अग्निपुराणम्
















नक्षत्रचक्रं

ईश्वर उवाच
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ।१३६.००१
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं ॥१३६.००१
अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ।१३६.००२
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥१३६.००२
नाडीयं प्रथमा चान्या याम्यं मृगशिरस्तथा ।१३६.००३
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥१३६.००३
अहिर्बुध्न्यं तृतीयाथ कृत्तिका रोहिणी ह्यहिः ।१३६.००४
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥१३६.००४
नाडीत्रितयसंजुष्टग्रहाज्ज्ञेयं शुभाशुभं ।१३६.००५
चक्रम्फणीश्वरन्तत्तु[१] त्रिनाडीपरिभूषितं ॥१३६.००५
रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ।१३६.००६
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः ॥१३६.००६
अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ, अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि

इत्याग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमोऽध्यायः ॥

त्रिनाडीचक्रम्(नारदपु., १.५६.५०९?)
अश्विनी आर्द्रा पुनर्वसु उत्तराफाल्गुनी हस्त ज्येष्ठा मूल शतभिषा पूर्वाभाद्रपदा
भरणी मृगशिरा पुष्य पूर्वाफाल्गुनी चित्रा अनुराधा पूर्वाषाढा धनिष्ठा उत्तराभाद्रपदा
कृत्तिका रोहिणी आश्लेषा मघा स्वाती विशाखा उत्तराषाढा श्रवण रेवती
  1. चक्रम्फणीश्वरन्तद्वतिति ग.. , घ.. , ङ.. , झ.. , ञ.. च