महाभारतम्-05-उद्योगपर्व-111
← उद्योगपर्व-110 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-111 वेदव्यासः |
उद्योगपर्व-112 → |
गरुडेन गालवंप्रति उत्तरदिगनुवर्णनपूर्वकं अभिमतदिगभिगमनाय स्वपृष्ठाधिरोहणविधानम् ।। 1 ।।
|
सपर्ण उवाच। | 5-111-1x |
यस्मादुत्तार्यते पापाद्यस्मान्निश्रेयसोऽश्रुते । | 5-111-1a 5-111-1b |
उत्तरस्य हिरण्यस्य परिवापस्य गालव । | 5-111-2a 5-111-2b |
अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ । | 5-111-3a 5-111-3b |
अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः । | 5-111-4a 5-111-4b |
अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः। | 5-111-5a 5-111-5b |
न स दृश्यो मुनिगणैस्तथा देवैः सवासवैः । | 5-111-6a 5-111-6b |
अत्र विष्णुः सहस्राक्षः सहस्रचरणोऽव्ययः । | 5-111-7a 5-111-7b |
अत्र राज्येन विप्राणां चन्द्रमाश्चाभ्यषिच्यत । | 5-111-8a 5-111-8b |
प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम । | 5-111-9a 5-111-9b |
अत्र कामश्च रोषश्च शैलश्चोमा च संबभुः । | 5-111-10a 5-111-10b |
आधिपत्येन कैलासे धनदोऽप्यभिषेचितः। | 5-111-11a 5-111-11b |
अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ । | 5-111-12a 5-111-12b |
शाद्वलं कदलीस्कन्धमत्र सन्तानका नगाः। | 5-111-13a 5-111-13b |
विमानान्युनुरूपाणि कामभोग्यानि गालव । | 5-111-14a 5-111-14b |
अत्र तिष्ठति वै रात्रिन्दिवाप्यत्रावतिष्ठते। | 5-111-15a 5-111-15b |
ज्योतींषि चन्द्रसूर्यौ च परिवर्तन्ति नित्यशः । | 5-111-16a 5-111-16b |
धामा नाम महात्मानो मुनयः सत्यवादिनः । | 5-111-17a 5-111-17b |
परिवर्तसहस्रामि कामभोज्याननि गालव । | 5-111-18a 5-111-18b |
तथातथा द्विजश्रेष्ठ प्रविलीयति गालव । | 5-111-19a 5-111-19b |
ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् । | 5-111-20a 5-111-20b |
अत्र विद्युत्प्रभा नाम जझिरेऽप्सरसो दश। | 5-111-21a 5-111-21b |
त्रिलोकविक्रमे ब्रह्मन्नुत्तरां दिशमाश्रितम् । | 5-111-22a 5-111-22b |
उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः। | 5-111-23a 5-111-23b |
साक्षाद्धैमवतः पुण्यो विमलः कनकाकरः । | 5-111-24a 5-111-24b |
वव्रे धनं महर्षिः स जैमूतं तद्धनं ततः। | 5-111-25a 5-111-25b |
कस्य कार्यं किमिति वै परिक्रोशान्ति गालव । | 5-111-26a 5-111-26b |
उत्तरेति परिख्याता सर्वकर्मस्तु चोत्तरा । | 5-111-27a 5-111-27b |
चतस्रः क्रमयोगेन कामाशां गन्तुमिच्छसि। | 5-111-28a 5-111-28b 5-111-28c |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-111-1 यस्मादिति। उत्तरेण पथा गतानां हि पापनाशः स्वर्गप्राप्तेश्च भवतीति योगाद्दुत्तरा उत्कृष्टतरा इयं दिगित्यर्थः ।। 5-111-2 परिवापस्य स्थानस्य। दिग्न्भ्यामुपलक्षितः ।। 5-111-3 अविधेयात्मा अजितचित्तः ।। 5-111-5 प्रकृत्या पुरुषस्सार्धं इत्यारभ्य एकः पश्यति मायया इति पर्यन्तिं सार्धश्लोकद्वयं दाक्षिणात्येषु बहुषु कोशेषु न दृश्यते । झo पुस्तक एव वर्तते । प्रकृत्या उभया ।। 5-111-7 सहस्रशिरस इत्यकारन्तः शब्दः ।। 5-111-17 मूर्तिः पिण्डः । आकृतिः संस्थानविशेषः ।। 5-111-18 परिवर्तस्रहस्राणि चतुर्युगसहस्राणि । तस्मात् हिमस्थानात् ।। 5-111-19 प्रविलीयति हिमेन नश्यति ।। 5-111-20 ऐलविलस्य कुबेरस्य ।। 5-111-23 उशीरबीजे स्थाने ।। 5-111-24 कनकाकरः जीमूतस्य उप समीपे तस्थे प्रकाशं गतः। प्रकाशनस्थेयाख्ययोश्चेति तङ् ।। 5-111-25 वव्रे ब्राह्मणेभ्यः । मन्नामकमेतदस्त्विति ।। 5-111-26 उत्तरा उत्कृष्टतरा ।।
उद्योगपर्व-110 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-112 |