देवपालको दैत्यमर्दनः ।। २७६.१९ ।।

गौरीं जिहीर्षुणा रुद्रमन्धकेनार्दितं हरिः ।
अनुरक्तश्च रेवत्यां चक्रेचान्धासुरार्दनम् ।। २७६.२० ।।

अपां फेनमयो भूत्वा देवासुररणे हरन्३ ।
वृत्रे देवहरं विष्णुर्देवधर्म्मानपालयत् ।। २७६.२१ ।।

शाल्वादीन् दानवान् जित्वा हरिः परशुरामकः ।
अपालयत् सुरादींश्च दुष्टक्षत्रं निहत्य च ।। २७६.२२ ।।

हालाहलं विषं दैत्यं निराकृत्य महेश्वरात् ।
भयं निर्णाशयामास देवानां मधुसूदनः ।। २७६.२३ ।।

हालाहलं विषं यश्च दैत्यः कोलाहलो जितः ।
पालिताश्च सुराः सर्व्वे विष्णुना धम्मपालनात् ।। २७६.२४ ।।

देवासुरे रणे यश्च दैत्यः कोलाहलो जितः ।
पालिताश्च सुराः सर्व्वे विष्णुना धर्म्मपालनात् ।। २७६.२५ ।।

राजानो राजपुत्राश्च मुनयो देवता हरिः ।
यदुक्तं यच्छ नैवोक्तमवतारा हरेरिमे ।। २७६.२६ ।।

इत्यादिमहापुराणे आग्नेये द्वादशसङ्‌ग्रामा नाम षट्‌सप्तत्यधिकद्विशततमोऽध्यायः ।।