महाभारतम्-05-उद्योगपर्व-016
← उद्योगपर्व-015 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-016 वेदव्यासः |
उद्योगपर्व-017 → |
बृहस्पतिना ब्राह्ममन्त्रसंवर्धितेनाग्निना पद्मनालस्येन्द्रं दृष्ट्वा बृहस्पतये तन्निवेदनम् ।। 1 ।। बृहस्पतिना तत्र गत्वा इन्द्रे स्तूयमाने कुबेरादीनां तत्रागमनम् ।। 2 ।। इन्द्रेण नहुषजये साहाय्यायाग्नेर्भागदानपूर्वकं कुबेरादीनां तत्ताद्दिगाधिपत्येऽभिषेचनम् ।। 3 ।।
|
बृहस्पतिरुवाच।
5-16-1x
त्वमग्रे सर्वदेवानां मुखं त्वमसि हव्यवाट्।
त्वमन्तः सर्वभूतानां गूढश्चरसि साक्षिवत्।।5-16-1
त्वामाहुरेकं कवयस्त्वामाहुस्त्रिविधं पुनः।
त्वया त्यक्तं जगच्चेदं सद्यो नश्येद्धुताशन ।।5-16-2
कृत्वा तुभ्यं नमो विप्राः स्वकर्मविजितां गतिम्।
गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ।।5-16-3
त्वमेवाग्ने हव्यवाहस्त्वमेव परमं हविः।
यजन्ति सत्रैस्त्वामेव यज्ञैश्च परमाध्वरैः ।।5-16-4
सृष्ट्वा लोकांस्त्रीमिमान्हव्यवाह
प्राप्ते काले पचसि पुनः समिद्धः ।
त्वं सर्वस्य भुवनस्य प्रसूति-
स्त्वमेवाग्रे भवसि पुनः प्रतिष्ठा ।।5-16-5
त्वामग्ने जलदानाहुर्विद्युतश्च मनीषिणः।
वहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हेतयः ।।5-16-6
त्वय्यापो निहिताः सर्वास्त्वयि सर्वमिदं जगत्।
न तेऽस्त्यविदितं किचित्रिषु लोकेषु पावक ।।5-16-7
स्वयोर्नि भजते सर्वो विशस्वापोऽविशङ्कितः।
अहं त्वां वर्धयिष्यामि ब्राह्मैर्मन्त्रैः सनातनैः ।।5-16-8
एवं स्तुतो हव्यवाट् स भगवान्कविरुत्तमः ।
बृहस्पतिमथोवाच प्रीतिमान्वाक्यमुत्तमम्।
दर्शयिष्यामि ते शक्रं सत्यमेतद्ब्रवीमि ते।।5-16-9
शल्य उवाच।
प्रविष्यापस्ततो वह्निः ससमुद्राः सपल्वलाः।
आससाद सरस्तच्च गूढो यत्र शतक्रतुः ।।5-16-10
अथ तत्रापि पद्मानि विचिन्वन्भरतर्षभ ।
अपश्यत्स तु देवेन्द्रं बिसमध्यगतं तदा ।।5-16-11
आगत्य च ततस्तूर्णं तमाचष्ट बृहस्पतेः।
अणुमात्रेण वपुषा पद्मतन्त्वाश्रितं प्रभुम् ।।5-16-12
गत्वा देवर्षिगन्धर्वैः सहितोऽथ बृहस्पतिः ।
पुराणैः कर्मभिर्देवं तुष्टाव बलसूदनम् ।।5-16-13
महाऽसुरो हतः शक्र नमुचिर्दारुणस्त्वया ।
शम्बरश्च बलश्चैव तथोभौ घोरविक्रमौ ।।5-16-14
शतक्रतो विवर्धस्व सर्वाञ्शत्रून्निषूदय ।
उत्तिष्ठ शक्र संपश्य देवर्षीश्च समागतान् ।।5-16-15
महेन्द्र दानवान्हत्वा लोकास्त्रातास्त्वया विभो।
अपां फेनं समासाद्य विष्णुतेजोतिबृंहितम्।
त्वया वृत्रो हतः पूर्वं देवराज जगत्पते ।।5-16-16
त्वं सर्वभूतेषु शरण्य ईड्य-
स्त्वया समं विद्यते नेह भूतम्।
त्वया धार्यन्ते सर्वभूतानि शक्र
त्वं देवानां महिमानं चकर्थ ।।5-16-17
पाहि सर्वांश्च लोकांश्च महेन्द्र बलमाप्नुहि ।
एवं संस्तूयमानश्च सोऽवर्धत शनैः शनैः ।।5-16-18
स्वं चैव वपुरास्थाय बभूव स बलान्वितः।
अब्रवीच्च गुरं देवो बृहस्पतिमवस्थितम् ।।5-16-19
किं कार्यमवशिष्टं वो हतस्त्वाष्ट्रो महासुरः ।
वृत्रश्च सुमहाकायो यो वै लोकाननाशयत् ।।5-16-20
बृहस्पतिरुवाच।
मानुषो नहुषो राजा देवर्षिगणतेजसा।
देवराज्यमनुप्राप्तः सर्वान्नो बाधते भृशम् ।।5-16-21
इन्द्र उवाच।
कथं च नहुषो राज्यं देवानां प्राप दुर्लभम्।
तपसा केन वा युक्तः किंवीर्यो वा बृहस्पते ।
तत्सर्वं कथय त्वं मे यथेन्द्रत्वमुपेयिवान् ।।5-16-22
बृहस्पतिरुवाच।
त्वयि प्रनष्टे देवेश विश्वं प्रव्यथितं जगत्।
परस्परभयोद्विग्नं बभूवार्तमराजकम् ।।5-16-23
ततो देवैः सगन्धर्वैः सर्षिसङ्घैः सपावकैः ।
मानुषो नहुषो राजा देवराज्येऽभिषेचितः ।।5-16-24
देवा भीताः शक्रमकामयन्त
त्वया त्यक्तं महदैन्द्रं पदं तत्।
तदा देवाः पितरोऽथर्षयश्च
गन्धर्वमुख्याश्च समेत्य सर्वे ।।5-16-25
गत्वाऽब्रुवन्नहुषं तत्र शक्र
त्वं नो राजा भव भुवनस्य गोप्ता।
तानब्रवीन्नहुषो नास्मि शक्त
आप्यायध्वं तपसा तेजसा माम् ।।5-16-26
एवमुक्तैर्वर्द्धितश्चापि देवै
राजाऽभवन्नहुषो घोरवीर्यः।
त्रैलोक्ये च प्राप्य राज्यं महर्षी-
न्कृत्वा वाहान्याति लोकान्दुरात्मा ।।5-16-27
तेजोहरं दृष्टिविषं सुघोरं
मा त्वं पश्येर्नहुषं वै कदाचित्।
देवाश्च सर्वे नहुषं भृशार्ता
न पश्यन्ते गूढरूपाश्चरन्तः ।।5-16-28
शल्य उवाच।
एवं वदत्यङ्गिरसां वरिष्ठे
बृहस्पतौ लोकपालः कुबेरः।
वैवस्वतश्चैव यमः पुराणो
दवेश्च सोमो वरुणश्चाजगाम।।5-16-29
ते वै समागम्य महेन्द्रमूचु-
र्दिष्ट्या त्वाष्ट्रो निहतश्चैव वृत्रः।
दिष्ट्या च त्वां कुशलिनमक्षतं च
पश्यामो वै निहतारिं च शक्र ।।5-16-30
स तान्यथावच्च हि लोकपाला-
न्समेत्स वै प्रीतमना महेन्द्रः।
उवाच चैनान्प्रतिभाष्य शक्रः
संचोदयिष्यन्नहुषस्यान्तरेण ।।5-16-31
राजा देवानां नहुषो घोररूप-
स्तत्र साह्यं दीयतां मे भवद्भिः ।
ते चाब्रुवन्नहुषो घोररूपो
दृष्टीविषस्तस्य बिभीम ईश ।।5-16-32
त्वं चेद्राजानं नहुषं पराजये-
स्ततो वयं भागमर्हाम शक्र।
इन्द्रोऽब्रवीद्भवतु भवानपां पति-
र्यमः कुबेरश्च मयाभिषेकम् ।।5-16-33
चेन्द्राग्न्योर्वै भाग एको महाक्रतौ ।।
शल्य उवाच।
एवं संचिन्त्य भगवान्महेन्द्रः पाकशासनः।
कुबेरं सर्वयक्षाणां धनानां च प्रभुं तथा ।।5-16-35
वैवस्वतं पितॄणां च वरुणं चाप्यपां तथा।
आधिपत्यं ददौ शक्रः सत्कृत्य वरदस्तथा ।।5-16-36
।। इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि षोडशोऽध्यायः ।।
5-16-6 हेतयः ज्वालाः ।। 5-16-31 नहुषस्यान्तरेण अन्तरं भेदः। बुद्धिभेदार्थमित्यर्थः ।।
उद्योगपर्व-015 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-017 |