अग्निपुराणम्
















विषहृन्मन्त्रौषधम्

सम्पाद्यताम्

अग्निरुवाच
ओं नमो भगवते रुद्राय छिन्द विषं ज्वलितपरशुपाणये च ।
नमो भगवते पक्षिरुद्राय दष्टकं उत्थापय दष्टकं कम्पय
जल्पय सर्प्पदष्टमुत्थापय लल बन्व मोचय
वररुद्र गच्छ बध त्रुट वुक भीषय मुष्टिना
संहर विषं ठ ठ ।
पक्षिररुद्रेण ह विषं नाशमायाति मन्त्रणात् ।।
ओं नमो भगवते रुदज्र नाशय विषं स्थावरजङ्गमं
कृत्रिमाकृत्रिमविषमुपविषं नाशय नानाविषं दष्टकविषं
नाशय धम दम वम मेघान्धकारधाराकर्षर्निर्विषयीभव
संहर गच्छ आवेशय विषोत्थापनरूपं मन्त्रान्ताद्विषधारणं
ओं क्षिप ओं क्षिप स्वाहा ।
ओं ह्राँ ह्रीँ खीँ सः ठन्द्रौँ ह्रीँ ठः ।
जपादिना साधितस्तु सर्पान् बध्नाति नित्यशः ।। २९७.१ ।।

एकद्वित्रिचतुर्वीजः कृष्णचक्राङ्गपञ्चकः ।
गोपीजनवल्लभाय स्वाहा सर्वार्थसाधकः ।। २९७.२ ।।

ओं नमो भगवते रुद्राय प्रेताधिपतये गुत्त्व गर्ज्ज भ्रामय
मुञ्च मुह्य कट आविश सुवर्णपतङ्ग रुद्रो ज्ञापयति ठ ।
पातालक्षोभमन्त्रोयं मन्त्रणाद्विषनाशनः ।
दंशकाहिदंशे सद्यो दष्टः काष्ठशिलादिना ।। २९७.३ ।।

विषशान्त्यै दहेद्दंशं ज्वालकोकनदादिना ।
शिरीषवीजपुष्पार्कक्षीरवीजकटुत्रयं ।। २९७.४ ।।

विषं विनाशयेत् पानलेपनेनाञ्जनादिना ।
शिरिषपुष्पस्य रसभावितं मरिचं सितं ।। २९७.५ ।।

पाननस्याञ्चनाद्यैश्च विषं हन्यान्न संशयः ।
कोषातकीवचाहिङ्गुशिरीषार्कपयोयुतं ।। २९७.६ ।।

कुटुत्रयं समेषाम्बो हरेन्नस्यादिना विषं ।
रामठेक्ष्वाकुशर्वाङ्गचूर्णं नस्याद्विषापहं ।। २९७.७ ।।

इन्द्रबलाग्निकन्द्रोणं तुलसी देविका सहा ।
तद्रसाक्तं त्रिकटुकं चूर्णम्भक्ष्यविषापहं ।। २९७.८ ।।

पञ्चाङ्गं कृष्णपञ्चम्यां शिरीषस्य विषापहं ।। २९७.९ ।।

इत्यादिमहापुराणए आग्नेये विषहृन्मन्त्रौषधं नाम सप्तनवत्यधिकद्विशततमोऽध्यायः ।।