महाभारतम्-05-उद्योगपर्व-006
← उद्योगपर्व-005 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-006 वेदव्यासः |
उद्योगपर्व-007 → |
द्रुपदेन धृतराष्ट्रंप्रति स्वपुरोहितप्रेषणम् ।। 1 ।। पुरोहितस्य हास्तिनपुरगमनम् ।। 2 ।।
|
द्रुपद उवाच। | 5-6-1x |
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः। | 5-6-1a 5-6-1b |
द्विजेषु वैद्याः श्रेयांसो वैद्येषु कृतबुद्धयः। | 5-6-2a 5-6-2b |
स भवान्कृबुद्धीनां प्रधान इति मे मतिः । | 5-6-3a 5-6-3b 5-6-3c |
विदितं चापि ते सर्वं यथावृत्तः स कौरवः । | 5-6-4a 5-6-4b |
धृतराष्ट्रस्य विदिते वञ्चिताः पाण्डवाः परैः । | 5-6-5a 5-6-5b |
शकुनिर्बुद्धिपूर्वं हि कुन्तीपुत्रं समाह्वयत् । | 5-6-6a 5-6-6b |
ते तथा वञ्चयित्वा तु धर्मराजं युधिष्ठिरम् । | 5-6-7a 5-6-7b |
भवांस्तु धर्मसंयुक्तं धृतराष्ट्रं ब्रुवन्वचः । | 5-6-8a 5-6-8b |
विदुरश्चापि तद्वाक्यं साधयिष्यति तावकम्। | 5-6-9a 5-6-9b |
अमात्येषु च भिन्नेषु योधेषु विमुखेषु च। | 5-6-10a 5-6-10b |
एतस्मिन्नन्तरे पार्थाः सुखमेकाग्रबुद्धयः। | 5-6-11a 5-6-11b |
भिद्यमानेषु च स्वेषु लम्बमाने तथा त्वयि। | 5-6-12a 5-6-12b |
एतत्प्रयोजनं चात्र प्राधान्येनोपलभ्यते। | 5-6-13a 5-6-13b |
स भवान्धर्मयुक्तश्च धर्म्यं तेषु समाचरन् । | 5-6-14a 5-6-14b |
वृद्धेषु कुलधर्मं च ब्रुवन्पूर्वैरनुष्ठितम् । | 5-6-15a 5-6-15b |
न च तेभ्यो भयं तेऽस्ति ब्राह्मणो ह्यसि वेदवित् । | 5-6-16a 5-6-16b |
स भवान्पुष्ययोगेन मुहूर्तेन जयेन च। | 5-6-17a 5-6-17b |
वैशंपायन उवाच। | 5-6-18x |
तथाऽनुशिष्टः प्रययौ द्रुपदेन महात्मना। | 5-6-18a 5-6-18b |
शिष्यैः परिवृतो विद्वान्नीतिशास्त्रार्थकोविदः । | 5-6-19a 5-6-19b |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-6-2 वैद्याः विद्यावन्तः । कृतबुद्धयः सिद्धान्तज्ञाः ।। 2 ।।
उद्योगपर्व-005 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-007 |