अग्निपुराणम्
















षट्कर्माणि

ईश्वर उवाच
षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु ।१३८.००१
आदौ साध्यं लिखेत्पूर्वं चान्ते मन्त्रसमन्वितं ॥१३८.००१
पल्लवः स तु विज्ञेयो महोच्चाटकरः परः ।१३८.००२
आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः ॥१३८.००२
योगाख्यः सम्प्रदायोऽयङ्कुलोत्सादेषु योजयेत् ।१३८.००३
आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् ॥१३८.००३
पुनश्चान्ते लिखेन्मन्त्रं साध्यं मन्त्रपदं पुनः ।१३८.००४
रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् ॥१३८.००४
अधोर्ध्वं याम्यवामे तु(१) मध्ये साध्यन्तु योजयेत् ।१३८.००५
सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥१३८.००५
मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं ।१३८.००६
प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः ॥१३८.००६
मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः ।१३८.००७
विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् ॥१३८.००७
आकर्षणाद्यत्कर्म वसन्ते चैव कारयेत् ।१३८.००८
तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं ॥१३८.००८
नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् ।१३८.००९
पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि ॥१३८.००९
विद्वेषोच्चाटने मृत्यौ फट्स्यात्खण्डीकृतौ शुभे ।१३८.०१०
लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः ॥१३८.०१०
यमोऽसि यमाराजोऽसि कालरूपोऽसि धर्मराट् ।१३८.०११
मयादत्तमिमं शत्रुमचिरेण निपातय ॥१३८.०११
निपातयामि यत्नेन निवृत्तो भव साधक ।१३८.०१२
संहृष्टमनसा(२) ब्रूयाद्देशिकोऽरिप्रसूदनः ॥१३८.०१२
पद्मे शुक्ले यमं प्रार्च्य होमादेतत्प्रसिद्ध्यति ।१३८.०१३
आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं ॥१३८.०१३
रात्रौ वार्तां विजानाति आत्मनश्च परस्य च ।१३८.०१४
टिप्पणी
१ अध ऊर्ध्वं याम्यवामे इति ख..
२ संरम्भमन्सेति छ..

दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् ॥१३८.०१४
जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिम् ॥१५॥१३८.०१५

इत्याग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि नामाष्टत्रिंशदधिकशततमोऽध्यायः ॥