अग्निपुराणम्
















त्वरितामूलमन्त्रादिःसम्पाद्यताम्

अग्निरुवाच
दीक्षादि वक्ष्ये विन्यस्य सिंहवज्राकुलेऽब्जके ।
हे हुति वज्रदन्त पुरु लुलु गर्ज्ज इह सिंहासनाय नमः ।
तिर्य्यगूद्‌र्ध्वगता रेखाश्चत्वारश्चतुरो भवेत् ।। ३११.१ ।।

नवभागविभागेन कोष्ठकान् कारयेद्‌बुधः ।
ग्राह्या दिशागताः कोष्ठा विदिशासु विनाशयेत् ।। ३११.२ ।।

वाह्ये वै कोष्ठकोणेषु वाह्यरेखाष्टकं स्मृतम् ।
वाह्यरेखा भवेद्वका द्विभङ्गा कारयेद्‌बुधः ।। ३११.३ ।।

वज्रस्य मध्यमं श्रृङ्गं द्विधार्धतः ।
वाह्यरेखा भवेद्वक्रा द्विभङ्गा कारयेद्‌बुधः ।। ३११.४ ।।

मध्यकोष्ठं भवेत्पद्मं पीतकर्णिकमुज्ज्वलम् ।
कृष्णेन रजसा लिख्य कुलिशासिशिरोद्‌र्ध्वता ।। ३११.५ ।।

वाह्यतश्चतुरस्रन्तु वज्रसम्पुटलाञ्छितम् ।
द्वारे प्रदापयेन्मन्त्री चतुरो वज्रसम्पुटान् ।। ३११.६ ।

पद्मनाम भवेद्वामवीथी चैव समा भवेत् ।
गर्भं रक्तं केशराणि मण्डले दीक्षिताः स्त्रियः ।। ३११.७ ।।

जयेच्च परराष्ट्राणि क्षइप्रं राज्यमवाप्नुयात् ।
मूर्त्ति प्रणवसन्दीप्तां हूँकारेण नियोजयेत् ।। ३११.८ ।।

मूलविद्यां समुच्चार्य्यं मरुद्व्योमगतां द्विज ।
प्रथमेन पुनश्चैव कणिकायां प्रपूजयेत् ।। ३११.९ ।।

एवं प्रदक्षिणं पूज्य एकैकं वीजमादितः ।
दलमध्ये तु विद्याङ्गा आग्नेय्यां पञ्च नैर्ऋतम् ।। ३११.१० ।।

मध्येनेत्रं दिशारूञ्च स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् ।
मध्येनेत्रं दिशारूञ्च गुह्यकाङ्गे तु रक्षणम् ।। ३११.११ ।।

पञ्च पञ्च प्रपूज्यास्तु स्वैः स्वैर्म्मन्त्रैः प्रपूजयेत् ।
लोकपालान्न्यसेदष्टौ वाह्यतो गर्भमण्डले ।। ३११.१२ ।।

वर्णान्तमग्निमारूढं षष्ठस्वरविभेदितं ।
पञ्चदशेन चाक्रान्तं स्वैः स्वैर्नामभि योजयेत् ।। ३११.१३ ।।

शीघ्रं सिंहे कर्णिकायां यजेद् गन्धादिभिः श्रिये ।
अष्टाभिर्वेष्टयेत् कुम्भैर्म्मन्त्राष्टशतमन्त्रितैः ।। ३११.१४ ।।

मन्त्रमष्टसहस्रन्तु जप्त्वाङ्गानां दशांशकम् ।
होमं कुर्य्यादग्निगुण्डे वह्निमन्त्रेण चालयेत् ।। ३११.१५ ।।

निक्षिपेद् हृदयेनाग्निं शक्तिं मध्येऽग्निगां स्मरेत् ।
गर्भाधानं पुंसवनं जातकर्म्म च होमयेत् ।। ३११.१६ ।।

हृदयेन शतं ह्येकं गुह्याङ्गे जनयेच्छिखिम् ।
पूर्णाहुत्या तु विद्यायाः शिवाग्निर्ज्वलियो भवेत् ।। ३११.१७ ।।

होमयेन्मूलमन्त्रेण शतञ्चाङ्गं दशांशतः ।
निवेदयेत्ततो देव्यास्ततः शिष्यं प्रवेशयेत् ।। ३११.१८ ।।

अस्त्रेण ताडनं कृत्वा गुह्याङ्गानि ततो न्यसेत् ।
विद्याङ्गैश्चेव सन्नद्धं विद्याङ्गेषु नियोजयेत् ।। ३११.१९ ।।

पुष्पं क्षिपाययेच्छिष्यमानयेदग्निकुण्डकम् ।
यवैर्द्वान्यैस्तिलैराज्यैर्मूलविद्याशतं हुनेत् ।। ३११.२० ।।

स्थावरत्वं पुरा होमं सरीसृपमतः परं ।
पक्षिमृगपशुत्वञ्च मानुषं ब्राह्ममेव च ।। ३११.२१ ।।

विष्णुत्वञ्चैव रुद्रत्वमन्ते पूर्णाहुतिर्भवेत् ।
एकया चैव ह्याहुत्या शिष्यः स्याद्दीक्षितो भवेत् ।। ३११.२२ ।।

अधिकारो भवेदेवं श्रृणु मोक्षमतः परम् ।
सुमेरुस्थो यदा मन्त्री सदाशिवपदे स्थितः ।। ३११.२३ ।।

परे च होमयेत् स्वस्थोऽकर्म्मकर्म्मशतान् दश ।
पूर्णाहुत्या तु तद्योगी धर्म्माधर्मैर्न लिप्यते ।। ३११.२४ ।।

मोक्षं याति परंस्थानं यद्‌गत्वा न निवर्त्तते ।
यथा जले जले क्षिप्तं जलं देही शिरस्तथा ।। ३११.२५ ।।

कुम्भैः कुर्य्याच्चाभिषेकं जयराज्यादिसर्वभाक् ।
कुमारी ब्राह्मणी पूज्या गुर्व्वादेर्दक्षिणं ददेत् ।। ३११.२६ ।।

यजेत् सहस्रमेकन्तु पूकजां कृत्वा दिने दिने ।
तिलाज्यपुरहोमेन देवी श्रीः कामदा भवेत् ।। ३११.२७ ।।

ददाति विपुलान् भोगान् यदन्यच्च समीहते ।
जप्त्वा ह्यक्षरलक्षन्तु निधानाधिपतिर्भवेत् ।। ३११.२८ ।।

द्विगुणेन भवेद्राज्यं त्रिगुणेन च यक्षिणी ।
चतुर्गुणेन ब्रह्मत्वं ततो विष्णुपदं भवेत् ।। ३११.२९ ।।

षड्‌गुणेन महासिद्धिर्ल्लक्षेणैकेन पापहा ।
दश जप्त्वा देहशुद्ध्यै तीर्थस्नानफलं शतात् ।। ३११.३० ।।

पटे वा प्रतिमायां वा शीघ्रां वै स्थण्डिले यजेत् ।
शतं सहस्रमयुतं जपे होमे प्रकीर्त्तितम् ।। ३११.३१ ।।

एवं विधानतो जप्त्वा लक्षमेकन्तु होमयेत् ।
महिषाजमेषमांसेन नरजेन पुरेण वा ।। ३११.३२ ।।

तिलैर्यवैस्तथा लाजैर्ब्रीहिगोधूमकाम्रकैः ।
श्रीफलैराज्यसंयुक्तैर्होमयित्वा व्रतञ्चरेत् ।। ३११.३३ ।।

अर्द्धरात्रेषु सन्नद्धः खड्गचापशरादिमान् ।
एकवासा विचित्रेण रक्तपीतासितेन वा ।। ३११.३४ ।।

नीलेन वाथ वस्त्रेण देवीं तैरेव चार्च्चयेत् ।
व्रजेद्दक्षिणदिग्‌भागं द्वारे दद्याद्‌बलिं बुधः ।। ३११.३५ ।।

दूतीमन्त्रेण द्वारादौ एकवृक्षे श्मशानके ।
एवञ्च सर्व्वकामाप्तिर्भुङ्‌क्ते सर्व्वां महीं नृपः ।। ३११.३६ ।।

इत्यादिमहापुराणे आग्नेये त्वरितामूलमन्त्रो नामैकादशाधिकत्रिशततमोऽध्यायः ।।