महाभारतम्-05-उद्योगपर्व-004
← उद्योगपर्व-003 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-004 वेदव्यासः |
उद्योगपर्व-005 → |
द्रुपदेन सात्यकिमतानुमोदनेन राज्ञामाह्वानाय दूतप्रस्थनकथनपूर्वकं स्वपुरोहितस्य धृतराष्ट्रंप्रति प्रेषणकथनम् ।। 1 ।।
|
द्रुपद उवाच। | 5-4-1x |
एवमेतन्महाबाहो भविष्यति न संशयः। | 5-4-1a 5-4-1b |
अनुवर्त्स्यति तं चापि धृतराष्ट्रः सुतप्रियः। | 5-4-2a 5-4-2b |
बलदेवस्य वाक्यं तु मम ज्ञाने न युज्यते। | 5-4-3a 5-4-3b |
न तु वाच्यो मृदुवचो धार्तराष्ट्रः कथंचन । | 5-4-4a 5-4-4b |
गर्दभे मार्दवं कुर्याद्गोषु तीक्ष्णं समाचरेत् । | 5-4-5a 5-4-5b |
मृदुं वै मन्यते पापो भाषमाणमशक्तिकम् । | 5-4-6a 5-4-6b |
एतच्चैव करिष्यामो यत्नश्च क्रियतामिह । | 5-4-7a 5-4-7b |
शल्यस्य धृष्टकेतोश्च जयत्सेनस्य वा विभो । | 5-4-8a 5-4-8b |
स च दुर्योधनो नूनं प्रेषयिष्यति सर्वशः । | 5-4-9a 5-4-9b |
तत्वरध्वं नरेन्द्राणां पूर्वमेव प्रचोदने । | 5-4-10a 5-4-10b |
शल्यस्य प्रेष्यतां शीघ्रं ये च तस्यानुगा नृपाः । | 5-4-11a 5-4-11b |
अमितौजसे तथोग्राय हार्दिक्यायान्धकाय च। | 5-4-12a 5-4-12b |
आनीयतां बृहन्तश्च सेनाबिन्दुश्च पार्थिवः । | 5-4-13a 5-4-13b |
बाह्लीको मुञ्जकेशश्च चैद्याधिपतिरेव च। | 5-4-14a 5-4-14b |
शकानां पह्लवानां कर्णवेष्टश्च पार्थिवः ।। | 5-4-15a 5-4-15b |
नीलश्च वीरधर्मा च भूमिपालश्च वीर्यवान् । | 5-4-16a 5-4-16b |
आषाढो वायुवेगश्च पूर्वपाली च पार्थिवः । | 5-4-17a 5-4-17b |
कारूषकाश्च राजानः क्षेमधूर्तिश्च वीर्यवान् । | 5-4-18a 5-4-18b |
जयत्सेनश्च काश्यश्च तथा पञ्चनदा नृपाः ।। | 5-4-19a 5-4-19b |
जानकिश्च सुशर्मा च मणिमान्योतिमत्सकः। | 5-4-20a 5-4-20b |
तुण्डश्च दण्डधारश्च बृहत्सेनश्च वीर्यवान्। | 5-4-21a 5-4-21b |
बृहद्बलो महौजाश्च बाहुः परपुरंजयः । | 5-4-22a 5-4-22b |
उद्भवः क्षेमकश्चैव वाटधानश्च पार्थिवः । | 5-4-23a 5-4-23b |
कुमारश्च कलिङ्गानामीश्वरो युद्धदुर्मदः । | 5-4-24a 5-4-24b |
अयं च ब्राह्मणो विद्वान्मम राजन्पुरोहितः। | 5-4-25a 5-4-25b |
यथा दुर्योधनो वाच्यो यथा सान्तनवो नृपः । | 5-4-26a 5-4-26b |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-4-2 कार्पण्यात् तदन्नभक्षणेन दैन्यात् ।। 2 ।।
उद्योगपर्व-003 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-005 |