महाभारतम्-05-उद्योगपर्व-101
← उद्योगपर्व-100 | महाभारतम् पञ्चमपर्व महाभारतम्-05-उद्योगपर्व-101 वेदव्यासः |
उद्योगपर्व-102 → |
नारदेन मातलिं सुपर्णलोकमुपनीय सुपर्णवंश्यानां पक्षिणां नामनिर्देशपूर्वकं गुणानुकीर्तनम् ।। 1 ।।
तत्र वरानभिरोचने देशान्तरनयनवचनम् ।। 2 ।।
|
नारद उवाच। | 5-101-1x |
अयं लोकः सुपर्णानां पक्षिणां पन्नगाशिनाम् । | 5-101-1a 5-101-1b |
वैनतेयसुतैः सूत पङ्भिस्ततमिदं कुलम् । | 5-101-2a 5-101-2b |
सुरुचा पक्षिराजेन सुबलेन च मातले। | 5-101-3a 5-101-3b |
पक्षिराजाभिजात्यानां सहस्राणि शतानि च। | 5-101-4a 5-101-4b |
सर्वे ह्येते श्रिया युक्ताः सर्वे श्रीवत्सलक्षणाः । | 5-101-5a 5-101-5b |
कर्मणा क्षत्रियाश्चैते निर्घृणा भोगिभोजिनः । | 5-101-6a 5-101-6b |
नामानि चैषां वक्ष्यामि यथाप्राधान्यतः श्रृणु । | 5-101-7a 5-101-7b |
दैवतं विष्णुरेतेषां विष्णुरेव परायणम् । | 5-101-8a 5-101-8b |
सुवर्णचूडो नागाशी दारुणश्चण्डतुण्डकः । | 5-101-9a 5-101-9b |
पङ्कजिद्वज्रविष्कम्भो वैनतेयोऽथ वामनः । | 5-101-10a 5-101-10b |
त्रिरावः सप्तरावश्च वाल्मीकिर्दीपकस्तथा । | 5-101-11a 5-101-11b |
सुमुखश्चित्रकेतुश्च चित्रबर्हस्तथाऽनघः। | 5-101-12a 5-101-12b |
गुरुभारः कपोतश्च सूर्यनेत्रश्चिरान्तकः । | 5-101-13a 5-101-13b |
सुस्वरो मधुपर्कश्च हेमवर्णस्तथैव च। | 5-101-14a 5-101-14b |
एते प्रदेशमात्रेण मयोक्ता गरुडात्मजाः । | 5-101-15a 5-101-15b |
यद्यत्र न रुचिः काचिदेहि गच्छाव मातले । | 5-101-16a 5-101-16b |
।। इति श्रीमन्महाभारते उद्योगपर्वणि |
5-101-3 प्रसृत्या प्रकृष्टगत्या जवेन वृद्धिमन्तीत्यर्थः ।।
उद्योगपर्व-100 | पुटाग्रे अल्लिखितम्। | उद्योगपर्व-102 |