महाभारतम्-05-उद्योगपर्व-114
← उद्योगपर्व-113 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-114 वेदव्यासः |
उद्योगपर्व-115 → |
महाभारतस्य पर्वाणि |
---|
गालवानुगतेन गरुडेन ययातिंगत्वा गालववृत्तान्तकथनपूर्वकं धनयाचनम् ।। 1 ।।
नारद उवाच। | 5-114-1x |
अथाह गालवं दीनं सुपर्णः पततां वरः। | 5-114-1a 5-114-1b 5-114-1c |
धत्ते धारयते चेदमतस्मात्कारणाद्धनम् । | 5-114-2a 5-114-2b |
नित्यं प्रोष्ठपदाभ्यां च शुक्रे धनपतौ तथा। | 5-114-3a 5-114-3b |
अजैकपादहिर्बुध्न्यौ रक्ष्येते धनदेन च। | 5-114-4a 5-114-4b 5-114-4c |
स त्वं याचात्र राजानं कंचिद्राजर्षिवंशजम् । | 5-114-5a 5-114-5b |
अस्ति सोमान्ववाये मे जातः कश्चिन्नृपः सखा । | 5-114-6a 5-114-6b |
ययातिर्नाम राजर्षिर्नोहुषः सत्यविक्रमः । | 5-114-7a 5-114-7b |
विभवश्चास्य सुमहानासीद्धनपतेरिव । | 5-114-8a 5-114-8b |
तथा तौ कथयन्तौ च चिन्तयन्तौ च यत्क्षमम्। | 5-114-9a 5-114-9b |
प्रतिगृह्य च सत्कारैरर्घ्यपाद्यादिकं वरम् । | 5-114-10a 5-114-10b |
अयं मे नाहुष सखा गालवस्तपसो निधिः । | 5-114-11a 5-114-11b |
सोऽयं तेनाभ्यनुज्ञात उपकारेप्सया द्विजः। | 5-114-12a 5-114-12b |
असकृत्तेन चोक्तेन किंचिदागतमन्युना । | 5-114-13a 5-114-13b |
एकतःश्यामकर्णानां शुभ्राणां शुद्धजन्मनाम् । | 5-114-14a 5-114-14b |
गुर्वर्थो दीयतामेव यदि गालव मन्यसे । | 5-114-15a 5-114-15b |
सोऽयं शोकेन महता तप्यमानो द्विजर्षभः । | 5-114-16a 5-114-16b |
प्रतिगृह्य नरव्याघ्र त्वत्तो भिक्षां गतव्यथः । | 5-114-17a 5-114-17b |
तपसः संविभागेन भवन्तमपि योक्ष्यते। | 5-114-18a 5-114-18b |
यावन्ति रोमाणि हये भवन्तीह नरेश्वर । | 5-114-19a 5-114-19b |
पात्रं प्रतिग्रहस्यायं दातुं पात्रं तथा भवान् । | 5-114-20a 5-114-20b |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-114-1 हिर्वह्निः वह्निशब्दघटकवर्णलोपादिना हिशब्दस्य निष्पन्नत्वात्। एवं रमणीयशब्दनिष्पन्नरणशब्दवाच्यो वायुः क्रमेण ताभ्यां जातत्वाच्छोधितत्वाच्च हिरण्यमित्युच्यते। यस्माच्च सर्वं जगत् हिरण्मयं हिरण्यप्रधानकं तेन च हिरण्यमित्युच्यत इत्यर्थः । हिरण्यस्य हितत्वाद्रमणीयत्वाच्च जगत्पतिप्राधान्यम् ।। 5-114-2 धत्ते पुष्णाति। धारयते जीवयति ।। 5-114-3 प्रोष्टपदाभ्याम्। तस्मिन्नक्षत्रद्वये शुक्रे शुक्रवासरे तद्योगे सति धनपतौ कुबेरस्य वृद्ध्यर्थम् ।। 5-114-5 याच याचस्व ।। 5-114-8 विशोधय परिहर ।।
उद्योगपर्व-113 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-115 |
|