साङ्ख्यतत्त्वकौमुदी
वाचस्पतिमिश्रः
१९२१

THE

CHOWKHAMBÂ SANSKRIT SERIES;

COLLECTION OF RARE & EXTRAORDINARY SANSKRIT WORKS

N0S. 270, 283, 289, 290, & 294.


षड्दर्शनकृद्वचस्पतिमिश्रविराचिता

सांख्यतत्त्वकौमुदी

पण्डितराड्-वंशीधरमिश्रविरचित-

सांख्यतत्वविभाकर-

नामकटीकासमुद्भासिता ।

काशस्थिराजकीयसंस्कृतप्रधानपाठशलाध्यपिकेन

भाण्डार्थेपनमक-न्यायाचर्य श्रीरामशास्त्रिणा संशोधिता ।


SANKHYA TATTVA KAUMUDI

By SRI VACHASPATI MISRA

with a commentary called 'SANBKHY Tattva, Vibhakara’

by Pandit Banshi Dhara Misra

Edited by Nyayacharya Ŝri Rama Ŝastri Bhandari

Professor of the Govt Sanskrit College,

BENARES.


FASICULUS rťov.


PUBLISHED & SOLD BY THE SECRETARY,

CHOWKHAMBÂ SANSKRIT SERIES OFFICE, BENARE8

AGENTS: PANDiTA JYESHTHÂRAMA MUKUNDAJI, BOMBAY:

OTTO HARRASSOWITZ, LEIPZIG: GERMANY.

PROBSTHAIN & CO., BOOKSELLERS, LONDON.

Printed by Jai Krishna Das Gupta,

at the Vidya Vilas Press, Benares.


1921

All Rights Reserved.

भूमिका

 इह खलु संसारे निखिल एव जन्तुरहैर्निशं सुख्यावाप्तये दुःखनिवृत्तये वा भृशं प्रयतमानः समुपलभ्यते । पर तैस्तैरुपायैसुखावाप्तिर्दुःखपरिहारो वा 'सुदूर एव प्रत्युत अधिकतरदुःखभागेव स संन्नवसीदति । तदुक्तं श्रीमद्भागवते--“सुखाय कर्माणि करोति लोको न तैः सुखं वाऽन्यदुपारमं वा । विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवन् वदेन्नः" । इति । लौकिकेभ्य एव पदार्थेभ्यो ऽधिगतदुःखत्रयस्यास्याविवेकिनो जनस्य तन्निवृत्तये स्वभावतो दुखरूपाणां तेषामेव लौकिकपदार्थानामनुसरणं पुनः यो यद्विषमूर्छितस्तस्य तेनैव विषेण मूर्छापनयनमनुकरोति । अत एव च वैदिककर्मकलापानां हिंसादिसंकीर्णत्वेन दुःखसाधनत्वात् क्षयिस्वर्गादिफलकत्वाच्च न तैरप्यैकान्तिकात्यन्तिकदुःखनिवृत्तेराशातुषो ऽपि ।

 तस्मादात्मनो ऽत्रिगुणस्य स्वभावतो निर्दुःखस्य दुःखादिशीलया प्रकृत्या सममविवेकग्रह एव आत्मतो दुःखित्वाद्यभिमाननिदानमिति अविवेकग्रहनिवृत्त्यैव दुःखत्रयनिवृत्तिः सम्भाविनीत्यालोच्यात्रभवान् परमकारुणिको जगदुद्दिधीर्षुर्मुनिः कपिल आसुरये दुःखत्रयविषण्णाय पञ्चविंशतितत्त्वान्युपदिदेश । भगवानासुरिरपि पंचशिखायोपदिष्टवान्, पञ्चशिखेन तु षष्टितत्रं निरमायि, यदर्थस्य संक्षेपतः प्रतिपादिका इमाः सप्ततिकारिकाः भगवतेश्वरकृष्णेन निर्मिता मुमुक्षुजनहितेच्छया । एतत्कारिकावलम्बभूतस्य पष्टितंत्रस्य अन्यस्य वा ग्रन्थस्य आभ्यः प्राचीनतरस्य सांख्यमतावलम्बिनो ऽनुपलब्ध्या इमा एव कारिकाः मूलप्रमाणभूतसूत्रस्थानीयत्वेन सर्वैरविवादेनाभ्युपगम्यन्ते । अत एव च भगवत्पूज्यपादश्रीशंकराचार्यैरपि ब्रह्मसूत्रभाष्ये सांख्यमतखण्डनावसरे कारिका एव समुद्धृताः । अत एव च कापिलत्वेन प्रसिद्धानां सुत्राणां कापिलत्वे सन्देह एव ।  एतासां च कारिकाणां अद्यावधि प्रसिद्धानि ठयाख्या- नानि चत्वार्थेव--सांख्यतत्वकैौमुदी-सांख्यचन्द्रिक-मठ-- रवृत्तिः --गौडपादचर्यकृतं । भाष्यं चेति । ‘तत्र-च माठरवृत्ति- गौडपादभाष्ययोः प्रायशो व्याख्याने साम्यात् उभयत्र कारि- कास्थस्य समानस्यैव पाठस्य समुद्धृतवाच्चैकतरमन्थतरावलम्बे- नैत्र व्यरचीत्यवगम्यते । आंग्लभाषाकोविदैर्माठरवृत्तेरेव प्राचीन- तरत्वमवधार्यते, यतः सा वृतिरीशवीये षष्ठे शतके चीनभाषायां पर- मार्थपण्डितेनानूदिता समुपलभ्यतेऽतस्तामलम्ब्यैव केनचिद्गौड- . पादनम्न (प्रायशः श्रीमच्छकराचार्याणां परमगुरुभ्योऽन्यून) भाष्यं व्यरचीति कल्प्य्ते । सांख्यतत्वकौमुदी पुनः षड्दर्शनष्टकिञ्चद्वाच- स्पतामिश्रीवरचिता नन्यकृतेर्माठरवुत्तपादेरनुकृतिरूपा इति तु मठ- रवृत्ति गौडपादभाष्यव्याख्यानशैलीतो विभिनशैलीकतया बव्हीषु कारिकासु विभिनप्रतीकधारणाञ्च सुनिश्चेयमेव । नारायणतीर्थकुता सांख्यचंद्रिका तु सांख्यतत्त्वकौमुदी मूलिकैवेति व्याख्यानसाम्या दवधार्यते । अत एव च द्वयोर्प्रते कारिकापाठे ऽप्यविप्रतिंपत्तिः ।

 अत्र च ‘सप्तत्यां येऽर्थाः’ [ का० ७२ ] इति कारि- कया विपयप्रतिपादकसप्ततिसप्ततिसंख्याककारिकाणामवगमत् तादृशी- नां च एकोनसप्ततिसंख्याकानामेव दर्शनाव काचिदार्या प्रभ्रष्टेति आंग्लभाषा कोविदाः । कल्पयन्ति । तत्र च मठवृत्तौ गौडपादीये च 'प्रकृतेः सुकुमारतरं न किञ्चिदस्ति' का ० ६१) इति कारिका- व्याख्यानावसरे ‘प्रकृतेः सुकुमारतरं वर्णयती' त्येतदाभ्य ‘सुकु- मारतरमित्येतद्वाक्यशेषः कृतः इयेतत्पर्यन्तग्रन्थगतानां केषांचि- द्वाक्यानां प्रभ्रष्टकारिकयः पदप्रतीकत्वं प्रकल्प्य--


 "कारणमीश्वरमेके वृवते कालं परे स्वभावं वा ।
 प्रजाः कथं निर्गुणते व्यक्तः कालः स्वभावश्च५" ॥

 इति कारिकां कल्पयन्ति । परं तथा । सम्पगिवाभाति-“यत: पृकृतेः मुहुये सुकुमारतरत्वकर्थनेन अन्येषां जगदुपादानत्वेनाभिमते३वराद्येपेक्षया प्रकृतेर्विशिष्टतर्त्वं प्रतीयते, तदेव च विशिष्टतरत्वं ईश्वर्का लस्वभावादीनां जगदुषदानवपरिहारपूर्वकं साधितम् । प्रांसर्गिकै- तद्विचारादृर्ध्वं च ’ ’तस्मादुच्यते ‘प्रकृतेः सुकुमारतरं न किंचिदस्ति’ इत्यादिरुपसंहारोऽस्या एव कारिकाया दृश्यते । तस्मात् ‘प्रकृतेः सुकुमारतरम्’ इत्यादिकारिकार्थस्यैवोपक्रमात्तस्यैवोपसंहाराञ्च ग- ध्ये एवायं कारिकान्तरव्याख्यानरूपः सन्दर्भ इति न सम्भवति किन्तु प्रासङ्गिक एव स्व्रतंत्रो विचार इत्याभाति । अत एव श्री- मदाद्यशंकराचार्यकृतत्वेन प्रसिद्धयाँ [?] जयमंगलालयायां वृत्तावपि अचिरादेव समुपलब्धायां ‘इत्येष प्रकृतिछुतः" [ का० ५६ ] इति कारिकाया अवतरणे एव ईश्वरकालस्वभावोपादानकत्वं जगत आ- क्षिप्य ’इत्येष प्रकृतिकृतः इत्यनेन निरस्त्रम् । तत्रापि च माठरदृश्यादिसमान एव आक्षेपः परिहारश्च दृश्यते ।

 सप्ततिग्रहणस्य चोपपत्तिरिथमपि सम्भवति-- एकोनसप्तति- कारिकाभिः षष्टितंत्रस्था विषयाः साक्षाप्रदर्शिताः । सप्ततितमका- रिकायां तु षष्टितंत्रकर्तुः पंचशिखाचार्यस्य [१] तत्स्थविषयाणां च परमर्षिपूर्वकत्वस्य च प्रतिपादनात् सप्तत्तिमकांरिकऽपि विषयप्र- तिपादिकैव। एकसप्ततितमकारिकायां तु ग्रन्थकर्त्रा स्वनाम्न एव ख्यापनान्न तदन्तर्गत्वम् । अपि च षट्टितंत्रस्थानां कृत्स्नानां षष्टि- संख्याकानां पदार्थानां निरूपणामिकाः कारिकः सप्ततिसंख्यां नात्यक्रामन्नित्येवं ग्रन्थलघुवप्रशंसायामेव ‘सप्तत्यां किल येऽर्था- स्तेऽर्थाः कृत्स्नस्य षष्टितंत्रस्य’ इति व्याक्यस्थकृत्स्नपदषष्टुप- दादिभिर्ग्रन्थकर्त्तुस्तात्पर्यावगमात् कारिकाणां सप्ततिसंख्यापूर- णापूरणविचारो ग्रन्थकर्तुस्तास्पयनवधारणमूल एवेति विभाव- नीयं सूरिभिरित्यलमनेन प्रासंगिकविचारेण ।

 पूवोंक्तेषु व्याख्यानेषु मध्ये सांख्यतवकौमुद्येव मौलीभूता सैव च सांख्यशास्त्रे पाट्यत्वेन विशेषतः प्रचलिता दृश्यते । अद्यावधि न काऽपि सांख्यतत्वकौमुद्यः सम्पूणाँ व्याख्या समुपल



 [१] 'तेन च बहुधा कृतं तक्षम्” [ का ० ७० ] इत्यत्र जयमगकी वृत्तौ षष्टितंत्रस्यैव तंत्रपदेन विवरणात् । ब्धा । परमिदानीं पण्डिवंशीधरकृता तद्व्याख्या विभाकर इव सांख्यतत्वमवभासयन्ती अत एव संख्यतत्वविभाकरेत्यन्वर्थका- ख्या सांख्थतत्वकौमुथा यथार्थावबोधे ऽध्यापकाध्येतृवार्गमती- वोपकरिष्यतीत्यत्र नास्ति सन्देहः ।

 अत्र च सांख्यशास्त्रेSभिमतपदार्थानां प्रसंगात् स्वातंत्र्येणापि विस्तरेण नव्यन्यायरीत्या सपरिष्कारं निरूपणाव महानुपयोगो भविष्यतीत्यास्ति सुदृढो विश्वासः । अस्या व्याख्यायाः कर्ता पण्डि- तवरो वंशीधरश्च सार्धवर्षशतादर्वाचीन् एवेति अवगम्यते । यतः प्रसं- गादत्र पण्डितमहदेवपुणतामकराणामप्युल्लेखो दृश्यते तत्समयश्च स- प्तदशस्येशवीयस्य शतकस्य चरम भाग एवेति तद्धस्तलिखितेभ्यः काशीस्थराजकीयसरस्वतीभवनगतपुस्तकेभ्यो निर्धारितम् ।

 अस्यांश्च व्याख्याया एकमेव पुस्तकमशुद्धप्रायं समुपलब्ध- मिति कचिदसम्बद्धोऽपि पाठो यथावस्थित एव स्थापितः । एक- स्याऽप्यतिदुर्लभस्यास्य पुस्तकस्य प्रदानेन श्रीयुत भाऊशास्त्री वझे इयेतैर्नितरां वयमनुयुर्हताः । एवमेव संस्कृतविद्यव्यसनिनां बाबू गोविंददासमहाशयानपि कारिकाणां संख्यादिन्निष्रये विपतिपरषादि- समाधायकविचरोल्लेखद्यावश्यकवासूचनेन कृतज्ञतया भावयामः॥

 अस्याश्च व्याख्यायाः संशोधनकार्ये श्रेष्ठिवरजयकृष्णदास- गुप्तेन प्रेरितोऽहमेतत्संशोधनमकरवम् ।

 सपरिश्रमं यथामति संशोधितेऽप्यस्मिन् ग्रन्थेऽशुद्धिप्रचुरैक- मात्रादर्श पुस्तकलाभादनवधानाञ्च तदवस्था अशुद्धी:स्वयमेव परिशो- धयन्तु विंद्वांस इति प्रार्थयते--


श्रीवामाचरणभट्टाचार्याणामन्तेवमन्

भाण्डार्युपाह्वः श्रीरामशास्त्री

काशीस्थराजकीयसंस्कृता

प्रधानपाठशालायां न्यायशास्त्रध्यापक: ।

अशुद्धिशुद्धिबोधकं पत्रम्।


 पृ०  पं अशुद्धम्   शुद्धम् ।

    ता   तां

   १०  प्रजा   अजा

 १८    व्ययीकरणेन  करणेन

 १९     पुत्रीयत्ता   पुत्रीयता

 ३२   १५  सत्यादित्वात्   सत्यत्वात्

 ३७   १९   मर्ध्वर्थी    मध्वर्थी

 ४१   १०   आर्थ    अर्थ

 ४३   १०   होनोपाय।   हानोपाय

 ४७    अनुश्रावकः   आनुश्रविकः

 ४८     यज्ञैः    र्यज्ञैः

 ४८   १५  वैदमपो    वेदमयी

 ४८   १३  आधते    आधत्ते

 ५१   १३  आनुश्रावकः   आनुश्रवकः

 ५१   १६  मिश्रणा     मिश्रण


 ५५    अग्रिमतेन    अग्रिमेण

 ६५   १६  ननु      न तु

 ५९   १५  द्रवणम्    द्रविणम्

 ६३   १४  अभूत     आभूत

 ६७   १३  आर्यो     अर्यायाम

 ७४   ११  प्रतिबन्ध्य    प्रतिबध्य

 ७८   २३  व्याधावधिः    व्याघातावधिः।

 ८०   १८  गिरोग्निमत्त्वं    गिरेरग्निमत्त्वं

 ९५   १७  व्यवहारस्थ    व्यवहारस्या


 पृ०   पं   अशुद्धम्   शुद्धम् ।

 ९६  २४  उपानीत   उपनीत

 ९७    दड्ययम्   दण्ड्ययम्

 १०२    दिगावलम्बनत्वे    दिगवलम्बनत्वे

 १०२  २०   तन्मनुसारेण    तन्मतानुसारेण

 १०४  २०  जात्यच्छेदेन    जात्यवच्छेदेन

 ११८  १८  गवतारयति    मवतारयति

 ११८  २३  प्रेयाजनाय    प्रयोजनाय

 ११९    प्रमाणस्वरूपं  प्रमास्वरूपं

 १२५    अवयत्वात्   अवयवत्वावत्

 १३३  १२  चैतैन्यवत्    चैतन्यवत्

 १४०    विवक्षित्वत्   विवक्शितत्वात्

 १४७   १२   व्यप्यत्व   व्याप्यत्व

 २४७   १९   व्यार्त्तक   व्यावर्तक

 १५१   १२   सहातिव्याप्तेः  सहितातिव्याप्तेः

 १५३   ११   रूपत्   रूपवत्

 १५६   १८    सध्यभावे    साध्याभावे

 १५९     घदिपदानां    घतादिपदानां

 १६०   २२   विषयकात्वा   विषयकत्व

 १६९   १०   ऽर्भवयन्तं   ऽन्तर्भावयन्तं

 १६९   १९   प्रनेयः   प्रमेयः

 १७३     विशिष्टोस्थापक  विशिष्टोपस्थापक

 १७३   १८   अगवम   अवगम

 १७४.  १९   वस्त्वन्तर्वर्त्तीं   वस्वन्तरवर्ती

 १८२     होतुर्वृद्धौः   होचुर्वृद्धाः

 १८२      त्रिविम्प्रमाणं    त्रिविं प्रमाणं

 १८४   १०   असम्भावात्   असम्भवात्
  पृ०    पं०    अशुद्धम्    शुद्धम् ।

 १८४    १६    अवतरति    अवतारयति ।

 १९०    १७    तदनन्ततरं   तदनन्तरं

 १९२    १८    उदानं    उपादानं

 १९५    १४    तुम एव   आत्मा एव

 १९६    २३   उपनिबद्ध   उप्निबबन्ध

 १९९    १२   सन्बन्ध्यधीनत्वेन  सम्बन्ध्यधीनत्वेन

 २००    १४  अभिव्यक्त्यावस्था  अभिव्यक्त्यवस्था

 २०१    ११    वचिषति    वेचषति

 २०२      आर्येण    कार्येण

 २०२      जात    अजात

 २१६    १८   अनधिष्ठित्व    अनधिष्ठित्व

 २१०    २४    एकस्मान    एकस्मात्

 २२१   २४    सन्दोपसुन्दच    सुन्दोपसुन्दर्वत्

 २२८   २२    विजृभितं    विजृंभितं

 २३०    १४    उपद्यते    उत्पद्यते

 २३२    २५    कुट    कट

 २३८    २४    निप्ट    निष्ट

 २४३      अपिष्टातृ    अधिष्टातृ

 २४६    १९   व्यापकस्यैश्वरे  व्यापकस्येश्वेरे

 २४९      ज्ञानाभावन    ज्ञानाभावेन

 २४९    ११    क्रियति    क्रियेति

 १५१    १८    समष्टकार्यं    समष्टिकार्यं

 २५३    १८    तत्तिष्ठन्ति    तुतिष्टन्ति

 २५६    १४    यज्ञसुदशी   यज्ञसदृशी

 २६०    १८    इत्पत्र    इत्यत्र

 २६४    ११   तदितिरिक्तस्य   तदतिरिक्तस्य
  पृ०    पं०    अशुद्धम्    शुद्धम् ॥

 २६८      अपमाणिक   अप्रमाणिका ॥

 २६८    १०    आशङ्कात्    आशङ्का तु ॥

 २६८   १४    गौलक    गोलक ॥

 २६९    १९   वाक्यस्थार्थः.  वाक्यस्यार्थः ॥

 २६९    २४    वृहिधातुः    बृहिधातुः ॥

 २७०      उपचयस्थव  उपचयस्येव ॥

 २७३   १४    पुरस्तान्    पुरस्तात् ॥

 २७४     सुक्ष्मपर्यन्तं   सूक्ष्मपर्यन्तं ॥

 २७५    १२    स्वस्कधं   स्वस्कन्धं ॥

 २७८      प्रार्थयेत    प्रार्थयते ॥

 २८१   २१   तस्मिन्नअनेजत्  तस्मिन्ननेजत्॥

 २८१    २१    इत्यात्युक्ते    इत्याद्युक्ते ॥

 २८४   १६    भूतयोनि    भूतयोनिं॥

 २८५      जानथा।   जानथ ॥

 २८५   १५   अपसंहारः    उपसंहारः ॥

 २८९      ताप्तर्य    तात्पर्य ॥

 २९४    २२    विशदृश   विसदृश ॥

 २९६      उपलमाहे   उपलभामहे ॥

 २९७      अप {gap}}   अपि॥

 ३०३      प्रयोजेक    प्रयोजक ॥

 ३०५    १७    यस्मिं    यस्मिन् ॥

 ३०७  २४  कपिसंगाभिन्नः  कपिसंयोग्यभिन्नः ॥

 ३०९     याग    योग ॥

 ३१०   १०    कपाल    कपालं ॥

 ३१०   १६    अपूर्वधजि   अपूर्वे यजि ॥

 ३११     उदेश्यकत्वं  उद्देश्यकत्वं ॥

 पृ०   प०    अशुद्वम्  {{gap} }शुद्धम्

 ३१४   ११  द्रव्य व्यापत्तौ  द्रव्यत्वापत्तौ

 ३२६   १०    प्रणिधाना    प्रणिधानानि

 ३३६   १४   अथव्याभिचारत्व   अर्थाव्याभचारित्व

 ३४२      यद्येपि    यद्यपि

 ३४४-     इतादिश्रुतिः    इत्यादिश्रुतिः

 ३५०   १२   ब्रह्मात्म्यानन्दो  ब्रह्मास्म्यानन्दो

 ३५४     मनोऽधिष्ठाताना  मनोऽधिष्ठितानां

 ३५७    २५   द्योतकरादयः  उद्योतकरादयः

 ३६७      कथ    कथं

 ३६८   २०    यत्सत्वे न    यत्सत्त्वेन

 ३७६   २४   भोगासिद्धेः   भागासिद्धेः

 ३८९   २२  अविद्यादत्तत्वात  अविद्यावृतत्वात

 ३९१   १८    परोक्षः    परोक्षः

 ३९२   १०    न ।    

 ४०४    २५   इन्द्रियावर्जमिति  इन्द्रियवर्जमिति

 ४०७   २५    कारकविश्ष   कारकविशेष

 ४०८      इतः    अतः

 ४१६      नगनिकुञ्जः    नगनिकुञ्जे

 ४२४      षाट्काशिकाः   षाट्कौशिका:

 ४३५    २१    उपद्धात    उपोद्धात

 ४३७      अभिनवशा   अभिनवेशा

 ४४२   १५  आध्यात्मिकेनशारीरक  आध्यात्मिकशारीरक

 ४४२    २५    दुःखानुभूत    दुखाभिभूत

 ४४३     ऽIस्त    ऽस्ति

 ४५६     थुक्तिविशेषत्व    शुक्तिविशेष्यत्व

 ४८७   १३    कारणाव    कारणत्व


॥इति अशुद्धिशुद्धिपत्रं समाप्तम् ॥

॥ श्रीः ॥

साङ्ख्यकारिकाः





 दुःखत्रयाभिधाताजिज्ञासा तदप(१)घातके हेतौ ।।
 दृष्ट साऽपार्था चेन्नैकान्तात्यन्ततोऽभावात् ।। १ ।।
 दृष्टवदानुश्रवकः स ह्यविशुद्धि(२)क्षयातिशययुक्तः ।
 तद्विपतिः श्रेयान् व्यकाव्यक्तज्ञविज्ञानात् ॥ २॥
 मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
 षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३॥
 दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् ।।
 त्रिविधं प्रमाणामष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४॥
 प्रतिविपयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् ।।
 तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥
 सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् ।
 तस्मादपि चाऽसिद्धं परोक्षमासागमात्सिद्धम(३) ॥ ६ ॥
 अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् ।
 सौक्ष्माह्यवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥
 सक्ष्म्यात्तदनुपलब्धिनsभावात् कार्यतस्तदुपलब्धेः(४) ।
 महदादि तश्च कार्यं प्रकृतिसरूपं विरूपं (५)च ॥ ८ ॥
 असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।।
 शक्तस्य शक्यकरणात् कारणभावाञ्च सत्कार्यम् ॥ ९॥
 हेतुमदानित्यमव्यापि सक्रियमलेकमाश्रितं लिङ्गम् ।।
 सावयचं परतन्त्रं तं विपरीतमव्यक्तम् ॥ १० ॥
 त्रिगुणमविवेक विषयः सामान्थमचेतनं प्रसवधर्मिं ।
 व्यक्त तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥



 (१)तदभिघातके-इति माठरवृत्तिकृतां संमतःपाठः ।
 (२)अविशुद्धः-इति माठ० वृ० पाठः ।
 (३)साध्यम-इति माठ० वृ० पाठः।।
 (४)तदुपलब्धिः -इति माठ० पाठः ।।
 (५)प्रकृतिविरूप सरूपं च-इति माठ० पा० ।



 प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः ।।
 अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥
 सत्वं लघु प्रकाशकमिष्टभुपष्टम्भकं चलं च रजः ।
 गुरु वरणकमेव तमः प्रदीपवञ्चाऽर्थतो वृत्तिः ॥ १३ ॥
 अविवेक्यादेः सिद्धि(१)स्त्रैगुण्यात्तद्विपर्ययाभावात् ।
 कारणगुणात्मकत्वात् कार्यस्याऽव्यक्तमपि सिद्धम् ॥१४॥
 भेदानां परिमाणात् समन्वयात् शक्तितः प्रवृतेश्च ।
 कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥
 कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च ।
 परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ।। १६ ॥
 सङ्घातपरार्थत्वात्रिगुणादिविपर्ययादधिष्ठानात् ।।
 पुरुषऽस्ति भेाक्तृभावात् कैवल्यार्थप्रवृत्तेश्च ॥ १७ ॥
 जनन(२)मरणकरणानां प्रतिनियमादयुगपत्प्रवृर्त्तश्च ।
 पुरुषबहुत्वं सिद्धं वैगुण्यविपर्ययाश्चैव ॥ १८ ॥
 तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
 कैवल्यं मध्यस्थ्यं दृष्ट्टत्वमकर्तृभावश्च ॥ १९ ॥
 तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
 गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥
 पुरुषस्य दर्शनार्थ कैवल्यार्थं तथा प्रधानस्य ।
 पङ्ग्वन्धवदुभयोरपि संयोगतत्कृतः सर्गः ॥ २१ ॥
 प्रकृतेर्महांस्ततोऽहङ्कारस्तस्माद्रणश्च षोडशकः ।।
 तस्मादपि षोडशकात पञ्चभ्यः पञ्च भूतानि ॥ २२ ॥
 अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् ।।
 सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥
 अभिमानोऽहङ्कारस्तस्मात् द्विविधः प्रवर्तते सर्गः ।
 एन्द्रिय एकादशकस्तन्मात्रापश्चकश्चैव ॥ २४ ॥
 सात्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् ।।
 भूतादेस्तन्मात्रः स तामसस्तजसौदुभयम् ॥ २५ ॥ ।
 बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगा(३)ख्यानि ।
 वाक्पाणिपादपायुपस्थानि(४) कर्मेन्द्रियाण्याहुः ॥ २६ ॥



 (१)अविवेक्यादिः सिद्धः-इते मा० वृ० पाठः ।
 (२)जन्म-इति माठ० वृञ् पाठः ।
 (३)श्रोत्रत्वक्क्षूरसननासिकाख्यानि-इति मा० पाठः ।।
 (४)उपस्थान-इति मा० वृक् पाठः ।।


-


 उभयात्मकमत्र मनः सङ्कल्पकामेन्द्रियं च साधर्म्यात् ।
 गुणपरिणामविशेषान्नानात्वं बाह्यभेदाश्च(१) ॥ २७ ॥
 शब्दादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः ।
 वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ॥ २८ ॥
 स्वालक्षण्यं[२] वृत्तिस्त्रयस्य सैषा भवत्यसामान्या ।
 सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥
 युगपञ्चतुष्टयस्य तु[३]वृत्तिः क्रमशश्च तस्य निर्दिष्टा ।
 दृष्टे तथाऽप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥
 स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् ।
 पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥
 करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् ॥
 कार्यं च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यं च ॥ ३२ ॥
 अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् ।
 साम्प्रतकाले बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥
 बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयणि ।
 वाग्भवति शब्दविषया शेषाणि तु[४]पञ्चविषयाणि॥३४॥
 सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् ।
 तस्मात्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥
 एते प्रदीपकल्पाः परस्परविलक्षण गुणविशेषाः ।
 कृत्स्नं पुरुषस्याऽर्थं प्रकाश्य बुद्धौं प्रयच्छन्ति ॥ ३६॥
 सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः ।
 सैव च विशिनष्टि पुनः प्रधानपुरुषान्तर सूक्ष्मम् ॥ ३७॥
 तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः ॥
 एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥
 सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः ।
 सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥
 पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् ।
 संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥
 चित्रं यथाऽऽश्रयमृते स्थाण्वादिभ्यो विना यथा छाया ।



 (१)ग्राह्यभेदाञ्च--इति मा० वृ० पाठः ।
 (२)स्वालक्षण्या--ति मा० पाठः ।
 (३)हि--इति मा पाठः ।
 (४)शेषाण्यपि--इति मा० पाठः ।






 

 तद्वाद्विना विशेषेर्नतिष्ठति[१]निराश्रयं लिङ्गम् ॥ ४१ ॥
 पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन ।
 प्रकृतेर्वभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥
 सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः ।
 दृष्टाः करणाश्रयणः कायाश्रयणश्च कललाद्याः ॥ ४३॥
 धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण ।
 ज्ञानेन चाऽपवर्गो विपर्यथादिष्यते बन्धः ॥ ४४ ॥
 वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् ।
 ऐश्वर्यादविघातो विपर्ययात्ताद्वपर्यासः ॥ ४५ ॥
 एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टि सिद्ध्याख्यः ।
 गुणवैषम्यविमर्दात्तस्य च (२)भेदास्तु पञ्चाशत् ॥ ४६ ॥
 पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् ।
 अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ ४७ ॥
 भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः ।
 तामिस्रोऽष्टादशधा तथा भवत्यन्धतमिस्रः ॥ ४८ ॥
 एकादशेन्द्रियवधाः सह बुद्धिवधैरशक्तिरुद्दिष्टा ।
 सप्तदश वधा बुद्धेविपर्ययात्तुष्टिासद्धीनाम् ॥ ४९ ॥
 आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः ।
 बाह्या विषयोपरमात् पञ्च च नव (३)तुष्टयोऽभिमतः ॥ ५० ॥
 ऊहः शब्दोऽध्ययनं दुःखविघातास्त्रयः(४) सुहृत्प्राप्तिः ।
 दानं च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशास्त्रविधः ॥ ५१ ॥
 न विना भावेर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः ।
 लिङ्गाख्यो भावाख्यस्तस्मात् द्विविधः प्रवर्तते सर्गः ॥ ५२॥
 अष्टावकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति ।
 मानुषक(६)श्चैकाविधः समासतो भौतिकः सर्गः ॥ ५३ ॥
 उर्ध्व सत्त्वविशालस्तमोविशालश्च मुलतः सर्गः ।
 मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥
 तत्र(६) जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः ।





 (१)तिष्ठति न-इति मा० पाठः ।
 (२)विमर्दैन तस्य भेदाः-इति मा० वृ० पाठः ।
 (३)नव च---इति मा० पादः।
 (४)दुःखचिघातत्रयम् इति मा० पाठः ।
 (५) मानुष्य---इति मा० पाठः ।
 (६)अन्न---इति मा० पाठः ।


 लिङ्गस्याऽऽविनिवृत्तेस्तस्मात् दुःखं स्वभावेन(१)॥ ५५ ॥
 इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः ।
 प्रतिपुरुषविमोक्षार्थं स्वर्थ इव परार्थ आरम्भः ॥ ५६ ॥
 वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
 पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ५७॥
 औत्सुक्यनिवृत्यर्थं यथा क्रियासु प्रवर्तते लोकः ।
 पुरुषस्य विमोक्षार्थं प्रवर्तते तद्वदव्यक्तम् ॥ ७८ ॥
 रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यत् ।
 पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥५९॥
 नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः।
 गुणवत्यगुणस्य सतस्तस्यऽर्थमपार्थकं चरति ॥ ६० ॥
 प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
 या दृष्टाऽस्मीति पुनर्न दर्शनमुपैति पुरुषस्य ॥ ६१ ॥
 तस्मान्न बध्यते ऽद्ध न(२) मुच्यते नाऽपि संसरति कश्चित् ।
 संसरति बध्यते मुच्यते च नानश्रया प्रकृतिः ॥ ६२ ॥
 रूपैः सप्तभिरेव तु(३)बध्नात्यात्मानमात्मना प्रकृतिः।
 सैव च पुरुषार्थं प्रति विमोचयत्येकरूपेण ॥ ६३ ॥
 एवं तत्त्वाभ्यासान्नाSस्म न में नऽहमित्यपरिशेषम् ।
 अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम् ॥ ६४ ॥
 तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ।
 प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवास्थितः स्वस्थः ॥ ६५ ॥
 दृष्टा सययुपेक्षक एको दृष्टाऽहमित्युपरमत्यन्या ।
 सति लंयोगेऽपि तयोः प्रयोजनं नाऽस्ति सर्गस्य ॥ ६६ ॥
 सम्यग्ज्ञानाधिगमाद्धर्मादीनामकरणप्राप्तौ ।
 तिष्ठति संस्कारवशाञ्चक्रभ्रमवत् धृतशरीरः ॥ ६७ ॥
 प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ ।
 ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नेति ॥ ६८॥
 पुरुषार्थज्ञानमिदं गुह्य परमर्षिणा समाख्यातम् ।
 स्थित्युत्पत्तिप्रलयाश्चिन्यन्ते यत्र भूतनाम, ॥६९ ॥
 एतत्पवित्रमग्प्यं मुनिरासुरयेऽनुकम्पया प्रददौ ।




 (१)समासेन–इति भ० पाठः।
 (२)बध्यते नापि मुच्यते-इति माठ० पा० ।
 (३)एवं बध्नाति-इति मा० पा० ।


 आसुरिरपि पञ्चशिखाय तेन च बहुधा कृतं (१)तन्त्रम् ॥ ७० ॥
 शिष्यपरस्परयाऽऽगतमश्विरकृष्णेन चैतदार्याभिः।
 लङ्क्षिप्तमार्यमतिना सम्यग्विज्ञाय सिद्धान्तम् ॥ ७१ ॥
 सप्तत्यां किल येऽर्थास्तेऽर्थाः कृत्स्नस्य षष्टितन्त्रस्य ।
 आख्यायिकाविरहितः परवादविवर्जिताश्चऽपि(२) ॥ ७२ ॥



॥ इती श्वरकृष्णविराचितसाङ्ख्य कारिकाः समाप्तः॥





 (१)बहुलीकृत--इति मा० पा७ ।
 (२)तस्मात्समासडष्टं शास्त्रमिदं नार्थतश्च परिहीनम् ।
 तन्त्रस्य [च] बृहन्मूर्तेर्दर्पणसक्रन्तमिव बिम्बम् ॥ ७३ ॥
 अत्र चकारसस्वे छन्दोभङ्गाञ्चकारः प्रामादिक इति प्रतिभाति ।
 इत्येषा माठरवृतिकृत्समताऽधिक कारिका । |

साङ्ख्यकारिकाया अकारादिक्रमेण-

सूची


  No.      का  पृ.

   अतिदूरत्समीप्यात्      १८४

   अध्यवसायो बुद्धिः    २३  ३०२

   अविवेक्यादेः सिद्धिः     ३३  ४१५

   अभिमानोऽहङ्कारः     २४  ३३७

   अविवेक्यादेः सिद्धिः     १४   २२७

   आष्टविकल्पो दैवः     ५३   ४५१

   असदकरणादुपादान      १८८

    आ.    

   आध्यात्मिक्यश्चतस्रः     ५०   ४४१

 No   इ.    

   इत्येष प्रकृतिकृतः     ५३  ४८६

 No.   उ.    

 १०   उभयात्मकमत्र मनः     २७  ३५२

  No.   ऊ.     

  ११   ऊर्ध्वं सत्त्वविशालः     ५४  ४५२

  १२   ऊहः शब्दोऽध्ययनं     ५१   ४४६

  No.   ए.     

  १३   एकादशेन्द्रियवधाः     ४९   ४४०

  १४   एतत् पवित्रमग्प्यं      ७०   ५१५

  १५   एते प्रतीपकल्पाः     ३६   ४१९

  १६   एवं तत्वाभ्यासात्     ६४   ५००

  १७   एष प्रययसर्गः     ४६   ४३६

  No.      का   पृ.

        

  १८    औत्सुक्यनिवृत्त्यर्थं     ५८  ४९२

        

  १९    करणं त्रयोदशविधं   ३२   ४०७

  २०    कारणमस्त्यव्यक्तम्    २६   २३१

        

  २१    चित्रं यथाऽऽश्रयमृते     ४१    २९

        

  २२    जननमरणकरणानां     १८   २६४

        

  २३    तत्रजरामरणकृतं     ५५   ४५३

  २४    तन्मात्राण्यविशेषाः     ३८    ४२२

  २५    तस्माच्च विपर्यासात्    १९    २७१

  २६    तस्मात्तत्संयोगात्     २०    २७४

  २७   तस्मान्न बद्ध्यतेऽद्धा   ६२    ४९८

  २८    तेन निवृत्तप्रसवां     ६५    ५०७

  २९   त्रिगुणमविवेकि विषयः   ११   २०७

     द.     

  ३०    दुःखत्रयाभिघातात्       २७

  ३१    दृष्टामनुमानमाप्त      ११८

  ३२    दृष्टवदानुश्रविकः       ४७

  ३३    दृष्टा मयेत्युपेक्षक     ६६   ५०९

     ध.     

  ३४    धर्मेण गमनमूर्ध्वं     ४४    ४३३

        

  ३५    न विना भावैर्लिङ्गं    ५२    ४४९

  ३६    नानाविधैरुपायैः     ६०    ९५


  No.        का   पृ.

  No.       

 ३७    पञ्च विपर्यभेदाः     ४७   ४३७

  ३८    पुरुषस्य दर्शनार्थं     २१   ४७६

  ३९    पुरुषार्थज्ञानमिदं     ६९   ५१४

  ४०    पुरुषार्थहेतुकमिदं     ४२   ४३०

  ४१    पूर्वोत्पन्नमसक्तम्     ४०   ४२६

 ४२  प्रकृतेर्महांस्ततोऽहङ्कारः   २२   २७९

  ४३    पकृतेः सुकुमारतरं     ६१    ४९६

  ४४   प्रतिविषयाध्यवसायो       १२४

  ४५    प्राप्ते शरीरभेदे     ६८   ५१३

  ४६    प्रीत्यप्रीतिविषादा     १२    २१४

  No.       

  ४७    बुद्धीन्द्रियाणि चक्षुः     २६    २६१

  ४८    बुद्धीन्द्रियाणि तेषां     ३४    ४१७

  No.       

  ४९    भेदस्तमसोऽष्टविधिः    ४८    ४३८

  ५०    भेदानांपरिमाणात्     १६    २३१

  No.       
}}

  ५१    मूलप्रकृतिरविकृतिः       ६७

  No.       

  ५२   युगपञ्चतुष्टयस्य हि     ३०    ३९९

  No.       

  ५३    रङ्गस्य दर्शयित्वा     ६९   ४९३

  ५४    र्रूपादिषु पञ्चानां     १८    ४९९

  ५५    रूपैः सप्तबिरेवं     ६३    ४९९

  No.       

  ५६    वत्सविवृद्धिनिमित्तं     ५७    ४८८

  ५७    वैराग्यात्प्रकृतिलयः     ४५    ४३४

  No.         का    पृ.

  No.    

  ५८  शिष्यपरम्परयाऽऽगतं    ७२    ५१६

  No.    

  ५९    सङ्घातपरार्थत्वात्     १७    २५९

  ६०    सत्त्वं लघु प्रकाशकं     १३    २२०

  ६१    सप्तत्यां किल येऽर्थाः     ७२    ५१७

  ६२    सम्यग्ज्ञानधिगमात्     ६७    ५११

  ६३    सर्वे प्रत्युपभोगं     ३७    ४२०

  ६४    सात्विक एकादशकः     २५    ३४२

  ६५    सान्तः कराणा बुद्धिः     ३५    ४१८

  ६६    सामान्यतस्तु दृष्टात्       १८२

  ६७    सांसिद्धिकाश्च भावाः     ४३    ४३१

  ६८    सूक्ष्मा मातापितृजाः     ३९    ४२४

  ६९    सौक्ष्म्यात्तदनुपलब्धिः       १८६

  ७०    स्वालक्षण्यं वृत्तिः     २९    ३९६

  ७१    स्वां स्वां प्रतिपद्यन्ते     ३१    ४०५

  No.    

  ७२    हेतुमदनित्यमव्यापि     १०    २०१




ख्यतत्वकौमुदीस्थविषयाणां

सूचीपत्रम्।

   २२   मंगलाचरणम् ।

 २२   ६६   शास्त्रविषयजिज्ञासावतरणिका ।

 २७   ३३   शास्त्रविषये जिज्ञासाया हेतुप्रदर्शनम् ।

 ३४   ४२   दृष्टोपायैरिष्टासम्पत्ति प्रदर्शनम् ।।

 ४३   ५९   बैदिककर्मकलापेनापि नेष्टसिद्धिारित प्रदर्शनम् ।

 ५९   ६६   विवेकज्ञानस्यैवेष्टसाधनत्वावधारणम् ।

 ६७   ९३   संक्षेपतः पदार्थनिरूपणम् ।

 ११८   २३   प्रमाणसामान्यलक्षणम् , तद्विभागश्च ।

 १२४   ३६   प्रत्यक्षानरूपणम् ।

 १३७  ५२   अनुमानसामान्यानरूपणम् ।

 १५२    अनुमानस्यावान्तरभेदनिरूपणम् ।

 १५७  ७०   शब्दप्रमाणनिरूपणम् ।

 १७१    उपमानस्य प्रमाणान्तरनिरासः ।

 १७६    अर्थापत्तेनुमानेऽन्तर्भावः ।

 १७९  ८२   अभावसम्भवैतिह्यानां क्लुप्तप्रमाणेष्वन्तर्भावप्रतिपादनम् ।

 १८२    तत्तद्विषयग्राहकप्रमाणनिरूपणम् ।

 १८४    योग्यस्यानुपलब्धिकारणपरिगणनम् ।

 १८६   प्रधानस्याप्रत्यक्षताप्रयोजककथनम् ।

 १८७    बौद्धनैयायिकवेदान्तिनां मते न प्रधानसद्धिरिति प्रतिपादनम्।

 १८९  ९४   कार्यस्य सत्वसाधकालुमानानां प्रदर्शनम् ।

 १९४    उपादेयस्योपादानाभेदसाधनम् ।

 १९६    तयोरभेदेऽपिं क्रियाविरोधाद्युपपादनम् ।

 १९७    आविर्भावोत्पत्योः सत्त्वमसत्त्वं वेति विचारः ।  २०१    व्यक्ताव्यक्तयावैधयनिरूपणम् ।।

 २०६   १२  व्यक्ताव्यक्तयोः साधम्र्यस्य पुरुषाच्च वैधम्र्यस्य निरूपणम् ।

 २१३    गुणत्रयस्य स्वरूपप्रयोजनवृत्तीनां निरूपणम् ।

 २२०    प्रत्येकगुणस्यसाधारणस्वरूपकीर्तनम् ।

 २२२    भावमात्रस्य मुखदुःखमोहात्मकत्वसाधनम् ।

 २२७    अविवेकित्वादीनां प्रधाने साधनम् ।

 २२९  ४५  कतिपथहेतुभिरब्यक्तसिद्धिः ।

 २४५  ५२  अव्यक्तस्य द्विविधप्रवृत्तिकथनम् ।

 २५३  ६३   बहुभियुक्तिभिः संघातातिरिक्तपुरुषसिद्धिः ।

 २६४    पुरुषबहुत्वसाधनम् ।

 २७१    पुरुषे साक्षित्वकैवल्यमाध्यस्थ्यद्रष्ट्टत्वाकतृत्वसिद्धिः ।

 २७३    प्रधानपुरुषयोः परस्परधर्माध्यासकथनम् ।

 २७६    सर्गस्य प्रकृति पुरुषसंयोगकृतत्वम् ।

 २७९-३०१  सर्गक्रमनिरूपणम् ।

 ३०२    महत्तरवलक्षणम् ।

 ३०८  ३३६ बुद्धेर्चमणां सात्विकतामसानां निरूपणम् ।

 ३३७    अहङ्कारलक्षणम्, तस्य द्विविधकार्यकथनं च ।

 ३४२  ५१  कार्यद्वयप्रयोजकस्यादृङ्कारगतरूपद्वयस्य प्रतिपादनम् ।

 ६५१  ५२  बुद्धीन्द्रियकमेन्द्रियाणां भेदप्रदर्शनम् ।

 ३५२   ६१  मनोनिरूषणम् ।

 ३९५  ९६  दशानामपन्द्रियाणां तत्तदसाधारणवृत्तिप्रतिपादनम् ।

 ३९६    अन्तःकरणत्रयस्यासाधारणसाधारणवृत्तिद्वयप्रतिपादनम् ।

 ३९९ ४०५   वृत्तीनां यौगपद्यायोगपद्यनिरूपणम् ।

 ४०५    वृत्ति हेतुनिरूपणम्, करणानां पुरुषानाधिष्ठितत्वकथनं च ।

 ४०७  १४   करणानां विभागः, तद्व्यापारादिनिरूपणं च ।

 ४१५    बाह्यान्तःकरणयोविभागः, त्योर्वैधर्म्यकथनं च ।

 ४१७     कालस्य तत्वान्तरत्वखण्डनम् । |  ४१७    बुद्धीन्द्रियाणां विशेषाविशेषविषयकत्वनिरूपणम् ।

  ४१८   २०     करणानां प्रधानगुणभावविचारः ।

  ४२०      बुद्धेः प्राधान्ये हेतुनिरूपणम् ।

  ४२२      विशेषाविशेषनिरूपणम् ।

 ४२४      विशेषाणां विभागः ।

  ४२६       सूक्ष्मशरीरनिरूपणम् ।

  ४२९       सूक्ष्मशरीरेऽनुमानप्रमाणपन्यासः ।

  ४३०    सूक्ष्मशरीररथ संसरणप्रकारस्थ तद्धेतोश्च निरूपणम् ।

  ४३१       निमित्तनैमित्तिकविभागः ।

  ४३३       धर्मद्यष्टभावानां कार्यनिरूपणम् ।

  ४३५       समासतो बुद्धिधर्मनिरूपणम् ।

  ४३७     व्यासनस्तेषां भावानां पंचाशद्भेदनिरूपणम् ।

 ४३८   ४० पञ्चविधस्य विपर्ययस्य अवान्तरभेद्द्वाषष्टिभेदनिरूपणम्।।

  ४४०       अशक्तेरष्टाविंशतिभेदनिरूपणम् ।

  ४४२       तुष्टीनां नववधभेदनिरूपणम् ।

  ४४७       गौणमुख्यसिद्ध्यष्टकनिरूपणम् ।

  ४४९    ५१     लिङ्गभावाख्यसर्गद्वपस्य निरूपणम् ।

  ४५१        भूतादिसर्गविभागः ।

  ४५२      भौतिकस्य सर्गस्योर्ध्वाधोमध्यभावेन त्रैविध्यम्।

  ४५३      सर्गस्य दुःखहेतुत्वप्रदर्शनम् ।

  ४८६   ८ सृष्टिकारणत्वे वप्रतिपर्त्ति निरस्य प्रधानस्य तत्वव्यवस्थापनम्।

  ४८८    ९१     जडस्य स्वतन्त्रप्रवृत्युपपादनम् ।

  ४९३       प्रकृतेर्निवृत्तिबीजकथनम् ।

  ४९५       प्रकृतेः स्वार्थाभावनिरूपणम् ।

  ४९६     पकृतेःसकृत् साक्षात्कारेण पुरुषं प्रति प्रवृत्यभावः ।

  ४९८       बन्धमेक्षियोः प्रकृतिगतत्वोपपादनम् ॥





 ४९९   प्रकृतेरष्टरूपाणां बन्धमोक्षजनकत्व विभागः ।

 ५००    तत्त्वज्ञानस्य स्वरूप प्रदर्शनम् ।

 ५०७   तत्वज्ञानानन्तरमुदासीनतया प्रकृतेर्दशनम्।

 ५०९  १० तत्त्वज्ञाने सति पुम्प्रकृतिसंयोगस्य सर्गाजनकता ।

 ५११   जीवन्मुक्तस्य संस्कारशेषादव स्थानम् ।

 ५१३    परममुक्तेः प्रतिपादनम् ।

 ५१४  प्रकृतशास्त्रस्य परमर्षिपूर्वकत्वप्रतिपादनम् ।

 ५१६   प्रकृतग्रन्थस्य प्रकरणत्वनिरासः ।


इति सांख्यतत्वकौमुदीस्थन्निषयसूची समाप्ता ।




सांख्यतत्वकौमुदीदीकाया विषयक्रम-

सूची ।

 पृ.

 १३  मंगलरुप कर्तव्यत्वे प्रमाणोपन्यासः ॥

   लोहितशुक्लकृष्णामित्यत्र गौणीच पसंगेन
    तस्या अतिरिक्तवसानधम्

    गौण्याः वृत्तेर्भेदद्वयम् ।

  १० भोगपदार्थनिरूपणम् ।

 ११ १४ व्यापकयोः प्रकृतिपुरुषयोः संयौगोपादनम्।

 १५  गौतमसूत्रोक्तमिथ्याज्ञानस्य बंधजनने व्यापारविचारोप-
    न्यासपूर्वकः परिहारः ।

 १७  २१ नैयायिकसंमतस्यैकाविंशतिदुःखध्वंरूपमोक्षस्य तत्साधन-
    तत्वज्ञानस्य व्यापाराणां च खण्डनम् ।

 २२  २४ सांख्यशास्त्रस्य प्रयोजनकथनम्, अस्यान्यैरगतार्थत्वं च ।

 २५    सांख्यशब्दार्थनिरूपणम् ।

 २६    सांख्यशात्रस्य चत्वारो व्यूहाः ॥

 २८   प्रासंगिकस्तयप्प्रत्ययार्थविचारः ।

 ३०   परिणामविवर्तकाराणां लक्षणम् ।

 ३१   बंधस्य स्वाभाविकत्वागंतुकत्वविचारः।

 ३५   लौकिकस्य दुःखानिवृत्त्युपायस्य
    तत्वज्ञानापेक्षया सुकरत्वोपपादनम् ।

 ३९ ४० दुःखध्वंसे ऐकान्तिकत्वात्यन्तित्वयोर्निर्वचनम्।

 ४१  ४२ दुःखनिवृत्तेर्मोक्षत्वं निराकृत्य आनन्दरूपब्रह्म-
    प्राप्तेर्मोक्षत्वं वदतां वेदान्तिनां मतोपन्यासः॥

 ४३  ४४ सहस्रसंवत्सरपर्यन्तो याग इयत्र संवत्सरपदस्य दिवसप-
    रत्वावधारणम् ।
 ४७   ५०  वर्णानां नियत्वेन वेदस्यापि नित्यत्वसाधनम् ।

 ५४   वैधर्हिसाया आप अनिष्टसाधनत्वम् ।

 ६०   ब्रह्मचर्यादिना ब्रह्मलोकशाप्तावपि पुनरावृत्तिरेव ऋते
-     तत्त्वज्ञानात् ।

 ६७   सवादिगुणानां द्रव्यत्वमेव। गुणत्वं तूपकारकत्वात्।

 ६९  ९० आत्माश्रयान्योन्याश्रयचक्रकानवस्थाव्याघातप्रतिबन्धि-
    रूपाणां षण्णां दोषाणां मतभेदेन चिस्तरतः प्रासङ्गिको
    विचारः ।

 ९०    प्रकृतिविकारयोर्लक्षणम् ।

 ९३  १०९ दिक्कालयोरुपाध्यतिरिक्तताया विविधप्रतिवादिमतोप
-     न्यासपूर्वकं विस्तरेण खण्डनम् ।

 १११   धर्मधर्म्यभेदसाधनम् ।

 १११   समवयस्य प्रमाणलक्षणयोः खण्डनम् ।

 ११५   तत्तयक्तितादात्म्यापन्नप्रधानातिरिक्ताया जाते:खण्डनम्

 १३४   प्रमाप्रमाणयोर्निष्कृष्टं स्वरूपम् ।

 १३८  ४३ उपाधेर्निष्कृष्टं लक्षणम् ।

 १४३    उपाधेर्दृषकताबीजस्य निरूपणम् ।

 १४४   उपाध्याभासानां नवानां विस्तरशो निरूपणम् ।

 १५७   संगीतग्रहस्यानुमानपूर्वकत्वव्यवस्थापनम् ।

 १५८  ६० कार्यान्वितस्वार्थे शक्तिवादिनां प्राभाकराणां मतखण्डनम् ।

 १६१   बौद्धागमानां विगीतत्वप्रतिपादनम् ।

 १६५   जैनानां सप्तभङ्गीनयस्य मापन्यासं निराकरणम् ।

 १७१   उपमानस्य प्रमाणान्तरत्वनिरासः ।

 १७६   अर्थापत्तेः प्रमाणान्तरत्वनिरासः ।

 १७९ ८२ अनुपलब्धिसम्भवचेष्टैतिह्यानामनुमानेऽन्तभवः ।

 १८८  २०० सत्कार्यवादसिद्धिः ।

 २०२   वेदान्तिमतेन कार्यस्यानिर्वचनीयत्वसिद्धिः ।

 २०८  ११  विज्ञानवादिनो बौद्धस्य मतोपन्यासपूर्वकं खण्डनम् ।

 २२३  बाह्य वस्तुजातस्य सुखदुःखमोहात्मकत्वव्यवस्थापनम्।

 २२९ ३० व्यक्ताद्व्यक्तोत्पत्तिपक्षस्योपपादनम् ।

 २३१ ४४ अव्यक्तस्य जगदुपानस्य प्रतिवादिनिराकरणपूर्वकं
    विस्तरशः सिद्धिः ।

 २४५  माकृते सर्ने चेतनाधिष्ठानस्य न कथमप्युपयोग
    इति प्रदर्शनम्।

 २५५  संघातस्य परार्थत्वे श्रुतिबाधरूपानुकूलतर्क
    प्रदर्शनम्।

 २६१   रूपादिहीनं प्रधानमधिष्ठेयं न सम्भवतीति ब्रह्ममीमांसा
    भाष्यकृदुक्तेः खण्डनम् ।

 २६४  जन्मनो लक्षणम् ।

 २६४  बहुभिर्हेतुभिः पुरुषबहुत्वसाधनम् ।

 २६७ ७१ वेदान्तमतेन ब्रह्मसूत्राण्यालम्ब्य विस्तरेण
    पुरुषस्यैक्यसाधनम् ।

 २७९  चेतनस्य स्रष्ट्रवप्रतिपादकश्रुतेः चेतने स्रष्टुत्वोपचारेणा-
    भेदेनोपासनाया तात्पर्यकथनम् ।

 २८०  श्रुतिवेदान्तसूत्रयोः स्वाभिमतसृष्ट्रिक्रमे तात्पर्य प्रदर्शनम्।

 २८१ ९३ सर्वासूपनिषत्सु बह्मणः सृष्टिप्रतिपादकवाक्यानामद्वैते ब्रह्माणि
    तात्पर्यमिति उपक्रमादिना विस्मरतो निरूपणम् ।

 २९३  पञ्चीकरणत्रिवृत्करणयोः प्रपञ्चः।तत्र च त्रिदृत्करणे
    स्वरुचिप्रदर्शनम्।

 २९९  दिक्कालयोराकाशेऽन्तर्भावः ।

 २९९ ३०० पञ्चतन्मात्रानुमानप्रकारः ।

 ३००  अहङ्कारानुमानप्रकारः ।

 ३०१  अहङ्काररूपकायेंण महात्तत्त्वानुमानप्रणाली ।

 ३०१  महतत्वात्मक कार्यतः प्रधानानुमानम् ।

 ३०२  बुद्धेर्महच्छद्बवाच्यत्वे बीजम् ।

 ३०३  नीरूपस्यापिःपुरुषस्य प्रतिबिम्बोपपादनम् ।

 ३०४  अतिरिक्तविषयतापदार्थखण्डनम् ।
 ३०६   घटाद्याकारवृत्त्यंगीरे श्रुतिस्मृतिस्त्राणां
     प्रमाणतयोपन्यासः ।

 ३०६  निरवयवे अत्मनि संयोगासम्भवान्मनःसयोगेन
     पुरुषज्ञानोत्पत्तेर्निरासः

 ३०७  अन्योन्याभावस्य व्याप्यवृत्तितानियमखण्डनम् ।

 ३०८  "चोदनालक्षणोऽर्थों धर्म” इति सूत्रानुसारेण
    धर्मलक्षणम् ।

 ३०९  १० यागादिक्रियायाः सूक्ष्मावस्थाया एव धर्मत्वसाधनम्।

 ३११   नैयायिकानां मते यागपदार्थविचारः ।

 ३१२   याज्ञिकानां मते यजिपदार्थविचारः ।

 ३१२  १५ यागहोमयोर्भेदप्रदर्शनम् ।

 ३१६  चिन्तामणिकृन्मतेन देवतालक्षणमुपन्यस्य
    तत्प्रतिक्षेपः ।

 ३१७   ददानपदार्थविचारः ।

 ३१८ २४ स्वत्वपदार्थस्य तत्तन्मतेन चिस्तरशो विचारः।

 ३२५   अहिंसाविचारः ।

 ३२५  सत्यपदार्थनिरूपणम् ।

 ३२६   अस्तेय ब्रह्मचर्यापरिग्रहनिरूपणम्।

 ३२६   शौचादीनां नियमनां स्वरूपकीतर्त्तनम्।

 ३२६   आसननिरूपणम् ।

 ३२६  प्राणायामस्थावान्तरभेदसहितं निरूपणम् ।

 ३२८  प्रत्याहारस्वरूपकीर्तनम् ।

 ३२९  धारणाध्यानसमाधीनां परस्परव्यावृत्तं स्वरूपम् ।

 ३३०  इन्द्रियाणां ग्रहणस्वरूपास्मितान्वयार्थवत्त्वानि
    पंचरूपाणि

 ३३१  योगाङ्गानुष्ठानस्य परम्परया विवेकख्यातावुपयोग-
    प्रदर्शनम्।

 ३३१  प्रधानात्पुरुषविवेके सति बुद्धिशरीरादितोऽपि तद्विवेकः ।

 ३३२  वैराग्यस्य चतुर्णां भेदानां निरूपणम् ।

 ३३५  ऐश्वर्यभेदानां निरूपणम् ।

 ३३८   इन्द्रियाणामभौतिकत्वसिद्धिः। घ्राणेन्द्रियस्य भौतिक-
    स्वसाधकनिराकरणं च । इन्द्रियसामान्यलक्षणं च ॥





|  ३३९  चक्षुस्त्वचोस्तेजस्त्वायुवनिराकृतिः ।

 ३४०  रसनस्य जलत्वनिराकरणम् ।

 ३४०  श्रोत्रस्याऽऽकाशरूपत्वखण्डनम् ।

 ३४१   घ्राणादिधीन्द्रियाणां नासापुटादिशरीरावयव
    रूपत्वनिराकरणम् ।

 ३४३  सात्त्विकादहङ्कारादिन्द्रियोत्पत्तिरित्यत्रार्थे सूत्र
    श्रुत्योर्विरोधपरिहारः ।

 ३४५   देवतानां करणाधिष्ठातृतया शरीरे प्रवेशस्य
    श्रुत्यनुसारी विचारः ।

 ३४६  नैयायिकाभिमतस्य जीव इन्द्रियाधिष्ठातृत्वस्य निराकरणम्।

 ३४७ ५० उपनिषदि आनन्दवल्ल्यां प्रदर्शितस्य मानुषादीनामुत्तरोत्तर
    शतगुणानन्दस्यानुषपत्त्या देवतानां अस्मदिन्द्रियाधिष्ठातृत्वेऽपि
    न तद्द्वारा भोक्तृत्वमिति विचार: ।

 ३५३  दशेन्द्रियाण मनसो दशशक्तिविशेषा एवेति
    भाष्यकृन्मतोपन्यासपूर्वकं खण्डनम् ।

 ३५५  प्रसङ्गात् प्रत्यक्षलक्षणस्य न्यायसूत्रोक्तस्य
    विस्तरतः खण्डनम् ।

 ३६०  मनस इन्द्रियत्वस्य विचारः ।

 ३६१  सुखसाक्षात्कारस्य नित्यत्वोपपादनम् ।

 ३६२  अनुव्यवसायखण्डनम् ।

 ३६३  सुषुप्तौ ज्ञानसाधनम् ।

 ३६४  मुखमहमस्वाप्समिति ज्ञानस्यानुमानत्वनिराकरणैन
    स्मृतित्वसाधनम् ।

 ३६५  श्रुत्यनुसारेणापि सुषुप्तावनुभवसाधनम् ।

 ३६७  अज्ञानस्य सौषुप्तानुभवविषयत्वेन प्रतिपादनम् ।

 ३६८ ७० अज्ञानस्य अध्यासोपादानत्वसाधनम् ।

 ३६९  आत्मान्तःकरणयोरध्यासोपादानत्वनिराकरणम् ।

 ३७०  अहमज्ञ इत्यादिप्रत्यक्षेण भावरूपाज्ञानासिदिः ।

 ३७१  अहमज्ञ इति प्रयक्षस्य ज्ञानाभावादिविषयकत्व-
    निराकरणम् ।

 ३७३  साक्षिणः सिद्धिः ।

 ३७४  भावरूपाज्ञानसाधकानुमानस्य सप्रपचं विचारः

 ३७७  अर्थापत्यागमयोः तत्साधकत्वेनोपन्यामः ।

 ३७८ ८० इदं रजतमिति भ्रमस्य प्रतिभासिकरजतविषयकत्वम्
,     नेदें रजतमिति निषेत्रे च प्रतिभासिकरजतस्य
    पारमार्थिकत्वेन निषेधः ।

 ३८०  अन्यथाख्यौतेर्निरूपणम् ।

 ३८०  धीरूपस्यैव रजतस्याधीरूपत्वेन
    भानामियात्मख्यातिवादिनः खण्डनम् ।

 ३८१  भ्रमविषयरजतस्य पारमार्थिकत्वामेति
    वादिनो दिगम्बरस्य मतखण्डनम्।

 ३८१  बाधपदार्थे कतिपयविकल्पोद्भावनपुरःसरं सिद्धान्तः।

 ३८३  नामादिषु ब्रह्मदृष्टौ अध्यासलक्षणातिव्याप्तिवारणम् ।

 ३८४  अन्यस्यान्यत्रावभास इत्यध्यासलक्षणस्य सर्वमतसाधारण्यम्।

 ३८४  ज्ञानमात्रस्य भ्रमत्वमिति वादिनो बौद्धस्य मतेन
    पृवोक्तलक्षणेऽन्यस्येति व्यर्थमित्याक्षेपपुरःसरं परिहारः।

 ३८५  आत्मनः स्वयंज्योतिष्ट्वसाधनम् ।

 ३८६  भावरूपाविद्यायां श्रुतिस्मृत्योःप्रमाणतयोपन्यासः।

 ३८८ ९० आत्मनः परप्रेमास्पदत्वेन सुखरूपत्वसिद्धिः।

 ३९१  नैयायिकसंमतस्य सुखादीनामात्मगुणत्वस्यात्मनो
    मानसप्रत्यक्षविषयत्वस्य च निराकरणम् ।

 ३९१  सुखमहमस्वाप्तमिति स्मृतिसिद्धसौषुप्तानुभवस्यापि
    सुखरूपात्मविषयकत्वम् ।।

 ३९२  निर्दुःखमहमस्वाप्तमिति स्मृतिसिद्धानुभवस्योपपादनम् ।

 ३९३  मनस इन्द्रियत्वसाधनम्,प्रासङ्गिको निर्धारणषष्ठीविचारः।

 ३९५  दृश्यमानकण्ठाद्यतिरिक्तकर्मेन्द्रियसिद्धिः।
. ..  ४९७  प्राणादीनामन्तःकरणत्रयत्तित्वाङ्गीकारे
    श्रुतिविरोधपरिहारः ।

 ३९९  एकस्यामेव वृत्तौ चाक्षुषत्वस्पार्शनत्वाद्यङ्गीकारः।

 ३९९ ४०४ सांकर्यस्य जातिबाधकले विविधानि मतान्युपन्यस्य
    तत्खण्डनम् ।

 ४०८  कारकसामान्यलक्षणम् ।

 ४०९  नञ्समभिव्याहारस्थलं निङर्थकालान्वयविचारः ।

 ४१०  लडर्थविचारः ।

 ४१०  लिडर्थनिरूपणम् ।

 ४१०  लृङक्रियातिपत्तिरूपार्थस्य विविधमतैर्विचारः।

 ४१४  स्थूलशरीरस्य पांचभौतिकत्वसाधनम् ।

 ४१५  लिङ्गदेहस्य सप्तदशसमूहात्मकत्वं न तु
    अवयचित्वम्। तस्यैव च भोगायतनत्वरूपं
    मुख्यं शरीरत्वं स्थूलस्य तु तदधिष्ठानत्वाणमिति
    विचारः।

 ४२५  शरीरस्य पांचभौतिकवै सांख्यसूत्रविरोधपरिहारः।

 ४२५  लिङ्गदेहस्य परिमाणावधारणम् ।

 ४२७   वृक्षादेपि स्थूलदेहत्वप्रतिपादनम् ।

 ४३२  शरीरस्य गर्भाद्यवस्थितिदशायां तत्तदवस्थाकथनम् ।

 ८३६  विपर्ययाशक्तितुष्टिषु धर्मादिबुद्धिगतभावसप्तकस्यान्त-
    भवप्रकारः ।

 ४४१  अतुष्ठीनां भेदनवकप्रदर्शनम् ।

 ४४२  असिद्धीनां भेदाष्टकनिरूपणम् ।

 ४४९  अन्यैः कृते 'ऊहः शब्दोऽध्ययन’ मित्यादेव्याख्यानान्तरे-
    ग्रन्थकर्तुररुचिबीजप्रदर्शनम् ।

 ४५२  वृक्षादेः शरीरत्वसाधनतापूर्वकं तदवच्छेदेन धर्माद्युत्पत्तिनिवेधः।

 ४५४ ८५ आत्मख्यात्यसत्ख्यात्यन्यथाख्यात्यनिर्वचनीयख्यातीनां
    विस्तरेण निरास:।
.

 ४५४  सौत्रान्तिकसम्मताया आत्मख्यातेर्निराकरणम् ।

 ४५५  असत्ख्यातिवादिनां वैभाषिकाणां खण्डनम् ।

 ४५६  नैयायिककृतस्यासद्वैशिष्ट्यमाननिराकरणस्य खण्डनम्।

 ४५६  अमत्ख्यातिवादिमतमाश्रित्य अन्यथाख्यातिवादिनो
    नैयायिकस्य खण्डनम् ।

 ४५९ ६७ वेदान्तिसम्मताया अनिर्वचनीयख्यातेर्निरूपणम् ।

 ४५९ ६१ प्रतीतिकरजताभ्युपगमस्याऽऽवश्यकता ।

 ४६२  दध्यादिवत् शुक्तिरूप्यस्य शुक्तितात्विकपरिणाम-
    रूपत्वमिति मतनिराकरणम् ।

 ४६३  स्वाप्नपदार्थानां प्रसंगान्मिथ्यात्वसाधनम् ।

 ४६४  प्रातीतिकरजतस्याविद्योपादानकत्वसिद्धिः।

 ४६६  प्रतिबिम्बाध्यासस्य मूलाझानोपादानकत्वसिद्धिः।

 ४६७  शंखे पीतिमाद्यध्यासस्य स्वाप्नपदार्थाध्यासस्य
    च मूलाविद्योपादानकत्वसिद्धिः ।

 ४६८  अनिर्वचनीयख्यातिं निरस्य अख्यातेरेव
    स्वसिद्धान्तेऽङ्गीकार:।

 ४६९ ७० रजतादौ युगपत्प्रवृत्तिनिवृत्त्याद्यापत्तेवारणम्।

 ४७१  लाधवादिज्ञानजन्याया अन्यथाख्यातिरूपानु-
    मितेरवश्यमभ्युपगम इति मतस्य खण्डनम्।

 ४७४ ८५ मणिकारमथुरानाथविरुद्रभट्टाचार्यादिकृतानि
    विधान्यन्यथाख्यातिसाधकान्यनुमानान्युपन्यस्य
    विस्तरतस्तत्खण्डनम् ।


इति सांख्यकौमुदीटीकाया विषयसूची समाप्ता


श्रीगणेशाय नमः ॥

साङ्ख्यतत्त्वकौमुदी

तन्वविभाकरसहिता

आराध्य यं भुवि कणादविधा बुधास्ते
शून्यादिवादतिमिरार्यमणो बभूवुः ।
सृष्टिस्थितिप्रलयहेतुमनन्तमाद्यम्
तं सर्वकर्मविनियोजकमीशमीडे ॥ १ ॥

त्रिगुणगुणवितानप्रोतजीवौघनाना-
मणिगणकृतहारा वारनारीव वेशान् ॥
रचयति पतितुष्टयै कोमला याऽस्य नेषद्
दृशमपि सहतेऽजां तां स्तुमो विश्वधात्रीम् ॥ २ ॥

नत्वा श्रीगणनायकं भगवतीं वाग्देवतां बुद्धिदाम्
धृत्वा श्रीगुरुपादपद्मममलं मौलौ समस्तार्थदम् ॥
ज्ञात्वा साङ्ख्यमतं विलोड्य च कृतिं वाचस्पतेस्तत्कृतेः
व्याख्यां युक्तियुतां करोमि बुधहृत्पद्मप्रबोधप्रदाम् ॥ ३ ॥

कौमुद्या हृतसर्वसंशयतमःस्तोमान्नृलोकाद्धि ये
त्रस्ता वादिहृदन्धकारगृहसंविष्टाः कुतर्कग्रहाः ॥
तानुन्मूलायितुं कृती विबुधराड् वंशीधरः सन्मतिः
कुर्वे तत्त्वविभाकरं गुणिहितं वाद्यास्यमुद्राप्रदम् ॥ ४ ॥

कौमुद्याऽपि न संजातो येषां तत्त्वविनिश्चयः ॥
कृतस्तज्ज्ञानसिद्ध्यर्थं सांख्यतत्वविभाकरः ॥ ५ ॥

क्वाहं मन्दमतिः क्वेयं व्याख्या वाचस्पतेः कृतेः ।
तथापि ब्रह्म दधतः किमसाध्यं भवेत्मम ॥ ६ ॥

सटीकसाङ्ख्यतत्वकौमुद्याम् ।

अजामेकां लोहितशुक्लकृष्णाम्

कपिलाय नमस्तस्मै येनाविद्योदधौ जगन्निमग्ने ॥
कारुण्यात्सांख्यमयी नौरिह विहिता प्रतरणाय ॥ ७ ॥

सांख्यसिद्धान्तं सूचयन्निष्प्रत्यूहसमाप्तये कृतं मङ्गलम् “अजामेकाम्" इत्यादिवेदमेव कियद्वर्णान्यथाकारेण प्रधानस्याशा- ब्दत्वनिरासाय शिष्यशिक्षायै व्याख्यातृश्रोतृणामनुषङ्गतो मङ्गलाय च ग्रन्थादौ निबध्नाति * अजामिति ॥ अजामित्यस्य नमाम इत्यनेनान्वयः । नमाम इत्यादौ बहुवचनं गुरुशिष्यसंप्रदायापेक्षया । क्वचित्कादम्बर्यादौ मङ्गलसत्वे समाप्त्यभावोऽङ्गवैकल्यात् । क्वच्चिन्नास्तिकादिग्रन्थे मङ्गलं विनाऽपि समास्तुि जन्मान्तरीयमङ्गलादिति न व्यभिचारः ।

मङ्गलस्य निष्प्रत्यूहसमाप्तिसाधनत्वे प्रमाणं तु अविगीतशिष्टाचारानुमितश्रुतिरेव ।

केचित्तु-सर्वदा श्रुतिर्नानुमेया, किन्तु प्रत्यक्षाऽप्यासीद्, इदानीं नोपलभ्यते म्लेच्छाधिपत्यदौर्भिक्ष्यप्रमादालस्या- दिनाऽध्ययनाभावादित्याहुः ।

यतु-मङ्गलस्य समाप्तिहेतुत्वेऽविगीतशिष्टाचारानुमितश्रुतिर्न प्रमाणम्, आनुपूर्वीविशेषनिर्णयाभावेनाबोधकत्वात् । किंतूक्तव्य- भिचारसंशयस्य ग्राह्यसंशयतयाऽनुमितावप्रतिबन्धकत्वेन व्यभिचा- रनिर्णयस्य चाभावादनुमानमेव च प्रमाणम् ।

तथा हि-मङ्गलं समाप्तिफलकं तदितराफलकत्वे सति सफल- त्वात्संमतवदिति । तन्न । मङ्गलं सफलं धर्मबुद्धया शिष्टैरनुष्ठीय- मानत्वादिति विशेष्यासिध्द्युद्धारेऽपि विशेषणसिद्ध्यनुद्धारात् । न च मङ्गलं समाप्तीतराफलकं तत्कामनां विनाऽपि शिद्वैः क्रि-

यमाणत्वात्, समाप्तिकामनया क्रियमाणत्वाद्वेति वाच्यम् । स्वर्ग
मङ्गलाविचारः ।

पशुपुत्राद्यफलकत्ववदेवामुष्मिकसमाप्तिकामनां विनाऽपि शिष्टन क्रियमाणतया मङ्गलमामुष्मिकसमाप्त्यफलकं स्यात् । त था च व्यभिचारानिश्चयेनानुमित्यनुत्पत्त्यैहिकसमाप्त्यं फलकत्वापत्तेः। तृप्तिकामनया क्रियमाणोऽपि मङ्गले समाप्त्यफलकत्वसम्भववेनाप्रयोकत्वाच्च ।

यदुक्तम् अपरिचितानुपूर्वीकत्वेनाप्रमापकत्वम्, तत्रोच्यते- तदर्त्थज्ञापकत्वज्ञानस्यैव प्रमापकत्वे प्रयोजकत्वम् । आनुपूर्वीपरिचयस्य तत्रैवोपयोगात् । न चानुपूौं विना तदर्थज्ञा- पकत्वज्ञानस्यैवासंभव इति वाच्यम् । तदर्थज्ञापकत्वेनैवानुमिताग- मस्य सिद्धौ, धर्मिग्राहकमानेनैव तदर्थज्ञापकत्वसिद्धावानुपूर्वीप रिचयस्यानुपयोगात् । अधिकं त्वन्यतोऽवधेययम् ।

न च महृतां वाचस्पतिमिश्राणां श्रुतिपारङ्गतानां ख्यात्यादि- तुच्छफलकोपजीव्यमङ्गलकरणमनुचितमिति शङ्क्यम् । मोक्षज्ञानो पयोगिमननादिमुख्यप्रयोजनस्य सम्भवात् । ख्यातेर्नान्तरीयकत्वादित्यर्थः ।

न जायते इत्यजा नित्येति यावत् । नित्यत्वकथनं तु-सर्व- कारणत्वोपपत्तयेऽनवस्थाभावाय च । परमाणूनां निराकरणाय तां विशिनष्टि #एकामिति । सजातीयद्वितीयराहितामित्यर्थः ।

सर्वकारणत्वोपपत्तिरित्याशङ्क्याह # लोहितेति । सत्वरजस्तमोगु- णात्मिकामित्यर्थः । तथा च गुणानां भेदान्न दोष इत्यर्थः । लो- हितशब्दवाच्यरजोगुणस्य प्रवर्तकत्वेन प्राधान्यात्प्रथमममनिर्द्देशः ।

न च लोहितशुक्लकृष्णशब्दानां रक्तादिगुणपरत्वात्कथं तै रजोगुणादिलाभ इति वाच्यम् । रञ्जनप्रकाशावरणात्मकत्वगुण- योगेन गौण्या तल्लाभसंभवात् ।

ननु गौणी वृत्त्तिरेव न सम्भवति-तथाहि-न तावल्लक्ष्यमा
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

णगुणयोगनिमित्तत्वं गौणीत्वं लोके प्रकृते वा सम्भवति । सिंहादि निष्ठगुणानां देवदत्तादौ बाधितत्वेन योगासंभवात् । सिंहादिशब्दस्य स्वशक्यानिष्ठगुणवत्तासंबन्धेन लक्षणयैव, सिंहादिशब्देन गुणास्तैश्च देवात्तलक्षणेत्येवं लक्षितलक्षणयैव वा तद्वोधकत्वोपपत्त्या- ऽतिरिक्तगौणीष्टावृत्तिस्वीकारवैयर्थ्याच ।

एतेन-'प्रसिद्धार्थत्यागेनाप्रसिद्धगुणवाचित्वं गौणीत्वम्, सेिंहशब्दस्य प्रसिद्धसिंहत्वरूपमर्थं त्यक्त्वा देवदत्तपदसामानाधिकरण्याद्देवदत्त- निष्ठसह्यकारित्वादिगुणेष्वतिरिक्ता शक्तिः कल्प्यते । ततश्च ‘कूरो देवदत्तः’ इतिवन्मत्वर्थलक्षणया सामानाधिकरण्योपपत्तिः । गौणीपदाभिधेयत्वञ्चास्याः 'तत्र भवः' इति व्युत्पत्त्या गुणेष्वाधुनिकशक्तिकल्पनाद् द्रष्टव्यम् । अत एव शुक्लादिपदेष्वनादिशक्तिमत्सु न गौणत्वव्यवहारः । अत एव न गुणिवाचिशुक्लादिपदेष्वपि । तदर्थमाधुनिकत्वाच्यप्रसिद्धपदग्रहणम् । गुणे संकेतितेषु डित्थादिपदेष्वतिप्रसङ्गधारणाय प्रसिद्धार्थेत्यागेनेति विशेषितम् ।

अथवा ‘स्वोत्पेक्षाप्रभवारोपविषयीभूतार्थवृतित्वं गौणीत्वम् एतत्कल्पे न शब्दः स्वाभिधेयं विनाऽन्यत्र गुणादियोगमात्रेण प्रवत्तते । अतश्च वक्त्रा प्रयुज्यमानो देवदत्ते सिंहशब्दः श्रोत्रा वक्तुः प्रयोगान्यथऽनुपपत्त्या'नूनमभिधेयं सिंहत्वमारोप्यानेन प्रयुक्तः' इति कल्प्यते ॥

न च विविक्तयोरारोपानुपपत्तिः । शुक्तिकादौ रजतत्वारोपवत्, योषायां वा रेतोरूपहविःप्रक्षेपरूपहोमाधिकरणत्व- सादृश्येनाग्नित्बारोपवत्क्रूरत्वादिसादृश्येनारोपोपपत्तेः ।

नचैवं शुक्तिकादौ रजतत्वारोपेण रजतत्वादिशब्दप्रवृत्तेर्गौणत्वापत्तिः । तदारोपस्य करणदोषजन्यत्वेन स्वोत्प्रेक्षाप्रभवत्वाभावाद्-इति परास्तम् ।


आधे यत्रान्यत्र प्रसिद्धार्थकस्यैव पदस्य गुणे सांकेतिकश
मङ्गलविचारः ।

क्त्तिकल्पनं तादृशस्थले गौणत्वव्यवहाराभावादतिव्याप्तेश्च ।

द्वितीये रूपकादिकाव्ये वक्तुरारोपविवक्षया प्रयोगेणारोपिता- र्थवृत्तित्वलक्षणगौणत्वसद्भावेऽपि ‘सिंहो देवदत्तः’ इत्यादौ वक्त्रा यत्र शक्यार्थगतगुणसादृश्यमात्रविवक्षया प्रयुज्यते श्रोता च तथैव प्रतिपद्यते तत्र सर्वानुगतेन गौणत्वेनैव प्रयोगोपपत्तेरारोपकल्पने प्रमाणाभावाच्च इति चेत् ।

न । उक्तलक्षणादिना क्वचिद् बोधातुपपतौ तत्कल्पनात् ।

तथाहि-स्वशक्यसम्बन्धवत्त्वं लक्षणा, यथा 'गङ्गायां घोषः' इयत्र गङ्गापदशक्यप्रवाहसम्बन्धोऽस्ति तीरे, अतो गङ्गापदात्ती- रबोधे लक्षणा वृत्तिः । तज्ञ्ज्ञानं च गङ्गापदशक्त्यैव प्रवाहबोधे जाते ‘एकसम्बन्धिदर्शनेनापरसम्बन्धिस्मरणम्'इत्यनेन न्यायेन तत्सम्ब- न्धवत्ताबोध इत्येवंप्रकारेणैव । तत्कार्यतावच्छेदकं च तीरविशे- ष्यकगङ्गासम्बन्धितीरत्वप्रकारकशाब्दत्वम् ।

सर्वत्र हि ‘गङ्गायां घोषः’ ‘सिंहो देवदत्तः' इत्यादौ उभय त्राप्युभयविधो बोधोऽनुभवसिद्धः । कदाचिच्छक्यसम्बन्धः सम्बन्धत्वेन रूपेण भासमान एव प्रकारताघटकः । यथा ‘गङ्गा सम्बन्धितीरे घोषः’ ‘सिंहसम्बन्धी देवदत्तः’ इति । कदाचिच्च स एव सम्बन्धः शक्यसम्बन्धत्वेन रूपेण नैव भासते, अपि तु तन्निष्ठसंयोगादिना 'गङ्गानिष्टसंयोगवति तीरे घोषः'सिंहनिष्टगुण- समानजातीयगुणवान्देवदत्तः'इति । तदेवं तत्तत्प्रकारताभेदेन बोधवैलक्षण्यात्कार्यवैलक्षण्येन कारणेऽपि वैलक्षण्यमावश्यकम् ।

यद्यत्र सम्बन्धिता साक्षात्परम्परासाधारण्येन प्रकारे प्रविष्टा 'गङ्गासंबन्धिनि घोषः, गङ्गासंबन्धितीरे वा घोषः, ‘सेिंहसंबन्धी देवदत्तः' इति तदा तादृशशाब्दत्वावच्छिन्नं प्रति लक्षणापदाभिधेयः स्वशक्यसंबन्धः संबन्धत्वेन ज्ञातः कारणम् ।

अत एव यत्र ‘सिंहो देवदत्तः' इत्यादौ 'सिंहसम्बन्धिसम्बन्धी
सटीकस्साङ्ख्यतत्वकौमुद्याम् ।

देवदत्तः इत्येवं यदा वोधस्तदा लक्षितलक्षणेत्यपि द्रष्टव्यम् ।

यत्र तु स एव संबन्धो न संबन्धत्वेन रूपेण भासते अपितु तन्निष्टगुणवत्वादिना भासमान एव देवदत्तादिविशेष्यकबोधे प्रकारीभवति तत्र तादृशशाब्दत्वावच्छिन्नं प्रति गौणीपदाभिधेया स्वशक्यनिष्टगुणवत्ता तत्त्वेन ज्ञाता कारणम् । नचैवं यत्र गङ्गापदात् तीरत्वनात्रप्रकारको बोधस्तादृशस्थले वृत्तिद्वयस्यापि कार्यतावच्छेदकाभावाच्चतुर्थवृतिस्वीकारापत्तिः। तीरत्वमात्रमकारकबोधस्यानुभवपथमनारूढतयाऽलीकत्वात् । अन्यथा। समुद्रतीरे नद्यन्तरतीरे वेत्येवं संशयापत्तेः ।

स्वशक्यगुणवत्ता गौणीयत्र गुणवत्ता च कचित् तत्समानजातीयगुणवत्त्वसम्बन्धेन क्वचिदारोपेण साक्षादेव ।

तत्राद्या यथा सिंहपदस्य वाच्ये सिंहे विद्यामानैः प्रष्यकारित्वादिगुणैः समानजातीया गुणा देवदत्ते सन्तीति तत्र गौणी । ततश्च सिंहवृत्तिगुणसमानजातीयप्रकारकदेवदत्तविशेष्यकशाब्द- बोधत्वावच्छिन्नं प्रति सिंहपदशक्यवृत्तिगुणवत्ताज्ञानं कारणम् । तत्र सिंहपदोच्चारणे सति शक्त्यैव प्रतीयमानेन सिंहेन स्ववृतिगुणानाम् ‘एकसम्बन्धिस्मरणेनेतरसम्बन्धिस्मरणम्'इति न्याये नोपस्थापनातैश्च तेनैव न्यायेन तत्समानजातीयगुणवत्ताज्ञापनात् । एवंविधगुणवत्ताज्ञाने सति सिंहृपदादुक्तविधशाब्दबोधोत्पत्तौ न किञ्चिद्भाधकम् । अत एव गुणादीनामुक्तविधकार्यतावच्छेदककोटिप्रविष्टत्वादेव नाशाब्दत्वम् ।

द्वितीया तु यत्र रुपकादौ सत्यपि भेददर्शने सादृश्यमात्रेण सिंहनिष्ठसिंहत्वक्रूरत्वादि देवदत्ते वक्त्रा आरोप्य सिंहशाब्दे प्रयुक्त श्रोता तथैव प्रतिपद्यते, तत्रानुभवसिद्वारेपापह्नवे प्रमाणाभावात् । साक्षात्सम्बन्धेनैव स्वशक्यनिष्ठगुणवत्ता गौणी वृत्तिः ।

अत्र च गुणपदं समवेतमात्रपरम् । सिंहत्वादेरप्यारोपाङ्गी
मङ्गलविचारः ।

कारात् । तथाचारोपसाधारण्येन शक्यसमवेतवत्ता गौणीति । त्सज्ञ्ज्ञानकार्यतावावच्छेदकं च स्वश्क्यस्मवेतप्रकारकदेवदत्तादिविशे- ष्यकशाब्दत्वमित्यर्थः ।

नचैवं यत्र शक्यार्थस्यैवाप्रसिद्धिर्यथा खपुष्पादौ तत्र तन्निष्ठगु- णयोगाभावात् 'खपुष्पं भवत्सिद्धान्तः’ इत्यादौ तल्लक्षणस्याव्याप्त्या पत्त्तिरिति वाच्यम् । लतादौ प्रसिद्धे पुष्पे खाधिकरणकतामारोप्या- रोपिताधिकरणताकपुष्पमेव मुख्यं समासार्थमङ्गीकृत्य तन्निष्टगुणा नामलीकानां सिद्धान्तादौ सत्त्वेन गौणत्वोपपत्तेः । एवं बौद्धादि प्रयुक्तस्य 'खपुष्पमात्मा' इत्यादिवाक्यस्यापि । तमते अहंप्रत्यय- ग्राह्यस्य शरीरादेर्वस्तुतः शरीराद्यभेदेऽपि शरीरादिभिन्नत्वेन परारोपितस्यात्मशब्दार्थत्त्त्वात्तन्निष्ठगुणानामलीकानामात्मादौ सत्वेन गौणत्वोपपात्तिः ।

एवम् ‘आत्मा नास्ति’ इति बौद्धप्रयोगेऽपि प्रतियोगिप्रसिद्धिः संपादनीया ।

मधुसूदनस्वामिनस्तु-शक्यवृत्तिलक्ष्यमाणगुणसंबन्धो गौणी । यथा ‘सिंहो माणवकः’ इत्यत्र सिंहपदस्य सिंहवृत्तिशैौर्यादि- गुणलक्षणया तद्वति माणवके वृत्तिरिति । अत एव लक्षणा गौणीतो बलवती गौण्या वृत्तिद्वयात्मकत्वात् । तदुक्तम्

अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते ॥
लक्ष्यमाणगुणैर्योगाद् वृत्तेरिष्टिा तु गौणता ॥ इति ।

अत्रोपचाराख्याऽपरा जघन्या वृत्तिरित्येके । अनियतसंबन्धे- नान्यत्र वृत्तिरुपचारः । यथा ‘मञ्चाः क्रोशन्ति’इत्यादौ पुरुषैः समं मञ्चसम्वन्धोऽनियतः । गङ्गातीरयोस्तु नियत एव संबन्ध इति ।

तन्न । एवमवान्तरभेदेऽपि लक्षणायामेवावान्तरश्क्यसंबन्धस्यो- भयत्रापि तुल्यत्वात्। गौण्यास्तु वृत्तिद्वयात्मकत्वाद् न लक्षणायामन्तर्भावः ।

न च सा दृश्यसम्बन्धेन सिंहपदस्य माणवके वृत्ति
सटीकसाङ्ख्यतत्त्वकौमुद्यासू ।

बह्वीः प्रजाः सृजमानां नमामः ॥
अजा ये ता जुषमाणां भजन्ते
जहत्येनां भुक्तभोगां नुमस्नान् ॥ १ ॥

र्लक्षणैवेति सांप्रतम् । सादृश्यस्य शाब्दबोधे भानाभावप्रसङ्गात् । शक्यसम्बन्धस्य स्वोपस्थापकत्वाभावात् सम्बन्धिभानार्थमेव तस्य वृत्तित्वाभ्युपगमात् । तस्माल्लक्षणवैलक्षण्यादतिरिक्तैव वृतिर्गौणीति चतुरस्रमित्याहुः ।

तन्न । तस्या वृत्तिद्वयात्मकत्वेऽपि साक्षात्परम्परासाधारण्येन शक्यसम्बन्धवत्त्वरूपलक्षणात्वोपपत्तावतिरिक्तकल्पनासम्भवात् ।

तस्या एव कार्यमात्रकारणत्वलाभाय प्रजां विशिनष्टि *बर्ह्वारिति । प्रजायन्ते इति प्रजा महत्तत्त्वादयस्ताः सृजमानां कुर्वाणाम् । परिणामशीलेितालाभाय सृजन्तीमिति विहाय तथाभिधानम्, तल्लाभश्च “ताच्छील्यवयोवचनशक्तिषु चानश्" इति सूत्रेण चानश्- विधानात् । अजो ह्येक इति हित्वा अजा ये इति कथनं तु पुरुषव- हुत्वस्य प्रमाणसिद्धत्वाद्वेदे अज इति सामान्याभिप्रायकमिति बोधनाय । जुषमाणामिति हित्वा स्वकार्योपभोगादिभिः सेवमानापरपर्यायजुषमाणामिति कथनं तु पुरुषस्याकर्तृतातच्छेषितालाभाय । अजा ये इत्यस्य तान्नुम इत्यत्रान्वयः । विघ्नाधिकाशङ्कया मङ्गलाधिक्यामेिति ।

ननु प्रकृतेर्नमस्कार्यतावच्छेदकजगदुपादानत्वरूपसत्त्वेऽपि जीवानां तादृशरूपाभावात्कथं ते नमस्या इति चेन्न । तेषामपि भोक्तृत्वेन प्रकृतिं प्रति शेषित्वस्य तादृशस्य सत्त्वात् । तान्नुम इत्यत्र स्वावधिकोत्कर्षवत्तया ज्ञापनं नमस्कारः स एव नम्धात्वर्थः । तदेकदेशज्ञानान्वयिविषयित्वं द्वितीयार्थः । तथाच ग्रन्थकृदवधि-

कोत्कर्षवत्तया तादृशाजविषयकज्ञानानुलकूव्यापारवान्ग्रन्थकर्तेत्यन्वयबोधः ।
भोगपदार्थनिर्वचनम् ।

तेषां स्वापेक्षयोत्कर्षवत्वसुपपादयितुं यत्पदार्थं विशिनष्टिः

  • जहर्तीत्यादिना । भुक्तो भोगो यया मा भुक्तभोगा ताम्, इत्यत्र ।

कर्तृत्वं तृतीयार्थः । भोगः सुखादिग्रहणम् । ग्रहणं च तदाकारता । सा च कूटस्थचितौ बुद्धेरर्थकारवत्परिणामो न सम्भवतीत्यगत्या प्रतिबिम्बरूपतायां पर्यवस्यति । तथाच सुखादिरूपबुद्धिवृत्तिप्रतिविम्बः कूटस्थचितौ भोगः । तस्मिन् भुक्त्वत्म् अतीतकालोत्पत्तिकत्वम्, अत्रत्यधात्वर्थस्य भोगपदेनैव लाभे विवक्षाऽसम्भवात् । तथाच अतीतकालोत्पत्तिकोक्तभोगानुकूलसुखादिपरिणामवतीमित्यर्थः ।


ननु चिन्निष्टसुखादिप्रतिबिम्बस्य भोगत्वे 'चिदवसानो- भोगः’ इति ( सां० सू० अ० १ सू० १०४ ) सूत्रविरोधः । सूत्रं तु-पुरुषरूपे चैतन्ये पर्यवसानं समाप्तिः, विचार्यमाणे तद्रूपता यस्य सः; अवसानपदेन परिणामित्वरूपधर्मादिनिरासः, इत्येवं व्याख्येयमिति चेत्, न । सुखाद्युपरक्तवृत्तिप्रति- बिम्बावच्छिन्नस्वरूपचेतन्यरूपभावस्य सुखादिप्रतिबिम्ब- च्छिन्नस्वरूपचैतन्यरूपभानस्य वा भोगपदेन विवक्षितत्वात् । अत एव पुरुषस्वरूपत्वेन तस्य नित्यत्वंऽपि अवच्छिन्नरूपेण कार्यतया प्रकृतेस्तत्कर्तृत्वोपपत्तिः । एवं पुरुपस्य बुद्धिगत- प्रतिबिम्बेन भास्यमानसुखाद्याश्रयत्वरूपभोक्तृत्वोपपत्तिरपि ।

यत्तु- भोगः सुखदुःखे । तथा च भुक्तः साअक्षात्कृतः, अतीत- कालोत्त्पत्तिकसाक्षात्कारविषयः भोगः सुखदुःखे यस्या यस्यां वा सा । अस्मिन्पक्षे ‘ज्ञातो घटः’ ‘कृतो घटः' इत्यादि वद्भोगे भुजिधातुकर्मत्वलाभेन भुजिधातोर्नानर्थकत्वमिति । तन्न । त्वन्मते भुजेः साक्षात्कारार्थत्वाभावात्, उक्तसूत्रविरोधाच्च । ‘सर्वं प्रत्युपभोगशम्’ (सां० का० ३७) इत्यादौ वक्ष्यमांण- 'सुखदुःखानुभवो हि भोगः' इति मिश्रोक्तिविरोधाच्च ।

'सुखं दुःखं विषयान्वा भुञ्जे' इत्यादिसर्वजनीनानुभवविरोधाच्च ।
१०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

‘ज्ञातो घटः" इत्यादिवत्कर्तृसाकाङ्कतया प्रकारान्तरेण विग्रहानुपपत्तेश्च । सुखादेसाक्षात्कारस्य स्वप्रतिबिम्बविशिष्टनित्यसाक्षिचैतन्यरूपतया: नाशाभावे संस्काराभावेन सुखादिस्मरणानुपपत्तिरिति न च वाच्यम् । सुखाद्याकारकृत्तिप्रतिबिम्बाङ्गीकारपक्षे दोषाभावात् । न चास्मिन्पक्षेऽपि अनवस्थापत्त्या वृत्तेवृत्त्यन्तरानभ्युपगमेन तदीयस्मरणानुपपत्तिरिति वाच्यम् । ‘यद्वृत्त्यवच्छिन्नचैतन्येन यत् प्रकाश्यते तद्वृत्त्या तद्गोचरसंस्काराधानम्'इति नियमाभ्युपगमात् । वृतिं विनाऽपि द्वितीयपक्षे स्मरणस्य व्युत्पादितत्वाच्च ।

तथाहि-प्रमात्वावच्छिन्नं प्रत्येवान्तःकरणस्य परिणामित्वाङ्गीकारेण जाग्रत्स्वप्नभ्रमविषयस्मरणानुपपत्तिनिरासाय यद्वृत्त्यवच्छिन्नत्वाद्यपेक्षया- लाधवात् ‘यदवच्छिन्नचैतन्ये यद् अवभासते तत्सूक्षमावस्था एव तत्संस्कारः’ इत्येव नियमः कल्प्यते, तेनैव जाग्रदादिभ्रमे स्वविषयसूक्ष्मावस्था- रूपसंस्कारात् सुषुप्तौ सूक्ष्ममनोऽवच्छिन्नचिद्भास्याविद्यादेः सूक्ष्ममनोनाशरूपस्थूलावस्थारूपसंस्कारात्स्मृतिसम्भवः । न च समानविषयकत्वनेियमभङ्ग इति वाच्यम् । पूर्वनियमवादिनोऽप्येतद्दोषसत्त्वात् । न च समानविषयकत्व नियमरक्षणाय वृत्तेरपि स्वविषयकत्वमङ्गीकृत्य जाग्रदूमस्थ- लेऽन्तःकरणस्य, स्वप्नसुषुप्त्योरविद्यायाः, सर्वत्र भ्रमेऽविद्याया एव वा वृत्तिस्वीकुर्मे इति वाच्यम् । असम्भवात् । तथाहि-च क्षुरादेः पुरोवर्तिविद्यमानवस्तुविषयकान्तःकरणवृत्युत्पादकत्वात् जाग्रद्भ्रमस्थलेऽन्तःकरणवृत्यसम्भवः । रजतोत्पत्त्यनन्तरं वृत्त्यभ्युपगमे प्रवृत्तौ द्वित्रिक्षणविलम्वापत्तिः । ज्ञानाज्ञानयोरेकावच्छेदेन चिद्विषयतानियमाय ज्ञानीयविषयतावच्छेदकतासम्बन्धेन ज्ञानंप्रति स्वीयविषयतावच्छेदकतासम्बन्धेना- ज्ञानस्य हेतुत्वं वाच्यम् । तच न सम्भवति । पश्चाद्भाविनः स्वीयकार्यस्य शुक्तिरजतादेः

स्वीयविषयतावच्छेदकत्वासम्भवादिति ।
११
प्रकृतिपुरुषसंयोगसम्भवः ।

'सुखादिगतप्रतिबिम्बत्वं भोगत्वम्' इति पक्षे तु प्रतिबिम्ब- स्यानित्यत्वान्न स्मृत्यनुपपत्तिः । पक्षोऽयम् “अध्यवसायो बुद्धिः” (सां० त० कौ० का० २३) इत्यत्र व्युन्पादयिष्यते ।

भुक्तभोगामिति विशेषणेन हेयत्वे दुःखसम्बन्धप्रयोजकत्वरूषं बीजं सूचितम् । अत एव जहतीत्युक्तम् । जहति त्यजन्ति । उक्तदुःखजनकसंयोगविरोधिाविभागानुकूलव्यापारवन्त इत्यर्थः । अत्र व्यापारस्तु सत्त्वपुरुषान्यताख्यातिरूपः ।


ननु प्रकृतिपुरुषयोरपरिचच्छिन्नतया नित्यत्वेन च संयोगासम्भवः तत्सम्भवेऽपि मुक्तामुक्तपुरुषसाधरणतया कथं बन्धहेतुत्वम्, कथं वा तस्य निवृतिः , सम्बन्धिनोर्नित्यत्वे तस्यापि नि त्यत्वादिति चेत्, न । प्रकृतेः परिच्छिन्नापरिच्छिन्नत्रिविधगुणसमु- दायरूपतया परिच्छिन्नगुणावच्छेदेन पुरुषसंयोगोत्त्पत्तिसम्भवात् । स्वस्वबुद्धिभावापन्नप्रकृतिसंयोगविशेषस्यैवात्र संयोगशब्दार्थत्वाच्च ।

वैशेषिकादिवदेव भोगजनकतावच्छेदकत्वेन सिद्धस्यान्तःकरणसंयोगे वैजात्यस्याङ्गीकार्रेण च सुषुप्त्यादौ न बन्धप्रसङ्गः । पुरुषम्य बुद्धौ स्वत्वं च स्वभुक्तवृत्तिवासनावत्त्वम्। तच्चानादि । तादृशसंयोगश्चाविवे- कहेतुकः, अविवेकस्तु मुक्त्तेषु नास्तीति न पुनस्तेषां संयोगभावना, नवा संयोगस्य नित्यत्वम् ।

न चाजसंयेोग मानाभाव इति वाच्यम्। आकाशादिकमात्मना संयुज्यते संयोगित्वात् घटवदित्यस्यैव मानत्वात् । नच मूर्त्तत्वा- दिरत्रोपाधिः । व्यतिरेकासिद्धेः । यदमूर्तं तदात्मना न संयुज्यते यथा रूपमिति व्यतिरेकस्तत्र चासंयोगित्वस्यैवोपाधितया व्यतिरे- कासिद्धेः । मूर्त्तत्वं चावच्छिन्नपरिमाणाधिकरणत्वम् । ततश्च परि- माणाधिकरणत्वेनैव व्याप्तिसिद्धेरवच्छिन्नविशेषणस्य पक्षमात्र व्यावृत्तिप्रयेोजनस्य पक्षेतरंता ।

न चान्यतरकर्मोभयकर्मसंयोगरूपकारणत्रितयजन्यत्वं संयो
१२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

गस्य गृहीतम्, तच्च व्यावर्त्तमानं तस्य संयोगत्वमपि व्यावर्तयतीति वाच्यम् । कारणबहुत्वकारणमहत्वप्रचयविशेषरूपत्रितयकारणज्न्यत्वं गहत्वस्य गृहीतं, तेनात्मादिषु व्यावर्त्तेनानेन महत्वस्यापि व्याहृत्त्वाप्त्तेश्च । ज्ञानस्यास्मदादिशरीरेन्द्रियादिजन्यत्वनियमेनेश्वरस्य शरीरादिनिवृत्त्या तन्निवृत्त्पयात्तेश्च । ज्ञानस्यास्मदादिशरीरेन्द्रियादिजन्यत्वानियमेने श्वरस्य शरीरादिनिष्ठत्या तन्निदृत्यापत्तश्च ।

नच प्रकृतिपुरुषयोस्संयोगाङ्गीकारे पुरुषस्य प्रकृतिवत् परेिणाम- सङ्गौ प्रसज्जेयाताम्, संयोगस्योभयपरीणामरूपत्वादिति वाच्यम् । सामान्यगुणातिरिक्तधर्मस्यैव परिणामत्वात् । अन्यथा कूटस्थस्य सर्वमूर्तसंयोगित्स्वरूपविभुत्वानुपपत्तेः । परिणामहेतुसम्बन्धस्यैव सङ्गशब्दार्थत्वे द्वितीयदोषाभावात् । अन्यथा पुरुषासङ्गतायां पद्मपत्र- स्थलजलेन पत्रासङ्गतया दृष्टान्तत्वानुपपत्तेः । नन्वविवेकोऽत्र न प्रकृतिपुरुषाभेदसाक्षात्कारः, संयोगात्प्रागसत्त्वात् । नापि विवेकप्रागभावः, जीवन्मुक्तस्यापि भाविविवेकव्यक्तिमागभावेन धर्मार्धर्मोत्पत्तिद्वारा पुनर्बन्धप्रसङ्गात्। किंतु “अहमज्ञः' इत्यादि- ज्ञानवासनारूपो वाच्यः, स च बुद्धिधमेस्तेनान्यत्र संयोगजनने मुक्तेऽपि तज्जननापत्तिरिति चेत्,न । स्वस्वबुद्धिभावापन्नमकृतिवृत्यगृहीतासंसर्गको- क्तप्रकृतिपुरुषोभयविषयकबुद्धिवृत्तिरूपज्ञानवासनारूपस्याविवेकस्य प्रतिबिम्बरूपविषयतासम्बन्धेन पुरुषधर्मत्वात् । मुक्तपुरुषेषु साक्षात्कारेण नष्टस्य प्रतिबिम्बासम्भवेन न संयोगोत्पात्तिः । नच सत्कायवादे निरन्वयनाशानभ्युपगमेन पुनः स्वस्वबुद्धिभावा- पन्नप्रकृत्युत्पत्त्या तदुत्पतेरावश्यकत्वादुक्तदोषतादवस्थ्यमिति वाच्यम् । मूलप्रकृतेर्नित्यत्वेऽप्युक्तावस्था रूपपरिणामस्य निरन्वयनाशाभ्युपगमात् । पुनस्तदुत्पत्त्यभावान्न सत्कार्यवादहानिरपि । न चोक्ताविवेकस्य प्रकृतिकार्यबुद्धिपुरुषाविवेकरूपत्वेन मूलप्रकृतिपुरुष

संयोगाजनकत्वादगृहीतासंसर्ग
१३
अविवेकस्य साक्षाद्ब्न्धाहेतुना ।

कस्वप्रकृतिपुरुषोभयाविषयकबुद्धिवृत्तिरूपज्ञानवासनारूपस्याविवे- कस्यावश्यकत्वे बुद्धिभावापन्नेति विशेषणं व्यर्थमिति वाच्यम् । भवदुक्ताविवेकस्य मुख्यत्वेऽपि साक्षादवन्धकतया तदाकाङ्क्षित- द्वारलाभायोक्तविशेषणस्य सार्थकत्वात् ।

न च विवेकस्य संयोगहेतुत्वे मानाभाव इति वाच्यम् ।
पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् ।
कारणं गुणसङ्गोऽस्य सदसव्द्याक्तियोनिषु(१)॥ (गी०)

इत्यस्यप्रकृतिस्थः प्रकृतिसंयुक्तः प्रकृतिस्थताख्यसंयोगवानित्यर्थः ।
अस्य-विशेषणीभूतसंयोगस्य, गुणसङ्गो गुणाभिमानोऽविवेकाख्यः
कारणं निमित्तम् इत्यर्थकभगवद्वचनस्य मानत्वात् ।

नचाविवेकस्यसाक्षादेव हेतुत्वमस्तु किमन्तर्गडुना संयोगेनेति? । “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः” इत्यादिश्रुतिविरोधापत्तेः । आत्मन्द्रियेत्यत्रात्मपदं शरीरपरं प्रकरणात् । आत्मानमिति द्वितीयान्तं पद्मात्मेन्द्रियमनोयुक्तमितिद्वितीयान्तपदविशेष्यत्वेन प्रकरणसामर्थ्याद्योग्यतयाऽनुषज्यते । एवं चात्मेन्द्रियमनो- युक्तमितिपदमात्मानमित्यस्य द्वितीयान्तं पुंल्लिङ्गं विशेषणम् । तथाच मनीषिणः शरीरेन्द्रियमनोभिर्युक्तं विशिष्टमात्मानं भोक्तेत्या- हुरित्यन्वयः । एतदभिप्रायेणैव “आत्मेन्द्रिमनोयुक्तं शरीरेन्द्रियम- नोभिस्सहितं युक्तमात्मानं भोक्ता संसारी इत्याहुः" इति कठभाष्ये भगवच्छङ्कराचार्य्यैरुक्तम् । आत्मा भोक्तेत्युक्ते भोक्तृत्वं स्वाभाविकमित्येव भ्रमः स्यात्तद्वारणायात्मेन्द्रियमनोयुक्तमित्युपात्तम् ।

केचित्तु–“आत्मानं रथिनम्इ" इत्यत्रेोपात्तमात्मस्वरूपं परिशो- धयितुं दर्शयति आत्मेति । मनीषिणः इन्द्रियमनोयुक्तं यथा स्यात्तथा भोक्ता आत्मा भवतीत्याहुारित्यन्वयः ।

यद्वा-आत्मानमित्यत्रापात्तस्यात्मनः पारशाधनाय काश्चिद्गु


(१) गीतायां सद्सद्योनिजन्मसु इति पाठः ।
१४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

णं दर्शयति आत्मेति । मनीषिण आत्मा इन्द्रियमनोयुक्तं यथा स्यात्तथा भोक्ता भवतीयाहुरित्यन्वय इत्याहुः ।

अत्र विचारयामः-प्रथमव्याख्याने भोक्तोद्देश्य आत्मा विधेयः । द्वितीयव्याख्याने आत्मोद्देश्यो भोक्ता विधेयः । एवं च प्रथमव्याख्याने विधेयस्यात्मेतिपदस्य पश्चान्निर्देशार्हस्य परिदृश्यमानः प्रथमनिर्देशोऽसङ्गतः स्यात् । जाग्रदवस्थस्यैवात्मत्वोपवर्णनेन स्वप्नसुषुप्त्यवस्थापन्नयोस्तैजसप्राज्ञयोरप्यात्मत्वेन नि रूपणीययोरग्रहणापत्तिश्च । न च जाग्रदवस्थापन्न एवात्र निरूपणीयः । स्वप्नाद्यवस्थापन्नस्यानात्मत्वापत्त्याऽवस्थात्रयानुस्यूतत्वनात्मनो बोधकस्याप्रामाण्यापत्तेः ।

द्वितीयव्याख्याने जाग्रदवस्थापन्नस्यैव भोक्तृत्वं स्यान्न तु स्वप्नसुषुप्यवस्थापन्नयोः । तयोरनङ्गीकारे “घ्नन्तीव जिनन्ती वानन्दभुक्" इत्यादेरप्रामाण्यापत्तेः ।

न च भगवच्छङ्कराचार्यमतेऽपि शरीरेन्द्रियमनोभिर्विनाऽपि स्वप्नसुषुप्त्यवस्स्थापन्नयोर्भोक्तृत्वसत्त्वेन त्तेषामपि भोक्तृत्वव्व्याप्याप्यत्वे सति व्यापकत्वरूपभोक्तृत्वप्रयोजकत्वं न सम्भवतीति वाच्यम् । औदासीन्यादिदशायां भोक्तृत्वापत्तिवारणायात्मेत्यादेर्यथासम्भवं कर्माविद्यावासनादेरुपलक्षणपरत्वात् । न च परमतेऽपि यथासम्भवमुपलक्षणपरत्वम् । स्थूलदेहं विना इन्द्रियमनसोः स त्वे भोगानुत्पत्त्या स्थूलदेहस्य प्रधानत्वेन तदघटितस्योपलक्षण- त्वासम्भवात् । न ह्यप्रधानस्योपलक्षणत्वं सचेतनोऽनुमनुते । न चानुषङ्गं विनोपपत्तावनुषङ्गकल्पनादोषः । अनुपपत्तेरुक्तत्वात् । “आत्मानं रथिनम्' इत्युपात्तात्मनः स्वभावतः शुद्धाशुद्धविलक्षणरूपेण विशेषणीयतयाऽनुषङ्गावश्यकत्वाच्च ।

अविवेकस्य बन्धनजनने द्वारजातमुक्तमक्षचरणसूत्रे–

“दुःखजन्ममवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावाद
१५
अविवेकस्य बन्धजनने गौतमोक्तद्धारजातविषयकवि०

पवर्ग:'इति (न्या० सू० अ० १ आ० १ सू० २) सूत्रं तु तेषु जन्मा- दिषु मध्ये उत्तरोत्तराणामपाये तदनन्तराभावादव्यवहितपूर्वाभावात् अपवर्गः आत्यन्ति की दुःखनिवृत्तिः । तथाच न्यायसूत्रम्‘बाधनालक्षणं दुःखं तदत्यन्तविमोक्षोऽपवर्गः'इति । (न्या०सू० अ० १ आ० १ आ सू० २१-२२) दुःखानि-शरीरम्, षडूइन्द्रियाणि, षडू विषयाः, षड् बुद्धयः, सुखम्, दुःखं चेत्येकविंशतिः । तत्र दुःखत्वजातिशून्ये शरीरादौ दुःखसाधनतया गौणं दुःखत्वम् । स्वर्गादि सुखस्यापि तन्नाशज्ञानेन दुःखसाधनत्वमव्यावृत्तमेव । न चैक- विंशतिदुःखान्तर्गतयोर्मनःश्रवणयोर्नित्यत्वात्कथंनाश इति वाच्यम्। तद्रूपविशिष्टस्य श्रवणस्य ज्ञानद्वारा दुःखहेतुतया दुःखत्वम् । तदूपस्य कर्णशष्कुल्या नाशेन विशिष्टश्रवणेन्द्रियरूपदुःखनाशात् । एवमात्मसंयोगरूपव्यापारविशिष्टस्यैव मनसो ज्ञानद्वारा दुःखरूपतया व्यापारनाशेन तद्विशिष्टमनोरूपदुःखनाशसम्भवादिति । दुःखनिवृत्तावात्यन्तिकत्वं च स्वसमानाधिकरणदुःखासमानकालीनत्वमिति परिष्कुर्वन्ति न्यायाचार्या उद्द्योतकरादयः ।

अत्र विचारयामः-षडिन्द्रियाणि षड्विषया इति यत्, तन्न । घ्राणरसनचक्षुस्त्वक्श्रोत्राणीन्द्रियाणि भूतेभ्यः गन्धरसरूपस्पर्श शब्दाः पृथिव्यादिगुणास्तदर्थाः स्थानान्यत्वे नानात्वादवयविना नास्थानत्वाञ्च संशयः । ‘गन्धरसरूपस्पर्शशब्दानां स्पर्शपर्यन्ताः पृथिव्या' इत्यादिविभागपरीक्षासूत्रविरोधात् । न च ‘परमतमप्रति- षिद्धमनुमतं भवति'इति न्यायान्नाद्यदोष इति वाच्यम् । परीक्षाविरोधेनाप्रतिषिद्धत्वाभावात् । परीक्षावैयथ्र्यापत्तेश्च । जायादीनां विषयत्ववारणायानितरेतरसाधनसाध्यत्वमेकैकेन्द्रियग्राह्यत्वापरर्यायं विषयत्वं वक्तव्यम्, षण्णां बुद्धीनां सुखदुःखयोश्व मनोरूपैकेन्द्रिय- ग्राह्यत्वाद्विषयपदेनैव लाभे तेषां पृथग्ग्रहणं व्यर्थम् । जायादेरपि

सुखादिवत् दुःखसाधनत्वात् विषयप
१६
सटीकस्साङ्ख्यतत्वकौमुद्याम् ।

दस्य विशेपपरत्वे युक्त्यभावाच ।

एतेन-यद्यपि बुद्धिसुखदुःखान्यपि मनसो विषयास्तथापि तस्यैव विषयत्वेन दुःखत्वोपचारो यद् विषयीक्रियमाणं दुःखं जनयति । तथाच एकैकेन्द्रियग्राह्यत्वे सति ज्ञायमानत्वेन दुःखसाधनत्वं विषयत्वमित्युक्ते बुद्ध्यादेर्विषयत्वनिरासः-इति परास्तम् । जायादेर्नाशासत्त्वेऽपि तन्नाशज्ञानाज् जायारूपादेर्दुःखोत्पत्त्या ज्ञायमानत्वेन हेतुत्वाभावाञ्च ।


एतेन-बुद्धिसुखदुःखानि न मनसो विषयः ज्ञायमानत्वेन दुः खाजनकत्वात् किन्तु इच्छाद्वेषप्रयत्ना एव, ज्ञायमानत्वेन दुःखजनकत्वात्-इति परास्तम् ।

न चैकैकेन्द्रियग्राह्यत्वे सति यद्विषयकज्ञानं दुःखजनकं तत्त्वं विषयत्वम्, बुद्धिसुखदुःखानि तु न तादृशानीति वाच्यम् । वि षयपदस्य विशेषपरत्वे युक्तयभावरूपदोषानिवृत्तेः । ‘कमणेव हि संसिद्विमास्थिता जनकादयः'इत्यादिवाक्यजन्या साक्षान्मोक्षजनके कर्मणि साक्षान्मोक्षजनकत्वबुद्धिरिति ज्ञात्वा जातिस्मरो दुःखायते मोक्षालाभात्, शत्रौ मित्रबुद्धिजतेति ज्ञात्वा यथाऽन्य इति । शत्रुपुत्रगतयोः सुखदुःखयोर्ज्ञायमानयोर्दुःखजनकत्वेन च बुद्ध्यादेरपि मनोविषयत्वस्य दुर्वारत्वाञ्च ।

नच सर्वत्र बुद्ध्यादेर्न तथात्वमिति वाच्यम् । पिपासादेः कचित्स्वरूपसत्तया ते हेतुतया सर्वत्रातथात्वात् । नचोक्तभ्र- मादिस्थले बुद्ध्यादिज्ञानेऽपि कर्मसत्त्वादिज्ञानस्यावश्यकत्वात्तस्यैव दुःखहेतुत्वं न तु बुद्ध्यादिज्ञानस्येति वाच्यम् । केवलकर्मादिज्ञा- नसत्त्वेऽपि दुःखानुत्पत्त्या तथा वक्तुमशक्यत्वात् । शत्रुमित्रस्गत- सुखदुःखयोर्मनोविषयत्वापत्त्यदुद्धाराज्न्च ।

यत्तु रागद्वेषमोहप्रवृत्तिधर्माधर्माणां दुःखहेतुत्वेऽपि तत्परित्यागे

बीजं शरीरादिव्यतिरेकेणात्मलाभाभावो दुःखं प्रति
१७
मोक्षे गौतमीयानां विप्रतिपत्तिपूर्वको निरासः ।

व्यापाराभावश्चेति तन्न । शरीरं विना इन्द्रियादेरप्यात्मलाभा द्यभावेनाग्रहणापत्त्तेः । सर्वेषामितरेतराधीनतया विनिगमनावि रहेण सर्वेषां ग्रहणापत्तेश्च ।

यत्तु-मिथ्याज्ञानम् “आत्मशरीरेन्द्रियार्थबुद्धिमनः प्रवृत्तिदोष- प्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम्”(न्या.सू.अ.१ आ.१सू.९) इति । मोक्षोपयोगिद्वादशाविधप्रमेयेषु मुख्ये आत्मनि ‘नास्ति, क्षणिकविज्ञानमात्मा' इत्यादि, अमुख्ये च शरीराद्ये ‘शरीरमात्मा'इत्याद्यनेकविधम् । तद्विरोधि तत्त्वज्ञानं च “इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्यात्मनो लिङ्ग' ( न्या.सू.अ.१ आ १ म्.१७) इति सूत्रोक्तवेि शेषगुणलिङ्गकशरीररादिभेदविशिष्टात्मविषयकज्ञानम्, तेन मिथ्याज्ञानं निवर्त्यते, मिथ्याज्ञानाभावे “प्रवर्त्तनालक्षणा दोषाः” (न्या- सू.अ.? आ.१ सू.१८) “तत्रैराश्यं रागद्वेमोहार्थान्तरभावात्"; (न्या.सू.अ.४ आ.१ सू,३) इति सूत्रोक्ता रागद्वेषमोहाख्या दोषा निवर्तन्ते । ये तावदनुत्पन्ना रागादयस्ते कारणाभावादेव मा भूवन्, उत्पन्नानां च वैराग्यान्निवृत्तिः । दोषाभावे “प्रवृत्ति- र्वाग्बुद्धिशरीरारम्भः” (न्या.सू.अ.१ आ.१ सू.१७) इति सूत्रोक्ता निवर्तते । सा च जन्महेतुधर्माधर्मरूपा । यौ वाऽनागतौ धर्माधर्मो, तौ कारणाभावान्नोत्पद्येते, वर्तमानौ स्वकार्येण निवर्त्यते । प्रवृत्त्यभावे जन्माभावः, यद् अन्यच्छरीरं तद् न भवति, नतु वर्तमानं न भवतीति । वर्त्तमानशरीरस्य निवृत्तिस्तु तदवस्थिति- हेतुधर्माधर्मसंस्कारानिवृत्या । जन्माभावे दुःखाभावः, निरायत- नस्यानुत्पतेः। यद्यपि दुःखाभावान्नापवर्गः किं तु स एव, तथाऽप्य- भेद एव तत्र पञ्चम्यर्थे इति ।

तत्र विचारयामः-आत्मगुणानां नित्यत्वे सुखादिसत्वेनानि- र्मोक्षप्रसङ्गः, अनित्यत्वे ‘शरीरादिभेिन्नो जन्यज्ञानेच्छादि-

मानात्मा'इत्यादिरूपयथार्थज्ञानेन मिथ्याज्ञाननिवृत्तावपि न तान्नि
१८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

वृत्या रागनिवृत्तिः सम्भवति, मिथ्याज्ञानस्य तद्वासनाया वा रागाद्यप्रयोजकत्वात्, ज्ञानिनोऽपि रागादिदर्शनाञ्च ।

किञ्च “तत्रैराश्यम्' तेषां दोषाणां त्रयो राशयस्त्रयः पक्षा: अन्ये मायादयोऽन्तर्भवन्ति तदात्मानो भवन्तीति सूत्रार्थः ।

तत्र रागपक्षः-कामो मत्सरः स्पृहा तृष्णा लोभो माया दम्भ इति । कामः-रिरंसा। मत्सरः-स्वप्रयोजनप्रतिसंधानं विना पराभि- मतनिवारणेच्छा, एवं परगुणनिराकरणेच्छाऽपि । स्पृहा धर्माविरोधेन प्राप्तीच्छा ! तृष्णा ‘इदं मे न क्षीयताम्'इतीच्छा । उचित व्ययीकरणेनापि धनरक्षणेच्छारूपं कार्पण्यमपि तृष्णाभेद एव । धर्मविरोधेन परद्रव्येच्छा लोभः । परवश्वनेच्छा माया । कपटेन धर्मिकत्वादिना स्व्सोत्कर्षख्यापनेच्छा दम्भः ।

द्वेषपक्षः-क्रोध ईष्यऽसूया द्रोहो ऽमर्षोंऽवमान इति । क्रोधी नेत्रलौहित्यादिहेतुर्दोषविशेषः । ईष्र्या साधारणे वस्तुनि पर- सत्त्वात्तद्ग्रहीतरि द्वेषः । यथा दायादादीनाम् । असूया परगुणादौ द्वेषः । द्रोहो नाशाय द्वेषः । हिंसा तु द्रोहजन्या । अमर्षः कृतापराधेऽसमर्थस्य द्वेषः । अवमानोऽपकारिण्यकिञ्चित्करस्यात्मनि द्वेष ।

मोहपक्षः-विपर्ययसंशयतर्कमानप्रमादभयशोकाः । विपर्ययो- मिथ्याज्ञानापरपर्यायोऽयथार्थनिश्चयः । संशयोऽनिर्धारणात्मा, स एव विचिकित्सेत्युच्यते । व्याप्यारोपेण व्यापकप्रसञ्जनं तर्कः । आत्मन्यविद्यमानगुणारोपेणोत्कर्षधीर्मानः । गुणवति निर्गुणत्वधी- रूपस्मयोऽपि मानेऽन्तर्भवति । प्रमादः पूर्वं कर्तव्यतया निश्चितेऽप्य- कर्तव्यताधीः । भयम् अनिष्टहेतूपनिपाते तत्परित्यागानर्हताज्ञानम् । शोक इष्टवियोगेन तल्लाभानर्हताज्ञानामिति-

दोषराशिमध्ये मिथ्याज्ञानरूपमोहस्यापि गणनया मोहनिवृत्त्या मोहो निवर्तते इत्युक्तं स्यात्, तञ्चासङ्गतम् । आत्माश्रयात् ।

यच्च रागाद्यभावे धर्मोद्यनुपत्तिः, तन्न । रागं विनाऽपि गङ्गा
१९
मोक्षे गौतमीयानां विप्रतिपात्तिपूर्वको निरासः ।

जलसंयोगादिना धर्मोत्पत्तेः । नित्याकरणे अधर्मोत्पत्तेश्च । एतेन यद्यपवर्गस्तत्त्वज्ञानानन्तरं तर्हि सम्प्रदायोच्छेदो वातपुत्रीयत्ता च शास्त्रस्य स्यात्, तद्वारणायोपात्तधमाधमेप्रचयस्याभुक्तस्य भुज्यमानस्य वा यावत्सत्त्वं तावद्धर्माधर्मानुत्स्पादरूपजीवन्मुक्त्तिः, तदनन्तरमुक्तविदेहकैवल्यरूपा मुक्तिरभ्युपेयते इति-परास्तम् ।

ननु श्रवणमननावधृतात्मतत्त्वस्यात्प्रानं पूर्ववदेव दिङ्मोहादिवत् विपर्ययवासनानुवृत्तेरतो 'निदिध्यासनजन्यसाक्षात्कार एव विपर्य यनिवर्तकः, तद्वासना तद्वासनानिवर्तिका'इत्युपेयते, एवं च ‘क्षीयन्ते कास्यकर्मणि तस्मिन्द्ऱुष्टे परावरं "" ज्ञानाग्न्निः सर्वकर्मणी भस्मसात्कुरुतो़्ऽर्जुन' इत्यादिश्रुतिस्प्रृत्यावराधाय प्रायांश्चत्तनव ज्ञाननादत्तफलानां कर्मणामवश्यनाशे सहसैव विदेहमुक्तिरुपेयते, नतु जीवन्मुक्तिः, उक्तश्रुत्यादिविरोधात्। न च ‘नाभुक्तं क्षीयते कर्म कल्प कोटिशतैरपि’ इति स्मृतिविरोध इति वाच्यम् । ज्ञानाग्निं विना न क्षीयत इत्यत्र तात्पर्यात् । न च सम्प्रदायविच्छेदादिदोषः । अन्विक्षिकीविद्यावधृतात्मतत्त्वस्य सम्प्रदायप्रवत्तकत्वात् । न च प्रायश्चित्तस्याधिकारापत्तिः फलम् । अदृष्टकर्मणामागममन्तरेण फलविशेषकल्पनायां प्रमाणाभावात् । महापातकातिरिक्त स्थलेऽनधिकाराभावाच्च । प्राणान्तिकप्रायश्चित्तेऽधिकारापत्तेर सम्भवाश्च। श्रूयमाणपाध्वंसरूपफलत्यागप्रस्ङ्गाञ्च | न च विमतं कर्म भोगनाश्यं कर्मत्वादिति बाधकबलाच्छ्रूयमाणफलत्यागेऽपि न दोष इति वाच्यम् । अनन्यथासिद्धतया बलवता आगमेनानुमानस्य बाधितत्वेन दुर्बलत्वात् । अन्यथा सुरापेयत्वानुमानमपि दुर्वारं स्यात् । नच । पायश्चित्ताचरणदुःखमेव ब्रह्महत्यादीनां फलम्, तत्फलत्वेनाश्रुतेः । अकरणेऽनिष्टाभावेन प्रायाश्चत्तविधिवैफल्यप्रसङ्गाश्च । ब्रह्महत्यादेघोरनरकफलजनकत्वविधानानुपपत्तेश्चेति चेत्, न । “तस्य तावदेव

चिरं यावन्न विमो
२०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

क्ष्ये अथ सम्पत्स्ये्" ‘नाभुक्तं क्षीयते कर्म’, विवादाध्यासितानि कर्माणि भोगादेव क्षीयन्ते, अचीर्णप्रायश्चित्तकर्मत्वाद् आरब्धशरीरकर्मवत्, इत्यादिश्रुतिस्मृतिन्यायविरोधात्, उक्तश्रुतिस्मृत्योरदत्तफलभुज्यमान- फलकर्मातिरिक्तकर्मक्षयपरत्वात् ।

श्रुतिस्तु-अस्य तत्त्वसाक्षात्कारवतस्तावदेव चिरं विलम्बः, यावन्न विमोक्ष उपात्तकर्मराशेः सकाशात्फलोपभोगेन । अथ तस्मिन्सति सम्पत्स्यते कैवल्येनेति व्याख्येया ।

अन्ये तु-तस्य तावदेव विलम्बो यावदज्ञानानिवृत्तिर्ने भवति तन्निवृत्तौ मोक्षं प्राप्नोतीत्यर्थ इत्याहुः ।

यदप्युक्तम् आत्मसंयोगरूपव्यापारनाशेन तद्विशिष्टमनोरूपदुःखनाश इति तन्न । आत्मन्ः सर्वमूर्त्तांयोगित्वरूपविभुत्वाभाव फ्विभुत्वाप्रसङ्गात् । व्यापकं नित्यं विभुमात्मान विहाय नित्य वतीत्युक्तिनैयायिकानामेव शोभते । यथा आत्यन्तिकदुःखनिवृत्तिर्न मोक्षस्तथा वक्ष्याम इति ।

यद्यपि “न वा अरे पत्युः कामाय पतिः प्रियो भवति आत्मनस्तु कामाय पतिः प्रियो भवति" इत्यादिश्रुत्या जीवात्मैक्यगतप्रियत्वबोधिकया तमुपक्रम्योक्तया “आत्मा वा अरे द्रष्टव्यः" इत्यादिश्रुत्या “आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन्कस्य कामाय शरीरमनु संज्वरे्त्" “तरति शोकमात्मवित्" इत्यादिश्रुत्या स्वात्मसाक्षात्कार एव मोक्षहेतुरिति गम्यते । युक्तं चैतत्, तस्यैव मिथ्याज्ञानविरोधित्वादिति । यद्विषयसाक्षात्कारो मोक्षहेतुस्तद्विषयकमननं निदिध्यासनं च मोक्षहेतुः, ईश्वरमननं तु न तत्रोपयोगि, तथाऽपि “तमव विदि त्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय" इत्यादिश्रुतौ

स्वात्मज्ञानस्येव तज्ज्ञानस्यापि मोक्षहेतुत्वश्रवणात्, “द्वे ब्रह्मणी वेदि
२१
मोक्षे गौतमीयानां विप्रतिपत्तिपूर्वको निरासः ।

तव्ये' इत्यत्र ब्रह्मवेदनस्यापि प्रकृततया “श्रोतव्यो मन्तव्यः" इत्यत्र तस्यान्वयात् इश्वरसाक्षात्कारद्वारैव स्वात्मसाक्षात्कारस्य हेतुत्वावश्यकत्वे ईश्वरसाक्षात्कारे जीवन्मुक्तिपरमुक्तयोरुपायमीश्वर- मननमुपयुज्यते इति ‘स्वर्गापवर्गयोर्मागमामनन्ति मनीषिणः' इत्युदय- नाचार्याकृतकुसुमाञ्जलेराशयं वर्णयन्ति वर्द्धमानोपाध्यायादय इति ।

तदपरे न क्षमन्ते । परस्य परात्मतद् गुणानां साक्षात्कारासम्भवात् । सम्भवेऽपि तस्य स्वात्मविषयकापरोक्षभ्रमानिवर्त्तकत्वाच । एतेनेश्वरज्ञानमेवापेक्षितमिति परास्तम् । तदीयमनननिदिध्यासनयोर्वैयर्थ्यापत्तेश्च । अत एव स्वात्म- साक्षात्कारप्रतिबन्धकपापनाशद्वारा तदीयमनननिदिध्यासनयोरुपयोग इति परास्तम् । क्लष्टसदृष्टसाक्षात्काररूपद्वारसम्भवेऽदृष्टद्वारकल्पनायां गौरवान्मानाभावाच्च । ईशात्मनोर्भेदे “मैत्रेय्यात्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञाननेदं सर्वं विदितम्" "ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, सर्वं विदितं " ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, सर्वं तं परादाद्योऽन्यत्रात्मनः सर्वे वेदेदं ब्रहेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानीदं सर्वे यदयमात्मा" इत्याद्यग्रिमतनात्मस्वरूपनिरूपणपरश्रुतिविरोधापत्तेः । न च “तमेव विदित्वा" इत्यादिश्रुतिविरोधस्तवाप्यस्तीति वाच्यम् । “आत्मा वा अरे द्रष्टव्यः" । इत्याद्युक्त्तश्रुतियुक्त्त्येककवाक्यतयाऽन्तःकरण शुद्धिसाधनोपासनाद्वारा मोक्षे तात्पर्यात्। अत एव “पुरुष एवेदं सर्वम्'इत्याद्युपपद्यतेऽन्यथा प्रत्यक्षविरोधापत्तेः । अत एव न बाधायां सामानाधिकरण्यम् । न च मयाऽप्येवं व्याख्येयमिति वाच्यम् | ईश्वरसाक्षात्कारद्वारेत्यादिस्वोक्ते विरोधापत्तेरिति ।

हेयाया ग्रहणे निमित्तं दर्शयितुं तां विशिनष्टि-जुषमाणामिति । प्रीत्यर्थकजुषिधातोः कर्तरि शानच्प्रत्यये इदं रूपम् ।

तथाच जुषमाणां सुखाकारेण परिणताम् । अत्र विषयत्वं द्वितीया
२२
सटीकस्साङ्ख्यत्तत्वकौमुद्याम् ।

कपिलाय महामुनये मुनये शिष्याय तस्य चासुरये ॥
पञ्चशिखाय तथेश्वरकृष्णायैते नमस्यामः ॥२॥

र्थः | भ्जन्ते इत्यत्र रागो धात्वर्यः|तथाच तद्विषयकरागाश्रया इत्यन्वयबोधः | एवं च तरुण्याद्याकारपरिणतप्रकृतिसौन्दर्यदर्शना- दिनओद्बुद्धो यः ‘इर्य मादिष्टा'इत्यादिज्ञानविशेषरूपोऽनाद्यविवेक एव रिरंसादिरूपरागद्वारा पुरुषं प्रवर्त्तयतीत्यर्थः ॥ १ ॥

नन्वीश्वरकृष्णप्रणीता आर्या मुमुक्षुभिरनुपादेया असर्वज्ञपुरुषप्रणीतत्वात् । न च हेत्वसिद्धिः । पुराणादिषु विद्यासम्मदायप्रवर्तकमध्येऽगणनादित्याशङ्कां दूरीकुर्वन्-

यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ १ ॥

इति सुबालोपनिषद्धोधितेतिकर्त्तव्यताकं गुरुवर्गनमस्कारात्मकं कृतं मङ्गलं शिष्यशिक्षायै स्वस्य शास्त्रानवबोधशङ्कानिरासाय च निबध्नाति-कपिलायेत्यादिना । प्रतारणादिदोषाभाव- विशिष्टातीन्द्रियार्थावबोधसूचनाय महामुनय इति विशेषणम् । तस्य तादृशकपिलस्य । अत्र । शिष्यपदेन विद्यालाभस्सूचितः । मुनिपदेन विपरीतभानादिनिरासः । पञ्चशिखायेत्यादौ मुन्यादि पदद्वयमनुवर्त्तनीयम् । इत्थं च परम्पराप्राप्तकपिलमहर्ष्युक्त्तार्था- नुवादकत्वेनानुपादेयत्वशङ्का निराकृतेति । एते वयमित्यर्थः ॥ २ ॥

ननु “तमेव विदित्वाऽति मृत्युमेति" “तरति शोकमात्मवित्" "न कर्मणा न प्रजया धनेन त्यागेनैक अमृतत्वमानशुः" ।

यदा चर्मवदाकाशं चेष्टयिष्यन्ति मानवाः ।
तदात्मानमविज्ञाय दुःखस्यान्तो भविष्यति ॥ १ ।।

“न स पुनरावर्त्तते" इत्यादिश्रुत्या आत्मयाथार्थ्यज्ञानस्य मोक्षहेतुत्वमवगतम्, तत्र प्रमाणाकाङ्क्षायाम्--“अशब्दमस्पर्शमरूप-

मव्ययं तथाऽरसं नित्यमगन्धवञ्च यत्’ “स पर्य्यगाच्छुक्रमकाय
२३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

इह खलु प्रतिपित्सितमर्थं प्रतिपाद्यन् प्रतिपाद्मव्रणमस्राविर XX शुद्धमपापविद्धम्” “औपनिषदं पुरुषं पृच्छामि" इत्यादिश्रुत्योक्तात्मतत्त्वसाक्षात्कारे आगमरूपशब्द एव मानम्, नतु बाह्यमान्तरं वा प्रत्यक्षम्, तयोरुक्तात्मतत्त्वावधारणेऽसामथ्र्यात्, विपरीतग्राहकत्वाच ।

कपिलमुनिप्रणीतोपपत्तिरूपषडाध्यार्यमूलकेश्वरकृष्णप्रणीतो- पपत्तिरूपार्यार्थे प्रेक्षावत्प्रवृत्यङ्गजिज्ञासा न सम्भवतीति चेत्, मैवम् । “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" इत्यादिश्रुतिष्वात्मसाक्षात्कारहेतुतया श्रवणादित्रयं विहितं । तत्रश्रवणादावुपायाकाङ्क्षायां स्मर्यते--

श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्वोपपत्तिभिः ॥
मत्वा च सततं ध्येय एते दर्शनहेतवः ।। इति ।

ध्येयः,योगशास्त्रप्रकारेणेति शेषः। श्रुतेषु पुरुषार्थतद्धेतुझानत- द्विषयात्मस्वरूपादिषु “न तर्केण मातिरापनेया'इत्याद्येकवाक्यतया श्रुत्यविरोध्युपपत्तेराकाङ्क्षितत्वादित्याह-इहेत्यादिना । इह शात्रे । खलु निश्चयेन ।

न च न्यायवैशेषिकाभ्यामप्येतेष्वर्थेषु न्यायस्य प्रदर्शितत्वा- ताभ्यामागमस्य गतार्थत्वमिति वाच्यम् । “तीर्णो हि तदा भवति हृदयस्य शोकान्’ “कामः सङ्कल्पो विचिकित्सा श्रद्धा ऽश्रद्धा धृतिरधृतिर्ह्रिर्धीर्भीरित्येतत्सर्वं मन एव" “स समानः सन्नुभौ लोकावनुसञ्चरति" "ध्यायतीव लेलायतीव" . “स यदत्र किञ्चित्प- श्यत्यनन्वागतस्तेन भवति" “प्रज्ञानघन एवायमात्मा"

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ॥ १ ॥

इत्यादिश्रुतिस्मृतिभिर्न्र्यायवैशेषिकोक्तस्य सुखी दुःखीत्याद्यात्म-

स्वरूपप्रतिपादकन्यायस्य बाधितत्वात् । आत्मनि सुखादिभावस्य
२४
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

लोकसिद्धत्वेन “यथाकामो भवति तत्क्रतुर्भवति यत्क्रतुभर्वेति तत्कर्म कुरुते यत्कर्म कुरुते तदभिसम्पद्यते' इत्यादिश्रुतेस्तत्र तात्पर्याभावात् । न च साङ्ख्यस्यापि ‘नेश्वराधिष्ठिते फलनिष्पत्तिः कर्मणा तत्सिद्धेः ( सां सू० अo ५ सू० २ )इत्यादिपञ्चमाध्यायस्थसूत्रैरीश्वरप्रतिषेधं कुर्वतो “यः सर्वज्ञः सर्ववित्” “एष सर्वेश्वरः"इत्यादि श्रुतिविरोध इति वाच्यम् । ईश्वराभावस्य लोकसिद्धत्वन तत्र तात्पर्याभावात् । ‘असत्यमपतिष्ठं ते जगदाहुरनीश्वरम्'इति भगवतेश्वराभावानुवादस्य स्पष्टीकरणाच्च । न चानुवादे फलाभावः । वैराग्यादेः फलत्वात् । यदि हि लोकायतिकवनियैश्वर्य न प्रतिषिद्ध्येत्तदा नित्यैश्वर्यदर्शनेन तत्र चित्तमावेशयतो विवेकाभ्या- सप्रतिबन्धः स्यात् । नचैवम्

यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् ॥
अनादिनिधनं ब्रह्म तमेव शरणं व्रजेत् ।। १ ।।

इत्यादिकूम्र्मे नारायणादीनां सांख्यानामीश्वराज्ञानोक्तिर्वेिरुद्ध्येतेति व्वच्यम् । एतस्योक्त्तभगवद्वाक्यैकवाक्यतया तत्र तात्पर्याभावात् । अन्यथा योगीन्द्राणां तदज्ञानासम्भवेनोक्तवाक्यस्याप्रमाण्यापत्तेः । अत एव-

अक्षपादप्रणीते च काणादे सांख्ययोगयोः ।
त्याज्यः श्रुतिविरुद्धांशः श्रुत्यैकशरणैनृभिः ॥ १ ॥
जैमिनीये च वैयासे विरुद्धांशो न कश्चन ।
श्रुत्या वेदार्थविज्ञाने श्रुतिपारङ्गतौ हि तौ ॥ २ ॥ ।
न्यायतन्त्राण्यनेकानि तैस्तैरुक्तानि वादिभिः ।
हेत्वागमसदाचारैर्यद्युक्त्तं तदुपास्यताम् ।। ३ ।।

इतिपराशारीयमोक्षधर्मवाक्याभ्यां विरोध इति परास्तम् । अनयोरप्युक्तभगवद्वाक्यैकवाक्पतया तत्र तात्पर्याभावादिति ।

अत्र साङ्ख्यपदं च योगरूढम्, सम्यक् ख्यायतेऽनेनेति व्यु
२५
शास्त्रविषयजिज्ञासाऽवतरणिका ।

यिताऽवधेयवचनो भवति प्रेक्षावताम् । अप्रतिपित्सितमर्थं तु प्रतिपादयन् ‘नायं लौकिको नापि परीक्षकः’ इति प्रेक्षावाद्भिरुन्मत्तवदुपेक्ष्येत । स चैषां प्रातिपित्सितोऽर्थो यो ज्ञातः सन् परमपुरुषार्थाय कल्पते,


त्पत्तेः । किं तदाख्याति ? इत्याकाङ्क्षायां रूढ्यर्थतावच्छेदकमुक्तं महाभारतादौ

सङ्ख्यां प्रकुर्वते चैव प्रकृतिं च प्रचक्षत ।
तत्त्वानि चतुर्विंशतिस्तेन साङ्ख्याः प्रकीर्तिताः ॥ १ ॥

इत्यादि ।

प्रतिपित्सितं-ज्ञातुमिष्टम् | ज्ञातत्वप्रकारकेच्छाविषय इति यावत् । अवधेयवचनः श्रोतव्यवचनः, श्रद्धेयवाक्य इति यावत् । ननु बालबुद्धीनामजिज्ञासितेऽप्यर्थे प्रवृत्तिदर्शनात्तदर्थमेव शास्त्रं स्यादित्यत आह-प्रेक्षावतामिति । प्रकर्षेणेक्षा प्रेक्षा हेयोपादेयविषयिणी बुद्धिस्तद्वताम् । एकवचनं तु तादृशस्य दौर्लभ्यसूचनाय । तदेव व्यतिरेकेण समर्थयते अप्रतीति । ननु पञ्चविंशतितत्त्वविदो लौकिकव्यवहाराती तत्वेऽपि शास्त्रच्यवहारकुशलत्वात्कथं प्रेक्षावद्भिरुपेक्षणीयत्वमितेि चैत्, तत्राह-परीक्षक इति । सुखसाधनयागादीनां प्रतिपित्सि- तार्थत्ववारणाय स्वयमेव प्रतिपेित्सितमर्थं दर्शयति--स चैषामिति । यो ज्ञातः सन् परमपुरुषार्थाय कल्पते स पेक्षावतां प्रतिपित्सितोऽर्थ इत्यन्वयः । स चात्यन्तदुःखहानिरुपमोक्षसाधनी- भूतसत्त्वपुरुषविवेकविषयौ सत्त्वपुरुषौ तादृशमुख्यपदार्थावित्यर्थः । व्यक्ताव्यक्तज्ञलक्षण इत्यन्ये । एतदेवोक्तं भाष्ये ‘तदिदं मोक्षशास्त्रं चिकित्साशास्त्रचतुर्व्यूहम् । यथा हि रोगः, आरोग्यम्, रोगानिदानम्, भैषज्यामिति चत्वारो व्यूहाः समूहाश्चिकित्साशास्त्रस्य

प्रातिपाद्याः, तथैव हेयम्, हानम्, हेयहेतुः, हानोपायश्चेति
२६
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

इति प्रारेिप्सितशास्त्रविषयज्ञानस्य परमपुरुषार्थसाधनहेतुत्वात् तद्विषयजिज्ञासामवतारयति -


चत्वारो व्यूहा मोक्षशास्त्रस्य प्रतिपाद्या भवन्ति, मुमुक्षुभिrजिंज्ञा- सितत्वात् । तत्र त्रिविधं दुःखं हेयम्, तदत्यन्तनिवृत्तिर्हनम्, प्रकृ- तिपुरुषसंयोगद्वारा चाविवेको हेयहेतुः, विवेकख्यातिस्तु हानोपाय इति व्यूहशब्देन चैषामुपकरणसंग्रहः' इति । इति प्रारिप्सितोति। अत्रेतिशब्दो हेत्वर्थः । यतः शास्त्रविषयः प्रेक्षावज्जिज्ञासा विषयोऽपेक्षितोऽत इत्यर्थः । प्रारिप्सितस्यारब्धुमिष्टस्य शास्त्रस्य यो विषयोऽर्थस्तस्य यज्ज्ञानं तस्येत्यर्थः । एतस्य परमपुरुषार्थसाध- नत्वेऽन्वयः । तत्र साधनपदं तज्ज्ञानपरम् । तथाच शास्त्रविषयज्ञान- सम्बन्धिपरमपुरुषार्थसाधनत्वप्रकारकज्ञानहेतुकामिति समुदायार्थः । परमपुरुषार्थसाधनत्वादिति पाठस्तु सुगम एव । तद्विषयजिज्ञासाम्-शास्त्रविषयजिज्ञासाम् । ज्ञातुमिच्छा जिज्ञासेति व्युत्पत्त्या विवेकख्यातिरूपहानोपायविषयकेच्छामिति यावत् ।

नचैवं ‘जिज्ञासा तदभिघातके' इत्यादिना हानोपाय- विषयजिज्ञासाबोधनात्तेन विरोध इति वाच्यम् । तत्रत्यजिज्ञासापदेन ‘यो ज्ञातः सन्'इत्याद्यविरोधाय मुख्यशास्त्रार्थपुंप्रकृतिविषयकजिज्ञासाया विवक्षितत्वेऽपि तस्यां विशेषणांशाविषयकत्वावश्यकतया तत्रैव तात्पर्यकल्पनेनाविरोधात ।

तद्विषयां ज्ञानविषयिकामित्युक्ते न पूर्वोक्तदोष इत्यन्ये । तन्न । ज्ञानविषयकज्ञानस्य परमपुरुषार्थसाधनत्वाभावेन ‘यो ज्ञातः सन् इत्यादिग्रन्थविरोधापत्तेः । तथाचैतस्य शास्त्रस्यैव तादृशज्ञानहेतुत्वा तत्र प्रेक्षावतां प्रकृत्तिरुपपन्नेति भावः । जिज्ञासापदेनानुबन्धचतुष्टयमपि सूचितम् ।

ननु दुःखत्रयाभिघातात्'इत्थादिना दुःखसम्बन्धस्य स्वहान

हेतुजिज्ञासाहेतुत्वं प्रतीयते । तच्च न सम्भवति, तस्य जिहा
२७
शास्त्रविषयजिज्ञासाऽवतरणिका ।

दुःखत्रयाभिघाताजिज्ञासा तदपघातके हेतौ।
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततो ऽभावात् ॥ १ ॥

एवं हि शास्त्रविषयो न जिज्ञास्येत् , यदि दुःख्खं नाम जगाति न स्यात्, सद् वा न जिह्वासितम्, जिहासितं वा अशक्यसमुच्छेदम् । अशक्यसमुच्छेदत्ता च द्वेधा-दुःखस्य नित्यत्वात्, तदुच्छेदोपायापरिज्ञानाद्वा । शक्यसमुच्छेदत्वेऽपि च शास्त्रविषयस्य ज्ञानस्यानुपायत्वाद्वा, सुकरस्योपायान्तरस्य सद्भावाद्वा ॥

तत्र ‘न तावद् दुखं नास्ति, नाप्यजिहासितम्’इत्युसितत्वाभावात् । नहि सम्भवति अजिहासितस्य स्वहानहेतौ जिज्ञासाहेतुत्वम्, सुखसम्बन्धादौ तथा अदर्शनात् । तथा च तस्य प्रतिकूलवेदनीयत्वेन जिहासितत्वं व्युत्पादयन् व्यतिरेकमुखेन जिज्ञासां समर्थयते—एवं हीत्यादिना । एवं वक्ष्यमाणप्रकारे सति ।

ननु शास्त्रविषयविज्ञानस्यार्थसिद्धेरभावात्किं तज्जिज्ञासयेत्याशङ्का व्यतिरेकमुखेन तृतीयविकल्पावान्तरविभागसहितविकल्पपञ्चकद्वारा विषयस्य प्रयोजनवत्वेन जिज्ञासां समर्थयते—एवं हीत्यादिना इत्यन्ये ।

शास्त्रविषयः प्रकृतिपुरुषरूपः । जिहासितम् विभागाश्रयत्वेनेच्छाविषयम् । ‘यदि दुःखम्’ इत्यत्रत्य-‘यदि'शब्दोऽत्रानुषञ्जनीयः । तथाच 'सद् वा यदि न जिहासितम्'इत्यन्वयः । एवं जिह्वासितमित्यादावप्यूह्यम् । तत्र तेषु मध्ये । ‘तावत्' इत्यस्य ‘उक्तम्'इत्यत्रान्वयः । इत्युक्तामिति । अत्रेतिशब्दः

‘तत्र न तावत्'इत्याद्यर्थद्वयपरः । तथाच ‘दुःखत्रयाभिघाताद्’
२८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

त्क्तम्-“दुःखत्रयाभिघातादू' इति । दुःखानां त्रयं दुःखत्रयम् ।


इतिपदेन तादृशार्थद्वयं बोधितमित्यर्थः । दुःखानां त्रयमिति । अत्र त्रयपदं व्यूह्त्रयपरम् । आध्यात्मिकादेरपि प्रत्येकं नानात्वात् । अभेदः षष्ठ्यर्थः । तथाच दुःखाभिन्नव्यूहत्रयमित्यर्थः । अन्यथा दुःखसम्बन्धि तद् अन्यदेव किञ्चित् प्रतीयेत ।

अत्र त्रिपदं न्यूनाधिकसङ्ख्याव्यवच्छेदायेति केचित् । तदभिघातकेत्यत्र तत्पद्स्य दुःखसामान्यपरामर्शत्वाय तद् इत्यपरे । छ्

ननु “सङ्ख्याया अवयवे तयप्'(पा. सू. ४१ पा.२ अ. ५) त्यनेनावयवे वर्तमानात्सङ्ख्यावाचकाच्छब्दादवयविनि तयपूप्रत्यये विहिते तेनैवाभेदलाभे अभेदः षष्ठ्यर्थ इत्यसङ्गतम् । न च सूत्रेऽवयविबोधकपदाभावात्कथमवयविलाभ इति वाच्यम् । अस्येत्यधिकारात्। अत एव ‘अवयवे या सङ्ख्येत्युच्यते । अवयवशब्दोऽयं गुणब्दः, अस्यत्यनुवर्त्तते,तन य प्रांत अवयवा गुणस्तस्मिन्नवयविनि प्रत्ययेन भवितव्यम्'इंति महाभाष्यमपि सङ्गच्छते । ‘अवयवे या सङ्ख्या 'इति भाष्यं तु कैयटेन ‘अवयवे यः सङ्ख्यावाची शब्दो वर्तते तस्मादस्येत्यधिकारद्वयविनेि प्रत्ययो भवति'इतेि व्याख्यातम् । अवयवे. प्रत्ययविधाने च पञ्चावयवा. दशावयवा इत्यत्रापि स्यात् । अत एव ‘त्रयोऽवयवा अस्य तत् त्रयम्'इतितत्त्वबोधिनिीकारोक्तिरपि सङ्गच्छते । अन्यथाऽवयविपरत्वतात्पर्यकास्येतिकथनानुपपत्त्तेरिति चेत्, न । प्रत्ययस्याभेदार्थकत्वाभावेनार्थादभेदलाभेऽपि शब्देनालाभात् । नच प्रकृते समुदायस्यावयवारब्धत्वाभावाद् ‘अवयवारब्धो यो अवयवी' इति कैयटोक्तिर्विरुद्धेति वाच्यम् । ‘घटत्रयं पटत्रयम्'इत्यादौ बाधापत्त्या तद्वा क्यस्थयोगक्षेमसाधारणारब्धत्वपरत्वात् । नच कर्मधारया-


२९
शास्त्रविषयजिज्ञासाऽवतरणिका ।

तत् खलु आध्यात्मिकम्, आधिभौतिकम् आधिदैविकञ्च इति । तत्राध्यात्मिक द्विविधम्-शारीरं मानसं च । शारीरंवातपित्तश्लेष्मणां वैषम्यनिमिपत्तिरिति शङ्काम् । ‘विशेषणं(१) पूर्वम्'इति विशेषणस्य त्रयपदस्य पूर्वनिपातापत्तेः । त्रिदुःखाभिघाताद्, त्रयदुःखाभिघा ताद्'इत्युक्तौ छन्दोभङ्गापत्तेरिति ।

आध्यात्मिकमिति ! अत्रात्मपदं स्वसङ्कातपरम् । सङ्का तश्च मन:शरीरेन्द्रियरूपः । विभक्तयर्थे अव्ययीभावाद् ‘आत्मानि इत्यध्यात्मं तान्निमित्तमाध्यात्मिकम्(२) । तत्त्वं चान्तरोपायसाध्यत्वम् । अन एवान्तरमिदमित्याचक्षते । आधिभौतिकमित्यत्र भूतपदं व्याघ्रचौरादिप्राणिपरम्, न पृथिव्यादिभूतपरमपि, देवपदेनैव तेषां लाभात् । नच पृथिव्यादिषु देवशब्दप्रवृत्तौ मानाभाव इति वाच्यम् । “इमास्तिस्रोदेवताः' इत्यादेर्मानत्वात् । टीकास्थस्थावरपदं तु लौकिकाभिप्रायेणेति । तन्निमित्तमाधिभौतिकम् ।

आधिदैविकमित्यत्र देवपदेन पृथिव्यादयोऽपि ग्राह्याः, तन्निमित्तमाधिदैविकम् । बाह्वोपायसाध्यत्वाद्विविधमिदं वाह्यमित्याचक्षते ।

बाह्येन्द्रियाणि शरीरेऽन्तर्भाव्य साधनद्वैविध्येनाद्यस्य द्वैवेिध्यमाह- शारीरं मानसं चेति । ननु सर्वस्यापि दुःखस्य मनोधर्मत्वेन मानसत्वात् कथं मानसत्वामानसत्वव्यवहार इति चत्,


(१) “उपसर्जनं पूर्वम्” इत्यनेन समासाविधायकशास्रघटक- प्रथमान्तपदबोध्यस्योपसर्जनस्य समसे पूर्वनिपात इत्यर्थकेन विशेषणस्य पूर्वनिपातबोधनादिति भावः । (२) “अव्ययं विभक्तिसमीप-'इत्यनेन सूत्रेण सप्तम्यर्थकाधि शब्दस्यात्मशब्देन समासे ततोऽध्यात्मादित्वाठ्ठ्ञि रूपम् ।

एवमग्रेऽपीति बोध्यम् ।
३०
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्तम्, मानसं कामक्रोधलोभमोहभयेर्ष्यविषादविषय- विशेषादर्शननिबन्धनम् । सर्वञ्चैतदान्तरिकोपायसाध्य- त्वाद्ध्यात्मिकं दुःखम् । बाह्योपायसाध्यं दु:ग्वं द्वेधा- आधिभौतिकम्, आधिदैविकञ्च । तत्राधिभौतिकं मानुषपशुमृगपक्षिसरीसृपस्थावरानिमित्तम्, आधिदैविकं तु यक्षराक्षसविनायकग्रहाद्यावेशनिबन्धनम् ।

तदेतत् प्रत्यात्मवेदनीयं दुःखं रजःपरिणामभेदो न ।


न । मनोमात्रजन्यत्वाजन्यत्वाभ्यां मानसत्वामानसत्वव्यवहारात् ।

अत्रेदं बोध्यम्-दुःखं द्विविधम्-आन्तरं बाह्यं च । आद्यं द्विविधं शारीरं मानसं च । अन्त्यमपि द्विविधम्-आधिभौतिकमाधिदैविकं चेत्येवं विभागसम्भवे त्रैविध्यकथनमसङ्गतम् । अत एव बाह्योपायसाध्यं च दुःखं द्विधेति उभयसाधारणधर्मोपपादकाग्रिमतद्ग्रन्थोऽपि सङ्गच्छते। अन्यथा तदुपपादनस्य निष्प्रयोजनत्वापत्तेः । वातपित्तेतेि । वातपित्तादीनां शरीरस्थूणात्मकत्वान्न तज्जन्यस्य दुःखस्य शरीर- निमित्तकत्वानुपपत्तिः । एवमग्रेऽपि बोध्यम्। कामादयस्तु पूर्वं व्याख्याताः । यक्षराक्षसेति । पृथिव्यादिकमप्युपलक्षणीयमित्युक्तं प्राक् । अन्यथा पाषाणादिपतनदाहशीतादिजन्यस्यासङ्ग्रहापत्तेः । दुःखत्वे अनुभव एव मानमित्याह--तदेतदिति । ‘आत्मानमात्मानं प्रति'इति वीप्सायामव्ययीभावसमासे प्रत्यात्मम्, तेन वेदनीयं साक्षात्कृतमित्यर्थः । तस्य कारणमाह-रजःपरिणा मेति । परिमाणभेदः कार्यविशेषः । परिणामग्रहणं तु विवर्तारम्भकार्य- वारणाय । स्वकारणाभिन्नसमसत्ताकत्वं परिणामत्वम् । कारणाििभन्नन्यूनसत्ताकत्वं विवर्तकार्यत्वम् । स्वभिन्नत्वे सतेि समवेतत्वमारम्भकार्यत्वम् । विशेषपदं च लोभादिव्यावर्त्तनाय ।

ननु मोक्षो नाम बन्धनिवृत्तिः, सं च बन्धः स्वाभाविक उत

आगन्तुक इति । आद्ये नाशायोगः । नह्यग्नेः स्वाभाविकादौष्ण्या
३१
शास्त्रविषयजिज्ञासाऽवतरणिका ।

शक्यतं प्रत्याख्यातुम् । तद् अनेन दुःखरयेणान्तःकरणवर्तिना चेतनाशात्तेः प्रतिकूलवेदनीयतयाऽभिसम्बन्मोक्षः सम्भवति, स्वाभाविकस्य यावद्द्रव्यभावित्वात् । नच स्वाभाविकमपि पटस्य शैक्यं रागद्रव्येणापनीयते, बीजस्य स्वाभाविक्यप्य- ङ्कुरशक्त्तिरग्नेिति वाच्यम् । यावद्द्रव्यभाविन आश्रयापाय- मन्तरेणापायासम्भवेन पटादिशौक्ल्यादेस्तिरोधानात् । अन्यथा रजकादिव्यापारैयोगिसङ्कल्पादिना च रक्तपटभृष्टबीजयोः पुनः शौक्ल्यस्याङ्कुरशक्तेश्चाविर्भावो न स्यात् । न च दुःखशक्तितिरोभाव एव मोक्षो भवत्विति वाच्यम् । योगीश्वरस- ङ्कल्पादिना भृष्टीजेष्विव शक्त्युद्भवे पुनर्बन्धापत्तेः । द्वितीये तन्नि- मित्तापरिज्ञानादजिज्ञास्यत्वामेत्याशङ्कां निराह--तदनेनेत्यादिना । तत् तस्माद्,दुःखस्य प्रत्याख्यातुमशक्यत्वादित्यर्थः । 'नाप्यजिहा- सितम्'इत्युक्तं तत्र हेतुमाह-प्रतिकूलवेदनीयतयेति । द्वेषविषयतयेत्यर्थः । ननु परनिष्ठस्य दुःखस्य शात्रुगतदुःखस्येव न प्रतिकूलत्वं स्वसम्बन्धित्वाभावादित्याशङ्काह-चेतनाशक्तरिति । अभिघात इतेि । अभेि सम्मुखं हन्ति गच्छतीत्यभिघातः प्रतिबिम्बाख्यो विकारोऽन्तःकरणपरिणाम एव सम्बन्धः, एतन्मते अध्यासाद्यभावात् |

एतस्मिन् दर्पणे स्फारे समस्ता वस्तुदृष्टयः ॥
इमास्ताः प्रतिबिम्बन्ति सरसीव तटदुमाः ।। १ ।।

इतिस्मरणात् । “कुसुमवच मणिः"(१) (सां.सू.अ. २सू.३५) इति सूत्राच । अत्र दृष्टिपदं बुद्धिवृतिसामान्यपरं युक्तिसाम्यात् । दुःखस्यान्तःकरणत्वे श्रुतिरुक्ता । युक्तिस्तु वक्ष्यते । सम्ब-


(१) ‘अत्र सूत्रे चकारो हेतौ । कुसुमेनेच मणिरित्यर्थः । यथा जपाकुसुमेन स्फटिकमणी रक्तोऽस्वस्थो भवति, तन्निवृत्तौ च रागशून्यः स्वस्थो भवति तद्वद्'इति भाष्यम् ।


३२
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

न्धोऽभिघात इति । एतावता प्रतिकूलवे द्नीयत्वं जिहासाहेतुरुक्तः ।

यद्यपि न सन्निरुध्यते दुःखम्, तथाऽपि तदभिभवः शक्यः कर्तुमित्युपरिष्टादुपपादयिष्यते ।

तथा चोपपन्नम् “तदपघातके हेतौ” इति । तस्य दुःखत्रयस्य अपघातकस्तदपघातकः । उपसर्जन्धादिपदं विहायाभिघातपदोपादानं तु सम्बन्धिविशेषलाभाय, तस्य च प्रतिकूलतासूचनाय । नाप्यजिहासितमित्यत्रोक्तहेतुमुपसंहरति-एतावतेति एतावता-चेतनाशक्तेः प्रतिकूलतया दुःखसम्बन्धकथनेन। रजःपरिणामभेदस्य दुःखस्यैतन्मते नित्यत्वाद- शक्यसमुच्छेदतेत्युक्तं तदनूद्य निराकरोति--यद्यपीत्यादिना । न सन्निरुध्यते-निरन्वयं यथा स्यात्तथा न नश्यति । तद्भिभवः, अनागतस्य दुःखस्यानुत्पाचिः । यथा चैतत्तथोक्तं प्राक् । यत्तु अभिभवो नाम विवेकख्यत्या तदसम्बन्धतामात्रम्, न तु तस्य नाशः, कार्यमात्रस्य सत्यादित्वात् इति । तन्न । एतन्मते सम्बन्धस्यापि सत्यत्वात् । सम्बन्धिनः सत्त्वे सम्बन्धस्यापि एतेन विवेकिनमात्मानं विहायान्यत्र दुःखं गच्छतीति परास्तम् । उपरिष्टादिाति ।

तेन निवृत्तप्रसवामर्थवशात्सप्तरूपविनिवृत्ताम् ॥

प्रकृतिं पश्यति पुरुषः प्रेक्षकवदवस्थितः स्वस्थः । इत्यादाविति । (सां० का० ६५ )

प्रसवनिष्ठत्या तन्निरोधस्य व्युत्पादनीयत्वादत्र नोक्तम् । प्रति कूलवेदनीयत्वेन दुःखस्य जिहासितत्वात्स्वापघातकाजिज्ञासाहेतुत्वं सम्भैवतीत्युक्तमुपसंहरति-तथाचोपपन्नमिति । तथाशब्दस्तस्मादित्यर्थे । तथाच जिहासितत्वात्तस्योक्तहेतुत्वमुपपन्नमित्यर्थः ।


३३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

नस्यापि बुद्धया सन्निकृष्य(१) ‘तदा' परामर्शः ।


ननु तदादीनां पूर्वप्रधानपरामर्शकत्वात्कथं समासनिविष्टस्योपसर्जनस्य दुःखस्य परामर्श इत्याशङ्काह-उपसर्जनस्येति । तथाच शक्त्यानन्त्यभिया तदादेर्बुद्धिविषयतावच्छेदकवति शक्त्तेरावश्यकतया तदा उपसर्जनपरामतर्शेऽपि न क्षतिरित्यर्थः ।

नच बुद्धिविषयतावच्छेदकत्वेनावच्छेदकभानम् । घटत्वाद्यनुगमय्य बुद्धिविषयतावच्छेदकत्वस्योपलक्षणतया निवेशे तत्र शक्तेरभावात् । पदार्थोपस्थितिस्तु प्रकरणादिना घटत्वादेनैव नतु बुद्धिविषयतावच्छेदकत्वेनातो न पदार्थोपस्थितौ शाब्दबोधे वा तस्य भानमिति ध्येयम् ।

सन्निकृष्य, उपस्थाप्य । निष्कृष्येति पाठे तु समासात्पृथक्- तयोपस्थाप्येत्यर्थः । अत्राप्युपसर्जनस्येति विभक्तिविपरिणामेनान्वयः। तदा, तत्पदेन । परामर्शः, ज्ञानम् । इदं चोपसर्जनस्यत्यनेन सम्बध्यते । तथाच बुद्ध्योपसर्जनं सन्निकृष्य तदोपसर्जनस्य परामर्श इत्यन्वयः । एतेन सन्निकृष्येत्यस्य कर्मानुपादानात्क्रिया- न्तरकर्तुरनुपादानाञ्च बुद्धया सन्निकृष्येत्यसङ्गतामिति परास्तम् ।

केचित्तु-प्रतिबिम्बरूपदुःखसम्बन्धस्यैव प्रतिकूलतया तत्यागस्यैव परमपुरुषार्थत्वेनेप्सितत्वाद् दुःखस्य हेयत्ववर्णनं तत्पद्स्य दुःखपरत्ववर्णनं चासङ्गतमित्याहुः ।

सम्बन्धित्यार्ग विना सम्बन्धत्यागायोगाद् 'दुःखं मे मा भूत्' इत्यादिना तस्यैव जिह्वासितत्वावगमात्, “हेयं दुःखमनागतं सर्वम्’ ‘दुःखजन्मप्रवृत्तिदोषप्रथ्याज्ञानानाम्-(न्या.अ.१पा.१ सू.२) “अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः” (सां. सू. अ. १ सू. १) “तरति शोकमात्मवित्'इत्यादिविरोधात् दुःखनिवृत्तिरेव मोक्ष इत्यपरे ।


१ यद्यपि सर्वेषु मूलपुस्तकेषु सन्निकृष्टस्येति पाठस्तथाऽपि टीकाऽनुरोधेन तं हित्वाऽयमत्रावस्थापितः ।


३४
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

अपघातकश्च हेतुः शास्त्रप्रतिपाद्यो, नान्य इत्याशयः ॥

अत्र शङ्कते-“दृष्टे साऽपार्था चेत्’ इति । अयमर्थः -- अस्तु तर्हि सुःखत्रयम्, हजिहासितं च तद् भवतु, भवतु च तच्छक्यहानम्, सहतां च शास्त्रगम्य


भाष्यकारास्तु प्रतिबिम्बरूपो दुःखसम्वन्धो भोगाख्यस्तन्निवृत्तिरेवपुरुषार्थः । 'दुःखं मा भुञ्जीय'इत्यापामरं प्रार्थनादर्शनात् । दुःखनिवृत्तिस्तु न पुरुषार्थस्तस्या अन्यशेषत्वात् । नच पूर्वोक्तवचनविरोधः । कण्टकादिनिवृत्तिप्रतिपादकवद् दुःखनिवृत्तेस्तादर्थ्यप्रतिपादकत्वेन विरोधाभावात् । एवं सुखमपि न स्वतःपुरुषार्थो युक्तिसाम्यात् । ‘तस्मिन्निवृत्ते पुरुषः पुनरिदं तापत्रयं न भुङ्क्तये' इत्यादिना भाष्ये व्यासदेवैरपि दुःखभोगनिवृत्तरेवपुरुषार्थत्वकथ- नाच्चेत्याहुः । दुःखत्रयप्रहाणे तदभिघातप्रहाणं पारमार्थिकमित्यभिप्राय इत्यन्ये ।

तदुच्छेदोपायापरिज्ञानाच्छास्त्रविषयस्यातदुपायत्वाद्वेत्युक्तं दूरीकुर्वन् ‘तद्विपरीतः श्रेयान्’ इत्यादिवक्ष्यमाणतदपघातकहेतुं दर्शयति-अपघातकश्चेति । शास्त्रव्युत्पाद्यः-शास्त्रैगकम्यः, । व्यक्ताव्यक्तपुरुषसाक्षात्काररूप इत्यर्थः । ‘सुकरोपायान्तरस्य सद्भावाद्वा शास्त्रविषये न जिज्ञासा ’इति यदुक्तं तच्छङ्कापरतया 'दृष्टे साऽपार्था चेद्'इतिमूलं योजयति-तत्र शङ्कन इति । दृष्ट इत्यत्र सुकरोपाय इति शेषः । शास्त्रव्युत्पादकहेतुजिज्ञासा अपार्था अपगतोऽर्थः प्रयोजनं यस्याः सा अपार्था । व्यर्थेति यावत् । तथा च सुकरोपाय सति दुःसाध्योपाय जिज्ञासा न भवतीत्यर्थः । हेयाद्यभावे । सुकरोपायस्याप्यभावेन तत्र जिज्ञासैव प्रेक्षावतां न सम्भवतीति शङ्कापनुत्तये पूर्वोपपादितमर्थमनुवदति-

आस्त्वित्यादिना । सहृताम्-समर्थो भूयात् । भवतु च
३५
शास्त्रविषयजिज्ञासाऽवतरणिका ।

उपायस्तद् उच्छेतुम् । तथाऽप्यत्रप्रेक्षावत जिज्ञासा न युक्ता, दृष्टस्यैवोपायस्य तदुच्छेद्कस्य सुकरस्य विद्यमानत्वात्, तत्त्वज्ञानस्य तु अनेकजमन्माभ्यासपरम्परायाससाध्यतयाऽतिदुष्करत्वात् ।


शास्त्र गम्यस्तदुच्छेदोपाय इति विहाथ वक्रोक्तिस्तु शास्रोपायस्य वक्ष्यमाणतया त्दुच्छेदे सामर्थ्यानिर्णयमूचनाय । विद्यमानत्वादिति । अनेन जिज्ञासाप्रयोजकेष्टसाधनताज्ञानं सूचितम् । अनेकजन्मेति । अनेन शास्त्रविषयजिज्ञासाप्रतिबन्धकं द्विष्टासाधनताज्ञानं सूचितम् ।

नन्वध्ययनभावनानिर्णीतार्थपुरुषेणोक्ते मोक्षोपयोगिपदार्थे कतिपयदिनादिभिरेव शिष्याणां बोधोद्याल्लोके बहुषु तथाथॉपलब्धेः कथमनेकजन्मसाध्यत्वोक्तिः । मुख्योपायस्तु लौकिको धनं विवेकश्च । सच महाकालायाससाध्यः । उपसर्जनोपाया अपि शारीरकदुःखानिष्टत्तये भिषजां वरैरुक्तास्तेऽपि दुर्लभास्तेषां भिषजां सर्वत्र सर्वदाऽवस्थानासम्भवात् । नच येन केन चिन्निर्वाहः । अभ्यासप्रतिभादितारतम्येनैकेन निर्वाहासम्भवात् । सर्वत्र सर्वदैकस्याप्यभावात् । मानसस्यापि मनोज्ञस्त्र्पादेर्महायाससाध्यत्वाद्भ- रणमरणादित्राअसजनकत्वाञ्च। एवमाधिभौतिकस्याप्युपायस्य नीतिशास्त्राभ्यासकुशलताया अत्या- याससाध्यत्वात् । तद्वन्निरत्ययस्थानाध्यासनादयः । एवमाधिदैविकस्य मणिमन्त्राद्युपायस्य दुःसाध्यत्वात्पुनारक्षणानुष्ठानाद्यपेक्षत्वाञ्च । विवेकस्थलेऽनुष्ठेयाभावादेतदपेक्षया विवेकस्यातिसुलभत्वाञ्च । एवं विषयस्य सुकरत्वकथनासङ्गतिर्दुर्वारा इति चेत्, न । अभिप्रायानवबोधात् ।

तथाहि-आत्मा बुद्धिप्रतिबिम्बितः स्वस्मिन् प्रतिबिम्बितं बुद्धिगतं

दुःखं प्रकाशयति नतु बिम्बरूपेण कर्मकर्तृविरोधात् । सुखदुःखादि
३६
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

प्रकाश एवात्मनो भोगः । अगृहीतासंसर्गकमुभयविषयकम् ‘अहं चेतना'इत्याद्याकारकं ज्ञानमविवेको वृत्तिरूपः प्रतिबिम्बात्मना पुरुषधर्मस्तत्प्रयुक्त एव पुरुषस्य तापः । तथाच स्वाभासविशिष्टबुद्विारा दुःखप्रतिबिम्बाश्रयत्वेनात्मानं प्रकाशयति । अयमेव पुरुषस्य बन्धः । 'बुद्धिगतदुःखप्रतिविम्बोऽयम्, अहं तु तदन्यः'इति बुद्धिगतविवेकोऽयम्, प्रतिबिम्बात्मना पुरुषधर्मस्तन्निवर्तक इति । पुरुषस्य भोक्तृत्वं निरूपकतासम्बन्धेन सुखाद्याकारबुद्धिगतप्रतिबिम्बाश्रय त्वमुक्तरूपं वा । प्रकृतिश्च नित्या सदा प्रसवस्वभावा स्वतन्त्रेति मुक्तपुरुषं प्रति सृष्टिद्वारा भोगापवर्गाय न प्रवर्त्तते । यथा-‘अमा त्यादयो राज्ञोऽर्थ सम्पाद्य कृतार्थाः सन्तो न पुनाराजार्थं प्रवर्त्तन्तेऽन्यार्थे तु प्रवर्तन्ते’ इति सिद्धान्तस्तस्य च निर्युक्तिक- त्वेनानेकजन्माभिरपि विदुषामनिर्णयात् । तथा हि-दुःखहेतो बुद्धिवृत्तिरूपाविवेकस्य प्रतिबिम्बरूपेण पुरुषे स्थितस्य सत्वपुरुषान्यता- ख्यातिरूपसाक्षात्कारनिवर्त्त्यत्वं यदुक्त्तं तन्न संभवति, वृत्त्यन्तरोत्पत्यादिनैव तद्वृत्तिनाशे तत्प्रतिबिम्बस्यापि नाशेन सहजत एव दुःखनिवृत्तिरूपमोक्षः स्यात् । नच विरोधिवृत्तिनाशे पुनस्तदुत्पादने न तदत्यन्तनिवृत्तिरूपमोक्षः स्यात् । नच विरोधिवृत्तिनाशे पुनस्तदुत्पादने न तदत्यन्तनिवृत्तिरिति वाच्यम् । साक्षात्काररूपवृत्तिनाशेऽपि पुनस्तदुत्पादसम्भवेन बन्धानिवृत्यापत्तेः समत्वात् । नचाविवेकरूपवृत्तिः साक्षात्कारपर्यन्तमेकैव वृत्य- न्तराणां तद्विरोधत्वाभावेन तन्नाशानभ्युपगमात्, तन्नाशोत्तर साक्षात्कारेण नष्टस्य पुनरुत्पादानभ्युपगमान्न क्षतिरिति वाच्यम् । पूर्वपरिणामतिरोधानं विनोत्तरपरिणामादर्शनात् । उपाधिसन्निधौ ज़्‘दर्पणस्थमुखाद्भीवास्थमुखं भिन्नम्’इति निश्चयेन प्रतिबिम्बनिवृत्तेरदर्शनाञ्च । नच स्वस्ववृत्याश्रयबुद्धेरव तिरोधा- नाभ्युपगमान्न दोषः । पुनरुत्पादसम्भवात् । अन्यथा' चलं

गुणवृत्तम्'इति न्यायसिद्धस्य ‘सरूपविरूपपरिणामाभ्यां न कदाचेि
३७
शास्त्रविषयजिज्ञासाऽवतरणिका ।

तथा च लौकिकानामाभाणकः-

अक्के चेन्मधु विन्देत किमर्थं पर्दतं व्रजेत् ॥
इष्टस्यार्थस्य संसिद्धौ को विद्वान् यत्नमाचरेत्॥ इति॥

सन्ति चोपायाः शतशः शारीरदुःखप्रतीकारायेषत्करा भिषजां वरैरुपदिष्टाः । मानसस्यापि सन्तापस्य प्रतीकाराय मनोज्ञस्त्रीपानभोजनविलेपनवस्त्रालङ्कारादि- विषयसम्प्राप्तिरुपायः सुकरः । एवमाधिभौतिकस्यापि दुःखस्य नीतिशास्त्राभ्यासकुशलतानेिरत्ययस्थानाध्यासनादिः प्रतीकारहेतुरीषत्करः । तथाऽऽधिदैविकस्यापि मणिमन्त्रौषधाद्युपयोगः सुकरः प्रतीकादपि वियुज्यतेऽचेतनम्' इतिसिद्धान्तस्य भङ्गापत्तेः । न च ‘अमात्यवत् कृतार्था सती तं प्रति न वर्तते' इति युक्तमिति वाच्यम्। दृष्टान्तवैषम्यात् । व्यापकप्रधानस्य जायमानानां बुद्विद्वारा दुःखादिपरिणामानां व्यापके मुक्तपुरुषे प्रतिबिम्बनिरोधस्य कपिलेनापि कर्तुमशक्यत्वाच्च । योगमाहात्म्यादङ्गीकारे त्वन्यदपि स्यात्। इत्थं चैतदपेक्षया लौकिकोपायस्य सुकरत्वकथनमिति ।

लौकिकोऽप्ययं न भवतीति सूचनाय लौकिकीं सम्मतिमाह--तथाचेति । आभाणकः-अप्रसिद्धो वाक्यरूपः शब्दः । तदेव दर्शयति अक्के इति । अके गृहकोणे । मर्ध्र्वर्थीति शेषः । मधुपदमभिलाषितविषयपरम्, पर्वतपदमतिदुष्करोपायसाध्यपरम् । तदेव दर्शयति- इष्टस्येत्यादिना । इष्टस्याभिलषितस्य संसिद्धौ सम्प्राप्तौ । कचित्सम्प्राप्तावित्यैव पाठः । उपाया इत्युपदिष्टा इत्यत्रान्वेति । भिषजां वरैः-उत्कृष्टवैधैः । उत्कषश्चाध्यापनम्, दुर्गतादिभ्यः स्वभैषजदानादि च । निरत्ययस्थानं बाधनशून्य स्थलम् । अध्यासनादि उपवशनादि च । माणमन्त्रादात्यादिपदेनैौषधादि ।

उपयोगः-मण्यादेर्धारणम्, मन्त्रादेः पाठादि ।
३८
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

रोपाय इति ॥

निराकरोति-“न ?' इनि । कुतः ? । * एकान्तात्यन्ततोऽभावात्' । एकान्तो दुःखनिवृत्तेरवश्यम्भावः अत्यन्तो निवृत्तस्य दुःखस्य पुनरुत्पादः त्योरेकान्तात्यन्तयोरभाव एकान्तात्यन्ततोऽभावः। षष्ठीस्थाने सार्वविभक्त्तिकस्तसिः।

एतदुक्त भवति यथाविधि रसायनादिकामिनीनीतेि- शास्त्राभ्यासमन्त्रादुपयोगेऽपि तस्य तस्याध्यात्मिका-


विमतं मोक्षसाधनं न प्रेक्षावाज्जिज्ञास्यं तत्साधनान्तरापेक्षया बह्वायाससाध्यसाधनत्वात्सम्मतवदिति शङ्काऽभिप्रायः ।

दुःखनेिवृत्तिपदानुषङ्गेनार्य्यां योजयति-एकान्त इत्यादिना । निवृत्तस्य-निवृत्तजातीयस्य । तेन निवृत्तस्य यः पुनरनुत्पा- दस्तस्य संसारदशायामपि सत्त्वे न क्षतिः ।

ननु शास्त्रगम्योपायजिज्ञासा न व्यर्था एकान्तात्यन्तदुःख- निवृत्यभावादिति हेत्वसिद्धिनिरासाय दृष्ट इत्यनुषङ्गे तुल्यवि- त्तिवेद्यतया दृष्टोपायस्यात्यन्तिकदुःखनिवृत्तिसाधनत्वाभावपरतया मूलं योजयितुमाह--एतदुक्तं भवतीति । तथाच दृष्टोपायस्य तादृशेष्टसाधनत्वाभावाद्विशेषणासिद्धया उक्तहेत्वसिद्धिरिति भावः ।

प्रयोगस्तु विमतमिष्टसाधनं न प्रेक्षावज्जिज्ञास्यमुक्त्तेष्टसाध- नत्वाभावात्संमतवदिति । प्रयोगान्तरं च स्वयमूह्यम् ।

रसायनमणिमन्त्रादयो नात्यन्तद्ःखनिवृत्तिहेतवः मुक्त्तिहेतुतया वेदानुक्तत्वात्सम्मतवव्द्यतिरेके तत्त्वज्ञानवदित्यन्ये ।

यथाविधीति तु मन्त्रान्तेषु सम्बध्यते । ननु दुःखस्य निमृत्ते- रदर्शनेनैकान्तिकदुःखनिवृत्तिसाधनत्वाभावसाधनेऽसिद्धोऽयं हेतु-

र्दुःखनिवृत्तेर्दशनादित्याशङ्क्या तस्य तस्येति । तथाकचिन्निवृते
३९
शास्त्रविषयजिज्ञासाऽवतरणिका ।

देर्दूःखस्य निवृत्तेरद्दर्शनाद् अनैकान्तिकत्वम्, निवृत्तस्यापि पुनरुत्पत्तिद्दर्शनाद् अनात्यन्तिकत्वम्, इति सुक-


र्दर्शनेऽपि नियमासिद्धया नियमवटितसाधनत्वासिद्धिरित्यर्थः । एतेन तस्येति लेखकप्रमाद इति परास्तम् । यस्य कस्य चिद् दुःखस्य लाभसूचनेन सार्थकत्वात् । निवृत्तस्येति । पूर्वव्द्याख्येयम् । नचैकान्तिकत्वविशेषणं व्यर्थं प्रकृतेऽनुपयोगादनैकान्तिकत्वसाधने धनार्जनादो जिज्ञासादिदर्शनाच्चेति वाच्यम् । सुकरोपाये जिज्ञासा दिसम्भवेऽपि महायाससाध्ये तादृशोपाये जिज्ञासाद्यसम्भवात् ।

हेतुद्वयबोधकामिदमित्यपरे ।

यत्तु बुद्धेः पुनरुत्पादापत्तिस्तन्न । जहतेति व्याख्यावसरे दत्तोत्तरत्वात् ।

यद्यपि यत्किञ्चिद्बुद्ध्यदेर्निरन्वयनाशोऽपि विद्यमानबुद्धयादि- परिणामानां व्यापके पुरुषे प्रतिबिम्बो निरोद्धुमशक्यस्तथाऽप्युक्त- स्वस्वबुद्धिभावापन्नेत्यादिविशेषणाभावेन शिष्टाभावसंभवात् ।

दुःखनिवृत्तेरैकान्तिकत्वं च नियमेन स्वाव्यवहितोत्तरक्षणोत्पत्तिकत्वम् । नियमस्तु यत्र यत्क्षणावच्छेदेन यद्धर्मावच्छिन्नसामग्री तत्र तदुत्तरक्षणे तद्धर्मावच्छिन्नोत्पत्तिरिति व्याप्तिः । दुःखनिवृत्तेरात्यन्तिकत्वं च स्वसमाना- धिकरणदुःखासमानकालीनत्वम् । स्वमोक्षदशायां स्वसमाना- धिकरणदुःखाभावेन दुःखध्वंसस्य तदसमानकालीनत्वाल्लक्षणसमन्वयः । संसारिणां दुःखसत्त्वेनेदानीन्तनदुःखध्वंसे तदसमानकालीनत्वाभावान्नातिव्याप्तिः । दु:खासमानकालीन- त्वमात्रस्य दुःखध्वंसविशेषणत्वे चरममोक्षे लक्षणसमन्वयेऽपी दानीन्तने शुकवामदेवादिमोक्षे स्वव्यधिकरणास्मदादिदुःखसमानकालीनतया

लक्षणसमन्वयो न भवतीत्यतः स्वसमानाधि
४०
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

करणत्वं दुःखविशेषणतयोपात्तम् । उपान्त्यदुःखध्वंसस्यापि ता- दृशचरमदुःखसमानकालीनतया न तत्रातिव्याप्तिः । नच सुषुप्तिदशायां दुःखाभावे दुःखध्वंसे तादृशदुःखसमानकालीनत्वाभावादतिव्याप्तिरिति वाच्यम् । तादृशदुःखासमानकालीनत्वस्य तादृशदुःखसमानकालीन- भिन्नत्वरूपतया सुषुप्तिकालीनदुःखध्वंसस्य सुषुप्त्युत्तरतादृशदुःख- समानकालीनतया तदवच्छिन्नभिन्नत्वाभावात् । अत्यन्ता- भावस्याव्याप्यवृत्तित्वेऽप्यन्योन्याभावस्य व्याप्यवृत्तित्वात् । नच तथाऽपि स्वत्वस्याननुगमन लक्षणाननुगम इति वाच्यम् । स्वसामानाधिकरण्यकालिकाविशेषणतोभयसम्बन्धेन दुःखवान् यस्तद्भिन्नदुःखध्वंसस्य मोक्षरूपतयाऽननुगमाभावात् । सम्बन्धमध्ये स्वत्वस्य परिचायकतया निवेशेन सम्बन्धाननुगमस्यादोषत्वादिति ।

एतेन् दुःखध्वंसो मोक्ष इत्यत्र दुःखप्रतियोगिताको वा दुःखत्वावच्छिन्नप्रतियोगिताको वा तत्तत्परुषीयदुःखत्वावच्छि नमप्रतियोगिताको वा ध्वंसः ? । नाद्यः । संसारदशायामपि सत्वात् । न द्वितीयः । ध्वंसस्य प्रतियोगिजन्यतया यावद्- दुःखानां युगपदसम्भवेनामम्भवात् । अत एव न तृतीयः । तत्तत्पुरुषीययावद्दुःखध्वंसोऽपि न, यावत्वस्य दुःखविशेषणत्वे पूर्वोक्तदोषानिवृत्तेः । ध्वंसविशेषणत्वे यावत्त्वस्यानिर्णयेन मोक्षस्यानिर्णयापत्तेरननुगमाच्चेतेि परास्तम् ।

अत्र वेदान्तिनस्तु दुःखध्वंसो न मोक्षस्तस्यापुरुषार्थत्वात् । न च हेत्वसिद्धिः । 'दुःखं मे मा भूद्' इति कामनाया दुःखानु- त्पादाविषयत्वेन दुःखध्वंसे पृथकामनाऽदर्शनात् । भूतभाविदुः खध्वंसे वर्तमानतत्त्वज्ञानस्य कारणत्वासम्भवेन स्वसमाना- धिकरणस्वसमानकालीनदुःखध्वसम्प्रत्येव हेतुता वक्तव्या, तथा

च ‘उत्पन्न दुःखं मे मा भूद'इत्यादिस्वविषयकज्ञानादिनाश्यतया तत्र
४१
शास्त्रविषयजिज्ञासाऽवतरणिका ।

तत्त्वज्ञानस्यान्यथासिद्धत्वाच्च । नच स्वसमानाधिकरणस्वस- मानकालीनयावत्प्रागभावानामुत्तरसमयसम्बन्धित्वरूपपरिपालनमेव तत्त्वज्ञानस्य फलमस्त्विति वाच्यम् । प्रतिबन्धकाभावविशिष्ट- दुःखसामग्रय दुःखोत्पादसम्भावेन तादृशफलस्यानेन कर्त्तुमशक्यत्वात् । नच दुःखानुत्पाद एव पुरुषार्थो भवत्विति वाचयम् । तत्प्रागभावस्यात्यन्ताभावस्य वा ज्ञानासाध्यत्वा ध्वंसस्य तु निरस्तत्वात् । एतेन चरमदुःखध्वंसो मोक्ष इति परास्तम् । अत्रापि पूर्वोक्तान्यथा- सिद्धत्वदोषानिवृत्तेः । दुःखप्रागभावासहवृत्तिदुःख्ध्वंसरूपचरमदुःखध्वंसर्वस्य नीलघटत्वदार्थसमाजग्रस्ततया कार्यंतानवच्छेदकत्वाच्च । आर्थसमाजग्रस्तत्वं च सामग्रीद्वयायत्तत्वम्। तच्चात्रापि विशेषणांशस्य तत्तत्प्रागभावनाशाकदुःखसाम- ग्रीस्वाव्यवहितक्षणोत्पन्नविशेषगुणोत्पादकसामग्रयोः सत्त्वादक्षतम् । नचार्थसमाजग्रस्तधर्मस्य कार्यंतानवच्छेदकत्वे प्रमाणाभाव एव बीजम्, तच्चात्रपि नास्तीति वाच्यम् । चरमदुःख्ं तत्त्वज्ञानान्नश्यतीति बोधकप्रमाणश्रुतेरन्यस्य वाऽदर्शनात् । न च चपरमदुःखमेव तत्वज्ञानादृते न भवतीति वाच्यम् । यावदुःखभावेषु नष्टेषु तत्कालीनदुःखस्यान्यत्र क्लृप्तकारणत एव निर्वाहे पृथक्कारणत्व- कल्पनाऽसंभवात् । तत्कल्पने तु अहो अतिविलक्षणस्त्वं नैयायिकमुमुक्षुर्यस्त्वं ब्रह्मलोकान्तं सुखं परित्यज्य दुःखार्थमेव यतसे ।

नच यदि दुःखनिवृत्तिर्न पुरुषार्थस्तर्हि कथं मृग्यत इति वाच्यम् । अन्यच्छानधीनेच्छाविषयत्वरूपस्वतः पुरुषार्थत्वाभावेऽपि सुखं दुःखाभावे सत्येव भवतीति सुखसाधनान्तरवत्तस्यापि सुखसाधनत्वेनेच्छाविषयत्वसम्भवात् । नचैवं हि भोजनादिसुखे सत्येव बुभुक्षादुःखें

निवर्त्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न तु
४२
सटीकसाङ्ख्यतत्त्वकौमुद्याम् ।

रोऽपि ऐकान्तिकात्यन्तिकदुःखनिवृत्तेर्ने दृष्ट उपाय इति नापार्था जिज्ञासेत्यर्थः ॥


तदेव तस्य समीहितमिति वैपरीत्यमपि किं न स्यादिति वाच्य म्(?) । 'शिरो मदीय याति यास्यति’ इत्यभिसन्धायोत्कटरागा- न्धानां क्षणिकसुखार्थं निन्दितपरदारग्राम्यधर्मौदौ प्रवृत्तिदर्शनात् । अत्र क्षणिकसुखकालीनदुःखाभावस्य पुरुषार्थत्व बहुकालदुःखा- नुभवायोगात् सुखसाधनताज्ञानस्यव प्रवर्त्तकत्वसम्भवे दुःखा- भावस्य पुरुषार्थत्वं परिकल्प्य तत्साधनप्रवर्तकसंग्रहायेष्टसाध- नताज्ञानस्येच्छाविषयत्वप्रवेशेन गुरुघटितस्य प्रवर्तकत्वकल्पना- पत्तेश्च “सत्यं ज्ञानमनन्तं ब्रह्म' “विज्ञानमानन्दं ब्रह्म" “ब्रह्मविद्ब्र्ह्मैव भवति" इतिश्रुत्या तत्त्वज्ञानप्रयोज्यसचिदानन्द- रूपब्रह्मप्रापेरेव मोक्षत्वावधारणात् । नचानन्दो दुःखाभाव इति । उत्कर्षापकर्षानुभवविरोधापत्तेः । उत्तरोत्तरशतगुणोत्कर्षपादक- श्रुतिविरोधाच्च ।

ननु तव मत तादृशब्रह्मणः प्रत्यग्रूपतया नित्यप्राप्तत्वात्कथं तत्वज्ञानसाध्यत्वमिति चेच्छृणु । अविद्यया जीवभेदवदानन्द भेदोऽप्यध्यस्त इति संसारदशायां जीवान्तरवदानन्दापरोक्ष्यं नास्ति, अविद्यानिवृत्तौ तु आनन्दभेदविलयात्तदापरोक्ष्यामिति तन्निवृतिद्वारा तत्त्वज्ञानमुपयुज्यत इति । तस्मात्सिद्धं जीवस्याद्वैतब्रह्मसाक्षात्काराद्भेदभ्रमनिवृत्या सच्चिदानब्रह्मावाप्तिर्मोक्ष इति दिगिति वदन्ति ।

उपसंहारर्तिसुकओपीति । न दृश्ह्टोपायः---उक्त्तधनादिरूपः । तथाच श्रुतिः-“अमृतत्वस्य तु नाशाऽस्ति वित्तेन' इत्यादि । अत्र वित्तपदं लौकिकदुःखनिवृत्तिसा-


(१) लौकिक्युक्तिरियम् । अपराधनिमित्तकं स्ववधमनुसन्धाया-

पीत्यर्थः ।
४३
शास्त्रविषयजिज्ञासाऽवतरणिका ।

यद्यपि दुःखममङ्गलम्, तथाऽपि तत्परिहारार्थत्वेन तद्पघातो मङ्गलमेवेति युक्तं शास्त्रादौ तत्कीर्तनमिति ॥ १ ॥


स्यादेतत् । मा भूद् दृष्ट उपायः, वैदिकस्तु ज्योतिष्टोमादिः सहस्रसंवत्सरपयन्तः कर्मकलापस्तापत्रय-


धनान्तरोपलक्षकम् । नन्वयं ग्रन्थोऽव्याख्येयोऽशिष्टपणीतत्वात् । न च हेत्वसिद्धिः। शिष्टाचारप्राप्तमङ्गलाकरणेन ग्रन्थकर्त्तुरशिष्टत्वादि- त्याशङ्कते यद्यपीति । समाधत्ते तथापीति । तदपघातो दुःख- त्रयापघातबोधकः शब्दो माङ्गल्य ओंकारादिशब्दवन्मङ्गलहेतुः ॥७॥ हेयं हेयहेतुश्चेति व्यूहद्वयं संक्षेपेणोक्त्वा वक्ष्यमाणहो- नेापायोपक्षया सुसाध्येन वैदिकोपायेन जिज्ञासावैयर्थ्यं शङ्कते-स्यादेतदित्यादिना । सहस्रसंवत्सरपर्यन्त इति । “पञ्चपञ्चाशतास्त्रिवृतः संवत्सराः पञ्चपञ्चाशत: पञ्चदशाः पञ्चपञ्चाशतः सप्तदशाः पञ्चाशत एकविंशाः वोश्वसृजामयनं सहस<वत्सरम् " इति वाक्यमुदाहृत्य षष्टे " सहसरसंवत्सरं तदायुषामभावान्मनुष्येषु " (पू० मी० अ० ६ पा० ७ अ० १३ सू० ३७ )इत्यत्र विचारितम् । पञ्चपञ्चाशतः सार्द्धशतद्वयसंख्याकास्त्रिवृतः त्रिवृत्स्तोमकयागयुक्ताः । स्तोत्रीयत्रकुकूत्रयस्य त्रिरावृतिर्यस्मिन्यज्ञे तद्युक्ता इति यावत् । एवं पञ्चदशा इत्यत्र स्तोत्रीयञ्ऋक्त्रयस्य पञ्चावृत्या पञ्चदशस्तोमकयाग- युक्ता इत्यर्थः । एवमग्रेऽपि बोध्यम् ।

अस्मिन्सूत्रे सहस्रायुषां गन्धर्वादीनां त्वग्न्युपसंहारासामथ्र्याद्यदि मनुष्याणामेवाधिकारः तदा किं रसायनादिसम्पादितसहस्रायुषाम्, उत्त कुलकल्पः, उत विश्वसृजामयनं कुर्वतां सहस्रायुषां कल्प्यम्, अथवार्द्धतृतीयशतानामधिकारः, “उत यो मासः स


मेकान्तमत्यन्तश्चापनेष्यति । श्रुतिश्च-“स्वर्गकामो यजेत'इति ।

 स्वर्गश्च--


सर्वत्सरः’ इति दर्शनाद् मासेषु संवत्सरत्वमाश्रित्य सुखेनायं मनुष्याधिकारः, उत “संवत्सरप्रतिमा वै द्वादशरात्रयः' इति प्रयोगाद्वादशरात्रेिषु संवत्सरशब्दः, उत दिवसेषु इति पक्षाः ॥

 नाद्यः । “शतायुः पुरुषः'इति विरोधात् । रसायनस्यैतावदा- युःसम्पादनासामर्थ्र्यात् । न द्वितीयः । “शास्रफलं प्रयोक्तरि" इतिन्यायात्समग्रकर्मानुष्ठायिनामेव फलनिर्णये तेषां प्रवृत्य सम्भवात् । न तृतीयः । प्रत्यक्षादिविरोधात् । चतुर्थपक्षे "पश्वपञ्चाशतः" इतेियजमानाभिप्राया संख्या एकोऽपि त्रिवृत्स्तोम- कयागयुक्तः संवत्सरः पञ्चपञ्चाशत्संख्यैः प्रत्येकं कर्तृभूतैः संबश्यमानस्तत्सैख्यो भवति तथा पञ्चदशादयोऽपीते तेन चतुःसंवत्सरमिदं सत्रमर्द्धतृतीयैर्यजमानशतैः क्रियमाणं सहस्रसं- वत्सरमिति कथ्यत इति “चतुर्विंशातपरमाः सलमासीरन्" इति वचनविरोधापत्तिः । न पञ्चमः । आधानादूध्वं सहस्रमासजी- वनासम्भवेनाशक्तितादवस्थ्यात् । न षष्ठः । संवत्सरशब्दस्य प्र तिमाविशेषणत्वेन द्वादशरात्रिष्वप्रयोगात्तस्मात्रिवृदादिमामञ्ज- स्याद्दिवसेषु संवत्सरशब्दः । त्रिवृदादिपदैस्तोमविशिष्टमहरुच्यते नाहःसङ्कस्ततोऽहःसु गौणी संवत्सराभिधेति ।

 ननु ज्योतिष्टोमस्य पूर्णमासादिजन्यस्वर्गे व्यभिचारवारणाय विजातीयस्वर्गं प्रत्येव हेतुत्वावश्यकत्वे कृतज्योतिष्टोमस्यापि परोत्कर्षॉसहनजन्यदुःखसम्भवात्कथमात्यन्तिकदुःखनिवृत्तिरेित्या- शङ्क्याह कर्मकलापइति । तथा च निखिलकाम्यकर्मानुष्ठाने

परोत्कर्षासम्भवेन न दुःखोत्पत्तिरिति भावः ।
४५
शास्त्रविषयजिज्ञासाऽवतरणिका ।

यन्न दुःखेन सम्भिन्नं न च ग्रस्तमनन्तरम् ॥
अभिलाषोपनीतं च तत् सुखं स्व:पदास्पदम्’॥इति ।
(तन्त्रवार्तिकम्)

दुःखविरोधी सुग्वविषश्च स्वर्गः। स च स


 ननु स्वर्गपदस्य लोक ऽप्रयोगात्कथं स्वर्गपदशक्तिग्रह इत्याशङ्क्या तच्छक्तिग्राहकमर्थवादं दर्शयति स्वर्गश्चेत्यादि । ततसुखम्- यन्नद्खुनेत्यादिनोक्तं सुखम् । स्वःपदास्पदम्-स्वर्गपदचाच्यम् । अत्र मिलितं धर्मत्रयं स्वर्गपदशक्य त्त्च्छेावच्छेदकम् । अत्र दुःखपदं स्वावच्छेदकपरम् । अवच्छिन्नत्वं तृतीयार्थः । तथाच स्वावच्छेदकावच्छिन्नभिन्नसुखत्वं तदर्थः । नच खण्डशरीरजन्ये ऐहिकमुखेऽतिव्याप्तिरिति वाच्यम् । स्वावच्छेदकावृत्तिजात्याश्र- यावच्छिन्नसुखत्वस्यैव विवक्षितत्वात् । स्वर्गावच्छेदकअठ्ठतिचैत्र त्वादिजातेर्दुःखावच्छेदकवृत्तिचैत्रत्वादिजातिभिन्नत्वान्नासम्भवः । नचग्रस्तमनन्तरमित्यस्य क्षणद्वयात्मककालोपाध्यवच्छेदेन स्वा- भाधावच्छेदकावाच्छिन्नभिन्नसुखत्वमर्थः । नच क्रमिकखण्ड- शरीरावच्छिन्ने ऐहिकसुखेऽतिव्याप्तिरिति वाच्यम् । क्षणद्व- यात्मककालोपाध्यवच्छेदन स्वाभावावच्छेदकावृत्तिजात्याश्राव- च्छिन्नसुखत्वस्य विवक्षितत्वात् । अभिलाषोपनीतानेिति । अभिलाषविषयस्रक्चन्दनवनितादिजन्यसुखत्वम् । तद्विषयसम्बन्धगो- चरेच्छाव्यवहितोत्तरकालावच्छेदेन तत्तद्विषयसम्बन्धत्वावच्छिन्ना- भावावच्छेदकजात्याश्रयावच्छिन्नसुखत्वमिति यावत् । तेनैहिकसुखे नातिव्याप्तिः । ननु कर्मकलापस्य सुखविशेषरूपस्वर्गजनकत्वेऽपि आत्यन्तिकदुःखनिवृत्तिरूपमोक्षजनकत्वात्कथं तेन जिज्ञासावैयथ्र्यमित्यत आह दुःखविरोधीति ।

 ननु सुखविशेषरूपः स्वगों नागामिदुःखविरोधी, सुखत्वादैहिकसुखवदित्या-

शङ्क्याह सचेति । तथाचार्थवादबाधितमित द्बाधितमिदम
४६
सटीकसाङ्ख्यतत्वकौमुद्याम् ।

त्तया समूलघातमपहन्ति दुःखम् । न चैष क्षयी । तथा हि श्रूयते--"अपाम सोमममृता अभूम" इति ( अथर्वशिरस ३) । तत्क्षये कुतोऽस्यामृतत्वसम्भवः १॥


नुमानमित्यर्थः । सच-उक्तसुखरूपविशेषरूपः स्वर्गः । ननु तत्तेद्देशावच्छिन्नसुखस्य तत्तद्देशावच्छिन्नदुःखविरोधित्वादन्यदशा वच्छेदेन दुखोत्पत्तौ बाधकाभाव इत्याशन्ग्क्यार्थवादाविरोधाय स्वरूपेणैव विरोधित्वान्मैवमित्याह स्वसत्तयेति । ननु सुखना- शाधिकरणतृतीयक्षणवर्तिना पशुहिंसादिजन्मनाऽनर्थहेतुनाऽपूर्वेण चतुर्थक्षण दुःखात्पादसभक इत्याशङ्क्या समूलघतमिति । तथा च कर्मकलापान्तर्गतप्रायश्चित्तेन तस्य नाशादिति भावः । समूलघातमितिक्रियाविशेषणम् । नच प्रायश्चित्तेन तन्नाशे सुखेन तन्नाशाभिधानमसंगतमिति वाच्यम् । सुखपदस्य प्रायश्चित्तसहकृतस्वजनकसामग्रीपरत्वात् । ननु “यत् कृतकं तद् आनित्यम्" इतिसामान्यतोदृष्टानुमानानुगृहीतया “तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्याचेतो लोकः क्षीयते' इत्यादिश्रुत्या स्वर्गस्याप्यनित्यत्वावगमान्न तेन जिज्ञासावैयर्थ्यमित्याशङ्क्याह नचैष क्षयीति । तथाच “अपाम सोप्रममृता अभूम” “अक्षय्यं ह वै चातुर्मास्ययाजिनः सुकृतं भवति" इत्यादिश्रुत्यविरोधाय प्रवाहानादित्वरूपं नित्यत्वमभ्युपेयते इति भावः । तदेवोपपादयति-- तथा हीति । क्वद्देवानां जल्प आसीत् ‘कथं वयमत्रागताः' इतिाविचार्योचुः -

“अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ॥
किं नूनमस्मान् कृणवदरातिः किमुधूर्तिरमृतमर्त्यस्य ॥ इति ।

तदेवाह अपामेत्यादिः । हेतुभूतातीतसोमकर्मकपानानुकूलकृतिवन्तो वयं तत्कालीनतत्काय्येभूतामृतत्वभवनाश्रया इत्यर्थः । तत्क्षये-

सोमपानादिप्रयोज्यस्वर्गक्षये । अस्य-सोमपा
४७
शत्रविषयजिज्ञासा5धतरणिका ।

तस्माद्देिकरस्य पायस्य तापत्रयप्रतीकारहेतोIत्रुहूतैया माहोरात्रमास्रसंवत्सरनिधेर्तनीयस्यानेकजन्म परम्परा स सम्वदनयद् विवेकज्ञानाद् इषत्करत्वात् पुन रप व्यथा जिज्ञासा इत्याशङ्कायाह

दृष्टवदनुश्रावकःस ह्यावशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥

 "दृष्ट-” इति । गुरुपठनुभूयत इत्यनुश्रवो वे दः । एतदुक्तं भवति-‘भूयत एव परं न केनापि क्रि

नादेकत्तुः । अमृतत्वसम्भवः-अमृतत्वकथनसम्भवः । उपस रति तस्मादिति । यद्यसेति । यथैतत्तथोक्तं प्राक् ।  वेदस्य भ्रमप्रतारणाददोषांने र सफलकापरुपेयत्वलभायनु श्रघषदोपादानमित्याह एतदुक्तमितिनकेनाचित् क्रियत इति।

 ननु वेदोऽनित्यः सवे सति जन्यत्वात्, घटवत् । नच हेत्वासिद्धिःप्रयनानाभिव्यङ्ग्यत्वे सति तदनन्तरमुप लभ्यमनवत् घटवदित्यादिना हेतोः पक्षधर्मत्वावगमात् । यद्वा नेयमन द्रागेचानुपलभ्यमानत्वात् । नचासिद्धमनभिव्यङ्ग्य स्वम् । प्रतिबन्धकनिरासेन संस्काराधानेन वsiभव्यक्तेरय गात् । नच स्तिमिता वायवः शब्देपलब्धिप्रतिषन्धकाः प्रयनोत्थापितकोष्ठयघायुभिस्तेर्देवपसारितेष्वभिव्यक्तिः संभवती ति वाच्यम् । तद शब्दानां सर्वगततया । युगपच्छषणा पत्तेः कोष्ठचा वायवः शब्दस्य संस्कारमादध्युरित्यपि न । अन वयघत्वेन संस्कारायोगात् । श्रोत्रं संस्कुर्युरित्यपि न, संस्कृतेन सर्वशब्दवधारणापत्तेः । अत । एव नोभयमपि । उभय दोषसमुच्चयात् । तस्मान्न . प्रयत्नाभिव्यङ्ग्यः शब्द इति ।

'अस्य महतो भूतस्य निश्वसितमेतद्यदृग्वेदो यजुर्वेदः साम
४८
सटीकसारूपतवकौमुद्यम्

वेदश्च’इतिबृहदारण्यकेन अस्य महतो भूतस्य निर्यसिद्धस्य ब्र ह्मणो निश्वसेितं प्रमाणान्तरेणार्थज्ञानप्रयासं विना इवासtदे न्यायेन सिद्धमल्पप्रयन्नसिद्धो वेदो न वजन्य इत्यर्थकेन, "त- स्म।यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे” इतिमन्त्रेण सर्वयज्ञ हूयमानाद्यज्ञशब्दवाच्याद् ब्रह्मणो जज्ञिरे उस्पन इत्यर्थकेन वेदस्योषस्यवधारणाच्च । तथाच दृढे ऽनित्यत्वे दीपावसादृश्य प्रत्यभिज्ञोपपादनीयेति चेन्न ।

नित्यः शब्दो यममात्रगुणत्वत् िव्यमपरिमाणवत् । नचत्रमयजकत्वम् । शब्दो यदि निरयो न स्यात्तर्हि पूर्वं कालीनतदभेदप्रत्यभिज्ञाविषयो न स्यादित्यनुकूलतर्कसस्यात् । नच पूर्वोक्तश्रुतिबाधितामिदमनुमानमिति वच्यम् । “वाचा वि रूप नित्यया’इति मन्त्रस्य विरूपेति देव तां संबोध्य नित्यया वच स्तुतिं प्रेरयेत्यर्थकस्य,

अनादिनिधना नित्या वागुत्सृष्ट स्वयंभुवा ।
आदौ वेदमपो दिव्या । यतः सर्वाः प्रवृत्तयः ॥ इति
स्मृतेश्चाविरोधायोक्तश्रुतेव्येञ्जकवायूपस्यादिपरत्वात् ।

 यत्तु स्तिमितवय्वपसारणपक्षे सर्वशब्दप्रकाशापत्तिरित्यु क्तम् । तत्रोच्यते । अनयो हि तास्वादिस्थानविशेषसंस्काराविशेष संपर्कोद्विजातीया विलक्षणसामथ्र्यो निष्पद्यन्ते । ततश्च कश्चिदेव धनिः कस्य चिदेव शब्दस्य स्लािमितवाच्यपसारणमाधत्ते न सर्वस्य सर्वसाधारणमिति व्यवस्थोपपद्यते ।

 एवं श्रोत्रसंस्कारपक्षे ऽपि कस्य चिदेव शब्दस्यानुगुणं संस्कारमाधते न सर्वस्य सर्वसधारणमतो न सकृत्संस्कृतश्रो त्रेण सर्वशब्दप्रकाशापतिः ।

 दृष्टा च सम।नेद्रियग्राह्याणामप्यभिव्यञ्जकव्यवस्था । सावित्री

हि तेजो घटादीनामेवाभिव्यञ्जकं ने.नक्षत्राणाम् । निंबवक चंद
४९
शान्नविषयजिज्ञासाऽवतरणिका

नगन्धस्यैव व्यञ्जको न गन्धान्तराणाम् ।

 नच शब्दाभिव्यक्तिपक्षे सर्वपुंसामुपलब्धिप्रसङ्गः । ध्व नीनां प्रादेशिकस्वेन तद्देशावच्छेदेन शब्दे संस्काराभ्युपगमाछ । तथाच तद्देशवच्छिन्नशब्देन यस्येन्द्रिये सन्निकृष्टं स एव नष्ट णोतेि नन्य इत्युपपन्नम् ।

 ननु ककरदया नन युगपदेशेषेषलभ्यमानत्वात् सं मतवदिति चेन्न । एकस्यैव वयस्यैकस्य सुखस्य च युगपनन देशेपूलभ्यमानत्वेन तत्र व्यभिचारात् । तथाच विन्ध्यनिलयाः कामरूपनिलयाश्च पुरुषा भिन्नेषु स्वस्सम्राटंपरिदेशादिषु यु गपदेकं सूर्यं पश्यन्ति योऽपराहे यस्मिन् यावत्दूरदंशे खये पश्यति स ‘अस्मिन् पर्वते खर्यं ? इति सवितारमीक्षमाण एव ते देशं गतस्ततः परस्तात्तथैव पश्यति, तत्रत्या अन्ये जना स्तथैवे ति भिन्नेषु देशेषु युगपदेकस्यैवोपलभ्यमानत्वं सम्भवति । तथैकं सुखं भिन्नष्वादशेषु युगपद् दृश्यते ।

 ननु प्रतिबिम्बं नामार्थान्तरम् । सूर्यांमध्ये मूर्धान्तरासम्भवात्। सुखेन विना ऽननुभवात्, क्वचिकदाचिदपि वैलक्षण्येनानुपलभ्य मानवच्च । अन्यथा शरावस्थमुदकं भूमेरुपरि नाभिदघ्ने धार यितुस्तस्योपरिष्टादरनिदध्ने मुखं कुर्वतः शरावगतेबन्धादुद कस्याधस्तादरत्रिमात्रे मुखप्रतिबिम्बर्देशनात्तथैव तत्पार्श्वस्थानां दर्शनापत्तेश्च । ग्रहणकारणं तूपाधिना जवेन प्रतिहतं परावृत्तं नायनं तेज एन । तस्मान्नानादेशोपलम्भस्यानकान्तिकस्वन्न ना नात्वसाधकत्वमिति भावः ।

 नचोत्पत्तिविनाशयेरुभयोर्वाधकत्वकल्पनपेक्षया प्रत्यभिज्ञ मात्रस्य बाध्यस्वकल्पनायां लाघवमिति वाच्यम् । अनिस्यत्व साधकप्रमाणाभावे प्रमाणासहकारिणो लाघवस्याकीश्वकरत्वात् । संजातीयानन्तवेदकल्पनायामतिगौरवाच ।

५०
सटीकसाङ्ख्यतत्वकौमुद्यम्

यते’ इति । तत्र भव आनुश्रविकः । तत्र प्राप्तो ज्ञात इति यावत् । आनुश्रविकोऽपि कर्मकलापो दृष्टेन तुल्य वर्तते, ऐकान्तिकात्यन्तिकदुःखप्रतीकारानुपायत्वयो भयत्रापि तुल्यत्वात् ।

 यद्यपि च “आनुश्रविकः" इति सामान्याभिधानम्, तथाऽपि कर्मकलाषाभिप्रायं द्रष्टव्यम्, विवेकज्ञानस्या प्यानुश्रविकत्वात् । तथा च भूयते-"आत्मा वाऽरे

 नचैवं पौरूषेयाणां भारतादीनामपि वेदाविशेषापत्तिरिति वाच्यम् । आनुपूर्वीविशेषेण विशेषात् । नच आनुपूर्वीविशेषस्य पु रुषाधीनतया पौरुषेयस्वापत्तिरिति वाच्यम् । सजातीयोचारणानपे क्षचरणाविषयत्वरूपपौरुषेयत्वाभावात् । सगद्यकाले ईश्वरः पू - वेसगसिद्धानुपूर्वकं वेदं ज्ञात्वा तथैव।चख्यौ, नतु विजाती यानुपूर्वकम् । तादृशधेदाध्ययनस्यैवाभ्युदयनिःश्रेयसहेतुत्वात् । अन्यथा तस्य वाग्वज्ञतया ऽनर्थहेतुत्वापत्तेरिति । महाभारतादौ च सजातीयोच्चारणानपेक्षोच्चारणविषयत्वमापौरुषेयवापत्तिरिति ।

 औपनिषदस्तु-षभिश्चित्रैरद्वितीये ब्रह्मणि तात्पर्यानुरो धादेकविज्ञानेन सर्वविज्ञानानुपपत्तेश्च वाचेत्यादिश्रुतिस्मृतीनामर्थ वादत्वं प्रवाहरूपनित्यत्वं वा ऽभ्युपेयमित्याहुः ।

 चेद अर्थस्य प्राप्तेरभावदाह ज्ञानइति । सधारणधमें द भैयति ऐकान्तिकेत्यादि । ऐकान्तिकात्यन्तिकदुःखनिवृत्यनु पायत्वसाधकसह्याविथीत्यादिवक्ष्यमाणहेतोः पद्भकदश ऽसि द्धिवारणायैतद्विपरीतइतिग्रन्थासङ्गतिनिरासाय च सामान्यपद स्य विशेषपरत्वमाह यद्यपीत्यादिना । ननु विवेकज्ञान स्य लोकत एवाविवेकनिवृत्तिद्वारा दुःखनिवृत्तिहेतुत्वं सिद्ध मित्याशङ्क्याह तथाचभूयत इति । तथा चोक्तदुःखनि

वृत्तिहेतुत्वं न लोकतः सिद्धमिति भावः । आस्फा ज्ञातव्यः”
५१
शास्त्रविषयजिज्ञासाऽवतरणिका

ज्ञातव्यः प्रकृतितो विवेक्तव्यः”(बृहदारण्यक २।४।५), 'न स पुनरावर्तते न स पुनरावर्तते” ( छान्दो ग्य ८ १५ ) इति ॥

 अस्यां प्रतिज्ञायां हेतुमाह-"स विशुद्धिक्षया तिशययुक्तः' ” इति । ‘अविशुद्धिः ” समादियागस्य पशुबीजविधसाधनता । यथा ऽऽह स्म भगवन् पञ्चशिखाचार्यः—‘स्वल्पसङ्करः सपारहरः सप्रत्यवम र्षः ’ इति । ‘स्वल्पसङ्करः ज्योतिष्टामादिजन्मनः प्र. धानपूर्वस्य स्वल्पंन पशुहिंसादिजन्मना ऽनर्थहेतुना sपूर्वेण सङ्करः । ‘सपारिहरः’ कियता Sपि प्रायश्चि इतिन्यायप्राप्तमनूद्य विवेकमेव विदधति श्रुतिः –‘प्रकृतितो विवे क्तव्यः” इति, अन्यथा पौनरुक्तयापत्तेः, वयंभेदापत्तेश्च ।अस्याम् दृष्टवदनुश्रविक इतेि प्रतिज्ञयाम् । अनुश्रविकः कर्मकळप ऐका न्तिकात्यन्तिकदुःखनिवृत्यनुपाय इत्यात्मिकायामित्यर्थः । सः आनुश्रविक कर्मकलापः । ग्रन्थकर्तुरस्मिन्नर्थे भ्रमादिनिरासाय सम्मतिमाह यथहमेति। मिश्रणरूपसांकय्येस्य सम्बन्धिनि रूपणाधीनत्वात्स्वसंकर इत्यस्यार्थमाह स्वल्पः सङ्कर इत्या देना। स्वल्पः प्रधानफलाधिकरणकालापेक्षया ऽल्पकालावच्छि अफलजनकः, सङ्करः प्रधानपूर्वस्य पशुहिंसादिजन्यापूर्वेणान र्थहेतुना मिश्रणम् । तेन प्रधानफलाधिकरणसमयवृत्तिदुःखफ लोत्पादकत्वं पशुहिंसाजन्यापूर्वस्येति खचितम् । प्रधानापूर्वस्य . सांकर्याभिधानं तु प्रायश्चित्तपरिहार्यताया यागहिंसासु सम्भवादिति।

 ननु तस्य फछनइयवे प्रायश्चित्तचैयर्पमित्याशङ्क्याह सपरिहार इति । सः(१) पक्षादिवधजन्यापूर्वेण सम्बन्धः

 (१ ) एतट्टकऽनुरोधी मूलपाठः ‘शक्यो हि स कियताऽपि प्राय

श्चित्तेन परिहर्तुम्’ इति उपलभ्यते । तथापि केवलमूलपुस्तकेषु अन्या
५२
सटीकसङ्ख्यतत्वकौमुद्यम्

तेन परिहर्तुं शक्यः । अथ च प्रमादतः प्रायश्चित्तमपि नाचरितं प्रधानकर्मविपाकसमये स पच्यते । (१)तथा

सङ्कराख्यः। परिहारार्थमाह शक्योहीति । कियता-अल्पेन । प्रायश्चित्तेन प्रायश्चित्तादिना । आदिपदेन फलादिकं ग्राह्यम् । अत्र सङ्करनाशस्तु तत्सम्बन्ध्यनर्थहेतुनाशाद । फलेन नाशस्थः ठे तूभयसम्बन्धिनाशादित्यवधेयम् ।

 केचिलु परिहारेण गायश्चित्तेन सह बत्तते इति सपरि दर इत्याहुः ।

 तन्न । ‘परिहर्तुं शक्यइति ग्रन्थविरोधात् । साहित्यस्य स मंभिव्याहृतक्रियान्वयिन एककलीनत्वस्य फलनाश्यसङ्ग्रावस्था नक्रियायामसम्भवान् ।

 नन्ववश्यानुष्ठेयप्रायश्चित्तेन तमाशे कथं तेन सकथ्यमित्य शाह अथेति ! प्रायश्चित्तमपीत्यपिना प्रायश्चित्तानुष्ठानं स मुच्चीयते । तथाच कृते ऽपि प्रायश्चित्ते तत्रापि बीजादिवधसम्भवेन तत्रापि सांकर्यं दुष्परिहरामिति भावः।।

 एतेन मेक्षावतां प्रमादळस्यद्यसम्भवेन साह्यसम्भव झतं परास्तम् । प्रधान कर्मविपाकसमग्रइति । विपचते इति विपाकः फलम् । तथाच प्रधानापूज्रधफलसमये इत्यर्थः । पच्यते इति । अत्र स इत्यनुवर्तनीयम् । कचिस पचते इति पाठः स स्पष्ट एव । तथाच तत्कालावच्छिनफलोपधायकः स इत्यर्थः । सथाच तत्सहकृतप्रधानपूर्वेण स्वर्षदुःखविशिष्टमेव सुखं जन्यत इति भावार्थः । कचित्पच्यते इतिपाठःतत्रापूर्वेणेत्यनुवर्तनीयम् ॥

 ननु एवं सति विषसंस्कृतानवत्कुशलानां प्रधानयागे प्रवृ चिर्न स्यादित्याशङ्काह तथापीति । यद्यप्यनर्थं प्रखते तथापि

श्वश एवोपलब्धस्वच मूलेऽवस्थापितः । (१) पचते इति पाठः कु.
५३
शनावेषयज्ञसाऽवतरणिका

Sपि यावदसावनर्थे व्रते तवत् प्रत्यवमर्षेण सहि डणुतया सह वर्तत इति “सप्रत्यवमर्षः । मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहहृदावगाहिनः कु शलाः पापमात्रोपलादितां दुःखवह्निकणिकाम् ।

 न च-‘'मा “हिंस्यात् सव भूतानि’ इति सामा न्यशास्त्र विशेषशास्त्रेण ‘अग्नीषोमीयं पशुमालभेत” इत्यनेन बाध्यते-इति युक्तम् । विरोधाभावात् । विरो ध हि बलीयसा । दुर्बलो बाध्यते । न चेहास्ति क श्चिद्विरोधःभिन्नविषयत्वत् ।

यावन्तं प्रधानजन्यसुखापेक्षयाल्पमनर्थ प्रमुत तावन् तावदनथे: वानप्यनर्थजनको ऽपि सः सङ्करः प्रत्यवमर्शः दुषाविषयः । तथाच तण्डुलार्थिनस्तुषायनद्धेषु प्रवृत्तेव यत् सुखार्थिनां प्रेक्षावता मपि बलवदनिष्टजनकप्रधाने प्रवृत्तिः सम्भवतीति भावः ।

 ननु ‘स्वर्गकामो यजेत" इत्यादिश्रुतिविरोधान्निर्मलमिदं वचनं हेयमिस्याशाह मृष्यन्तेहीति । दुःखघट्टिकणिकां सृष्यन्ते सहन्ते । इति श्रूयते इति शेषः । हिहेतौ । तथाच पुण्य जन्यं यत्सुखं तत्पापजन्यदुःखसंपृक्तमेव दृष्टं लक इयतः सामा न्यतोदृष्टानुमानानुगृहीता “न हिंस्यात्सव भूतानि "इति श्रुतिरेव तत्र मूलमित्यर्थः ।

 ननु ‘'आहवनीये जुहोतिशतसामान्यशास्त्रम् ‘पदे जुहोति” इतेि विशेषशस्त्रेण यथा बाध्यते तथा प्रकृते ऽपे स्यादेत्याशङ्कतं न'चेति । दृष्टन्ते समानाविषयत्ररूपाविरोधेन सामान्यशास्र स्य बाधे ऽयत्र । विराधभवाद्वधासम्भव इत्याशयेन समाध ते विरोधाभावादिति । विरोधभवे ऽपि बाधः कुतो न स्यादत आहविरोधेहीति । अन्यथा प्रकरणादिभ्रमा णानां श्रुत्यविरोधिनामपि बधापतेः ।


 तथा हि-‘‘मा हिंस्याद्’ इति निषेधेन हिंसाया अनर्थहेतुभावो ज्ञाप्यते, न त्वक्रत्वर्थवमपि, “अग्नी- षोमीयं पशुमालभेत" इत्यनेन वाक्येन च पशुहिं- सायाः क्रत्वर्थत्वमुच्यते, नानर्थहेतुत्वाभावः, तथा सतेि


 ननु हिंसत्वावच्छिन्नस्यानिष्टसाधनत्वबोधकश्रुत्या हिंसा त्वव्याप्यधर्मावच्छिन्नहिंसाया इष्टसाधनत्वबोधकश्रुतेर्विरोधोऽस्त्येव विशेषधर्मावच्छिन्नहिंयास्सामान्यधर्र्माक्र्रान्तत्वादित्याशङ्क्या विरोधाभावमुपपादयतेि तथा च नहिंस्यादित्यादिना ।

 अनारभ्याधीतोऽयं निषेधः पुरुषस्यानिष्टहेतुर्हिसेत्याह, प्राकरणिकस्तु विधिर्हिंसायाः क्रतूपकारकत्वमाहनतु पुरुषेष्टजनक- त्वमपि । साङ्गप्रधानस्यैवेष्टसाधनत्वात् । तथा च हिंसायां पर- स्पराविरुद्धपुरुषानिष्टजनकवक्रतूपकारकत्वबोधकयोर्भिन्नविषयत्वान्न विराध इति प्रघट्टकार्थः।

 ननु हिंसायाः प्रकरणेन क्रतुपकारकवबोधनेऽयनेि- साधने इष्टसाधनत्वं विधिना कथं बोधनीयमिति चेन्न । हैिंसाजन्यनिष्टोत्पत्तनान्तरीयकदुःखाधिकदुःखाजनकत्वरूपस्य ब- लवदनिष्टननुबन्धित्वस्य बोधयितुं शक्यत्वात् । निषेधस्य वै- धहिंसातिरिक्तहिंसापरत्वे युधिष्ठिरादीनां स्वधर्मेऽपि युद्धादौ जातिवधादिप्रत्यवायपरिहारस्य प्रायश्चित्चश्रवणानुपपत्तेः ।


 जपेनैव तु संसेद्ध्योह्ब्राह्मणो नात्र संशयः ।
 कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥,
 जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते ।
 अहिंसया हि भूतानां जपयज्ञः प्रवर्त्तते । ,
 तस्माद्यास्याम्यहं तात दृष्ट्वेमं दुःखसन्निधिम् ॥ इति
 त्रयीधर्ममधर्माढ्यं किंपाकफलसन्निभम् ॥ इति,
 मनुमहभारतमार्कण्डेयवचनविरोधापत्तेश्च ।


वाक्य भेदप्रसङ्गात् । न चानर्थहेतुत्वक्रतूपकारकत्वया कश्चिद्विरोधोऽस्ति । हिंसा हैिं पुरुषस्य दोषमा- वक्ष्यतेि, क्रतोश्चोपकरिष्यतीति ।


 नच “अहिंसन् सर्व भूतान्यन्यत्र तीर्थेभ्य" इति श्रत्याशिमा- नुज्ञाविषयतीर्थान्यविषयकहिंसाय अनिष्टसाधनत्वबोधिकयो तुल्य- वित्तिवेद्यतया शास्त्रानुज्ञविषयाहिंसया अनिष्टसाधनत्वाभावं बोध- यन्त्या विरोध इति वाच्यम् । स खल्वेवं वर्तयन् यावदायुष्यं ब्रह्मलोकमभिसंपद्यते नच पुनरावर्त्तते इयग्रिमतेनैकवाक्यतया वैधहिंसातिरिक्त हिंसानिवृत्तेरिष्टसाधनत्वे तापर्यावधारणादुभयत्र तात्पर्यकल्पने गौरवात्प्रमाणाभावाञ्च ।

 अत एव “जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महा- व्रतम्” इति (यो० सू० ३ सा० पा० ) योगसूत्रमषि संगच्छते, अन्यथा महाव्रतपदवैयर्थ्यापत्तेरिति ।

आवक्ष्यतेि प्रापयिष्यति ।

 अत्रेदमवधेयम्-"न हिंस्यात्सव भूतानि' ’ इत्यत्र सर्वभूत- पदोपादानत् हिंसामात्रस्यानिष्टसाधनत्वं तत्र प्रत्याय्यते । ननु विधेयवद् निषेध्याया हिंसायाः किंचिदुद्देश्यकत्वमपि केनाचित्- प्रत्याय्यते, अन्यथाऽज्ञानप्रमादकृते उद्देश्ययत्वभावेन दोष- भावप्रसङ्गात् । तदेवं हिंसास्वव्याप्याग्नीषोमीयपशुहिंसास्वाव- च्छिन्नहिंसाबोधकविधिहिंसामात्रनिषेधयोः सामान्यविशेषभावसं- भवेन विशेषविधिना सामान्यनिषेधयोः संकोचोऽवश्यं सम्भवति । नच निषेध्याहिंसाया अनुद्देश्यकत्वेऽपि कस्येयमनिष्टज़निकेति संशयनिवर्तकेन ‘शास्रफलं प्रयोक्तरि"इति न्यायेन कत्रर्थत्वं प्रत्याययते । एवं सति अग्निषोमीयपशुहिंसात्वस्य कर्त्र्रर्थत्वावछिन्नहिंसात्वव्याप्यत्वाभावान्न सामान्यविशेषभवः स- म्भवतीति वाच्यम् । कत्वर्थाऽपि हिंसा पुरुषेणैव कर्त्तव्याऽतो


 क्षयातिशयौ च फलगतावप्युपाये उपचरितौ । क्षयित्वं च स्वगदेः सर्वे संति कार्यवदनुमितम् । ज्योतिष्टोमादयः स्वर्गमात्रस्य साधनम् , वाजपेयाद यस्तु स्वाराज्यस्येत्यतिशययुक्तत्वम् । परसम्पदुत्कर्षो । हि हीनसम्पदं पुरुषं दुःखाकरोति ।

 ‘अपम सोमममृता अभूम " इति चामृतत्वाभि- धानम् चिरस्थेमानमुपलक्षयति । यदाहुः--


त्रापि तन्न्यायेन कर्त्रर्थत्वावश्यकत्वात् ।  अत एव--


 त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
 यज्ञदानतपःकर्म न त्याज्यं कार्य्यमेव तत् ॥

 यज्ञो दानं तपश्चैव पावनाने मनीषिणाम् । इति- भगवदुक्तो विधिनिषेधमूलको निर्णयः संगच्छते । प्राय- श्चित्तदिवचनं तु प्रशंसापरम् ॥

 ननु सधनगतायुद्धेर्दोषत्वेऽपि तन्निष्ठक्षयातिशययोर्नदोषत्वम्- न्यथा सस्वपुरुषान्यताख्यातेरपि सदोपत्वापत्तेरित्याशङ्क्याह फल- गताविति। परमते ध्वंसे व्यभिचारवारणायाह सत्त्वेसतीति। नच सत्कार्यवादिनः क्षयितुं कथमिनि शङ्क्यम् । उत्पन्नव्यक्तेः पुनरुत्पत्त्ययोगेन तन्मतेऽपि कर्मकलाषानुष्ठानेनोत्कर्षों न सम्भवतीत्युक्तं तथाऽपि साङ्गसर्वकर्मणामनुष्ठानासम्भवादिति भावः । परसम्पदुकर्षस्य दुःखहेतुत्वेऽनुभव एव मानमित्याह दुःखाकरोतीति । नच यन्नदुःखेनेत्यद्यर्थवादविरोधस्तत्र दुःखपदस्य मानसातिरिक्तदुःखपरत्वात् । अन्यथा ‘स्वर्गेऽपि पात- भीतस्य क्षयिष्णोर्नैव निर्वृत्तिः” इत्यादिवचनविरोधापत्तेः । अनुमा- नानुगृहीतबहुश्रुतिविरोधादपामेत्यादिश्रुतिरन्यपरेत्याहापामेति । स्थेमानम् स्थैर्य्यम् । तत्र विष्णुपुराणसंमतिमाह यदाहुरिति ।



 आभूतसम्प्लवं स्थानममृतत्वं हि भष्यते ” इति । अत एव च श्रुतिः" न कमेण न प्रजया धनेन त्या गेनैके अमृतत्वमानशुः । परेण नाकं निहितं गुहायां वि-


एतदपि युक्तिसौकर्य्यादुक्तम् । “अपाम सौमम्" इत्यनेन कर्म प्राशस्त्यमेत्व लक्ष्यते न फडं विधीयते वाक्यभेदप्रसङ्गादिति । नच प्रवाहानादित्वपरैवापामेति भवतु ।


 इमं मानवमावर्त्तं न पुनरावर्तन्ते,
 शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते ॥
 एकया यात्यनावृत्तिमन्ययाऽऽवर्त्तते पुनः ॥

 इत्यादिविरोधापत्तेः । भूतसंप्लवः प्रलयः । यतः कर्मजन्य- ममृतत्वं न भवति, अत एत्र श्रुतिः कर्मणाममृत्वसाधनस्वं निषेध- तीत्याह-अत एवच श्रुतिरिति । एके संसारविरक्ता अमृत- त्वमानशुरानशिरे प्राप्ता इयर्थः । केन ? कर्मादित्यागेन, नतु कर्मादिनेति योजना । न त्वेके त्यागेनपरे त्वन्यथाऽपीति ।

 ‘नान्यत्र सर्वे सन्त्यागान्मोक्षं विन्दन्ति, मानवः’ ।

 इत्यादिविरोधप्रसङ्गात् । त्यागरूपसंन्यासस्य च विज्ञानद्वारैव मोक्षकारणताऽभिमतेति “ज्ञानादेव तु कैवल्यम्’इत्यादे- रविरोध एवेति । किं तदमृतमित्याकाङ्क्षायां तद्धकश्रुतिमुप- न्यस्यति परेणेति। अत्राभेदे तृतीया । नाकं सुखम् । तथाचोत्कर्षा-. वधिभूताभिन्नं सुखमित्यर्थः ॥

 केचित्तु कं सुखं तद्भिन्नमकं दुःखं तदनविकरणं स्वरैस्ततः परेण परमित्याहुः ।

 ननु यत् प्राप्यं तद् देशकालव्यवहितं परिच्छिन्नमनित्यं गु- दृष्टं यथा ग्रामादि तद्वदिदमपि स्यादत आह निहितं गु हायामिति । अत्र परतो नीरन्ध्रावरणसंकुचितद्वारगमनगम


भ्राजते यद्यतयो विशन्ति ” इति ( महानारायण, १०)॥


नश्रमावहत्वरूपगुहासाधर्म्येण गुहापदेन स्थूलादिशरीरत्रयं गृह्यते । ननु मुख्यैव गुहा किमिति न गृह्यतं इति चे- च्छृणु । '"सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायाम्'इति । (तै० ब्र० व० सं० १ ) तैत्तिरीयके ।

 “ऋतं पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टैौ परमे परार्द्धे । ( क० व० ३ मं० १ )

 “गुहाहितं गह्वरेष्ठं पुराणम्" इति ( क० व० २ मं० ११ ) काठके । "आविः संनिहितं गुहाचरं नाम महत्पदम्” इति ( प्र० द्वि० सं० ख० २ मं० १) मुण्डके च समाम्नातं गुहापदम् । तत्र ‘‘ऋतंपिबन्तौ’’इतिकठाम्नायसमाम्नातावेव “द्वा सुपर्णा सयुजा सखा- या समानं वृक्षं परिषस्वजाते" ( सु० उ० सं० ३ मं० १ ) इति गुहाविवरणपरमन्त्रेण वृक्षाश्रितसुपर्णौ निर्दिष्टौ भवतः । "ऋतं पिबन्तौ’इत्युर्द्धमेव “ऊर्द्धमूलोऽर्वाक्शाख एषो ऽश्वत्थः सनातनः" इति ( क० व० ६ मं० १ ) मन्त्रेण शरीरस्य ऋत- पानकर्तृसुपर्णाश्रितवृक्षनिर्द्देशात् शरीरमेव गुहेतिनिर्णये ऽत्रापि तदेव ग्राह्यमिति मुख्यग्रहे मानाभावात् ।

 "हृद्यन्तज्योतिः पुरुषः” इत्युक्तेर्हृदेव गुहेति केचित् ।  नन्वेवमपि परिच्छिन्नत्वं तदवस्थमेवेति चेन्न । घटाका- शादिवत्परिछिन्नत्वस्यौपाधिकत्वात् । अत एव “यदर्चिंमध- दणुभ्योऽणु च यस्मिंल्लोका । निहिता लोकिनश्च' इति सङ्गच्छते । नचेदं सांख्यीयमतं न भवतीति भ्रमितव्यम् । त- स्य श्रुत्यनुकूल्युक्तिप्रतिपादकत्वात्, अन्यथा तस्य हेयत्वापत्तेः । अज्ञातसुखस्य पुरुषार्थत्वाभावादाह विभ्राजते इति । स्वयंप्र काशत्वेन दीप्यते, परप्रकाश्यवेऽनवस्थापत्तेः । यत् श्रुतिषु आनन्दमवेन प्रसिद्धम् । यदाह '‘सत्यं ज्ञानमनन्तं ब्रह्म यो


५ ) तथा “ कर्मणा मृत्युमृषयो निषेदुः प्रजावन्तो द्र- विणमीहमानाः । तथा परे ऋषयो ये मनीषिणः परं कमेभ्योऽमृतत्वमानशु ” इति च ।

 तदेतत् सर्वमभिप्रेत्याह—“'तद्विपरीतः श्रेयान्. व्यक्ताव्यक्तज्ञविज्ञानात्” इति । तस्मात् ( आनु- श्रविकाद् दुःखापघातकोपायात् सोमपानादेराविशुद्धाद्- अनित्यसातिशयफलात् ) विपरीतः विशुद्ध: हिं- सादिसङ्करभावात्, नित्यनिरतिशयफल’, असकृत् पुनरावृत्तिश्रुतेः । न च कर्यत्वेनानित्यत फलस्य-



वेदनिहितं गुहायाम्” इति । विशन्तीति । ज्ञत्वेति शेषः। नन्वेवं धनार्जनकर्मादेः कुञ्जरशौचवद् दुःखनिवर्तकत्वे कथं तत्र प्रवृत्तिरि- त्याशङ्कोत्तरत्वेन श्रुत्यन्तरमुदाहरति तथाकर्मणेति । यथा दुः- खविवेककुशलाः कर्मभ्यः परं साक्षात्कर्मासाध्यममृतत्वमानशुः, तथा तदपरेऽकुशल अत एव प्रजावन्तः त्यागमकुर्वन्तः, अत एव द्रवणमीहमानाः, अत एव कर्मासक्ताः, अतएव कर्मणा जन्ममरणप्र- वाहरूपं मृत्यु निषेदुः प्रापुरित्यर्थः । तथाच कुञ्जरादेरिव मन्दम- तीनामापातदुःखनिवर्तकेSपि प्रवृत्तिस्सम्भवतीति भावः॥

नित्यनिरतिशयोति ।। नित्यमक्षथि निरतिशयं स्वसमानाधिक- रणस्वसमानकालीनसुखदुःखादिसम्बद्धं यद्यत् तत्भिन्नम्, नित्यं च निरतिशयं यत्तत्तथा । सत्वपुरुषान्यताख्यातिरूपसाधनस्यैकरू- पत्वात्तत्फलाया मुक्तेर्नित्यनिरतिशयत्वेऽपि जन्यत्वेनानिय- त्वानुमानमसकृदपुनरावृत्तिश्रुतिबाधितमित्याह असकृदिति । असकृत् पुनःपुनः, अनवृत्तिश्रुतेरवृत्यापादकश्रुतेः । अभ्य- स्तानानृत्त्यापादकश्रुतेरित्यर्थः । ‘'एष देवपथो ब्रह्मपथ एतेन प्र- तिपद्यमाना इमं मानवमावर्तं नावर्तन्ते नावर्तन्ते” ( छा० अ० ४- खं० १५ मं० ६ ) “तयोर्द्धमायन्नमृतत्वमेति सखल्वेवं वर्त्त


यन्मानवायुष्यं ब्रह्मलोकमभि सम्पद्यते नच पुनरावर्तते" इतिछान्दोग्यश्रुतेः । “तेषां न पुनरावृत्तिः” इत्यनभ्यस्तान- वृत्यापदकबृहदारण्यश्रुतेश्च ॥

 यद्यपि ‘असकृन्नित्यनिरतिशयश्रुतेः’ इत्येव युक्तं तथाऽपि ‘‘वेत्थ- यथा लोको न सम्पूयेता३" इति "तस्मिन् यावत्सम्पातमुषित्वाऽथैत- मेघाध्वानं पुनर्निवर्त्तन्ते तेनासौ लोको न सम्पूर्यते” इतिप्रश्ननिरूप- णाभ्यां पितृयानेन पथा गतानां पुनरावृत्तिरिव देवयानेन पर- था गतानां पुनरावृत्तिर्न कुत इत्याशङ्कानिरासाय श्रुत्या तथा- बिधानौचित्येऽत्रापि तथाविधानमेवोचितमिति । नचैवमपि तच्छुतिरेवोपन्यसितुं युक्तेति वाच्यम् । उक्तार्थे तापर्यंग्राहकाभ्या- सलाभाय तथाऽभिधानात् । अन्यथा तस्या उपासनार्थवादत्वापत्तेः।

 नन्वपुनरावृत्तिश्रवणेऽपि फलस्य नित्यनिरतिशयत्वं न स- भवति-तथाहि-"य ए्षोऽक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचैतदमृतमभयमेतद्ब्रह्म" इति चतुर्थे उपकोशलविद्ययामेष आ- त्मा प्राणानां तदेवोक्तब्रह्मेत्युपासकानां ब्रह्मलोकगतिः “एष देवपथः" इत्यनेनक्ता, अग्रे अष्टमाध्याये ब्रह्मज्ञानसहकरिणः परमसाधनस्य ब्रह्मचर्यस्य विधानायर्थवादे ब्रह्मलोकस्वरूपमुक्तं तद्यथा--

 "अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता ते विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्टात्मनामनुविन्दते ॥१॥ अथ यत्सन्त्रायणमित्याक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येत्र सत आमनस्त्राणां विन्दतेऽथ यन्मौनमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवात्मनामनुविद्य मनुते ॥ २॥ अथ यदनाशकयनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्म न नश्यति यं ॥ ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव त- त्तदरश्च ह वैण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामिततो दिवि तदैरं मदीयं सरस्तदश्वत्थः सोमसवनस्तदपराजिता ब्रह्मणः प्रभृविमित


हिरण्मयं तद्य एवैतवरं वै ण्यं चाणेव ब्रह्मलोके ब्रह्मचर्ये- णानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचा- रो भवति ( छा० अ० ८ खं० ५ )।

 अस्यार्थः--अथशब्द ब्रह्मचर्यस्तुतिप्रारम्भार्थः । परमपु- रुषार्थसाधनं यज्ञ इति लोके शिष्टाः कथयन्ति तद्ब्रचर्यमेव- कुतो, ब्रह्मचर्यफलं ब्रह्मलोकस्तं ब्रह्मचर्येण आत्मज्ञानवांल्ल- भते तस्मात् । इष्ट्वा पूजयित्वा । ईक्षणादिष्टं ब्रह्मचर्येणेषणा सम्पा- द्यते इष्टेनापि तदेव सम्पद्यते तस्मादुभयसाधर्म्यादिष्टमपि ॥ सत्रायणं बहुयजमानकं कमें सतः परस्मात् त्रायणं रक्षणम् । ब्रह्मचर्यसाधनेन युक्तः सन्नमानं शस्त्राचार्याभ्यामनुविद्य पश्चाद् मनुते ध्यायति अतो मौनशब्दमपि ब्रह्मचर्यम् । यद्यप्यनाशकाय- नम् उपवासपरायणत्वं तथाऽप्यनाशकसाधनस्वरूपार्थमादाय साम्यं बोध्यम्, आत्मानं ब्रह्मचर्येण विन्दते स एष आत्मा ब्रह्म- चर्यसधनवतो न नश्यति तस्मादनाशकायनमपि ब्रह्मचर्यमेव । एवमरण्य ववाच्ययोरप्यर्णवयोब्रह्मचर्येणायनात्प्रापणादरण्यायनमपपि ब्रह्मचर्यमेवेत्याह तदरश्चेति । भुवमन्तरिक्षं चापेक्ष्य तृतीया द्यौस्त- स्यां तत् तत्रैवैरमिराऽन्नं तन्मय ऐरो मण्डस्तेन पूर्णं मदीयं तदुपभो- गिनां मदकरं हर्षापादिकं सरस्तत्रैवाश्वस्थो वृक्षः सोमसवनो ना- मतः सोमोऽमृतं तानिःस्त्र्वोऽमृतस्रव इति व तत् । तत्रैत्र ब्रह्म- लोके ब्रह्मचर्यमाधनरहितैर्न जीयत इत्यपराजिता नाम पुरी ब्रह्म- णो हिरण्यगर्भस्य प्रभुणा विशेषेण निर्मितं हिरण्मयं सौवर्णं म- ण्डपमिति वाक्यशेषः । तत्र तत्र ब्रह्मलोके यो ज्ञानाद्यज्ञ ई- षणादिष्टं सतत्राणात्सत्रायणं मननान्मौनपनशनदनाशकायनमर- ण्ययोगादरण्यायनमिति महद्भिः पुरुषार्थसाधनैः स्तुत्वा ब्रह्मलो- कप्राप्तिः सर्वलोकसंचारसाधनत्वेन पुनः स्तौति तेषामेवेति ब्रह्म- चर्यसाधनवतामेव तत्त्वन्तेषामित्यर्थः ।


 ननु ‘इन्द्रस्वं यमस्त्वं वरुणः’ इत्यादिभिर्यथा काश्चित्स्तूयते महार्ह एवमेव यज्ञादिशब्दैर्न स्त्र्यादिविषयतृष्णानिवृत्तिमात्रं स्तुत्यर्हं हीनत्वात्किन्तु ज्ञनं मोक्षसाधनत्वाद्यज्ञादिभिः स्तूयते तच्च ब्रह्म- चर्यपदेन लक्षणीयमिति चेन्न । स्त्र्यादिविषयासक्तस्य सर्वदा तद्भानेन दृढतरतत्संस्कारवतो ज्ञानानुत्पत्तौ पुनःसंसारपत्तेस्तस्य हीनत्वाभावात् ।


 स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
 संकल्पो निश्चयश्चापि वधूनां रातिहेतवः ॥

 इत्युक्तहेतूनां त्यागरूपस्य ब्रह्मचर्यस्य कर्तुमशक्यस्वेन महत्वाच्च }


 नीरोगः कान्तिसंपन्नः सर्वदुःखविवर्जनः ।
 ब्रह्मचारी भवेल्लोके पाप्मना च विवर्जितः ।


 इत्याद्यौहिकफलदर्शनेन तस्य महत्वानुमानाच । तद्विनात्मज्ञा- नानुत्पादक "परांचि खानि । व्यतृणत्स्वयंभूस्तस्मात्पराङ् पश्यति नान्तरात्मन्" " ध्यायतो विषयान्पुंसः" इत्यादिश्रुतिस्मृतिभ्यो महवावगमाञ्च ॥

 नन्वेवमपेि ब्रह्मचर्यस्य । यज्ञादिभिरारोपितगुणवत्वरूपस्तुति- त्वात्तेषामेव ब्रह्मलोकसाधनत्वं गुणस्य वास्तववङ्गकरे तेषामपि तत्प्राप्तं तत्र नेष्टम् । "अथ य इमें ग्राम इष्टापूर्तेदत्तमित्युपासते ते धूममभि संभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षात् षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति मासेभ्यः पितृलोके पितृलोका- दाकाशमाकाशचन्द्रमसमेष सोमो राजा’इति (छां० अ० ५ खं० १० मं ३-४) चन्द्रमसाभेदप्राप्तिबोधकश्रुतिविरोधापत्तेः । उभयविधाने वाक्यभेदपत्तेश्च । द्वितीयपक्षे तुल्यफलस्वापत्तिः । तेषां ब्रह्मलोकसाधनत्वानङ्गीकारे ब्रह्मचर्यस्तुत्यनुपपत्तिः । आरोप्यमाणगुणा


प्रसिद्धेरिति चेन्न । यज्ञादीनां प्रसिद्धं पुरुषार्थसाधनत्वम- पेक्ष्य स्तुत्युपपत्तेः । अत एव । न तुल्यफलत्वापत्तिरित्यलं प्र- सङ्गागतेन । प्रकृतमनुसरामः ।

 तथा च ब्रह्मलोकगमनं तत्रत्यभोगश्च सशरीरस्यैव तथा सति भोगविषयस्य । सुखादे सत्त्वेन तत्सधनज्ञानभावेन च तद्तानामपि नित्यनिरतिशयात्मकमोक्षो न संभवति अस्या इह ग्रहणेनच पुनरावृत्तिसूचनेन न श्रुतेस्तत्र तात्पर्यं किंतु धूमादि- मार्गापेक्षयाऽर्चिरादिमार्गप्रशस्त्ये।

 न च


 ब्रह्मणा सः तं सर्वं संप्राप्ते प्रतिसंचरे ।
 परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ।

 

इति—

 स्मृतिविरोध इतिवाच्यम् । श्रुतिविरोधे स्मृतेरन्यथानयनात् । नच "तयर्द्वैमायन्नमृतत्वमेतेि" इति श्रुतिविरोधः। “न तस्य प्राणा उत्क्रामन्यत्रैव समवलीयन्ते" इत्यादिश्रुतिविरोधाद् “अभूतसप्लवं स्थानममृतत्वं हि भाष्यते” इति सापेक्षामृतपरवादिति चेन्न । तेषां मध्ये कृतसाक्षात्काराणां परप्रप्तिं वदन्त्याः स्मृतेः साक्षा- त्कारविरहवतां ब्रह्मलोकप्राप्तानं तत्राप्यकृतात्मनां तन्मान- वातिरिक्तमानवे आवृतिं वदन्त्याः श्रुतेर्भिन्नविषयतया वि रोधाभावात् । नच ब्रह्मलोकगतानां मध्ये कुतसा- क्षात्काराणां परममोक्षप्राप्तिबोधिका स्मृतिरेव नतु श्रुतिस्तस्या अर्चिरादिमार्गप्राशस्त्यबोधनद्वारेह मानवे तेषां पुनरावृत्तिप- रत्वात् तथा सत्यत्यन्तापुनरावृत्तिश्रुत्यभावेनासकृदपुनरावृत्तिश्चु- तेरिति कथनासंगतिर्मिश्राणां तदवस्थैवेति वाच्यम् ॥


 वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगद्यतयः शुद्धसत्त्वाः ॥
 ते ब्रह्मलोके परान्तकाले परामृत परिमुच्यन्ति सर्वे ॥


इति श्रुत्यविरोधाय 'तद्य इत्थं विदुर्थे चेमे श्रद्धा


युक्ता, भावरूपस्य कार्यस्य तथाभावात्, दुःखप्रध्वं- सनस्य तु कार्यस्यापि तद्वैपरीत्यात् । न च दुःखान्त- रोत्पादःकारणाप्रवृत्तौ कार्यस्यानुत्पादात् विवेकज्ञा- नोपजननपर्यन्तत्वाञ्च कारणप्रवृत्तेः । एतच्चोपरिष्टादु- पपादयिष्यते ॥

तप इत्युपासते तेऽर्चिषमभि संभवति " इति श्रुत्या पञ्चाग्नि विद्यावतां ग्रहस्थानां मरणोपळक्षितवैखानसानां परिव्राजकानां नैष्ठिकब्रह्मचारिणां च ब्रह्मोपासनहीनानां ब्राह्मलोकगमनं प्रतिपादयन्त्यैकवाक्यतया तेषां न्यायसिद्धपुनरावृत्तेर्गमनाति- रिक्तकल्पधिकरणत्वकल्पनेऽपि तन्मात्रे तात्पर्याकस्पनात् ॥ नच तत्र गतानां सर्वेषां श्रवणादिद्वारा साक्षात्कारः कुतो न संभवतीति वाच्यम् । भोगासक्तत्वेन श्रवणाद्यसंभवात्तत्सं- भवेऽपि भोगविग्रहतया साक्षात्कारासंभवात् ।

 केचित्तु असकृच पुनः पुनः परिषत्सु अनावृत्तिश्रवणा- दित्याहुः ।

 उत्पनव्यक्तेः पुनरुत्पादसंभवादाहान्तरोते । कारणाप्रवृत्तिरेव कथमत आह विवेकेति । ननु विवेकज्ञानोत्तरमपि कुतो न प्रवर्तते- ऽत आह-एतच्चोपरिष्टादिति । “‘औत्सुक्यनिवृत्त्यर्थं यथा क्रियासु प्रवत्तंते लोकः" इत्यारभ्य ‘प्रकृतेः सुकुमारतरं न किंचि- दस्तीति मे मतिर्भवति । या दृष्टास्मीति पुनर्न दर्श- नमुपैति पुरुषस्य” इत्यन्तग्रन्थे । उपरिष्टात्–विवेकख्या- तिपर्यन्तं याति प्रकृतिचेष्टितमित्यत्रेति केचित् तन्न यदाहु- रित्यादिपरकीयवचनमात्रोपन्यासेऽपि व्युत्पादनाभावात् । तत्तात्पर्यार्थमुक्त्वा तद्विपरीत इत्यस्याक्षरतत्तदपकृष्टार्थोऽपि संभवत्यतस्तन्निरासाय व्यक्तेत्याद्यग्रिमानुरोधेनाक्षरतो विशेषप


 अक्षरार्थस्तु-तस्मात् ( आनुश्रविकाद् दुःखपघा- तकाद् हेतोः ) विपरीतः [ सर्वपुरुषान्यताप्रत्ययः सा क्षान्करो ] दुःखापघातको हेतुः, अत एव श्रेयान् । आ- नुश्रविको हि हे वेदविहितत्वाद् मात्रया । दुःखपघात- कवच प्रशस्यः । सत्वपुरुषान्यताप्रत्ययोऽपि प्रशस्यह् । तदनयोः प्रशस्वयोर्मध्यं सर्वपुरुषान्यताप्रत्ययः श्रेयान् ।


 कुतः पुनरस्योत्पत्तिरित्यत आह—‘व्यक्ताव्यक्त- ज्ञविज्ञानात् ” इति । व्यक्तञ्च अव्यक्तश्च ज्ञश्च व्यक्ता- यक्तज्ञाः , तेषां विज्ञानम् विवेकेन ज्ञानम्, व्यक्ता- व्यक्तज्ञविज्ञानम् । यक्तज्ञानपूर्वकमव्यक्तस्य तत्कार- णस्य ज्ञानम्, तयोश्च पारार्थ्येनात्मा परो ज्ञायते, इति ज्ञानक्रमेणाभिधानम् । एतदुक्तं भवति-श्रुतिस्मृ-




रत्वं दर्शयति अक्षरार्थस्त्विति । एतेनापकृष्टस्यापि तद्विपरी- तस्यासंभवेन ‘अत एव श्रेयान्’ इतिकथनासङ्गतिरिति परास्तम् । अत एव-ऐकान्तात्यन्तिकदुःखापघातकहेतुस्वादेव । मात्रयेति।। सस्वपुरुषान्यताख्यातिरूपप्ताधनस्य प्रशस्यतरत्वलाभाय मा- त्रापदोपादानम् । अल्पकालावच्छिन्नमानसातिरिक्तदुःखापघात- कत्वादिति समुदायार्थः । श्रेयान् -प्रशस्यतरः । त- योः-व्यक्ताव्यक्तयोः । पारार्थ्येयेन–पुरुषभोगापवर्गहेतुत्वेन । ननु सत्वपुरुष।न्यताख्यातिरूपहेतोः सवपुरुषज्ञानाधीनत्वाद्व्य- क्तज्ञानाधीनत्वाभिधानं व्यर्थमित्यत आह-इर्तिज्ञानक्रमेणेति । तथाच यतो व्पक्तज्ञानं विनऽव्क्तज्ञानं न संभवते तदुभयज्ञानं विना । पुरुषविज्ञानम्, अतस्तथाऽभिधानमिति भावः । ननु श्रुत्यादिभिरेव व्यक्तादिज्ञानेन सत्त्वपुरु- षान्यताख्यातेः संभवेन मननात्मकमिदं शास्त्रं व्यर्थ- मित्याशङ्कानिरासार्थमाह एतदुक्तमिति । तथा च विपरी


तीतिहासपुराणेभ्यो व्यक्तादीन् विवेकेन श्रुत्व, शा- स्त्रयुक्त्या च व्यबस्थाप्य, दीर्घकालादरनैरन्तर्यसत्कार- सेचिताद् भावनामयाद् विज्ञानादिति । तथा च बक्ष्यति-


 ‘‘एवं तत्वाभ्यासान्नस्मि न मे नाहमित्यपरिशेषम् ।
 अविपर्ययाद्विशुद्धं केवलमुत्पद्यते ज्ञानम्” ॥

इति     ( कारिक.६४ ) ॥ २ ॥

 तदेवं प्रेक्षावदपेक्षितार्थत्वेन शास्त्रारम्भं समाधाय- शास्त्रमारभमाणः श्रोतृबुद्धिसमवधानाय तदर्थं संक्षे ॥

तभावनादिनिरासोपयोगित्वान्न मननात्मकशास्त्रस्य वैयर्थ्य- मिति भावः । अत एवेन्द्रविरोचनयोर्गुरुमुखाच्छूवणे स- मानेऽपि सननघत इन्द्रस्यैव तत्वज्ञानं नतु विरोचनस्येति श्रवण- सुपपद्यते । शास्त्रयुक्त्या श्रुत्यविरोधिन्या युक्त्या । ननु अ- नादिपरस्परामिथ्यासंस्कारेण परिपन्थिन । मनने कृतेऽपि सा- क्षात्कारप्रतिबन्धः स्यादत आह दीर्घकलेति । आदरपदेन श्रद्धा ग्राह्या । सरकारपदेन ब्रह्मचर्यविद्यावैराग्यादयो ग्राह्याः। तथाच तादृशसाधनसंपन्नमननजन्यबोधो तादृशसंस्कारणाभि- भूयते इत्यर्थः । अस्मिन्नर्थे ग्रन्थकर्तुः संमतिमाह तथेति ॥ २ ॥

 पूर्वोत्तरार्थयोः संगतिं प्रदर्शयितुं संक्षेपेणोक्तं व्यूहचतुष्टयं 'प्रेक्षावदू’ इत्यादिनाSनुवदन् पंचविंशतितत्वरूपशस्त्रार्थप्रतिज्ञयाः फलं दर्शयति तदेवमित्यादिना । प्रकृतिसत्त्वपुरुषान्यताख्यातिप्र- तियोगिकथनेनोपोद्धतसंगतिरिति सूचितम् । ‘चिन्तां प्रकृतसिद्ध्यर्थ- मुपोद्धातं विदुर्बुधाः ' इति लक्षणात् । श्रोतृबुद्धिसमवधानायेति । श्रावृबुद्धः समवधानत्वं श्रवणानुकूलयनोत्पादकत्वम् । प्रतिज्ञां विना गुरूच्चारणस्य सन्दिग्धत्वेन तादृशप्रयत्नासंभवात् ।


पतः प्रतिजानीते


 मूलप्रकृतिरवकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ॥
 षोडशकस्तु विकारो, न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥


 “‘मूल-' इति । संक्षेपतो हि शास्त्रार्थस्य चतस्रो विधाः—कश्चिदर्थः प्रकृतिरेव, कश्चिदर्थो विकृतिरेव, काश्चित्प्रकृतिविकृतिः, कश्चिदनुभयरूपः ।

 तत्र का प्रकृतिरित्युक्तम्-‘मूल प्रकृतिरविकृतिः” इति । प्रकरोतीति प्रकृतिः प्रधानम् , सत्वरजस्तमसां साम्यावस्था, स। अविकृतिः, प्रकृतिरेवेत्यर्थः। कस्मादि-


प्रतिजानीते -पूर्वोक्तार्थनिरूपणोत्तरकालकर्तव्यतया संक्षेपतः शास्त्रार्थभावं बोधयतीत्यर्थः । स्वमते न । षट्पदार्थविभागनियमः षोडशपदर्थविभागनियमो वेत्याह संक्षेपतइत्यादिना । यथा चै तत्तथैतदार्य्यां व्युत्पादयिष्यति । प्रकृतिसामान्यलक्षणमाह तत्रेति । प्रकरोतीति । प्रकृतिस्तु स्वेतरकरणम् । मूलप्रकृतिलक्षणमाह सत्वरजस्तमसाभिति । अत्र सत्वादीनि द्रव्याणि न गुणाः। संयोगविभागवत्त्वात् , लघुवचलत्वगुरुत्वादिधर्मकत्वाञ्च । तेष्वत्र शास्त्रे श्रुत्यादौ च गुणशब्दः पुरुषोपकरणत्वात् पुरुषपशुबन्धक- त्रिगुणात्मकमहदादिरज्जुनिर्मतृत्वाञ्च गौणः । अत एव गुण- इति परार्थ इति वक्ष्यति । तेषां सत्त्वादिद्रव्याणां या साम्यावस्था न्यूनाधिकभावेनासंहननम् । अकार्यावस्थत्वमित्यर्थः। अन्यथा वैष- म्यवस्थायां प्रकृतिनाशप्रसङ्गात् । न त्वत्र त्र कार्यावस्थाविरोध्यवस्था- वत्त्वम् । तस्याश्च कायोवस्थादशायामसंभवेन मूलप्रकृतेरविकृतित्व- रूपनित्यत्वं न संभवतीत्याशङ्क्याह प्रकृतिरेवेति । एवं चैवकार- समभिव्याहारात् ‘कायेभिन्नगुणत्रयत्वम्'इति मूलप्रकृतेर्लक्षणमिति सूचितमिति भावः । अत एव ‘सत्त्वरजस्तमसां साम्यावस्था प्र


यत उक्तम्-‘'मूलेति” । मूलश्चासौ प्रकृतिश्चेति मूल प्र- कृतिः । विश्वस्य कार्यसङlतस्य सा मूलम्, न त्वस्या- मूलान्तरमस्ति, अनवस्थाप्रसङ्गात् । न चानवस्थायां प्र माणस्तीति भावः ।

कृतिः"इतिसूत्रविरोध इति परास्तम् । वैषम्यावस्थायां प्रकृतिनाशप्र- सङ्गेनात्रैव सूत्रस्य तात्पर्यात् । ‘तत्त्वान्तरोपादानात्वं प्रकृतित्वम्’ इति तु प्रकृतिसामान्यलक्षणम् ।"सत्त्वरजस्तमसां साम्यावस्था पृकृतिः" इतिसूत्रोक्तप्रकृतिसामान्यलक्षणस्य “अष्ठं प्रकृतयः" इति कपिलखुत्रोक्तमहदादिप्रकृतिष्वव्याप्तिनिरासाय “मूले मूलाभा- वादमूलं मूलम्” इति सूत्रेण मूलेन प्रकृतिविशेषितेतिमूलपदाभिप्रायम- जानञ्छङ्कते कस्मादिति । तदभिप्रायं जानन् समाधत्ते इत्यतइतिन त्वस्य मूलान्तरमिति । नच ‘तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम’ इत्यादिस्मृतिविरोध इति वाच्यम् । पुरुषस्य कुटस्थ्यहान्यापत्त्या ‘‘अजामेकाम्" इत्यादिश्रुतिविरोधाच्च त- स्मादियादिवाक्यस्य पुरुषसंयोगादिभिरभिव्यक्तिरूपगौण्युत्प- त्यभिधायकत्वेन विरोधाभावात् । प्रधानस्य गौण्युत्पत्तिकथनं तु पुरुषस्य भोगापवर्गसम्पादकत्वेन प्रधानस्य पुरुषशेषत्वसूच- नाय । बीजाङ्कुरजन्मना कर्माद्यनवस्थावदत्रेष्टपात्तिमाशाङ्क्याह नचेति । बीजाद्यनवस्थायां प्रत्यक्षादिप्रमाणसत्त्वात्प्रधानादेर- नुमानकल्प्यत्वेन दृष्टान्तवैषम्यमिति भावः ।

 *ननु ‘प्रामाणिकी अनवस्था न दोषाय’ इति प्रवादोऽसङ्गतः। तथाहि-अनन्तपदार्थघटिताया अनवस्थाया निर्णयविषयत्वभावेन प्रामाणकत्वाभावात् । न ह्यांनर्णीतं प्रामाणकञ्च संभवात, अर्थनिर्णयकत्वेनैव प्रमाणानां प्रामाण्यादिति ।

 अत्र केचित् आत्मनः स्वस्याश्रयोऽर्थात्स्वयमेव स आत्मा- श्रयः । स्वनिष्ठप्रयोज्यतानिरूपितस्वनिष्ठप्रयोजकत्वमिति यावत्- . 4A =


अन्योन्यस्याश्रयोऽर्थादन्योन्यम् , सोऽन्योन्याश्रयः। स्वप्रयोजक- निष्ठप्रयोज्यतानिरूपितस्वनिष्ठप्रयोजकत्वमिति यावत् । चक्रवत्परा- वर्त्तनाल्लक्षणया चक्रकम् । स्वप्रयोजकप्रयजकनिष्ठप्रयोज्यतानिरू- पितस्वनिष्ठप्रयोजकत्वमिति यावत् । अवस्थाऽवधिमूलानेपक्षमूल- मुत्तरानपेकं कार्यं च, नावस्थाऽनवस्था । उपपाद्योपपादकानां परं- परापेक्षिततेति यावत् । इत्थं च कतिचिद्वीजाङ्कुराणां व्यक्ति- भेदेन परस्परकार्यकारणभावस्य प्रत्यक्षसिद्धत्वे प्रत्यक्षमूल- कानुमानकस्वम् । तथाहि विवादध्यासितानि बीजानि बीजप्र- योज्याङ्कुरजन्यानि बीजत्वात् संमतबीजवदित्याहुः ।


 यथाहि पादपो मूलस्कन्दादिभिश्च संयुतः ।
 आदिबीजात्प्रभवति बीजान्यन्यानि वै ततः ॥

इति

 विष्णुपुराणादत्रानवस्थैव नास्ति । तत्रानवस्थेति तु लोक- दृष्ट्याभिप्रायम् ।


 योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः ।
 स्थाणुमन्ये तु संयन्ति यथाकर्म यथाश्रुतम् ॥


 इत्यादिश्रुतीनां च सामान्यतः कर्मणां फलजनकत्वे प्रमाणान्तरेण सिद्धं दुःखहेतुविशेषफलबोधनेन वैराग्ये तात्प- येमित्यन्ये ।

 परेतु स्वस्याव्यवहितस्वापेक्षणमात्माश्रयः । अन्योन्याश्र- यादिव्यावृत्त्यर्थमव्यवहितेति । अन्योन्यस्याव्यवहितान्योन्यापे- क्षित्वमन्योन्याश्रयः । चक्रकव्यावृत्यर्थमव्यवहितेति । अन्तरि- तस्य तदेव च द्वयं चक्रकम्। । तद्द्वयाच्यावृत्त्यर्थमन्तरितस्येति। अनवधिकोपपाद्योपपादकप्रवाहोऽनवस्था। चक्रकव्यावृत्त्यर्थमनवधिके- तावशेषणम् ।


 एते चोपपाद्यभेदेनाऽनिष्टप्रसञ्जकास्तर्कविशेषाः ।
 तत्र स्त्रस्य स्वपेक्षामरोष्यानिष्टप्रसञ्जी आत्माश्रयः॥

सचय


मुत्पत्तिस्थितिज्ञप्तिरूपद्वारभेदात्त्रिधा । तथाहि-‘घटो यदि घटजन्यः स्यात्तहैिं घटभिन्नः स्यात्’ । नचैतद्विपर्ययानुमाने घटत्वस्य हेतोरसाधारणतया विपर्ययापर्यवसितत्वमस्येति वाच्यम् । विशेष- दर्शने ह्यसाधारणस्यादोषत्वात् । संशयस्य सम्प्रतिपक्षस्य वा दुष्टबीजस्यानुत्थापनादिति । स्थितौ ‘यद्ययं घट एतद्धटवृत्तिः स्यात्तदा तथा प्रतीयेत’’। ज्ञप्तौ तु ‘घटज्ञप्तिर्यदि एतद्धटज्ञप्तिज- न्या स्यादेतज्ज्ञप्तिभिन स्यात् । नचेष्टापत्तिः । स्वज्ञप्तेः स्वज्ञप्तिजन्यत्वनियमे त्वनवस्थानात् । स्वस्य स्वापेक्षापोक्षित्वं स्वप्रयोज्यप्रयज्यत्वरूपमारोप्यानेिष्टप्रसङ्गोऽन्योन्यश्रयः । अय- मप्युत्पत्स्यादिरूपद्वारभेदात्त्रिधा । तथाहि-"घटो यदि घटप्रयो ज्यजन्यः स्यात्तहैिं घडभिन्नः स्यात्। दृष्टं हि पटरूपं तन्तुप्रयो- ज्यपटजन्यं तन्तुभिन्नमिति । स्थितौ तु ‘यद्ययं घट एतद्धटप्रयोज्य वृत्तिः स्यात्तद तथा प्रतीयेत', दृष्टं हि पटरूपं तन्तुमयज्यप- टवृत्ति तथा प्रतीतं चेति । ज्ञप्तौ तु ‘घवज्ञप्तिर्यदि घटज्ञप्तिप्रयोज्य ज्ञप्तिजन्या स्यात्तर्हि एतज्ज्ञप्तिभिन्न स्यात्’ । दृष्टा हि कृत्तिज्ञन- प्रयोज्येच्छजन्या ज्ञानभिन्ना चेति । नचान्योन्याश्रयस्यात्माश्र- यनियतत्वेनावश्यकत्वाद्, लाघवाच्चात्माश्रयदोष इति वाच्यम् । साक्षात्स्वापेक्षाऽभावात् । परम्परया व तसंभवे, आत्माश्रयनिर्वा- हार्थं प्रथमोपस्थितस्य स्वतो दूषकत्वकल्पनात् । स्वापेक्षापेक्षापे- क्षितत्वमारोप्यानिष्टप्रसङ्गश्चक्रकम् । अत्र त्रिकक्षत्वमविवक्षितम्, चतुःकक्षादेरपि चक्रकस्यात् । तथैव हि तान्त्रिकव्यवहारात् । इद- मप्युपत्त्यादिदारभेदात्रिविधम् । तथाहि-"घटो यदि घटपेक्षापेक्ष- जन्यः स्यात्तर्हि घटभिन्नः स्यात ’ । स्थितौ तु 'यद्ययं घट एतद् घटोपेक्षापेक्षवृत्तिः स्यात्तर्हि तथा प्रतीयेत’ । ज्ञप्तौ 'घट ज्ञप्तिर्यदि घटज्ञप्त्यपेक्षापेक्षजन्या स्याद्, एतज्ज्ञप्तिभन्न स्यात्’ । दृष्टान्तस्तु पूर्ववत् । पञ्चकक्षादिभेदे आपत्तिप्रयोजकीभूतरूप


वदापापादनमनघस्था । यथा ‘ज्ञानं यदि समानकालीनसमाना- धिकरणशाक्षात्कारीविषयताव्याप्यजातिमत् स्यात्, तदऽनुपदवे- द्यं स्यात् सुखवत्' । एवञ्च तदप्यनुव्यवसीयेत तदप्यनुव्य- वसीयेतेत्यनवस्था स्यात् । एषां चाभासत्वे प्रामाणिकत्वं बीजम् । तथाहि-‘प्रमेयत्वं यदि प्रमेयत्ववृति स्यात्तदा प्रमेयत्वभिन्नं स्यादभिधेयत्ववद्’। अत्र प्रमेयस्ववृत्तिवभिन्नत्वयोः प्रमेयत्वे व्यभि- चारग्राहि ’नहि प्रमेयत्वं प्रमेयं किन्तु प्रमेयम्' इति प्रत्यक्षमेवात्मा- श्रये मानम् । बीजं यदि बीजापेक्षाङ्कुरजन्यं स्यात्तदा स्वभिन्नं स्याद्’ इत्यत्र बीजापेक्षाङ्कुरजन्यत्वस्वभिन्नत्वयोर्बीजे व्यभिचार- ग्राहि ’बीजं न बीजभिन्नप्, किन्तु तद्बीजभिन्नम्' इति प्रत्यक्षादिरे- वन्योन्याश्रये मनम् । एवं बीजादङ्कुरस्तस्मात्स्तंबस्तस्माद्बीजमि-. स्यादिचक्रेऽपि व्यक्ति भेदग्राहि प्रत्यक्षम् । तत्रत्यानवस्थायां ’बीजं यदि अनवधिपरम्परापेक्षजन्मादिमत्स्यात्तदाऽजन्यं तत्स्याद्व्य- तिरेके घटवत्’ इत्यत्रैककार्यस्य प्रत्यक्षदृष्टकारणपरम्परानुमान- मेव मानम् । नचैवमेते कुत्रापि दोषा न स्युरिति वाच्यम् । आभासत्वप्रयोजकप्रमाणाभावे एव दोषत्वसम्भवात् । तथाहि ‘विवादाध्यासितं प्र्य़ात्नजन्यं कार्यत्वाद्घटवद्' इत्यत्र ‘कार्यत्वं भवतु, प्रयत्नजन्यत्वं मा भूत् किं बाधकम्’ इति शङ्किने, कार्यत्वप्रयत्नज- यत्वयोः परस्परपरिहारोपलम्भेन विरुद्धयोरेकत्र समुच्चयं की- र्त्त्यमाने व्याघातो दृष्टो यथा घटप्रागभावयोर्घटतत्प्रध्वंसयोर्वा । अथ घटतत्प्रागभावयोः समुच्चयो नास्ति, प्रकृते तु स्यादेव, तन्न । प्रकृते विशेषोऽस्ति नो वा ? | नास्ति चेन्नियामकाभावात्कथं नि- यमसिद्धिः। अस्ति चेत्तत्र स एव किं प्रमाणमन्यो वा ? स एव चेदात्माश्रयः । नन्वयं ग्राह्यग्राहकभाव नामाश्रय, नह्यत्र स्व- वृत्तित्वमस्ति, तत्र । अव्यवधानेन स्वापेक्षितवस्यात्माश्रयलक्षण- त्वात् । तच्च स्वपेक्षणमात्माधिकरणत्वेन, ग्राहकत्वेन, कर्तृत्वेन,


स्वमित्वेनोपनेयत्वेन वा भवति । तथा च ग्राह्यग्राहकादरात्माश्र- यान्तर्भावः । ‘यद् यत्र प्रमाणं तत् ततो भिन्नं यथा चक्षुरूपात् '। इत्थं च स विशेषश्चेत्प्रमाणं तर्हि स्वान्यस्मिन् स्याद् । नो चेत्स्वस्मि- न्स्याद्वाऽप्रमाणं वोभयथाऽप्यनिस्तारः। नच यदि विशेषः स्वस्मिन् प्रमाणं स्यात्तर्हि । आत्माश्रयः स्याद् अत्रान्वयव्याप्त्यभावादाभास- त्वमिति वाच्यम् । पृथिवीत्यादाविव व्यतिरेकव्याप्तिसत्त्वात् । तथाहि- अथ विशेषान्तरं तर्हि तस्मिन् किं पूर्वः प्रमाणं तुतीयो वा ? । पूर्व- श्चेदन्योन्याश्रयः स्यात् प्रथमे द्वितीयो, द्वितीये प्रथम इति । व्या- प्तिस्तु ‘यदू यत् प्रति प्रमाणम् तत् तत् प्रति प्रमेयं न भवति’ यथा चक्षुर्घटं प्रति । प्रकृतेऽपि यदि द्वितीयो विशेषः प्रमाणं स्यात्तर्हि स्वप्रामाण्ये तस्येति व्यापकविरुद्धोपलब्धिः । नो चेदन्योन्याश्रयः स्यादप्रमाणत्वं वा । अथ द्वितीये तृतीयः प्रमाणं तर्हि । तृतीये किं प्रथमः प्रमाणं प्रथमे तृतीय इति स्वीक्रियते, किंवा प्रथमे द्वितीयो द्वितीये तृतीयस्तृतीये प्रथम इति ?। आद्ये पृर्ववदन्योन्याश्रयः स्यात् । द्वितीये चक्रकम् । व्या- प्तिस्तु ‘यदू यत्र प्रमाणं तद् स्वप्रमाणप्रमेतौ विषयीभूत्वा प्रमाणं, यथा श्रोत्रं शब्दे । प्रकृते तद्वैपरीत्याच्चक्रकं स्यादप्रमाणत्वं चेति । अथ तृतीये चतुर्थश्चतुर्थे पञ्चम इत्येवं न पूर्वोक्तदोषस्तर्ह्यनव- स्था प्रसज्येत । व्याप्तिस्तु ‘यत् प्रमाणं तद् उत्तरोत्तरप्रमाणापेक्षं न भवति यथा चक्षुः, प्रकृते तद्व्यापकविरूद्धपलब्धेरवस्थायां कारणभावादनवस्था । ननु बीजादङ्कुरः कल्प्यतेऽङ्कुराद्बी- जन्तरमित्यनवस्थायामपि न दोषो भवति एवमत्र । तन्न । तत्रै ककार्यस्य प्रत्यक्षदृष्टकारणपरंपरानुमानेऽधोमुखीत्वान्न दोष- मावहति । इह तु कल्पकस्यापि कल्पनयित्वाकल्पकपरंपराया- मूर्द्धमुखत्वन्मूलक्षयकरतवे तद्दोषात् ।

 यदाहुरुदयनाचायोः



 मूलक्षतिकरीमहुरनवस्थां हि दूषणम् ।
 वस्वानन्त्यादशक्तेश्च नानवस्था हि दूषणम् ॥

इति ।

 अथ पञ्चमः स्वतःप्रमाणमतो न पूर्वोक्तदोषस्तर्हि द्वितीयो- ऽपि प्रथमे न प्रमाणमिति नियामकाभावः सामग्प्यास्तुल्यत्वात् । यत्र सामग्री तुल्या तत्र कार्यं तुल्यम् ,यथा तुल्यस्वभावेषु तन्त्वादिषु पटादिकं तद्वत् । अथ किञ्चिद्विशेषं परिहररूपं कल्पयसि तेन न्यायेनोभयत्रापि तुल्यत्वमिति । तदेवं प्रयत्नजन्यत्वं जगतः सिद्धांमेियाहुः ।

 एतं तर्कभदा एव यत आत्माश्रयां, अन्यान्याश्रयः,चक्रकम् अनवस्था, व्याघातःप्रतिबन्दीत्येतैरापाद्यैर्भिद्यमाना षट्तर्कीष्यते । षण्णां तर्काणां समाहारः षत्तर्कीत्यर्थ इति तर्कवादिनः । विरुद्धसमुच्चयो व्याघातः । चोद्यपरिहारसाम्यं प्रतिबन्दी । तर्क- सामान्यलक्षणं तूक्तमक्षपदैः-"अविज्ञाततत्वेऽर्थे कारणोपप- त्तितस्तत्त्वज्ञानर्थमूहस्तर्कः” इति । (न्या० ० अ० १ आ० १ सू० ४० ) तर्क इति लक्ष्यनिर्देशः, कारणोपपत्तित ऊह इति लक्षणम् । अविज्ञाततत्त्वेऽर्थे तत्वज्ञानार्थमिति प्रयोजन- कथनम् । करणं व्याप्यं तस्योपपत्तिरारोपस्तस्माद्य ऊह आ- रापः अर्थाद्व्ययापकस्य । तथाच व्याप्यस्याहर्यारोपाद्यो व्यापक- स्याहस्याहार्य्यारोपः स तर्क इति । निर्वह्निः स्यादद्रव्यं स्याद्’ इत्यादिवारणाय व्याप्यस्येति । तव्यप्यारोप्धीनस्तदरोप इत्यर्थ- लाभाय व्यापकस्येति । आरोपग्रहणं तु तर्कस्य प्रमाणत्वनिराक- रणाय । अर्थग्रहणं तु विज्ञातृनिराकरणार्थम् । अविज्ञाततत्त्वग्रहणं तु तर्कप्रवृत्तिं प्रति विषयतया संशयस्योपयोगिता सुचनाय । अ- यथा तर्केण द्वयोः पक्षयोरेकतरनिषेधेनैकतरस्य प्रमाणविषय- तया नियतजिज्ञास्यत्वं न स्यात् , एकतरस्य जिज्ञासानिवृत्तिर्वा ॥ नच तर्कस्यापि संशयनिर्णयान्यतरात्मकवत्ततः पृथक्करणम



१०


नुचितमिति वाच्यम् । कारणोपपत्तिविशेषदर्शनाभावसामग्रीकृ- तत्वे न तद्विलक्षणत्वात् । नहि संशये कारणोपपत्तिरस्ति, विशेष दर्शनप्रमाणेन निश्चयो भवति, नचास्मिन् विशेषदर्शनमस्तीति ॥ नच तर्कोऽनुमाने हेतुः, ‘तक,न्यायोऽन्वीक्षा' इत्यनुमानमाख्याय- त इति अनुमानपर्यायवादिति वाच्यम् । आपाद्यव्यतिरेकनिश्चयरू- पबाधघटितसामग्रीकत्वेन तर्कस्यानुमानतिरिक्तत्वेऽवगते प- र्योयत्वबोधकवाक्यस्याप्रमाणत्वेन तत्साधकत्वाभावात् । उ- क्ततर्कें पक्षविशेष्यकपाद्यभावनिश्चयरूपबाधनिश्चयसहकृतपाद्य- व्याप्यापादकवत्ताज्ञानं कारणम् , तच्च पक्षधर्मतांशे आहार्यम्, अप्रामाण्यज्ञानास्कन्दितं वा । स च तर्क आपदकबुद्धों प्रति- बन्धकः । प्रतिबन्ध्यप्रतिबन्धकभावश्च-तद्धमवच्छिन्नविशेष्यकत- द्धर्मावच्छिन्नपादकापत्तित्वेन दोषविशेषाजन्यानाहार्यतद्धर्माव- चिच्छन्नविशेष्यकतद्धर्मावच्छिन्नविशिष्टबुद्धित्वेन । ‘रूपं यदि प- रिमाणवरस्याद्द्रव्यं स्याद्’ इत्यापत्तेः ‘रूपं परिमाणवन्न वा' इत्यादिसंशयचत् ‘गुणः परिमणवन्न वा’ इत्यादिसंशये ऽपि प्रतिबन्धकत्ववारणाय तद्धर्मावच्छिन्नविशेष्यकत्वद्वयम् । तादृ- शापत्तेः ‘रूपं द्रव्यत्ववन्नव’ इत्यादिसंशयमतिबन्धकत्ववारणाय त- द्धर्मावच्छिन्नापादकत्वमापत्तिविशेषणम् । तद्धर्मावच्छिन्नापादका- पत्तित्वञ्च स्वसमानाधिकरणस्वाव्यवहितोत्तरत्वसम्बन्धेन तद्ध- र्मावच्छिन्नवत्ता परामर्शविशिष्टचम् । नचापाद्यभेदेन परामर्शभेदादे- कस्यैव निर्वह्नित्वरूपापादकस्य विशिष्टबुद्धों निधूर्मत्वनिरालोक त्वाद्यपाद्यभेदेनानन्तप्रतिबन्ध्यप्रतिबन्धकभावापत्तिरिति वाच्यम् । इष्टत्वात् । तथाच पर्वतत्वावच्छिन्नविशेष्यकनिर्वह्नित्वविशिष्टबुद्धि- त्वेन प्रतिबध्यता पर्वतत्वावच्छिन्नविशेष्यकनिर्धूमत्व व्प्यय्नाप्यनि- र्वंह्नित्वत्वावचिछन्नवत्तनिश्चयाविशीष्टनिर्घूमत्वविधेयकापतित्व-पर्व तत्वावच्छिन्नविशेष्यकनिरालोकत्वव्याप्यनिर्वह्नित्वत्वावच्छिन्नवत्ता


निश्चयविशिष्टनिरालोकत्वविधेयकापत्तित्वादीना प्रतिबन्धकतेति फलितम् । निर्घूमत्वव्याप्यनिर्वह्निन्ववान् गुणत्वव्याप्यरूपत्ववांश्च पर्वतः,' इतिसमूहालम्बनपरामर्शजन्यस्य निर्घूमत्वबाधविरहवशा- पर्वतो रूपत्ववान्स्यात्, गुणत्वमात्रविधेयकस्यापि तर्कस्य तादृश- निश्चयविशिष्टतया निदूर्धूमासत्ववोशिष्टबुद्धिप्रतिबन्धकत्ववारणाय विशेषतो निदर्धूमत्वादिविधेयक्त्वमापत्तिविशेषणम् । अपाद्य भेदेनैकस्यैवापादकस्य विशिष्टबुद्धौ प्रतिबन्धकत्वस्य स्वीकारात् इति ।

 यत्तु 'तके आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधि- तार्थप्रसङ्गभेदेन पञ्चविध' इतिनिबन्धकृदुदयनाचार्याः । तत्र ॥ अपाद्यभेदेन भेदे आपाद्यानन्त्येन तर्कस्यानन्स्यात् । तर्के आपा- द्यस्य सर्वत्र बाध्यत्वे नियमेनात्माश्रयादिचतुष्टयस्यापि चरमेण ग्रहणसम्भवाञ्च ।

 यतु अनाहार्यसन्देहस्य तर्ककारणीभूतापाद्यव्याप्यापादक- वत्ताज्ञानेनैव निरासादहर्यसन्देह एव तक्रेण निवर्त्तत इति भवा- नन्दभट्टाचार्यः । तन्न । प्रमाणेन फले जननीये जनिते च ता- दृशशङ्कानिवृत्तेरनुपयोगित्वेन तर्कस्य प्रमाणानुग्राहकतानुपपत्तेः । तत्वनिर्णयार्थमितिपुत्रविरोधाञ्च । नच पदर्थतत्त्वविचारे सूत्रविरोधप्रमाणानुग्राहकतानुपपत्ती न दोषायेति वाच्यम् ॥ अ- प्रयोजकत्वशङ्काकलङ्कितानुमानेन श्रुतिबाधसम्भावनाविरहेऽना- यासेन खण्डनकृतां विजयापत्तेः ।

 नचैवं तर्ककारणीभूतज्ञानेनैवानाहार्यशङ्कानिराससम्भवात्तव मतेऽपि तर्कवैयर्थ्यमेवेति वाच्यम् । तेन निरासासम्भवात् । तथाहि ’तर्केण पक्षधर्मतांशे आहार्य्यापाद्यव्याप्यापादकवत्तानिश्चयो हेतुः’ इति मते, निर्वाह्नित्वव्यापकनिर्धूमत्वाभावव्यापकनिर्वाह्नित्वाभा- वप्रतियोगिनिर्वह्नित्ववानित्याकारस्य व्यतिरेकिव्याप्तिविशिष्टव


तानिर्णयस्य विशेषदर्शनविधया आषदकसंशयनिवर्त्तकत्वं वा- च्यम्, तच्च न सम्भवति, तस्याहार्यज्ञानस्याप्रतिबन्धकत्वात् । स- मानधर्मिकत्व्वाभावेनविरोधित्वाच्च । अन्यथा ’वह्निव्याप्यधूमवन्प्र हान सप्रालोकवान्पर्वतः इत्यादिज्ञानस्य ‘पर्वतो वह्निमान्न वा' इत्य- दिसंशयनिवर्त्तकत्वापत्तेः । एतेन तद्वत्ताबुद्धिं प्रति तदभाववत्ता- ज्ञानविशिष्टहेतुमत्ताज्ञानत्वेनैव प्रतिबन्धकत्वाभ्युपगमेन तादृशज्ञान- स्य प्रतिबन्धकस्वं सम्भवतीति परास्तम्, मानाभावाञ्च ।

 'व्याप्त्यंशे निश्चयात्मकम्, आपादकांशे संशयनिश्चयसाधारम्- श्र आपाद्यव्याप्यापादकवत्ताज्ञानं तर्के हंतु:’ इतेि मते च संशयस्य संशयाप्रतिबन्धकतया तेनापादकसन्देहप्रतिबन्धासम्भवात् ॥

 नन्वेवमपि तर्क हेतुरापाद्यव्यतिरेकनिश्चय एवापादकशङ्कां निवर्त्त- यिष्यति आपादकस्यापाद्यव्याप्यतया आषाधव्यतिरेकस्यापादक- व्यतिरेकव्याप्यतया च तन्निश्चयस्य विशेषदर्शनत्वात् ।नचापाद्यव्य- तिरेकनिर्णयस्य तत्र ह्तेत्वे मानभाव इति वाच्यम् । पक्षविशेष्यकापा- द्यशङ्कारूपेष्टापत्तिशङ्कानिवर्तकत्वेन तस्य तत्र हेतुत्ववश्यकत्वात् । इष्टापत्तिशङ्कानिवृत्तिर्माऽस्त्विति तु न शङ्कनीयम् । तर्कस्य विपर्यये ऽपर्यवसानापत्त्या वैयर्थ्यापत्तेः । नचापाद्यव्यतिरेकस्यापादक- व्यतिरेकव्याप्यत्वेऽपि तादृशव्याप्तिप्रतिसन्धानानियमेन तर्क- स्योपयोग इति वाच्यम् । अपाद्ये आपादकव्यापकताज्ञानस्य त- र्ककारणतया ‘कारणज्ञाननियमेनूपाद्याभावे आपदकाभावव्या- प्तिज्ञानभवस्याकिञ्चित्करत्वात् पुरुषत्वाभावे कराद्यभावव्याप्त्य- ग्रहेऽपि करादिव्यापकत्वेन पुरुषत्वदिग्रहसहितपुरुषत्वाद्यभावग्र- हस्य करादिसंशयनिवर्तकत्वादिति चेन्न । तर्ककारणीभूतज्ञानां- शेऽपि तर्कसत्त्वे शङ्कानुपपत्त्यनुरोधेन तर्कस्योपयोगित्वात् । नच पूर्वजातस्यापाद्यव्यतिरेकज्ञानस्य नाशेऽपि तन्मूलकन्मान- सतादृशज्ञानादपादकव्यापकताज्ञानाच्चोत्तरकालमपि शङ्कानुत्पाद


नेिर्वाहात्तर्कस्याकिञ्चित्करतेति वाच्यम् । कुतश्चित्प्रतिबन्धकज्ञानानु- त्पादेऽपि तर्केण शङ्काप्रतिबन्धात् ।

 केचित्तु-अयोग्योपाधिशङ्कया कापि व्याप्त्यनिश्चयकथ- मनुमानेनेश्वरसिद्धिरित्युक्तवन्तञ्चार्वाकं प्रत्याहृदयनाचार्य्यः-


 शङ्का चेदनुमाऽस्त्येव नचेच्छङ्का ततस्तराम् ।
 व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः ।।

इति ।

 अस्यायमाशयः-कि व्यभिचारशङ्का दृश्यमाने धूमे, का- लान्तरीये, देशान्तरीये वा !। नाद्यः । सहैवोपलब्धेः । न द्वि- तीयः । अनुमानं विनोभयभानासम्भवेन शङ्काSनुपपत्त्याऽनुमा- नस्वीकारावश्यकत्वात् । नचेच्छङ्का तर्हि तरां सुतरां व्याप्ति- ग्रहादनुमानसिद्धेः । एवं निरस्तश्चार्वाकः शिष्यतां प्राप्तः पृच्छ- ति-‘भगवन् धूमे वह्निसामानाधिकरण्यात्मकधर्मस्य वाह्निव्यभिचार्य्य- व्यभिचारिसाधारणस्य दर्शनाच्छङ्का जायत एव, सा कुतो न स्यात् । यदि च 'वह्निमवृत्तिः कथं वन्ह्याभावत्रद्वृत्तिर्भवेद्’ इत्यु- तरं ददासि, तदा नूनं तयोर्विरोधो ऽवधृतोऽस्ति स एव नि- यमघटितः, कथमवाधार्य्यः इत्युक्तवन्तं प्रत्याह-तर्कः शङ्कावधिर्म- तम । शङ्कानिवर्त्त्क इत्यर्थः । तथा च 'धूम यदि वह्निव्य- भिचारी स्यात्, वह्निजन्यो न स्याद् ’ इति । तर्केण व्यभिचारशङ्का वारणीया । अथ कदाचिद् वह्निरेव भविष्यतीत्यादिशङ्का तर्कवि- रोधिनी स्यात्तकन्तरात्तन्निवृत्तौ चानत्रस्थेत्युक्तवन्तं प्रत्याह-व्या- घातेयादि । व्याघातो धूमाद्यर्थं वह्न्यादौ नियतप्रवृत्यादिः, सो- Sवधिः पर्यवसानं निवर्त्त्को यस्याः सा । तथा। च नानवस्थेत्यर्थ इति श्रुत्वाऽऽचार्यं शिरसा श्लाघयन्नपि मनःप्रत्ययमलभमानः स्वसहचारिणोऽन्यानवलोकयान्छिरो धुन्वानस्तूष्णीमभवत्, ततो ऽपर आह-'तन चारु, कुतः क्रुध्यदेप्रवृत्तिवत्सम्भावनयैवोक्तप्रवृ त्युषपत्त्या तस्याः क्वापि शङ्काप्रतिबन्धकत्वाकल्पनात् । अन्यत्रा


पि कदाचित्प्रवृत्तिः स्यादिति तु न शङ्कनीयम् । तदज्ञानात् । त्वदीयव्रतप्रवृत्तयो व्याहन्येरन्निति वदन्नाचार्य्यः प्रष्टव्यः कुत इति, यदि व्रते परस्परविरोधादिति तर्हि नूनं तयोर्विरोधोऽवधृतोऽस्ति स एव नियमघटितः, स कथमवधार्य्य इति त्वयैव दत्तोत्तरत्वात्, इति श्रुत्वाऽऽचार्यः सन्दिहानो बभूव इति ।

 एतेनात एव


 व्याघातो यदि शङ्काऽस्ति नचेच्छङ्का ततस्तराम् ।
 व्याघातावधिराशङ्का तर्कः शङ्कावधिः कुतः ॥


 इति खण्डनं निरस्तम् । नहि व्याघातः शङ्काश्रितः, किन्तु स्व- क्रियैव शङ्का प्रतिबन्धिकेति मणिकृद्गङ्गेश्वराचार्योक्तं परास्तम् । क्रियाकारणीभूतनिश्चयव्याघातेत्यस्य परत्वेऽपि चरमदोषानुद्धरात्।

 खण्डनख्याख्यायां दीधितिकृतस्तु-यच्च मणिकृता नहि व्या- घातः शङ्गाश्रितः किन्तु स्वक्रियैव शङ्काप्रतिबन्धिका'इति खण्डनमु- धृतम् , तदसत् । प्रवृत्तेः शङ्प्रतिबन्धकत्वस्य व्याप्यत्वकल्पनात् । क्रियाकारणीभूतनिश्चयस्य प्रमात्मकस्य क्वाप्यसिद्धेः । प्रमामा- त्रस्य खण्डितवान् । । भ्रमात्तु न वस्तुसिद्धिः । किञ्च क्रिया- ऽपि सम्भावनाऽत एवोपपन्न न निश्चयमपेक्षत इति किञ्चि- देतदित्याहुः ।

 खण्डनं तु व्याघातो विरोधस्य यदि तदा तदाश्रय- भूत शङ्काऽस्त्येव शङ्कामन्तरेण तदाश्रयीभूतस्य व्याघतस्यै- वासम्भवात् । नहि धर्मिणमन्तरेण धम्मस्संभवति । नचेद्व्याघा- तस्तदा ततः पतंबन्धाभवत् तरां सुतरां शङ्का । ततस्तरा- मिदं समस्तं बोध्यम् । व्याघावाधिः व्याघाताश्रयो यतः शङ्का, अतः शङ्काया अवधः पर्यवसानं स्वपूर्वशङ्कानिवर्तकः स्वोत्त रशङ्कानुत्पत्तिप्रयोजकस्तर्कः कुतस्तर्कमूलव्याप्तावपि शङ्काताद- वस्थ्यादिस्येवं व्याख्येयम् । नचैवं ‘स्थाणुर्वा पुरुषो वा'इति विम


र्शानन्तरं करादिवृत्तिसंस्थानविशेषोपलम्भादपि शङ्कानिवृत्तेिर्न- स्यात् इति वाच्यम् । तृतीयक्षणे स्वत एव निवृत्तिसम्भवात् । नच तत्र विशेषदर्शनात् ‘पुरुषोऽयम्’ इतिनिश्चयोत्तरमपि पुनः संशया पत्तिरिति वाच्यम् । निश्चयोत्तरं करादिसंस्थाने सत्यपि यदि न पुरुषस्वं तदाऽपि नानिष्टं शिल्पिनैपुण्यविशेषादपि त- दुपपत्तिरिति प्रतिसन्धाने सति इष्टापत्तः । यदपि व्यापया- रोपाद् व्यापकारोपस्तर्क इति । तदपि न । आरोपितव्याप्यहेतु- कासदर्थकानुमितावतिव्याप्तेः। नापि व्याप्यारोपाद्व्यापकप्रसञ्जनम् । प्रसञ्जनं हि तर्को वा आरोपमात्रं वा ? नाद्यः । तस्यैव नि- रूप्यत्वात् । विशेषणवैयर्थ्याञ्च च । न द्वितीयः । दूषितत्वात् । नापि व्यापकाभाववत्तया ज्ञाते व्याख्यारोपाद्व्यापंकारोपः । श- ङ्खत्वेन द्रव्यमवगम्य ‘पीतोऽयं शङ्खो न तु शुक्लः' इति प्र्- यक्षतोऽवगच्छतः शङ्खत्वाच्छुक्ल इत्यनुमितावतिव्याप्तेः । व्या- पकाभावावधारणे व्यापकारोपसम्भवाच । नचाहार्य्योऽयमबाधिते न सम्भवतीति वाच्यम् । आहार्यान्तरेऽनुमित्याद्यमकेऽतिव्याप्तेः । प्रयोक्तुर्व्यपकारोपस्य परं प्रत्यनुपयुक्ततया प्रसङ्गानात्मकत्वापत्तेश्च । एतेन तर्क्कयामि’ इति प्रतीतिसाक्षिको बहिरिन्द्रियादिनिरपेक्षमनो जन्यज्ञानावृत्तिमानसत्वव्याप्यो जातिविशेषस्तल्लक्षणमिति परास्तम् । तर्कस्यानिष्टानुपनायकत्वनिरासाय विषयवंलक्षण्यमवश्यं वाच्यम् । तत एव व्यवहारोपपत्तौ जातिभेदे प्रमणाभावाञ्च । अन्यथा घटज्ञान- त्वदिकमपि जातिः स्यात् । ‘यदि पर्वतो निर्वह्निः स्यात्तदा निधूमः स्यद्भूतलं घटवद्’ इति ज्ञाने भूतलाद्यंशे शे तर्क्कत्वस्वीकारे तदनुव्यवसायापत्तिः । तदनङ्गीकारें अशेकत्वपया तर्क्कत्वं न जातिरित्यपि केचित ।

 यतु-निबन्धोपायकृद्वर्द्धमानोपाध्यायाः अध्यवस्थिता


भ्युपगम्यमानकोट्युपाधिनिष्ठसत्त्वप्रतिसन्धानं तर्क्कः। तदुपाधिकत्वं च तस्मिन्सत्यावश्यत्वम् । तथाहि--यदि ‘शब्दो नानित्यः स्यात्कार्यो न स्याद्’ इत्यादौ यदिशब्देन समभिव्याहृतकोटेः अव्यवस्थितवं परिगृहीतत्वं चोच्यते ।

 तदाहुराचार्य्य -अनियतकोट्युपनिषतं नियतकोट्युपग्रहस्य ' यद्यर्थत्वं तदेत्यनेन समभिव्याहृतं प्रत्युपाधित्वमुच्यते । अव्यव- स्थितत्वं च तस्य हीनबलार्थम्, अन्यथाऽऽपादकस्य व्यवस्थि- तवे हि तस्यापाद्यविरहेण तुल्यवे परस्परप्रतिबन्ध एव स्यान्न- त्वापादकस्य भङ्ग इंत्याहुः ।

 तन्न । तर्क्कस्याप्रसङ्गात्मकत्वदोषानिवृत्तेः । ‘अयं धूमो वाऽऽ- लोको वोऽऽभयथाऽपि वह्निव्याप्यह्’ इति ज्ञानजन्यानुमितावतिव्य- प्तेश्च । नचाभ्युपगतव्याप्यां प्रति व्यापकप्रसञ्जनं तर्क्कः। तत्प्रसञ्जने तर्क्काभासेऽतिप्रसङ्गवारणायाभ्युपगताते, अव्यापकप्रसञ्जन् आ- भासे तद्वारणाय व्यापकेति इति, विवक्षिते न पूर्वोक्त दोष इति वाच्यम् । 'यदे जलं सहकारिभिः संपत्स्यते तदा मे तृषं शमयिष्यति’ इत्यादिसम्भावनानामतर्क्के व्याप्तिमद- स्तिचेद्यापकं स्यादेव' इति निश्चयरूपप्रसङ्गानात्मकेऽव्याप्ते :। । येन गिरेग्निमत्त्वमिष्टं येन आत्मनः सुखदिस्वरूपत्वमिष्टं तं प्रति ‘यदि अयं धूमवान्स्यात्तदग्निमान् स्यात्, ‘अयमात्मा यदि ब्रह्मभिन्नः स्यात्’ ‘सत्यं ज्ञानम्’ इत्यादिश्रुत्युक्ततलक्षणः स्याद्’ इत्यादीष्टपादने तर्कभासेऽतिव्याप्तेश्च । नचानभ्युपगतव्यापक- मभ्युपगतव्याप्यम् च प्रतेि व्यपकप्रसञ्जनमितेि वक्तव्यमिति वा- च्यम् । अव्यप्येनेन्धनवत्त्वादिनाऽनभ्युपगतपर्वाताग्निमभ्युपगत धूमव्याप्यं प्रति इन्धनवत्त्वेन प्रसञ्जनेऽतिव्याप्तेः । नच व्याप्येने- त्यपि कार्यम् । तथाचानभ्युपगतव्यापकमभ्युपतव्याप्यं च प्रति व्याप्येन व्यापकप्रसञ्जनं तर्क्क इत्युक्ते नोक्तदेष इति वाच्यम्॥


विकल्पे क्रियमाणे स्वीकर्तुमशक्यत्वात् । किं परमार्थतो व्याप्यतया व्यापकतया च व्यवस्थितयोर् व्यथाकाद्यंशमपहाय स्वरूपेण व्याप्य- स्येष्टत्वरूपमभ्युपगतं व्यापकस्य चानिष्टत्वरूपमुत व्याप्यव्यापका- कारणेष्टत्वनिष्टत्वे । तत्र नाद्यः । धूमाग्न्योर्विद्य्मानमपि व्या- प्यव्यापकभावमज्ञात्वा धूमेन वह्निप्रसञ्जनेऽन्यतरासिद्धव्याप्तिक- तया तर्कमूलभयसिद्धव्याप्त्यभावेन प्रशिथिलमूलत्वात्तर्काभासे- ऽतिव्याप्तेः । धूमस्य व्यप्यत्वमग्नेश्च व्यपकत्वं न च । येनेष्यते तं प्रति धूमेनाग्निप्रसञ्जने वह्निव्यापकत्वस्य तम्प्रत्यसिद्ध्या तर्क भासेगतत्वाच्च । न च तेषां सत्तर्कत्वमेवेति तु शङ्क्यम् । नै- यायिकादिभेर्व्याप्यतयाऽनङ्गीकृतेन मीमांसकैर्नैयायिकादीन् प्रति व्याप्यतया प्रतिपादयितुमशक्येन वस्तुगत्य व्याप्येन श्रावण- त्वादिन शब्दस्य शब्दत्ववन्नियत्वप्रसञ्जने उक्तलक्षणसत्त्वा- त्सतर्कत्वापत्त्या मीमांसकस्य विजयापत्तेः । न च शङ्कनादादी- नामनित्यत्वेन श्रावणत्वकथमनैकान्तिकस्य वस्तुगत्या व्या- यत्वमिति वाच्यम् । ध्वन्यन्यत्वेन विशेषितवान् । नपि द्विती- यः । उभयेष्टेन स्यवह्रादिना व्याप्येनोभयानिष्टस्य सत्तायां स- तश्रयखस्य व्यापकस्य प्रसञ्जने---


 यश्चोभयोः समो दोषः परिहारोऽपि वा समः ।
 नैकः पर्यनुयोक्तव्यस्तादृगर्थविचरणे ॥


 इति न्यायेन प्रयोक्तुरपि प्रतिकूलतया। तर्काभासेऽतिव्याप्तेः। नचभ्युपगतव्याप्यमनभ्युपतव्यपकं प्रति स्त्रयं व्याप्यतयाऽनिः- ष्टेन व्यापकत्वप्रसञ्जनं तर्क इत्युक्ते नायं दोष इति वाच्यम् । अदृष्टादिनोभयेष्ठेन प्रमेयत्वव्यप्येन मीमांसकं प्रत्यनिष्टस्य तत्प्रत्य- क्षत्वस्य व्यापकस्य प्रसञ्जने तर्के स्वयमनिष्टेनेति वेशेषणाभावा- दव्याप्तेः । अधिकन्तु के खण्डनादावनुमन्धेयमित्याहुः ।

 अपरे तु आत्माश्रयादेस्तर्कस्य मूलव्याप्तौ प्रमाणोपगमे व्या-


११


प्तिप्रमाणेनैव व्यप्यव्यापकयोर्ग्रहणादवरोधेन निर्द्दोषत्वम्प्रसज्येत । नचेत्तर्हि प्रशिथिलमूलतयऽऽभासत्वमित्युभयथा पाशबन्धोऽनि वार्यः। नचाश्रयत्व माश्रयित्वञ्च भेदे प्रमितं, तद् यदि विवादाध्या- सितवेनोपेयते तदैकैकेन भेदापादने दोषस्त्रमस्त्येवेति वच्यम् । घटादौ प्रतियोगिभेदेन रूपाद्यश्रयत्वमृदाश्रयिवोभयोर्दर्शनेन व्यभिचारित्वात् । न च यदैतदेवैतदाश्रयादि स्यात्तदैतन स्या देतदारभ्भकद्रव्यतदाश्रितरूपादिवदित्येकप्रतियोगिकयोराश्रयत्वा- श्रयित्वयोर्भेदाव्यभिचारित्वमस्त्येवेति वाच्यम् । ‘एतद्धटः' । इत्येतेन प्रमिते धर्मिणि ‘एतद्धटो न स्याद्’इत्यापाद्यमा- नस्य भेदस्य व्य।हतत्ववेन प्रमाणबाध्यस्या पदयितुमशक्य- त्वत् । न च सर्वत्र तर्के अपाद्यस्य प्रमणबाध्यताऽनुकूलै- व प्रमाणबाध्यस्यैवापाद्यत्वादिति वाचयम् । पक्षे आपाद्या- पादकयोः सामानाधिकरण्याङ्गीकारे विरोधेनापाद्यासिद्धेर्विरो- धस्य दत्तजलाञ्जलितपत्तेश्च । यत्र क्वापि विद्यमानेन पादकेन यत्र क्वाप्यापाद्यपादने एकत्वभिमतानां सर्वेषामनेकत्व प्रसङ्गात् । ‘यदश्वरः कर्त्त स्यात्तर्हि रागादिमान्स्याद्’ इत्यादेरपि धर्म्मधमपाधिकस्यपाद्यस्य रागादिमन्त्रस्य प्रमाण बाध्यत्वेऽपि सतर्कत्वापत्तेः । एवं विपर्य्ययापर्यवसनमपि स्यात् । एवं हि विपर्ययो वक्तव्यः-यस्मादेतद्धट एतद्घटो भवति तस्मान्नैतदाश्रय इति । तन्न सम्भवति । एतदित्युद्दि- ष्टे धर्मिण्येतद्विधानासम्भवात् । उद्देश्यविधेययोः प्रकारभेद- स्याभावात् । न च । स्वपक्षसाधनार्थं प्रयुक्ते प्रसङ्ग विपर्य- यपर्यवसानमपेक्षितं, परपक्षबाधाय प्रयुक्त आत्माश्रये तु न विपर्ययपर्यवसानापेक्षेति युक्तम् । अस्य प्रसङ्गस्याऽऽभासतावा रणाय प्रसङ्गमूलव्याप्तिरवश्यमभ्युपेया, तया च प्रसञ्जित- स्यानेकत्वादेर्निषेधे तद्यतिरेकस्यैकत्वादेरप्रामाणिकत्वे तस्या


अपि प्राप्त।याः प्रमाणिकत्वनिरसायाऽऽपद्यनिषेधे तद्यतिरेक- प्रामाणिकत्वस्यावश्यं मन्तव्यत्वापत्तेः । न च 'एतदेतन्न स्याद्’ इति न प्रसञ्जयामो येन व्याघातः स्यात्, किन्तु ‘यद्येतदेतदा श्रयादि स्यात्तर्ह्यन्यत् स्याद्’ इति युक्तम् । कस्मादन्यदित्याका- ङ्क्षायामेतस्मादिति स्वरूपभेदमाढयैव प्रतीतिपर्यवसायितयैव प्रसङ्गे वाच्ये तत्र च एतद्भवति न भवतीति व्याघाततदव- स्थ्यात् । ‘एतदन्यस्याद्’ इति प्रसङ्गस्य विपर्ययो भवति, एतदन्य- न्न भवतीति विधाने एतदनन्योऽयमित्येवंरूपो वक्तव्यः । । स च न । सम्भवति । एतदनन्यत्वस्यैतदन्यान्यत्वस्यैतवरूप- तया स्ववृत्तित्वविरोधात् । न च । एतद्विशेषितान्यविशेषिता- न्यत्वमात्रं न विधीयते येन विशेषणविशेषणताप्रविष्टैतदा- त्मनो विशेषणत्वेन निववेशे उक्तदोषः स्यात् , किन्तु अ- न्यत्ववधेरेतदात्मन उपलक्षणत्वेऽन्यविंशेषितान्यत्वमात्रम् । तथा चैकस्येवोद्देश्यत्वविधेयत्वाभाअवान्न पूर्वोक्तदोष इति वाच्यम् । अन्यस्य केवलान्वयितया तदन्यत्वस्य व्यहतत्वात् । एतेन प्रसङ्गे एतत्पदस्योपलक्षणत्वेन पूवक्तदोष इतेि परा- स्तम् । भिन्नत्वेन प्रतियोगिज्ञानाद् धर्मिणो भेदस्य ज्ञानोपगमे प्र्- तियोग्यन्यत्वसिद्धौ धर्मिभेदसिद्धिस्तत्सिद्धौ प्रतियोग्यन्यत्वसि- द्धिरित्यन्योऽन्याश्रयः कथङ्कारमुपन्यसनीयः । न तावद्यद्येतद्- घटादिरूपमेतद्वधाधीन्भॊश्ःश्ःइण्बोश्म् स्यात्तदा न बुध्येतेति । तथा सति एतद्वोधाधीनबोधं यत्तद्धोधाधीनबोधस्य दृष्टये तत्रै- वऽऽपद्यभावेन व्यभिचारात्, अदृष्टवे धर्मिण एवासि- द्ध्याऽऽपाद्यापादकयोर्व्याप्त्यसिद्धेः। न च यद्वस्तु तत्परस्पराधी- नबोधं न भवतेि यथा घटद्वयमितेि सामान्येन व्याप्त्यङ्गीकारे प्र- तियोगिज्ञाने स्वाधीनभेदज्ञनाधीनत्वस्यादृष्टत्वात् न व्यभिचरो न वा दृष्टचरस्वं दूक्षणम् । यदि बस्तु स्यात्तर्हि परस्पराधीनबोधं


न स्यादित्येवं प्रसङ्गः सम्भवतीति वाच्यम् । परस्पराधीनबोधा- सिद्ध्याऽऽपाद्याप्रसिद्धेः । कयाचन कल्पनयाऽप्रसिद्धत्ववारणेऽपि वस्तुवं भवतु,परस्परायत्तबोधं चास्तु, किं बधकमित्याशङ्काखण्ड- कदण्डस्य दुर्लभतया व्याप्त्यसिद्ध्या मूलशथिल्यापत्तेः । एव- मात्माश्रयान्योऽन्याश्रयावेव मध्यं परमन्तर्भाव्य चक्रकरूपेण परि णमते अतश्चक्रकं तद्दोषं नातिक्रामति । एवं व्याघातोऽपि कथमुप- न्यसनीयः। न तावद् अयं सत् स्यात्तदा सन्न स्यदिति । तथा सतेि असन्न स्यादित्यस्यापि सत् स्यादित्यर्थे एव पर्यवसानेऽभेदेन व्या- प्यव्यापकभावस्यैवभावेन मूलशैथिल्यात् । प्रतिबन्द्यपि दूषणं न भवति । तथाहि-परोद्भवितं दूषणमपहृत्य प्रतिबन्द्या प्रत्यवतिष्ठमा- नस्य को ऽभिप्रायः? । किमुद्भावितं दूषणमेव न भवति दोषहीने- ऽपि त्वत्पक्षे गतत्वात् , उत दूषणमपि सन्नोद्भाव्यम्---


 यत्रोभयोस्समो दोषः परिहारोऽपि वा समः ।
 नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे ॥ १ ॥


 इति न्यायेन वादिप्रतिवादिनोः समानयोगक्षेमत्वादिति । नाद्यः । दोषनिरासाय यत्नं विहाय प्रतिबन्दीग्रहणानुपपत्तेः । न द्वितीयः । तेनानुद्भावनेऽपि दोषसत्वेन सभापतेर्वस्तुनिर्णयानुपप- त्तेः, स्वविजयनुपपत्तेश्च । अधिकन्तु खण्डनादावनुसन्धेयम् ।


 विना येन प्रमाणानि प्रमाण्यं न मनागपि ।
 यान्ति यान्ति च येनातस्तर्कस्तर्क्यः स तार्किकैः ॥ १ ॥


 इति । प्रमाणानुग्राहकस्सत्तर्कः । स प्रमापकोऽपमापको- वा । नान्त्यः । वैयर्थ्यापत्तेः । प्रमापकत्ववे किं प्रमाणोत्पाद्यां प्रमां करोत्यन्यां वा । अन्यां चेत्कथं प्रमाणोपकरणत्वम् । न हि घटज्ञानजनकं पटप्रमाणोपकारीति सम्भवति । प्रमाणोपाद्यप्रमो- त्पादकत्वे नेिर्द्रष्टव्यार्था ये तत्वेन तुल्यत्वे सति एकेन प्रमोत्पाद-

निर्वाहेऽपरस्यः वैयर्थ्यपत्तिः । नच तर्कव्याप्तेराभासत्वाङ्गी
 

कारान्न प्रमाणतुल्यत्वमिति वाच्यम् । ‘यदीइश्वरः कर्त्ता न स्या- तर्हि घटः स्याद्’ इत्यादितर्कस्यानुमानोपकारित्वापत्तेः । तुल्य- स्योपकारित्वे च प्रमाणस्यापि तर्कोपकारित्वं स्यात् । इष्टपत्तौ चन्योऽन्याश्रयादि स्यात् । प्रमाणोपकारिणः पूर्ववृत्तिस्वनियमेन समकालत्वनियमेन वाऽङ्कुरादिकार्यं सकर्त्तृकं नवति सन्देहे प्र- माणप्रवृत्तेः पूर्वं यदीदं सकतृकं न स्यात्तर्हैिं कार्यं न स्या- दाकाशवदिति प्रयोक्तुमशक्यतया प्रमाणाङ्गत्वासम्भवाच । त- र्कस्य प्रमाणोपकरणत्वेऽदृष्टादिकं कस्यचिप्रत्यक्षं प्रमेयत्वात्क- रतलवदित्यादेः केवलान्वयिनो विपक्षाभावेनानुकूलतर्कसम्भवे आभासत्वापत्तेश्चेति । यत्तु प्रमाणं प्रमेये वर्तमानं स्वसा- मग्रीसहितं प्रवर्तते, तथा च प्रतिबन्धकाभावस्यान्वयव्यतिरेका- नुविधायितया सामग्र्यन्तःपाते स्थिते साधके प्रमाणे प्रवृत्ते बाधकप्रतिबन्धानिवृत्तिस्तर्केण क्रियते इति तन्न । साध्यसन्देहे प्रमणप्रवृत्तेरर्वाक् तर्कप्रवृत्त्यसम्भवस्यानुपदोक्ततया बाधकप्रति- बन्धनिवर्त्तकत्वसम्भवात् । प्रतिबन्धकाभावस्य स्वज्ञानं प्रति विषयत्वेन कारणत्वंऽपि प्रतिबन्धकाभावत्वेन कारणत्वे माना- भावेन सामग्प्यन्तः पातित्वसम्भवाञ्च । ‘प्रतिबन्धकभावत्वेन कारणत्वे प्रतिबन्धोऽपि सामग्री’ इत्यभियुक्तोक्त्या सामान्यतः सामग्भवस्यैव प्रतिबन्धकतय मण्याद्यभावस्य प्रतिबन्धका- भावत्वे सिद्धे मण्यादेः सामग्रयभावत्वेन प्रतिबन्धकस्वसिद्धिः, तस्य प्रतिबन्धकत्वे सिद्धे मण्याद्यभावस्य प्रतिबन्धकाभावत्वेन कारणत्व सिद्धिरित्यन्योऽन्याश्रयः स्यात् । न च मण्याद्यभावस्योक्तरीत्या प्रतिबन्धकभवत्वेनाकारणत्वेऽपि मण्याद्यभावत्वेन कारणत्वं म- ण्याद्यभावे सति दाहस्तदभावे तदभाव इत्यनन्यथा सिद्धान्वयव्य- तिरेकसहकृतप्रत्यक्षमेव मानमिति वाच्यम् । मण्याद्यभावन्वयव्य- तिरेकयोर्दाहादि सामग्रीकालीनदाहनुत्पादस्याऽग्रिमसमयसम्बन्ध


भावविषयतयाऽन्यथासिद्धत्वेन गन्धे रूपप्रागभावस्येव दा- हादिकार्ये तस्य कारणत्वे प्रत्यक्षाद्यभावात् । न च मण्यादेः कार्यानुत्पादप्रयोजकतया तव्यतिरेकस्य कार्यानुत्पादव्यतिरेक- रूपकार्ये प्रयोजकत्वनेयमेनोक्तान्वयव्यतेिरेकयोर्नान्यसिद्ध्- त्वमिति वाच्यम् । अनुत्पादस्य प्रागभावरूपस्यानादित्वेन म- ण्यादेस्तत्प्रयोजकत्वासम्भवे कार्यानुपदस्यग्रिमसमयसम्बन्ध- स्यैव प्रयोजकत्वात् । ननु मण्यादेः कार्यानुपादाग्रिमसमय- सम्बन्धप्रयोजकत्वमपि न सम्भवति कार्यानुत्पादस्याग्रिमसमयेन सम्बन्धानिरूपणात् । तथा हि-किं संयोग उत समवायः । अह स्वरूपम् । नायःउभयोरद्रव्यत्वात् । न द्वितीयःअवयवावय- वित्वाद्यभावात् । तृतीयेऽपि किमेकैकस्वरूपं सम्बन्ध उतोभय- स्वरूपम्, उभयथाऽपि तयोरनादित्वेन तन्निमित्तस्वसम्भवा दिति चेन्न, अखण्डकालस्यानादिवेऽपि अग्रिमसमयस्यौपाधि- कत्वेन सादितया तत्प्रयोजकत्वोपपत्तेः । न च कार्यानुत्पाद- स्याग्रिमसमयसम्बन्धव्यतिरेकः कार्यमेवेति वाच्यम् । कार्यस्य स्वप्रागभावरूपानुत्पदमात्रव्यतिरेकत्वात् । तथा कार्यं स्वनुत्पा दस्याग्रिमसमयसम्बन्धव्यतिरेकसमयमपि ततोऽन्यदेवति न त- द्गोचरावन्वयव्यतिरेकौ न वा पण्याद्यभावोऽनन्यथासिद्ध इति भावः । न चान्वयव्यतिरेकयोरग्रिमसमयसम्बन्धाभावविषय त्वं किमर्थं कल्प्यते । कार्यविषयत्वमेव किं न स्याद्विनिगम काभावादिति वच्यम् । दाहादिकार्यस्य क्लृप्तवन्ह्यादिकार- णादेवोत्पत्तेर्मण्याद्यभावस्य कारणत्वं न कल्प्यते इति लाघव- स्यैव विनिगमकत्वात् । न च वन्ह्यादरेपि न दाहकारणवं क्लृप्तं तदन्वयव्यतिरेकयोर्दाहानुत्पादाग्रिमसमयसम्बन्धाभाववि षयत्वेनान्यथासिद्धत्वादिति वाच्यम् । दाहादिकार्यस्य स्वानु-

पादाग्रिमसमयसम्बन्धाभावापेक्षया प्रथमोपस्थितवात् । अभावापे- .
८७
सङ्क्षेपतः पदार्थनिरूपणम् ।

क्षया भावस्य लघुत्वत् वन्ह्याद्युत्कर्षाद्दहाद्युत्कर्षदर्शनाञ्च । अन्य- थोस्कर्षादेराकस्मिकत्वापत्तेः । एतेन दण्डादेरप्येवं सति घ- टकारणता न स्यात्, तत्रापि तदन्वयव्यतिरेकयोः घटकर्यानु त्पादाग्रिमसमयसम्बन्धाभवविषयतयाऽन्यथासिद्धिसम्भवादिति परास्तम् । प्रथमोपस्थित्यादिहेतुभिर्दण्डघटयोरेव प्रथमसम्बन्धक- ल्पनात् । न च । पश्चाद्दण्डादिव्यनिरेकस्य कार्यव्यतिरेका- ग्रिमसमयसम्बन्धाभावप्रयोजकत्वकल्पनवद्दण्डादेरपि घटादिव्यतिरेका- ग्रिमसमयसम्बन्धाभावप्रयोजकत्वावश्यत्वे पूर्वकल्पितं हेतुत्वं त्य ज्यतामिति व।च्यम् । असति बाधके त्यागायोगात् । उपजी- व्यविरोधाञ्च । नच मण्याद्यभावस्य दाहद्यकारणत्वे मण्या दिकालेऽपि दाहादिः स्यात् , तदानीमपि दाहसामग्रीसवादिति वाच्यम् । कार्यानुत्पादस्याग्रिमसमयसंबन्धस्यैव बलीयस्या म- प्यादिघटितसामग्र्या प्रथमसम्पादनेन तदनीं दाहाद्यपत्त्यसम्भवात्। न च यस्य कायनुत्पादनिमित्तत्वं तदभावस्य तत्कार्यहेतुत्वमिति नियम इति वाच्यम् । प्रायश्चित्तस्य दुःखानुत्पादाग्रिमसमयसम्बन्ध- ऽपि तदभावस्य दुःखहेतुत्वेन व्यभिचारात् । नच | प्रायश्चित्तभावस्य दुःखहेतुत्वमसिद्धमिति वाच्यम् । मण्याद्यभावान्वयव्यतिरेकवत्तदन्वयव्यतिरेकयोरन्यथा- सिद्ध्या तस्य कारणत्वं मनाभावात् । न चाँग्रमसमयसम्ब- न्धाभावत्वस्य मण्याद्यभावजन्यत्ववच्छेदकत्व दाहत्वाद्यपेक्षया गौरवमिति वच्यम् । कार्यानुपादस्य मण्यादिनिमित्तकत्वासम्भवेन मण्याद्यन्वयव्यतिरेकयोः कारयानुत्पदग्रिमसमयसंबन्धतदभाववि- षयत्वेनाग्रिमसमयसम्बन्धाभावस्यैव प्रथमपस्थितत्व अन्वयव्य- तिरेकयोस्समानविषयत्व नियमेन दाहादिकायेवदिनोऽपि तस्यैव तत्प्रयज्यत्वस्यावश्यवक्तव्यत्वाद् अवश्यक्लुप्तवन्ह्यादिना दाहा - दिकार्योपपत्या दाहत्वादेस्तत्कार्यतावच्छ्दकत्वे मानाभावाञ्च गौ


रवस्याकिञ्चित्करत्वात् । अथ मण्यद्यभाव दाहादिकारणमिति वदन्प्रष्टव्यः किं कंवलमण्याद्यभाव उत उत्तेजकाभवविशिष्ट इति । नाद्यः। उत्तेजकसमवधाने मण्यादिसत्त्वेऽपि दाहदशनात् । नान्यः । प्रतिबन्धकतशक्तिविघटकोत्तेजकत्वस्याभावकारणताग्रहाधीनप्रति- बन्धकताबोधाधीनत्वेन चक्रकापत्तेरिति । तत्र वन्ह्यभवेऽतिव्या- प्तिवारणाय सामग्रीकालीनेत्यनुत्पादविशेषणम् । नच वन्ह्याद्यभावः प्रतिबन्धकःवन्ह्यभावात् , दाह्याभावाद् दाहनुत्पत्तौ 'इदानीं दाहः प्रतिबद्ध' इति वृद्धप्रसिद्ध्यभावात् । लाघवान्मणित्वादिकमेव दाहाभावे प्रयोजकतावच्छेदकं न मण्यभावभावत्वं गौरवात् । अतो मण्याद्यभावव्यत्रेकस्यान्यथासिद्धतयाऽपि न मण्याद्यभावस्य दाहादिहेतुत्वम्स्व। न च मणित्वादोकमेव मण्याद्यभावाभावत्वम् । मणित्वस्य निष्प्रतियोगिकत्वात्। ‘मणिर्मण्यभावाभावः इति भि- न्नतया प्रतीतेश्च । नच प्रतिबन्धकाभावस्याकारणत्वे प्रति- . योग्युपलम्भाभावोऽपि अभावधीहेतुर्न स्यात् तत्रापि प्रतिबन्धकव- त्प्रतियोग्य्पलम्भस्याभावज्ञानानुत्पादाग्रिमसमयसम्बन्धाभावनिमित्त्त्वे त्वे तद्व्यातिरेकस्याभावज्ञनानुत्पादाग्रिमसमयसम्बन्धाभावनिमित्तत्वे ऽन्यथासिद्धत्वात् । प्रतियोग्युपलम्भत्वापेक्षया प्रतियोग्युपलम्भा- भावाभावत्वस्य गौरवंणाभावज्ञानानुत्पादप्रययोजकतावच्छेदकत्व सम्भवेन प्रतियोग्युपलम्भाभावव्यातिरेकस्यान्यथासिद्धत्वाच्चेति वाच्यम् । इष्टपत्तेः । एवं विहितनित्यनैमित्तिकाकरणमपि न प्रत्यवायहेतुः । न च यथेष्टचरणप्रसङ्गः । विहितविरुद्धकरण स्य तत्कालीन कायिकमानसादेः प्रत्यवायहेतुतया यथेष्टाचरण सम्भवत् । तदुक्तं भट्टपादैः


 स्वकाले यदकुर्वंस्तु करोत्यन्यदचेतनः ।
 प्रत्यवायोऽस्य तेनैव नाभावेन स जन्यत इति ।


 अस्यार्थाः -स्वकाले विहितका्ले । अन्यत् विहितविरुद्धम् ।


अचेतनः-कृत्यीकृत्यविवेकशून्यः । प्रत्यवायः-दोषः-पाप- मिति यावत् । अस्प-विहितविरुद्धकर्र्त्तुः पुंसः । तेनैव विहेितवेरुद्धकरणेनैव । अश्वावेन-विहिताकरणलक्षणन । सः प्रत्यवायो न जन्यत इति । अथ ‘प्रतिवन्धकाभावो दाहादि- कारणम्’ इति वदन् प्रष्टव्यः-किं प्रतिबन्धकाभावत्वेन मणिमन्त्रौ षधाद्यभावस्य कारणत्वम् , उत । मण्याद्यभावसमुदायत्वेन ? नाद्यः । अन्योन्याश्रयस्योक्तस्वाव् । द्वितीयेऽप्युत्तेजकस्थले व्यभिचारे- णोत्तेजकाभावविशिष्टमण्याद्यभावकूटत्वेन हेतुत्वं वाच्यम् । तत्र चात्तजकत्वं दुनैरूपम् । तथा हि-उत्तजकत्व न कार्यानुकूलत्वम् दाह्यसंयोगादेरपि तथात्वापत्तेः । न चेष्टपत्तिः । प्रतिबन्धके सत्यपि कार्यपफ़्त्तेः । न च प्रतिबन्धके सति कार्यानुकूलत्वम् । उ- त्ते जकभावविशिष्टस्यैव प्रतिबन्धकत्वेन तत्सत्त्वे उत्तेजकासम्भ- वेनोक्तलक्षणसम्भवात्, मण्यादेः कायेमात्रे व्यभिचरेण प्र- तिबन्धकप्रयुक्तानुत्पत्तिप्रतियोगिकार्यत्वावच्छेदेनानुकूलता ग्राह्या, तथा च प्रतिवन्धकग्रहे उत्तेजकग्रह:, तद्ग्रहे च तद भवविशिष्ट- मण्याद्यभावकारणताग्रहपुरस्सरं प्रतिबन्धकत्वग्रहः, इति परस्प- राश्रयाच । नाऽपि शक्त्यनुकूलत्वम् । नैयायेकमते तदभावत् , मीमांसकमतेऽपि वन्ह्यादिशक्तेस्तत्सहभावित्वेनोत्तेजकस्य त- दनुकूलत्वास,भवात्। एतेन कार्याभवव्याप्याभावप्रतियोगित्व मुत्तेजकत्वम्’ इति परास्तम् । कर्यमात्रविवक्षायां व्यभिचारात्, प्रतेिबद्धकार्यविवक्षायामप्युत्जकप्रतिबन्धकोभयाभावस्थलीयदाहा- दौव्यभिचारात् , उक्तपरस्पराश्रयदोषप्रसङ्गाच्च । नाSपि साम- ग्र्युत्तरकालीनकार्यानुपादप्रयोजकाभावप्रतियोगित्वम् । कार्या- नुपादस्य समग्र्यनन्तरकालीनत्वानुपपत्त्या प्रतिबन्धकाभावस्य कारणत्वानुपपत्तेः , सामग्रपदानुपदाने च सहकरेिमात्रे ऽतिव्याप्तेरुक्तत्वात् । नाऽपि यदभावविशिष्टत्वेन प्रतिबन्धकत्वं


१२


कतमाः पुनः प्रकृतिविकृतयःकियत्यंश्चेत्यत उक्त स्-“महदाद्याः प्रकृतिविकृतयः सप्त" इति । प्रकृतयश्च विकृतयश्च तr इति प्रकृतिविकृतयः” सप्त । तथा हि-महत्तत्वम् अहङ्कारस्य प्रकृतिः, बिकृतिश्च



तत्प्रतियोगित्वम् । अभावकारणताग्रहे कारणीभूताभावप्रतियो- गितया मण्यादेः प्रतिबन्धकत्वग्रहः । तद्ग्रहे च तद्विशेषणीभूता- भावप्रतेियोगेितयोत्तेजकत्वग्रहः । तद्ग्रहे चोत्तेजकाभावविशिष्टमण्याद्य भावकारणताग्रह', इति चक्रकापत्तेः । एतेन ‘कारणीभूताभावप्रति योगिविशेषणाभावत्व मुत्तेजकत्वम्" इति परास्तम् । नापि कार- णान्यत्वे सति कार्याभावप्रयोजकाभावप्रतियोगित्वम् । तत्र यत्कि- श्चित्कारणान्यत्वे विवक्षिते वन्ह्यादेरप्युत्तेजकत्वापत्तेः, नि- खिलकारणान्यत्वविवक्षायाञ्च प्रतिबन्धकाभावकारणग्रहात्पूर्वं निखिलकारणान्यत्वस्य ग्रहीतुमशक्यतया । परस्पराश्रयात् । एतेन ‘कारणाभवातेिरिक्तकार्याभावप्रयोजकाभावप्रतियोगित्वम्' इति प- रास्तम् । नाऽपि प्रतिबन्धकाभावेतरसकलसाधनसमवधानकालीन कार्यभावप्रयोजकाभावप्रतियोगित्वम् । चक्रकापत्तेः । अधिक- न्तु खण्डनादावनुसन्धेयमिस्याहुः ।

 कतमः-कंस्वरूपा इति धर्मिस्वरूपप्रश्नः, क्रियत्य इति सङ्ख्याप्रश्न इति विभागः । स्वरूपमाह-महदाद्या इति । सङ्ख्या- माह-सप्तेति । कस्य को विकृतिः ? प्रकृतिश्च कस्य ? इत्यतस्ता विवृणोति-तथा हीति । प्रकृतिविकृतित्वञ्च-तत्वान्तरोपादानत्वे सति कार्य्यत्वम् । यत्तु-अजन्यत्वे सति जनकत्वं प्रकृतित्वम् तत्वविभाजकोपाध्यवच्छिन्नजनकत्वे सति जन्यत्वं प्रकृतिविकृति- त्वमिति; तन्न । आद्ये ‘अष्टौ प्रकृतयः' इति कपिलसूत्रोक्तमूलप्रकृत्य- तिरिक्तभकृतिष्वव्याप्तेः । मूलप्रकृतित्वमित्युक्ते तु न दोषः। अ- न्त्ये तवीविभाजकमूलप्रकृतित्वाद्यवच्छिन्नजन्यताया अप्रसिद्धेः ।



मूल प्रकृतेः । एवमहङ्कारतत्वं तन्मात्राणामिन्द्रियाणाञ्च प्रकृतिः, विकृतिश्च महतः। एवं पञ्चतन्मात्राणि तत्त्वानि भूतानमाकाशदीनां प्रकृतयःविकृतयश्चा- हङ्करस्य ॥

 अथ का विकृतिरेव, कियती च ? इत्यत उक्तम्- “षोडशकस्तु विकारः" इति । षोडशसङ्ख्यापरिमितो- गणः षोडशक: । ‘तु' शब्दोऽवधारणे भिन्न- क्रमः-पञ्च महाभूतानि एकादशेन्द्रियाणीति षोडशको- गणो विकार एव, न प्रकृतिरिति । यद्यपि पृ-



महत्तवादियत्किश्चिन्निवेशे तु प्रकृतिविकृतिषु यत्किञ्चिदुपाध्य- वच्छिन्नजनक्त्वाभावासत्त्वेनाऽव्याप्तेः।

 भिन्नक्रम इति विकारोत्तरं सम्बन्धनीय इति भावः । तदेव दर्शयति-पश्चभूनानीत्यादिना । विकारत्वं च-तान्तराजन- कत्वे सति जन्यत्वम् । आद्याविशंपणेन प्रकृतिविकृतिनिरासः । द्वितीयेन पुरुषस्य ।

 तत्त्वविभाजकोपाध्यवच्छिन्नाजनकत्वे सति जन्यत्वं विकार- त्वमिति केचित् । तन्न । तस्वविभाजकमूलप्रकृतित्वाद्यवच्छिन्न जन्यताया अप्रसिद्धेः । महत्तत्वादियत्किञ्चिन्निवेशे तु प्रकृतिविकृ- तिषु यजिंकाचदुपाध्यवच्छिन्नजनकत्वभावसत्त्वेनऽतिव्याप्तेः ।

 ‘कार्योपादानत्वं प्रकृतित्वम्’ इति मनसि निधाय शङ्कते-यद्य- पीति । तथा च विकार एव न प्रकृतिरिति न सम्भवति । पृथि= व्यादीनां घटादिप्रकृतित्वसम्भवात् । प्रकृतिविकृतयः सत्यपि न सम्भवति । पृथिव्यादिविकाराण गोवृक्षादीनां पयोबीजदिजनक- त्वेन तेषामपि सत्त्वादिति भावः । न च पृथिव्यादीनामित्यादिना- ऽपि प्रकृतिविकृतयः सप्तेति नियमभङ्गसम्भवे एवं विकारभेदानामि- त्यादेर्वैयर्थें तदवस्थमेवेति वाच्यम् । द्वादशेस्यादिनियमभङ्गपर


थिव्यादीनां गोघवृक्षादयो विकाराः, एवं तद्विकारभेदानां पयोवीजादीनां दध्यङ्कुरादयः; तथाऽपि गवादयो बीजादयो व न पृथिव्यादिभ्यतत्वान्तरम् । तवान्त- रोपादानत्वं च प्रकृतित्वमिहाऽभिप्रेतम्, इति न दोषः। सर्वेषां गोघटादीनां स्थूलतेन्द्रियग्राह्यता च समा, इति न तरवन्तरत्वम् ।


त्वात् । एतेन-"गोघटादीनां पृथिव्यादिविकारत्वकथनेनैव न प्रकृति- रित्यस्यसङ्गतत्वनिर्वाहे एवं तद्वि कारभेदनामित्यादिकथनप्रसङ्ग- - तम्' इति परास्तम् ।’ "तवन्तरोपादानवं प्रकृतिस्वम्' इत्यभिप्रायेण समाधत्ते-तथापीति । नन्वेवमप्यत्र तत्त्वपदम्—तस्य भावस्तत्त्व- मिति भावपरं न, किन्तु यथार्थे पदार्थ रूढम् । एवं च गोघटादी- नामपि यथार्थपदार्थतवात्पृथिव्यादिविलक्षणत्वाञ्च पदार्थान्तरत्व- मस्त्येवेत्याशङ्क्याऽऽह-सर्वेषमिति । स्थूलता-महन्परमाणम् । इन्द्रियग्राह्यत-बाहेन्द्रियग्राह्यता । तेन महपरिमाणवति पुरुषे आन्तरेन्द्रियग्राह्यत्वसत्त्वेऽपि न क्षतिः । । चशब्देनाऽनुक्ता अपि शतघोरमूढत्या ग्राह्याः ।

 एतदुक्तं विष्णुपुराणे-


 तस्मिस्तस्मिंस्तु तन्मात्रास्तेन तन्मात्रतः स्मृता ॥
 न शान्ता नापि घोरास्ते न मूढाश्चाविशेषिणः ॥ १ ॥

 

इति ।

 अस्यायमर्थः-तेषु तेषु भूतेषु तन्मात्रास्तिष्ठन्ति, इति कृत्वा धर्म- धन्येभेदाद् द्रव्याणमपेि तन्मात्रता स्मृता । ते च पदार्थः पञ्च- तन्प्रात्ररूपाः शासघोरमूढाख्यैः स्थूलगतशब्दादिविशेषैः शून्याः। एकरूपत्वात् । तथाच शान्तादि विशेषशून्य शब्दादिमत्त्वमेव भूतानां शब्ददितन्मात्रत्वमित्याशयः । अत एवऽविशेषिणः-अविशेष संज्ञका इति । शन्तम्-सुखात्मकम्, घोरम्-दुःखात्मकम्, मूढम्- मोहमकमिति ।


 अनुभवरूपमाह—" न प्रकृतिर्न विकृतिः पुरुषः" इति । एतत् सर्वमुपरिष्टादुपपादयिष्यते ॥

॥ ३ ॥

 तथाच गोघदादीनां तवन्तरप्रयोजकतत्तदसाधारणशान्तादि- धर्मशून्यत्वाभावात्, बहिरिन्द्रियग्राह्यगुणशून्यत्वाभावद्वा न तत्त्वा- न्तरत्वमिति भावः । प्रयोगस्तु-विमता गोघटादयः पृथिव्यादिभ्यो न तत्त्वान्तराणी , स्थूलत्वात्.बाह्येन्द्रियग्राह्यवात् , शान्तादिधर्मवत्त्वाद्वा , प्रसिद्धपृथिव्यादिवत्, व्यतिरे्के पुरुषवदिति ।

 अनुभयरूपमिति । अनुभयरूपस्वं च-अजनकस्वे सत्य- जन्यत्वम् । ननु 'महत्तत्वमहङ्कारस्य प्रकृतिः इत्यादिनि- यमै पुरुषस्य[नुभयरूपत्वे च प्रमाणभव इत्याशऍग्क्याऽऽह- एतत्सर्वमितिउपपदयिष्यते-तत्तत्पदार्थनिरूपणावसर इति शेषः । उपपादनञ्च क्क्वचिद्युत्या, , क्क्वचित् श्रित्यादिसमानर्थक- पदोपन्यासमात्रेण । तेन क्रमे युक्त्यप्रदर्शनेऽपि न क्षतिः । ननु तन्त्रान्तरसिद्धानां दिक्काळगुणकर्मसामान्यविशेषसमवायाभवनां सत्वेन कथं चत्वर एव पदार्थ इते चेच्छृणु-दिक्वालयोस्तत्तदुप- धिषु गुणकर्मसामान्यादीनां धर्माधर्यभेदादत्रैवऽन्तर्भावात् ।

 [२]भाष्यकारस्तु-"दिक्कालावकाशादिभ्यः” ( साङ्ख्य०सू०- अ० २ सू० १२ ) इति सूत्रे नित्यौ यौ दिक्कलौ तावकाशप्रकृति- भृतौ प्रकृतेर्गुणविशेषावेव, अतो दिकालयोर्विभित्वोपपात्तिः । ‘आकाशवत् सर्वगतश्च नित्यः" इत्यादिश्रुत्युक्तं विभुत्वञ्चाऽऽका- शस्योपपन्नम् । यौ तु खण्डादिक्कालौ तौ तु तत्तदुपाधिसंयोगा- दाकाशादुत्पद्यते इत्यर्थः , आदिशब्देनोपाधिग्रहणादिति । यद्यपि तत्तदुपाधिविशिष्टाकाशमेव खण्डदिक्कालौ; तथापि विशिष्टस्यातिरि- क्तताऽभ्युपगमवादेन । वैशेषिकनये श्रोत्रस्य कार्यतावत् तत्कार्यत्वं




 १ साङ्ख्यभाष्यकारा विज्ञानभिक्षवः ।


तत्रोक्तम्, इति विशेषमाहुः । गर्भमैत्रेयोपनिषदादिषु-'अष्टौ प्रकृतयः षोडशविकारः’ इत्यादिना तथैव व्युत्पादनाच्च । ननु दिकल्लयोस्त- तदुपाधावन्तर्भावो न सम्भवति । तथा हि-स्वजन्यविभागप्रागभावा- वच्छिनं कर्म, स्वजन्यविभागनाश्यपूर्वसंयोगविशिष्टजन्यविभा- ग: , स्वजन्यविभागजन्यपूर्वसंयोगनाशवच्छिन्नस्यजन्योत्तर- संयोगप्रागभावः, उत्तरदेशसंयोगावच्छिन्नं कर्मेत्यादिक्षणादि- घटितदिव समासादिवैचित्र्यनिर्वाहकतपनपरिस्पन्दादिरूपाः । ते च ‘इदानीं घटः’ ‘अष्टार्विंका ब्राह्मणाः’ इत्यादिप्रतीतौ विशेषणत्वेन भासन्ते । अत्र तपनपरिस्पन्दाः घटादिविशेष्यकस्वविशेषणकधीजनक- प्रयासत्तिमन्तः घटादिविशेष्यकविशिष्टधीजनकविशेषणत्वात्, थटादि- रूपवत्, इत्यनेन तत्सम्बन्धसिद्धिः । सच न समवायः बाधात्। नाऽपि स्वाश्रयसंयुक्तसंयोगिसमवायःतद्धटकपृथिव्याद्यभावात् । नापि स्वाश्रयसंयुक्तसमवायः, तपनपिण्डयोरसंसर्गात् । न चाऽहस्करकर- निकर एत्र तथा । तदभावेषि गृहनिखतपदर्थेषु मासाद्यवच्छेदात् । तथा चोपाधीनां बहुतरतपनपरिस्पन्दादीनां परम्परासम्बन्धाभावे साक्षात्सम्बन्धानुपपत्त्या तत्सम्बन्धघटकस्तदतिरिक्तः कालोऽवश्य मभ्युपेयः। जेष्ठे परत्वप्रत्ययः, कनिष्ठे चापरत्वप्रत्ययोऽयमस्मात्परो- ऽयमस्मादपर इति । स च परत्वापरत्वगुणविशेषाधीनः । परत्वापरत्वे सासमवायिकारणके, भावकार्य्यत्वात् । असमवायिकारणं च तस्य का-. लपिण्डसंयोग एव,इत्यतोपि परत्वापरत्वासमवायिकारणसंयोगाश्रय- तया कालोऽवश्यमभ्युपेयः। न च पिण्डगतरूपादेरेव परत्वापरत्वासमव- यिकारणत्वमस्त्विति वाच्यम् । कालिकपरत्वापरत्वयोर्वायावुत्पत्या व्यभिचारात् । अत एव पृथिवीपिण्डसंयोगस्यापि न तत्र कारण- त्वम् । पृथिव्यसंयुक्तपदार्थेऽपि तदुपादेन व्यभिचारात् । न चा- ऽऽकाशदिगात्ममनोभिः पिण्डसंयोगस्य तथात्वमस्त्विति वाच्यम्। आकाशादिसंयोगस्य तथात्वे जीवस्मभिः प्रत्येकं विनिगमना


विरहात् आत्ममनसोस्त्वनन्तत्वात् । एवं यदपक्षयोदयाचल- संनिहितो य देशः स तम्प्रति प्राची । यदपेक्षयाऽसंनि- हितो यो देशः, यदपेक्षयाऽस्ताचलसंनिहितो व देशः सा तम्प्रति प्रतीची । एवं यदपेक्षया सुमेरुसन्निहिते यो देशः सा तम्प्रति उदीची । तद्व्यवहितात्ववाची । यदपे- क्षयोदयाचलसन्निहितत्वं च-तन्निष्ठोदयाचलसंयुक्तसंयोगापेक्षयो- दयाचलस्ंयुक्त संयोगाल्पीयस्त्वम् । असन्निहितत्वञ्च भूयस्त्वम् । निशावसानहेतुसूर्यसंयोगवत्वमुदयाचलस्त्वम् । निशाकारणीभूतसू र्यसंयोगवत्वमस्ताचलत्वम् । देशश्च सूर्यादिनिष्ठतत्तसंयोगः, नतु मूर्तम् । तत्रापीदं प्राच्यामित्यादिव्यवहारात् । अन्यथा तत्सम्बन्धस्य घटादौ सिद्धत्वेन दिगसिद्ध्यापत्तेश्च । इत्थञ्च सूर्यादिगतानां त- त्तत्संयोगरूपोपाधीनामुक्तरीत्य परम्परासम्बन्धाभावे साक्षात्सम्ब- न्धानुयपत्या तत्सम्बन्धघटक दिगवश्यमभ्युपेया । एवं संयुक्त संयोगाल्पीयस्त्वभूयस्त्वविषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवा- यिकारणसंयोगाधिकरणतयाऽवश्यमभ्युपेया । ननूपाधीनामननु- गतत्वादनुगतप्राच्यादिव्यवहारो न स्यादिति चेन्न । तत्तत्प्राच्यादि- व्यवहारस्यऽनुगतस्वात् । न चाऽऽकाशस्य सूर्यक्रियापीयस्यादि- विषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकाणश्ंयोगाधिकरणत्वं क्रियाया अत्रोपाध्युन्नायकत्वम्, संयुक्तसंयोगाल्पीयस्त्वभूयस्व- विषयकापेक्षाबुद्धिजन्यपरत्वापरत्वासमवायिकारणसंयोगाधिकरणत्वं च संयोगोपाध्युन्नायकत्वरूपं तत्तदुपाधिसम्बन्धघटकवं सम्भवती- ति वाच्यम् । जीवत्मभिर्विनिगमनाविरहस्योक्तत्वात् । किञ्चाSऽका- शं न तत्तदुपाधिसम्बन्धघटकं, विशेषगुणवत्वात्त्, पृथिवीवत् । न चाऽत्राऽव्यापकत्वमुपाधिः। सकलभूर्त्तसंयोगित्वाभावरूपस्यऽव्य- पकत्वस्य पक्षमात्रव्यावर्तकसकलमृर्त्तपदविशेषणकत्वेन पक्षेतरत्व- वदनुपाधित्वात् । एतेन ‘अत्र मूर्तत्वमुपाधिः’ इति | परास्तम् । अ


वच्छिन्नपरिमणवत्वस्य मृर्त्तत्वस्य पक्षमात्रव्यवर्त्तकवच्छिन्नपद- विशेषणकत्वेन पक्षेतरत्वतुल्यत्वात् ।

 यत्तु–दिक्कालौ नेश्वरादतिरिच्येते, मानाभावात्, तथावि- धमाकाशमिति दीधितिकृत आहुः तन्न । मानस्य लीलावतीकृद्भि- र्न्यायवल्लभाचार्यैरुक्तत्वात् । विभतमीश्वरादि न तत्तदुपधिप्त- म्वन्धघटकम्, विशेषगुणवत्वात् , पृथिवीवत् । घटनिष्ठसूर्यक्रि- याविशिष्टज्ञानं नेश्वारादिघटितसम्बन्धजन्यम्, घटनिष्ठक्रियाविशि ऽज्ञानत्वत्, घटश्चलतीति विशिष्टज्ञानवदित्यादेर्वाधकश्चाच्च । ’ईश्व- रान्नतिरिच्यते आकाशादि’ इति वदतस्तव कोऽभिप्रायः ?-किं यथा घटादयः परस्परभिन्नः सन्तोपि मृकायेत्वन्मृद्भिन्न न सन्ति, उतेश्वरेणैव तत्तत्कार्यनिर्वाहे शशयङ्गादिवन्नैव सन्तीति ? नाद्यः । तथाऽनङ्गीकारात् । न द्वितीयः । अत्मन आकाशः सं- भूतः, नैवेह किञ्चन आसीन्मृत्युनैवेदमावृतमासीन्मृत्युर्यस्योपसे- चनं स कालकालः तथाक्षरात्सम्भवन्तीह विश्वमियादिश्रुतिविरो-. थापत्तेः । ननु कालकार्यककरिणीदिगबास्तु देक्कर्यकरः कालोवस्तु, लाघवादिति चन्न । दशः स योगमत्रोपनायकत्वात् कालस्य च क्रियमात्रोपनायकत्वात् । नहि सूर्यक्रियासंयोगयोरेकमुप- नेयतावच्छेदकमस्ति । अन्यतरत्वस्य क्रियात्वाद्यपेक्षय गुर- त्वाव, इते चिरन्तनः पन्थाः, इति चेन्न । तरणिस्पन्दधघटकवेन कालसिद्धिर्न सभ्भवति । इदानीं घट इत्यादिप्रतीतेस्तरणिस्पन्दवै-. शिष्ट्यविषयत्वं मानाभावात् , दिक्कालयोः प्रमाणाभावाच्च । नता- वद्दिक्कालयोः प्रत्यक्षं प्रमाणम् । द्रवथग्राहकयोस्त्वक्चक्षुषोरूपविर- हिणि स्पर्शविरहिणिच्प्रवृत्तेः । मनसश्च बह्मनिरपेक्षस्य बहिरप्र- वृत्तेः । नाप्युपानीतभानामकं प्रत्यक्षम् । इतः पूर्वमनुपलम्भात् । एतेन ‘इदानीं घट इत्यादि प्रयक्षं तत्र मानम्, इति परास्तम् । इंद्रनीं घटो न तदानीमित्याद्यनुपपत्तेश्च । यदपि तपनपरिस्पदाः


घटादिविशेष्यकस्व विशेषणधीजनकप्रत्यामत्तिमन्तः, घटादिविशेष्य कधीजनकविशेषणत्वात् घटादिरूपवदिनि, तन्न । तपनपरिस्पन्दा- नां तादृशविशिष्टधीविषयत्वे मानाभावेन हत्वसिद्धेः । यदपि 'इदनीं घट:’ इत्यादिप्रत्यक्षं तराणेि स्पन्दद्युपाधिविषयम्, तदपि न । तरणिस्पन्ददेलैंकिकविषयत्वासम्भववदलौकिकप्रत्यक्षविषय- त्वस्य घटादावसम्भवात् । तथा हि-“यत्र हि यदनुभूतं तत्रैव त- ज्ज्ञानं प्रत्यासतिः' इति नियमे घटादौ तज्ज्ञानस्य प्रत्यासत्ति- त्वासम्भवात् । तादृशनियमाभावे पूर्वमदृष्टदण्डे देवदत्ते 'दड्य- यमासित्’ इति प्रतीत्यापत्तेः । न चेष्टापत्तिः, सर्वजनीनसंशया- नुपपत्तेः । न च दोषान् सः, ज्ञातवैशिष्ट्ये तददशेनेन तदज्ञा- नातिरिक्तदोषाभावात् । चम्पकादौ सौरभ्यज्ञानेSपि चन्दने तदज्ञाने 'सुरभि चन्दनम्’ इयप्रतीतेश्च । तादृशनियमाभावेऽपि ‘तरणि- स्पन्ददो न घटादि’ इत्यादिसर्वजनिनानुभववाधेन, क्रियायां द्र व्यगुणाधिकरणत्वस्य त्वयाऽङ्गीकारेण च तादृशप्रतीतेर्भ्र— मत्वापत्तेरनिवार्य्यत्वात् । वस्तुतस्तु-इन्द्रियायोग्यानां पिशाचपर- माण्वादीनामुपनीतभानाभाववत्सूर्य्यस्पन्दानामप्युपनीतभानं न स- म्भवतीति बोध्यम् । न च तव मतेऽपि ‘इदानीं घटः’ इत्था- दिप्रतीत्यनुपपत्तिरिति वाच्यम् । । कारणत्वेनऽभ्युपगतप्रधान- गुणस्थ प्रातक्षण जायमानापारणमभेदवैशेष्ट्यवि/शयत्वेनैवोपपत्तः न च प्रधानगुणस्य घटादिपरिणामातिरिक्तपरिणामाभावेन तत्प रिणामानां च भेदे 'इदानीं घटपटादीनि’ इत्येकपदर्थविशिष्टविषय- कप्रतीत्यनुपपत्तिरिति वाच्यम् । प्रधानगुणपरिणामत्वेनैकार्थविषय- कत्वनिर्वाहव। त्वयाऽपि -‘इदानी घटः' इत्युत्तरम्-इदानीं घटः इत्या दिप्रतीतिनिर्वाहाय तथैव वक्तउपवाञ्च । न च युगपज्जायमानस्थले तथाऽकल्पनान्मम लाघवमिति वाच्यम् । स्पन्दादिविषयकबुद्धेभ्रम स्वापत्त्या एतल्लाघवस्याऽकिचिञ्चित्करत्वात् । न च वाच्यम्-प्रतिक्षण-



१३


परिणामे मानाभावः जीर्णतरादिबुद्धेरेव मानत्वात् । परत्वापरत्वा- समवायिकारणसंयोगाधारतयाऽपि न कालसिद्धिः। ‘कुतः ? इति वदतस्तव कोऽभिप्रायः-परत्वापरत्वे कालपिण्डसंयोगेगासमवायि- कारणके,उत सासमवायिकारणके,जन्यगुणत्वात् भावकार्यत्वाद्वेति ? नाऽऽद्यःकालाप्रसिद्धया साध्याप्तसिद्धेः। रूपाद्यसमवयिकारणकस्य मूर्त्तवृत्तेः रूपाद्यात्मकतावत् तदात्मकतापत्तेः संयोगासमवायिकारण - कस्य संयोगतिरिक्त्तस्य मूर्त्तवृत्तेर्द्रव्यत्वनियमेन तयोर्द्रव्यत्वापत्तेश्च । न द्वितीयः । क्रियासमवायिकारणकात्प्रचुराप्रचुरपरिणामन्तरि- तजन्मत्वादतिरिक्तपरत्वापरत्वयोर्मानाभावेन परिशेषासिद्ध्या का- लासिद्धेः । अन्यथा परत्वापरत्ववत् मध्यमत्वस्यापि गुणान्तरत्वा- पत्तेः । ज्येष्ठे तादृशजन्मत्वं च-कनिष्ठत्वाभिमतव्यक्तजन्माधि- करणप्रधानपरिणामरूपक्षणकूटवृत्तिध्वंसप्रतियोगिप्रधानपरिणामक्ष- णवृत्तिजन्मत्वम् । कनिष्ठे च-तदर्धकरणप्रधानपरिणामक्षणध्वंसा- धिकरणोक्तक्षणवृत्तिजन्मस्वम् । न चैवं 'इदनीमयमेतस्मात्पर’ इति वर्तमानपरत्वप्रत्ययानुपपत्तिः, जन्मत्वस्याऽतीतत्वादिति वाच्यम्। तथा सति 'इदनीमयं घटो न तदनम्’ इत्यादिवत् 'इदानीम् रामः कृष्णात्परो न तदानीम् इत्याद्यापत्तेः । यदि ‘इदानीं घटः’ इत्या- दिप्रतितेस्तरणिस्पन्द एव विषयः,परत्वाअपरत्वप्रतीतेश्च प्रचुरा- प्रचुरतरणिस्पन्दान्तरितजन्मत्वमिति मतम् ,तदऽपि प्रधानद्वाराऽपर- जन्मावच्छेदकतरणिस्पन्दवृत्तिध्वंसप्रतियोगितरणीस्पन्दवृत्तिजन्म- त्वमुक्तजन्मत्वं बोध्यम् ।

 सौगतास्तु-विशेषणता | विषयविषयिभावो वा कालाख्यः साक्षादेवव पिण्डसूर्यस्पन्दयोः सम्बन्धोऽस्तु कालस्य द्रव्यत्ववे तद्व्या- पकसंख्याद्यनेककल्पनापेक्षया लाघवत् । उक्तसबन्धेन पर- त्वाद्यव्यवहिततराणिकर्मणः पिण्डगतसङ्ख्यया वाऽसमवायिहेतु- तया, अपरजन्माऽपेक्ष्य प्रचुरकर्मापेक्षाबुद्धेर्निमिततया च परिशे


षासिद्ध्या न परत्वाद्य समवयेिकारणवटकतया कालसिद्धः । तत्र तरणिकर्मणो घटेन साक्षासम्बद्धाङ्गीकारे ‘घश्चलति’ इति धीप्रसङ्गः । समवायसम्बन्धस्थले तथाऽङ्गीकारेऽपे तद्विलक्षणस- बन्धत्वेनाऽत्र तथाकल्पनाऽसम्भवात् । अन्यथा-तत्र मतेपि ‘च- लति’ इति धीप्रसङ्गात् । न च कार्यकारणान्यतरैकार्थसमवयस्या Sसमवायकारणतनिवाहकप्रत्यासत्तरभावन कथ सूर्यस्पन्दस्या ऽसमवायिकारणत्वमिति वाच्यम् । तादृशनित्यसम्बन्धमात्रस्यैव तत्वात् । नन्वेवमप्यद्रव्यनेिरूपतस्य साक्षात्सम्बन्धस्य समवायत्व- नियमभङ्गापात्तिः। घटपटसम्योगे व्यभिचारवारणायऽद्रव्यनिरूपितेति। घटदौ तद्वारणाय सम्बन्धते । परम्परासम्भन्धव्यभिचारवारणाय साक्षादिति, इति चेन्न । समवयतरिक्तसम्बन्धग्राहकमानबाधापत्या तादृशनियमे मानाभावात् । गगनपरिमाणदावीश्वरीयज्ञानादि- सम्बन्ध व्यभिचाराच्चेत्याहुः ।

 अपरे तु-छान्दोग्ये दशमाध्याय "अथ यत्रौतस्माच्छारीरादु- क्रामत्यथैतैरेव रश्मिभिरूर्द्ध आक्रमते", एवं मुण्डकेऽपि ‘नयन्त्येताः सूर्यस्य रश्मरो यत्र देवानां पतिरेकाधिवासः’, एवं छान्दोग्ये दश- मे प्रपाठके “अमुष्मादादित्याप्रतायन्ते ता आसु नाडीसु सुप्ताः" इत्यहोरात्राद्यवशेषणाSहस्करकरनिकरसम्वन्धश्रवणात् , निदाघ- समये निशास्वपि प्रतापादिकार्यदर्शनेन किरणानुवृत्तिकल्पनाञ्च इत्थं चाऽहस्करकरनिकरसम्बन्धेन तरणिस्पन्दस्यैव परत्वाद्य समवायिकारणतया ‘इदनीम्’ इत्यादिधीनिर्रवाहकतया च परि- शेषासिद्धया न कालसिद्धिः । स्तोकाहस्करकरनिकरसम्बन्धस्य निखातेऽपि सम्भवेन न तत्र क्षणादिव्यवहारनुपपत्तिः । अत एव ‘युगपज्जायन्ते’ 'युगपत्तिष्ठन्ति’ ‘युगपत्कुर्वन्ति’ ‘युगपन्न जायन्ते' इत्यत्रोत्पयदौ यौगपद्यम् , अयौगपद्यं च-एक सूर्यगत्यवच्छिन्न- त्वंम्, परस्परभिनैकैकसूर्यगत्यावच्छिन्नत्वम्, ‘चिरं तिष्ठन्ति’"क्षिप्रं


करोति’ इत्यादौ च चिरत्वम् --बहुतरसूर्यगत्यवच्छिन्नत्वम् , क्षि- प्रत्वम्-अल्पतरमूर्यगत्यवच्छिन्नत्वं कालं विनापि निर्वहति, रश्मिसम्बन्धस्य सम्भवादित्याहुः । एवं गुणादिप्रागभावच्छिन्नं- द्रव्यं क्षणः । कायेप्रागभवोपहित सामग्री क्षण इति वा । ननु कारणप्रागभावानाधारः कायेप्रागभावधारः क्षणः सामग्री इति, क्षणगर्भं सामग्री लक्षणम् , सामग्रीगर्भं च क्षणलक्षणमित्यन्योन्याश्रय इति चेन्न । सामग्रीपदस्य चरमकारणपरत्वात् ।


 क्षणद्वयं लवः । अक्षिपक्ष्मसंयोगनिमित्तमेकं कर्म निमेषः ।
 अष्टादश निमेषाः स्युः काष्ठा, त्रिंशत्तु ताः कलाः ।
 मुहूर्तयामादयः प्रसिद्धा एत्र ।


 एतद्भूखण्डवृत्तिरविरश्पिसम्बन्धोऽत्र दिनम् । दिनसामान्यस्य लक्ष्यत्वे एतद्भूखण्डवृत्तिरविरश्मिसत्वकालनिर्द्वीपान्तरीयरात्रावतो- व्यप्तिप्रसङ्गात् । भूखण्डे रवेरसत्वाद्रश्मिपदम् । रात्रावपि चन्द्रादीनां रश्मिसत्वादसम्भववारणाय रवीति । न च रात्रावपि वालुकादौ प्रतापादिकार्यदर्शनेन रविरश्म्यनुवृत्तिकल्पनात्तत्रातिव्याप्तिरिति वाच्यम् । रश्मिपदस्य ’ प्रकृष्टमहत्वोद्भूतरूपवत्तेजःपरत्वात्त् ।

 एतद्भूखण्डवृत्तितादृशतेजः सामान्याभावोऽत्र रात्रिः। रात्रि- सामान्यस्य लक्ष्यमुखे तद्भूखण्डवृत्तिरविरश्मिसत्वकालीनद्वीपान- रोयरात्राव्याप्तिप्रसङात् । न च दिवसेऽपि द्वीपान्तरवच्छेदेन तादृशसामान्यभावसत्वादिव्याप्तिरिति वाच्यम् । निरवच्छिन्नता- दृशसामान्याभावस्य विवक्षितत्वात् । रात्रावपि द्वीपान्तरद्यात्तिरविर- श्मिसत्वेनाऽसम्भववरणाय-एतद्भूखण्डवृतीति * । रात्रावपि त्रस

 * इदमुपलक्षणम् । रात्रावपि चन्द्रादिग्रहवृतिरविरश्मिसत्त्वादस - म्भववारणाय तदुपात्तमिति ध्येयम् । रविरश्मिभिरेव खलु चन्द्रादीनां दीप्तिर्ज्ज्योतिः शास्त्रसिद्धा । दृषटौहि यदाहे रविचन्द्रयोर्मध्ये पृथिवी समागच्छति तदोपरागव्थवहारोलोकानमितेि सुधीभिर्विभावनीयम् ।


रेण्वदितेजः सत्वादसम्भववारणाय-तादृशेति । प्रकृष्टपहत्वोद्भूत- रूपवत्तेज इत्यर्थः ।

 एवं पक्षमसर्त्वयनसम्वत्सरादिकं बोध्यम् । वर्तमानत्वं च अनुत्पन्नध्वंसस्वे सनि विनष्टप्रागभावत्वम् ।

 न्यायकणिकायां मिश्रास्तु-गरिभाविकं वर्तमानत्वम् , ‘विद्यते व्योम’ इत्यादौ तदभावात् , न चऽत्र भाक्तः प्रयोगःविशषाभावा- दित्याहुः । भविष्यत्वं च–प्रागभावप्रतियोगित्वम् । अतीतत्वं च-उपमध्वंसप्रतियोगित्वम्, इत्यादिरीत्योपधिनैव सर्वत्र निर्वाह- संभवान्न कालसिद्धिः ।

 यत्तु-उदयनाचार्याः “'नचैष व्यवह्र उपाधिभेदमात्रेण शक्यते । यस् भारते वर्षे मध्यान्हस्त्दोत्तरेषु कुरुषु अर्द्धरात्र- मित्यादौ सम्बन्धाभावात्” इत्याहुः

 एतच्च व्याख्यातं वर्द्धमानोपाध्यायैः —“यदेह मध्यान्हस्तादो- त्तरेषु कुरुषु अर्धरात्रमिति । वत्तेमानयोः सामानाधिकरण्यमसति काले नोपपन्नमिति तद्धटककालो मन्तव्य इत्यर्थः’ इति,

 तन , प्रधानननैव नेिर्वाहात् । यत्तच्छब्दार्थतयोभया- धिकरणत्वेन प्रतीयमानस्योपाध्यतिरिक्तस्यऽखण्डकालस्याऽङ्गी- कारे ‘इदानीं घटो न तदानीम्’ इत्यादिप्रतीतिवत् ‘यदेह मध्यान्हस्तदा तत्र न मध्यान्ह इत्यादिव्यवहारानुपपत्तेः । 'यदा धूमस्तदा वन्हिः' ‘यदा यत्र धूपस्तदा तत्र वन्हिः’ 'यदऽयं काश्यां तदा स प्रयागे' इत्यादि प्रसिद्ध स्थलदित्यागे बीजाभावाञ्च उषाधिरूपस्याऽचच्छेदकस्याऽङ्गीकारे प्रतिज्ञाविरो धात् । यदि च ‘इदानीमयं काश्यां न प्रयागे’ इत्यादिप्रती- त्या कालवृत्तौ । देशस्यावछेदकवाङ्गीकारात् अशोकवनिका- न्यायेन चऽस्मत्पक्षोक्तदोषद्वयं न सम्भवतीति विभाव्यते ; तद- पि महत्वोद्भूतरूपतद भाववत्किरणसम्बन्धाभ्यां क्रमेण मध्यान्हा


र्द्ध्रात्रोपावेः सूर्यस्पन्दविशेषस्य सूर्येणैव, सांख्यमते च ‘अजामे- काम्’ इत्यादिश्रुतिस्मृतिसिद्धप्रधानेनैवोपपत्तौ अतिरिक्तकालकल्प- नाय आभासत्वाद । विमतं तरणिपरिस्पन्दसंसर्गघटकं न भवति, विशेषगुणशून्यवत् , मनावत् , *विशेषगुणशून्यत्वं तरणिपरि- स्पन्दसंसर्गघटकवृत्त न भवति, विशेषगुणशून्यमात्रवृत्तिवान्मनस्व- वत्, इत्यादिविरोधाच ॥

 "एतेन दिगपि व्याख्याता, तस्या अनध्यक्षत्वादलिङ्ग- त्वञ्च् । 'प्राचयां घटः’ इयादिप्रत्ययानां निरुपाधिदिगाव- लम्बनत्वे दिशां दशविधत्वप्रसंगेन ’नवैव द्रव्याणि’ इति व्यघा- तात् * । न चात्मत्वेनाऽऽत्मनां सङ्ग्रहवद्दिशामपि दिक्त्वेन सङ्ग्रहाद-- दोषः शब्दलिङ्गनामपि भिन्नतया तरकारणाकाशस्याऽप्यान- न्त्य प्रसङ्गात् , आकाशत्वेन सङ्ग्रहस्य तत्रापि तुल्यत्वात् । न च तथैवाऽस्तु, को दोष इति वाच्यम् । "आकाशकालादिशामेकैक- त्वदपरजात्यभावे पारिभाषेिक्यस्तास्ताः संज्ञा आकाशं कालो दिक्" इति[३]भाष्यविरोधात् । उपाधिदिगावलम्बनत्वे तु तेनैव प्रत्यया- नामन्यथासिद्ध्या दिगसिद्धेः। न च सुराशिखरिणि शिखरपरिभ्र- मन्मार्त्ताण्डमण्डलनेिशवसाने हेतुभूतप्रथमसंयोगाद्युपाध्युपधानेन प्रा- च्यादिव्यवहारस्योपपन्नत्वेऽपि "मथुरातः प्राच्यां प्रयाग” इत्यादि- व्यवहारानुपपत्तेःमार्त्ताण्डगतानां संयोगो पाधीनां प्रयागे सम्ब- न्धाभावादिति वाच्यम् । ‘मथुरातः प्राच्यां प्रयाग' इत्यादौ मथु-


 *सत्कार्यमतेऽस्रतोऽलीकस्याऽप्यङ्गीकारेण तम्मनुसारेण पूर्वमसद्रूपं विप्रतिपत्तिविषयं कालं पक्षीकुत्याऽनुमानमुपन्यस्तम् । अलीकानङ्गी- कर्तुनैयायिकमतेन एतादृशवस्तुनः सिद्धसिद्धिपराहतत्वेन तथा सा- धनसम्भवादनुमानन्तरमुपन्यस्तमिति वेदितव्यम् ।

 *दशसङ्ख्यया सह नवसङ्ख्यामेलने एकोनविंशतिसङ्खयायनिष्पा- द्यमानतया द्रव्यणां निरुक्तसङ्ख्याकत्वपतिरिति भावः ।


 १ प्रशस्तपद (वैशेषिक) भाष्यम् । (द्रव्यग्रन्थे आकाशनिरूपणम्)


रानिष्ठोक्तोदयगिरिसंयुक्तसंयोगपर्याप्तसङ्खयादिव्याप्यसङ्ख्यादिप र्याप्त्यधिकरणोक्तोदयगिरिसंयुक्तपंयोगवद्देशवुत्तिः प्रयोगः, एवं ‘काशीतः प्रतीच्यां प्रयगः’ इत्यादौ काशीनिष्ठोक्तोदयगिरि- संयुक्तसंयोगपर्याप्तसङ्ख्यादिव्यपकस्सङ्ख्यादिपर्याप्त्यधिकरणोक्तो दयगरेिसयुक्तसंयोगवद्देशवृत्तिः प्रयागः , इत्याद्यन्वयवोधसम्भ- वत् । न च । भिन्नदिगवस्थितयोर्योनार्द्धयोजनानान्तरितयोः कनिष्ठज्येष्ठयोरपि परापरव्यवहारेण कालकृतपरत्वापरत्ववैलक्ष- ण्यात्तदसमवायिकारणस्संयोगाश्रयतया दिक्सिद्ध्रिति वाच्यम् । जन्यगुणचन भावकार्त्वेन वा दिग्पिण्डसंयोगासमवायिकारण कत्वरूपसाध्यस्य दिगप्रसिद्ध्या साधयितुमशक्यत्वात् । असमवा- यिकारणकन्वसाधने तु व्यवहर्तुः स्वेन संयुक्तपृथिव्यादिभिर्हस्त- दण्डादिसंयोगानामल्पीयस्त्वभूयस्त्वाभ्यामर्थान्तरत्वपत्तेः व्यवहर्त्तु- र्निवेशान्न परापरव्यवहार उदयगिरिप्रचुरप्रचुरसंयोग हेतुक, भेिन्न- दिगवस्थितयोजनार्द्ध्योजनान्तरित्योस्तुल्योदयगिरिसंयुक्तसंयोगा- श्रययोरपि परापरव्यवहारात् इति परास्तम्[४] । न चैवमपि प्रमात र्य्यपि परापरव्यवहारप्रसङ्गः, प्रचुराप्रचुरसंयुक्तसयांगाधिकरणत्वेन प्रतीयमानने एव तादृशव्यवहारात् , प्रमातुस्तु अवधित्वेन प्रतीतेः । यदा तु प्रमातैव तदधिकरणेत्वनाऽनुसन्धीयते; तदा भवत्येव प्र- मातरि परापरव्वहारः । यथा-"चतुर्योजनान्तरिता मत्तो वाराणसी" ’द्वियोजनान्तरितं शुभ्रपुरम्' इत्यनुसंधाय परा वारणसी' ’अपरं शुघ्रपुरम्, इत्यादिव्यवहारः तथा- ’वाराणसीतः परोऽहम्' इत्यादिः। यदि च प्रमातुर्विभुवेन मृतत्वस्यैव तत्समवायिकारणतावछेदक- त्वेन च तत्र परदैिव्यवह।रो न सम्भवति, तदा प्रमातृपदं त- च्छरीरपरं बोध्यम् । यद्यपि परत्वादेः सघाधवेन प्रतीतेर्ने सं- यांगादनऽन्यथासिद्धिः संयोगादेः सावधित्वाभावत्, तथापे-


 १ निरुक्तसम्बन्धेन दिशः क्लृप्तपदार्थातिरिक्तत्वं परास्तमित्यर्थः ।


तद्भयस्वादेरवधिनिरूप्यत्वेन सावधित्वधीसम्भवात् ।

 केचित्तु-"प[५]रापरसङ्ख्ययैव तद्व्यवहारः,यत्संख्यासमाना- विकरणात्यन्ताभावप्रतियोगित्वे सति यदत्यन्ताभावसमानाधेिक- रणवं तसंख्यापेक्षया परत्वम् । यत्समानाधिकरणात्यन्ताभाव- प्रतियोगित्वे सति यदत्यन्ताभावव्यपकात्यन्ताभवाप्रतियोगित्वं तदपेक्षयाऽपरत्वम्" इत्याहुः ।

 यत्तु-‘परत्वापरत्वयोरेकवृत्तित्वेन प्रतीतेर्न संयोगादिना- ऽन्यथासिद्धेः संयोगस्य व्यासज्य वृत्तेः । संयोगभेदापरिगणने परापरव्यवहारानुपपत्तेश्च'इति, तन्न । "दण्डीपुरुषो न पुरुषी दण्ड" इत्यदिव्यवहारवदत्राऽपि व्यवहारोपपत्तेः । परस्पर- सापेक्षस्वस्योभयत्राऽपि तुल्यत्वाञ्च । तव मतेपि प्रचुराप्रचुरसंयुक्त संयोगापेक्षाबुद्धेर्वेर्वेन द्वितीयदोषस्योभयसमधेयवत् । अपेक्षा- बुद्धिविशेषाविषयत्वस्य विवक्षितत्वात्सामान्यतो ऽवगमाञ्च ।

 एवं यदपेक्षया मेरुसन्निहितत्वव्यवहितत्ववे च तस्योत्तरवद- क्षिणत्वे ।

 अधस्वं च-गुरुस्वासमवायिकारणकक्रियानाश्रयत्वे सति तादृशक्रियाजन्यसंयोगाश्रयत्वम् । वृक्षसंलग्नतादृशशाखायामति- व्यप्तिवारणाय सत्यन्तम् । न च संयोग तादृशक्रियाजन्यवमधः संयोगत्वेनैव ग्राह्यम्, इत्यन्योन्याश्रय इति वाच्यम् । संयोगत्वेन क्रियाजन्यत्वग्रह क्रियायां च क्रियात्ववन्तरजात्यच्छेदेन गुरु्त्वा समवायिकारणकत्वग्रहे विशिष्टवैशिष्ट्यधीसम्भवात् ।

 एवमदृष्टवदात्मसंयोगजन्याग्निक्रियानाश्रयत्वे सति तादृशाक्रिया जन्यसंयोगाश्रयत्वमूर्द्धत्वम् । वायुक्रियाजन्यसंयोगाश्रयतिर्यगादावति- तिव्याप्तिवारणायाऽग्निपदम् । आभिघातजाग्निक्रियामादाय तत्रैवाऽति व्याप्तिरतोऽदृष्टवदात्मसंयोगेति । यद्यप्यदृष्टवदात्मसंयोगस्य क्रिया



 (१) अधिकन्यूनसङ्ख्ययैव ।


मात्रकारणतया तत्राऽतिव्याप्तिस्तदवस्थैत्र,तथाऽपि विलक्षणासम- वायिकारणत्वमत्रस्य विवक्षितत्वान्न दोषः । अन्योन्याश्रयदोषस्तु [६]पूर्वोक्तरीत्याऽत्राऽपि निरसनीयःन चैत्रमपि मध्यदेशस्योर्द्ध्वा- धिकोर्द्ध्व्त्वमधोवधिकाधस्त्वं स्यात्, उक्ततल्लक्षणयोगादिति वाच्यम् । तद्धेशावस्थततदृशवन्क्रियाजन्यसंयोगश्रियत्वं तदवधेकोर्द्ध्वत्वम् तद्देशावस्थितपतनजन्यसंयोगाश्रयवं तदघधिकमधस्त्वमित्यननु गतस्यैवोर्द्ध्वत्वादेर्विवक्षितत्वात् । एतेन ‘यद्यद्देशे वन्ह्यादेरसत्वमज्ञानं वा तत्र तादृशव्यवहारानुपपत्तिः तद्यग्यताया दुर्वाचत्वाञ्च’ इति परास्तम् । अननुगततादृशपृथिवीत्वादेर्योग्यतात्वात् ।

 खण्डनोद्धरे वाचस्पतिमिश्रास्तु--यत् यदपेक्षया गुरुत्त्रसम- वायिकारणकक्रिय्याजन्यफलाश्रयःतत् तदपेक्षया अध इति । सूर्यापेक्षया भूः, तदपेक्षया पातलम् , तदपेक्षया नरकः, तदपेक्षया गर्भोदकमित्यादि यथाक्रममधः । एतत्प्रतिलोममृद्धवम् । उभयरूपाश्रयो मध्यमिर्यादीत्याहुः । मथुरापाटलिपुत्रोभयापेक्षोभयश्रितपरस्पराव- धिकसंयुक्तसंयोगाल्पीयःसंयुक्तसंयोगाश्रयत्वं मथुरापाटलिपुत्रोभ- यापेक्षमपरत्वमेव मध्यत्वम् । ‘दशरथस्य रामलक्ष्मणयोर्मध्यमोऽयं भरतः पुत्रः इत्यत्र रामलक्ष्मणोभयजन्मवच्छेदकपरस्परस्पन्दा वधिकोत्तरपूर्वस्पन्दावच्छिन्नजन्मत्वं उभयजन्मनिरूपितापरत्वमेव मध्यत्वम् । अथ व रामलक्ष्मणजन्मावच्छेदकपरस्परक्षणवृ- तिप्रागभावप्रध्वंसाभावप्रतियोगिक्षणावच्छिन्नजन्मत्वम् । इत्थं च परत्वापरत्वयोर्गुणान्तरत्वाङ्गीकारे मध्यत्वस्याऽपे तचापकत्वात्त- दापात्तिरावश्यकी, यतः ‘इदमनयोरन्तरालम्’ इत्यत्रैकैकावध्यपेक्षया ऽवध्यन्तरे संयुक्तसंयोगादिभूयस्त्वबुद्धावन्यत्राऽपि संयुक्तसंयोगाद्य- ल्पीयस्त्वमतेरावश्यकत्वात् । न च परत्वापरस्वाभ्यामेव निर्वाहः। मध्यस्वस्योभयसापेक्षत्वेनैकैकसापेक्षपरत्वापरत्वाम्यां विलक्षणत्वात्



  १ अधस्त्वलक्षणनिर्वचनसमयोक्तरीत्या ।


 १४
 

यत्तु दिक्कालयोः प्रसाधनाय प्रमाणमुक्तं न्यायलीलावतीकृद्भि- र्वल्लभाचार्यैः—परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिक- रणकानेकव्यक्तिवृत्ति, परिमणतारतम्यविश्रान्तिविषयजातित्वात् , अणुत्वत्वत् [७]। तथा विवादध्यासितान्यव्यापकद्रव्याणि युगप- द्विशेषगुणशून्यानेकद्रव्यसंसर्गीणि, द्रव्यस्वादात्मवदिति[८] । आद्यं च दिगादेः सिद्धावेव ! प्रत्येकं तदनेकत्वसधकम् ।

 तदुक्त वर्द्धमानप्रकाशकृद्भिः शङ्करभगीरथोपाध्यायैः--दिगादेः सिद्धावेव तदनेकत्वसिद्ध्यर्थमस्याऽनुमानस्याऽवतार इति । अन्यथै कैकदिक्कालाद्यनेकव्यक्तिसिद्ध्याऽर्थान्तरम् । [९]दिगाद्यसिद्धिनि बन्धनसाध्याप्रसिद्धिव । न च तथाप्यन्यतरानेकत्वसिध्याऽर्था- न्तरम् । स्वाश्रयीभूत-विशेषगुणासमानाधिकरण-दिगवृत्ति-- परिमाण-भिन्न–विशेषगुणासमानाधिकरण—कालावृत्ति-(अ- नेक-)परिमाण--वृत्तित्वस्य सध्यत्वात् । एतेन ‘तादृशमहत्त्वादे- कद्रव्यसिद्ध्याऽर्थान्तरम्' इति परास्तमिति[१०]



 ( १ ) अत्र मनोऽवच्छेदेन व्याप्तिग्रहः।
 ( २ )आमनि तादृशेन द्रव्येण मनोरूपेण संसर्गसर्वा दृष्टान्तसिद्धिरिति द्रष्टव्यम् ।
  (३) स्वश्रयीभूतेत्यादिवक्ष्यमाणनिरुक्तिं दिगदिघटितमभिप्रेत्योक्तं दिगादीत्यादि ।
 (४ ) स्वाश्रयीभूतात् दिगवृत्तेर्विशेषगुणसमानधिकरणात् परिमाणाद्भिन्नं यत्
  विशेषगुणसमानाधिकरणं कालवृत्ति परिप्राणं तद्दृत्तित्वस्येत्यर्थः ।
  अत्र च दिगवृत्तितादृशकालपरिमाणभिन्ने अर्थात्-दिग्वृत्तौ
  कालावृत्तित्वसिद्ध्या दिक्कालयोर्भेदः सिद्ध इति भावः । स्वाश्रयीभूत-
  विशेषगुणसमानाधिकरणतन्मनोऽणुत्वभिन्नविशेषगुणसम।नाधिकर-
  णकालावृत्येतन्मनोऽणुत्ववृत्तित्वस्य दृष्टान्ते सत्स्वाद्ध्याप्तिग्रहःसामा
  न्यभेदस्याऽनिविष्टत्वात् । अन्यथा कालसिद्धेः प्रक् ‘दिगेव कालः’इत्यपि-
  वक्तुं शक्यतया तयोरभेदेनाऽर्थान्तरं स्यात् । एतदेवोक्तमेते
.   नेत्यादिना । अत्र स्वत्वं पक्षदृष्टान्तसधारणम् ।


 दिधितिकृतास्तु—विशेषगुणशून्य- स्वाश्रयाधिकरण-नि- ष्टान्योन्याभावप्रतियोगितावच्छेदकविशेषगुणशून्य—वृत्तिवृत्तीत्यर्थ इत्याहुः [११]। अत्राऽपि दिगाद्यासिद्धिनिबन्धनदोषनिरसाय दिगा- दिसिद्धिरावश्यकी । तारतम्येस्यादेरनियावृत्तिपरिमाणवृत्तिजाति- त्वात्, निस्यपरिमाणवृत्तिजातित्वाद्वेत्यत्र तात्पर्यम् । समवायरूप- वृत्तिलाभाय-जातीति ।

 तत्तदणुत्वत्वादौ व्यभिचारवारणाय-जातीत्यन्ये ।

 [१२]एवमप्येकैकदिगदिसिद्ध्याऽर्थान्तरं तदवस्थमेव[१३]। न च जा- तित्वानुपपत्त्या नाऽर्थान्तरमिति वाच्यम् । ईश्वरादेर्महत्परिमाणान्या- दय जातित्वोपत्तेः । न च मूलेऽनेकेति निवेशादत्रयमपि परिमाण- पदमनेकसत्वेन विशेषणीयमिति वाच्यम् । अनेकत्वं यद्येत्वानधिक- रणत्वात् ,तदा सिद्धसाधनात् ,अनेकसङ्ख्याधिकरणत्वे तु बाधात् । न च दीधितिकृन्मते एकैकदिगादिसिद्ध्यर्थमेवेदमिति वाच्यम् । विशेषगुणशून्यस्खाश्रयाधिकरणाप्रसिद्ध्या साध्याप्रसिद्धेः । न च । मुक्तात्मादि तथा, तदादायाऽर्थान्तरानिवृत्तेः। किं च[१४] स्वपदस्य परममहत्परिमाणत्वपरत्वे दृष्टान्तसिद्धिः, अणुपरिमाणत्वपरत्वे बाध इति ।



 ( १) विशेषगुणशून्यं यत् स्वाश्रयाधिकरणं दिक् , तन्निष्ठो यो
  कालवृत्तिपरिमाणवत्प्रतियोगिकभेदः, तत्प्रतियोगितावच्छेदकं यस्काल-
  वृत्तिपरिमाणं तद्वृत्तीत्यर्थः । अनेनाऽपि कालदिर्शोभेदः सिद्द्यतीति भावः ।

 (२) खण्डयति-एवमपीत्यादिना ।

 (३) लीलावतीकृद्भिः पूर्वपरादिप्रत्ययभेदेन दिशः, अती-
  तानागतादिप्रत्ययभेदेन च कालस्याऽनेकत्वं स्वीक्रियते । तन्मते
  उक्तानुमानेन कालादिशोर्मेदसिद्धवपि उक्तानुमानसाधनीयस्य दिगा-
  देरनेकत्वस्याऽसिद्धेरर्थान्तरतेति भावः । दिगादिसाधनं तु पूर्वापरादि-
  प्रत्ययेनैव तैः क्रियत इत्यवधेयम् ।

 ( ४ ) स्वत्वस्यानुगतत्वमनभ्युपेत्येदम् ।


‘अनुमानोपनीतः[१५] कालः प्रत्यक्षे भासते' इति मते चरमं कालसधकमनुमानमाह-विवादेति । दिगन्यत्वेन साध्यविशेषणान्न सिद्धसाधनमिति वर्द्धमानोपाध्यायाः[१६]

 [१७]कालसधने दिगन्यत्वनिवेशवत् दिक्साधनेऽपि कालान्य- वनिवेशे न कश्चिद्दोष इत्यपरे ।

 [१८]कालभिन्नत्वेन दिक्सधने दिभिन्नत्वेन च कालसाधने अन्योन्याश्रयःदिगाद्यन्यत्वानिवेशे चैकद्रव्यसिद्ध्याऽर्थान्तरापत्ति- रित्यन्ये ।

 अव्यापकद्रव्यमात्राभिधाने मनःसंसर्गेण सिद्धसाधनं स्यादतः- विवदध्यासितनीति । मनोऽसंसर्गिणीत्यर्थः ।

 [१९]अत्र केचिन्–विशेषगुणशून्यैकद्रव्यमात्रसंसर्गित्वे साध्ये विशेषणाप्रसिद्धिः । तादृशैकैकद्रव्यसंसर्गित्वे साध्ये मनः सं सर्गित्वेन सिद्धसाधनम् । न च मनःसंसर्गराहित्यस्य पक्षता- वच्छेदकस्वादिदमसङ्गतमिति वच्यम् । तन्निश्चयकाभावेनाऽज्ञान-



 ( १ ) ज्ञानलक्षणप्रत्यासत्त्येत्यर्थः

 ( २ ) इदमत्र तात्पर्यम् । लीलावतीकृता दिक्कालयोः प्रसाधने
   तावत्प्रत्यक्षेणैव कृतम् । तत्र कालस्याऽप्रत्यक्षत्वाङ्गिकर्त्रुक्तमते
  कालसाधनाय ‘विवाद-' इत्यादिकमनुमानं तैरुपन्यस्तम् । तत्र च
  दिशमादय सिद्धसाधनात् दिगन्यत्वेन साध्यं विशेषणीयमिति । दिक्
  च पूर्वं प्रत्यक्षेण प्रसाधितेति भावः ।

 ( ३ ) कालवद्दिशोऽप्यप्रत्यक्षत्वद्दिशः प्रत्यक्षेण प्रसाधनमनुचितमिति वदतां
  केषाश्चिन्मतम।ह-कालेति । तथा च काळनुमाने दिगम्यत्वं, दिगनुमाने
  च कालन्थत्वं विशेषणं दत्वा कलदिशौ प्रागुक्तानुमानेन प्रसाधनीयाविति तद्दृदयम् ।

 (४) वर्द्धमानोपाध्यायोक्त्यनुसारेण कालस्याऽप्रत्यक्षत्वं, दिशः प्रत्यक्षत्वं च स्वीकृत्यैव ग्रन्थः
  सङ्गमनीय इति वदतां तदनुसारिणां मतमाह-कालेति ।

 (५) तदेतत्खण्डयति-अत्रेत्यादिना ।


रूपाश्रयासिद्धेः । न च मनसां शरीराद्यवच्छेदेनाऽवस्थाननि- श्रयाद्घटादौ तदसंसर्गित्वनिश्चयः सुलभ एवेति वाच्यम् । मु- क्तमनसामपि सम्भवेन तथा नियमासम्भवात् । यत्कि-. श्चिदेकमनःसंसर्गराहित्यस्य च तथात्वे मनोन्तरसंसर्गमादाय सिद्धसाधनतादवस्थ्यात् । न च विशेषगुणशून्यदिगन्यद्रव्यसंसर्गेि- त्वमात्रं साध्यम्, [२०]लाघवाञ्चैककालसिद्धिरिति वाच्यम् । नाना- त्वेऽपि मनसां क्लृप्तत्वेनैकत्वलाघवस्याऽकिविञ्चित्करत्वादित्याहुः ।

 प्रत्यक्तत्त्वप्रदीप चित्सुखाचार्य्यास्तु 'तदयुक्तम् । अन्तरेणाऽपि दिक्कालौ व्यापकपञ्चाशद्वर्ण [२१]द्र्व्यप्रसाधनेनाऽर्थान्तरत्वात् । वेदा-- न्तिनं प्रति दृष्टान्तस्य साध्यविकलवाञ्च । मनसो विशेषगुणशून्यवे हैि तद्गताणुत्वस्य विशेषगुणविधुरद्रव्यार्धकरणकनेकव्यक्तिवृत्ति- त्वम् , आत्मनश्च युगपद्विशेषगुणशून्यद्रव्यसंसर्गित्वञ्च भवेत् , तञ्च वेदान्तिनं प्रत्यसिद्धम्, मनसोऽपि विशेषगुणवात् । न च तत्र मानाभावः, मूत्वस्यैव तत्त्वात् । न च विशेषगुणवत्त्वे द्रव्यारम्भकत्वमुपाधिः घटादिष्वन्यावयविषु व्यभिचरात् । न च द्रव्यारम्भकवृत्ति द्रव्यत्वावान्तरजातिमत्त्वमुपाअधिः आत्मकाश- योर्व्यभिचारात् । न च बाह्येन्द्रियग्राह्यविशेषगुणवत्त्वम् , भवदभि- मतात्मनि व्यभिचारात् । न वा भूतान्मनोरन्यतरत्वमुपाधिः वेदा- न्तिनं प्रति तमसि सध्याच्याप्तेः । “‘कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिर्ह्रीभिर्धरित्येतत्सर्वं मन एव" इति मनसो विशेष गुणवत्त्वश्रुतेश्च । न च कामादीनां निमित्तकारणत्वान्मनसस्तथा व्यपदेशःमुख्ये बाधकाभावात् । निमित्तनैमित्तिकत्वमात्रेण सा- मानाधिकरण्यश्रवणानुपपत्तेश्च । न हि भवति ‘कुलालो घटः’ इति




  १ नन्वेवं मनःसंसर्गमादाय सिद्धसाधनमित्यत आह-ला-
  घवदिति । अनन्तमनःसंसर्गकल्पनापक्षेयेत्यर्थः ।

  २ वेदान्त्यादिकानां मते शब्दस्यद्रव्यत्वमितिभवः ।


सामानाधिकरण्यम् । एतेन मानमनोहरप्रयोगोऽप्यपास्तः--वि- वदाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते, कार्यत्वात्, अन्तःकरणद्वयसंयोगवदिति, तत्राऽपि दृष्टान्तस्य साध्यविकलत्वात् । ‘विवादाध्यासितं विशेषगुणरहितद्रव्यैर्जन्यते' इति बहुवचनप्रक्षेपे- णाऽपि प्रयोगसम्भवात् ,अतिरिक्तद्रव्यसाधकतया समानयोगक्षेम- वाञ्च । न च दृष्टान्तासिद्धिः, अन्तःकरणाधिकरणापेक्षबुद्धिजन्य- बहुत्वस्यैव दृष्टान्तत्वोपपत्तेः । विवादध्यासितं विशेषगुणरहित- द्रव्याभ्यां न जन्यते,अन्तःकरणाकार्यत्व ,आकाशवदितेि सत्प्रति- पक्षितवाञ्च । न च कायंत्वमुपाधिः, वेदान्तिवादिभिराकाशस्याऽपि कार्यताङ्गीकारादित्याहुः ।

 यत्तु लीलावतीचरमानुमानदोषनिरासायोक्तं वर्द्धमानोपाध्यायैः- तन्वनाश्रतानि कार्य्याणि तन्त्वाश्रितकाअर्याधिकरणजन्यानि,कार्य्य- त्वात् , सम्प्रतिपन्नव[२२]दित्यत्र तात्पर्यमिति । अत्र पक्षभिन्नस्यैव दृष्टान्ततालाभाय पक्षतावच्छेदकैक्ये चांशतः सिद्धसाधनवारणाय पक्षविशेषणम् । कार्याधिकरणमत्माऽपीति तज्जन्यत्ववारणाय तन्त्वाश्रितत्वं कार्यविशेषणम् । अव्यासज्यवृत्तित्वमपि कार्यविशेष- णम्, अतो न संयोगमादयोक्तदोषतादवस्थ्यम् । दिगन्यत्वमप्याधि- करणविशेषणम्, अतो न सिद्धसाधनम् । न च तन्तुनाऽर्थान्तरम्, बधादेव तदसम्भवादिति,

 तन्न। एतस्याऽनुमानान्तरत्वात् ,प्रत्यक्षबधाञ्चतन्त्ववृत्तित्वेन सत्प्रतिपक्षितत्वात् , तन्तुसमवेतत्वस्योपाधित्वाञ्च । न च कार्य- त्वस्यैव तत्प्रयोजकत्वेन व्याप्यतया न साध्यव्यापकत्वमिति वाच्यम्[२३] । कार्यत्वस्यैव तव्यभिचारित्वात्[२४] । एवमन्यान्य




  १ पटवदित्यर्थः ।

  २: यदि कार्यत्वस्यैव व्याप्यत्वम्, तद कैव कथा कार्यत्वव्याप्यतन्तुसमवेतत्वस्येति भावः ।

  ३ घटादौ व्यभिचारः प्रत्यक्षेणैव ।


प्यनुमानानि सुधीभिर्विभावनीयानीति ।

 ननु धमेधर्म्यभेदङ्गीकारे चक्षुषा धर्मिणि गृह्यमाणे धर्म्यभिन्न- त्वात्सर्वधमणां स्पर्शादीनामपि चक्षुषत्वापत्तिरिति वाच्यम् । धर्माणां तत्सम्बन्धस्य च पृथकूजन्मननुभवेन पारतन्त्र्यानुपपत्त्या च ‘शुक्लो घटः’ इत्याद्यभेदप्रतीत्या चाऽभेदे सिद्धे रूपदेश्चक्षुरादिग्राह्य त्वनियमकल्पनेनोक्तदोषाभावात् । धर्मधर्मिणोर्भेदवादिमतेऽपि यो- ग्यव्यक्तिवृत्तिधमेत्वेन गन्धादेरापि चक्षुर्योग्यत्वाञ्चाक्षुषत्वारणाय तन्नियमस्याSSवश्यकत्वाञ्च् । स्वरूपसम्बन्धेनैवोपपत्तौ समवायाक- ल्पनमयुक्तलाघवाञ्च ।

 समवायलक्षणप्रमाणयोरभावञ्च । नथा हि-न तावत्स- मवायत्वं जातिः, तदेकत्वपक्षे तदयोगात् । नानात्वपक्षेऽपि सम्बन्धाभावेन समवाये जातेरयोगात् , सम्बन्धाङ्गीकारे चाऽनव- स्थानात् । नाऽपि नित्यसम्बन्धत्वम् , जन्यसमवायपक्षे तदसम्भवा- त् । नित्यसमवायपक्षेऽपि वाच्यवाचकभावसम्बन्ध, ईश्वरज्ञानपर - माण्वादिसम्बन्धे विषयताख्येऽतिव्याप्तेश्च, स्वरूपसम्बन्धातिव्याप्तेश्च। अत एवाऽयुतसिद्धत्वादिकमपि परास्तम् । न च सम्बन्धिभिन्नत्वेन विशेषणीयमिति वाच्यम् । समवायस्याऽपि स्वात्मकस्वरूपसम्बन्धि स्वेनाऽसम्भवात् । नानवपक्षे चऽननुगतत्वाञ्च [२५](१)। स्वपदस्य[२६] समवायपरत्वेन स्वलक्षणं स्वस्य निवेशेऽन्योन्याश्रयाञ्च । यत्तु--


 ‘तावेवाऽयुतसिद्धौ द्वौ विज्ञातव्यौ ययोर्द्वयोः ।
 अवश्यमेकमपराश्रितमेवाऽवतिष्ठते-


इति ।

 अस्य चऽयमर्थः -ययोरेकं स्वनाशपूर्वक्षणपर्यन्तमपराश्रित- मेव तिष्ठति, तस्वमयुतसिद्धत्वम् । तन्तुनाशात्पटनाशस्थले ना- शक्षणे पटोऽनाश्रित एव तिष्ठति, तत्राऽव्याप्तिवारणाय स्वनाशकपू-



  १ समावायत्वस्येत्यर्थः ।
  २ स्वभिन्नसम्बन्धिभिन्नत्वेन विशेषणीयत्वइयर्थः ।


वीक्षणपर्यन्तनिवेश इति,

 तन । घटत्वजातेरीश्वरतज्ज्ञानयोरात्मामत्वयोर्नित्यद्रव्यविशे- षयोर्नित्यत्वेन स्व नाशाप्रसिद्ध्याऽव्यतेः । जन्यस्य नाशपर्यन्तं दिकालयोः सस्वेन तयोः, आत्मसुखादिप्रागभावयोश्चाऽतिव्याप्तेः । चक्रे एवोत्पन्नविनष्टघटस्य चक्रण सह, भूतलादवेवोत्पन्नविनिष्ट- खण्डपटादीनां भूतलेन सहएवमन्यत्राऽप्यतिव्याप्तेश्च ।

 महादेवपुणतानकरास्तु-विशेषणतान्यसाक्षासम्बन्धेन स्वाश्र याश्रयिभावव्याप्यस्योभयकालकत्वमयुतसिद्धव[२७] । तन्तुपटादी- नां यदा कालस्तदा तेषामाश्रयाश्रयिभावनियमेन तदुभयकालस्य तद्व्याप्यत्वमस्तीति लक्षणसमन्वयः । न त्वेवं तुरीपटादीनाम् , इति न तत्राऽतिव्याप्तिः। पटोत्पत्तिपूर्वं तन्तुसत्वात्तदानीमाश्रयाश्रयिभा- वासत्वेनाऽसम्भववारणाय-उभयेति । चक्रपटभयकाले यत्किञ्चि- दाश्रयाश्रयिभावसत्त्वादतिप्रसङ्गवारणाय -स्वेन्युक्तम् । वायुरूपाभा- वादीनां तद्वारणाय-विशेषणतान्यसम्बन्धेनेति । अत एव कालदि- शोर्घेटादिना नाऽयुतसिद्धत्वम् । विशेषणातान्यसम्बन्धेनऽऽश्रयाश्र- यिभावविरहात् । चक्रे एवोप्तन्न्विनष्टघटादेश्चक्रेण स्वसंयुक्तकपाल- समवेतत्वसम्बन्धेनऽऽश्रयाश्रयिभावसत्त्वादतिप्रसङ्गवारणाय-साक्ष- दितीत्याहुः,

 तन्न । व्याप्यव्यापकतायाः कालिकसम्बन्धावच्छिन्नया निवेशे घटभूतलाधिकरणतरणिपरिस्पन्दरूपखण्डकालाधिकरणे महाकाले कालिकसम्बन्धेन घटभूतलाश्रयाश्रयिभावस्याऽपि सत्त्वेनाऽतिव्या- प्तेः । घटभूतलाधिकरणमहाकालोपादाने कालिकसम्बन्धेन तद- धिकरणाप्रसिद्ध्याऽसम्भवापत्तेः । न च यद यदा घटभूतला- धिकरणखण्डकालस्तदा तदाऽऽश्रयाश्रयिभावाभावेन नाऽतिव्याप्ति-



  १ स्व।श्रयाश्रयिभावम्याप्यः-स्वोभयकालो यस्य स्वस्य- येन
  स्वेन निरूपितः, तत्त्वमित्यर्थः ।


रिति वाच्यम् । एकस्य यत्तच्छब्दार्थस्य खण्डकालातिरिक्तस्य महा- कालस्यैव सम्भवे तत्र घदभूतलाश्रयाश्रयिभावसत्त्वेन व्यभिचरा- भावात्[२८] स्त्रोभयस्य स्वाश्रयाश्रयिभावव्याप्यत्वनिवेशेनैवोपपत्तौ स्वोभयधिकरणकालनिवेशस्य वैयर्थ्याञ्च[२९] । न च तावन्मात्र- मेवाऽस्तु । [३०]ईश्वरज्ञानपरमाण्वोरतिव्याप्तेः । [३१]किं च विशेषण- तान्यसाक्षात्सम्वन्धपदेन किं विवक्षितम् ”-समवायः सं योगा- दिर्वा ? नाद्यः । स्वलक्षणे स्वनिवेशेनऽऽ त्माश्रयापत्तेः । न द्वितीयः । घटभूतलादावतिव्याप्तेः ।

 यदपि संयोगविभागायोग्यत्वमयुतसिद्धसिद्धवम्, तदपि । न । देव- दत्तस्य हस्तादीनामयुतासिद्ध्य भावप्रसङ्गात् । तस्मान्न लक्षणं सुवचम्।।

 नाऽपि तत्र मानम् । [३२]नाऽपि 'इह तन्तुषु पटसमवायः’ इति




  १ ननु स्वश्रयाश्रयिभावव्याघ्रस्वो भयकालकत्वमित्यत्र स्वो-
  भयकालाधिकरणत्वस्य खण्डकालेऽपि सस्वाद्घटभूतलाश्रये तस्मिन्
  लर्वस्मिन्नपि स्वाश्रयाश्रयिभावाभवदेव नाऽतिव्याप्तः । न च स्वस्मि
  न्नपि स्वस्य वृत्तित्वं स्वोभयकालरूपखण्डकालश्रयत्वस्य खण्डकले
  स्वीकर्तुमते स्यादिति शङ्क्यम् । इष्टापत्तेरिस्याशयेन दूषणान्तरमाह
  स्वोभयस्येत्यादि ।

  २ लक्षणस्य हि प्रयोजनमितरभेदसाधनम् । एवञ्चऽयुत-
  सिद्धत्वलक्षणस्याऽपि भवदुक्तस्येतरभेदसधकत्वमावश्यकम् । तत्र
  व्यभिचारावारकविशेषणघटितहेतोरेव व्यप्यतया प्रयोक्तुं शक्यत्वेन
  लाघवात् तस्यैव व्याप्यत्वेन तदृश—(व्यर्थ-विशेषणघटित-)हेतो-
  र्व्याप्यत्वासिद्धत्वात् । हेतौ व्यर्थविशेषणघटितत्वस्यैव व्याप्यत्वा-
  सिद्धिपदार्थत्वादित्याशयः ।

  ३ यदेश्वरज्ञानपरमाणू , तदा विषयविषयिभावरूपविशेषणता-
  न्यसाक्षात्सम्बन्धेन तयोराश्रयाश्रयिभावः इति तयोरतिव्याप्तिरित्या
  ह-ईश्वरेति ।

 (४) ननु यदेश्वर ज्ञानपरमाणू । तदा तयोर्विषयविषयिभावेना-
  ऽऽधराधेयभवापरनामकाश्रयाश्रयिभावोनाऽङ्गोक्रियते, विषयितादेवृ
  त्त्यनियामकत्वादित्यत आह-किञ्चेति ।

  ५ मानाभावमेवोपपादयति--नाऽपीहेत्यादिना ।


१५


प्रत्यक्षम् । तस्य परैः कल्पितवान् । नाऽपि 'इह तन्तुषु पट:' इति प्रत्यक्षम् । तस्यऽऽधाराधेयविशेषणविशेष्यभावादिविषयकत्वात् । अन्यथा 'भूतले घटः'इत्यादेरपि तत्वापातात्[३३] । नापि ‘शुक्लः पट: इति प्रत्यक्षम् तत्र मानम् । परमते सामानाधिकरण्यप्रती- तेरभेदविषयकत्वस्य ‘घटो द्रव्यम्’ इत्यादों क्लृप्तत्वात् । न च ‘शुक्ल' इत्यस्य शुक्लवद्विषयकतया सम्बन्धविषयकत्वे समवायवि-. षयकत्वमेवेति वाच्यम् । ‘घटंवद्भूतलम्' इतिज्ञानतुल्यतया संयोग- विषयकत्वव्यतिरेकानिश्चयात् । ‘घटाभाववद्भूतलम्' इतिज्ञानवत्स्व- रूपसम्बन्धविषयकत्वोपपत्तेश्च ।

 चित्सुखचार्यास्तु--'इह तन्तुषु पटः’ इतिप्रस्थभं न तत्र मानम् । विकल्पासहत्वात् । समवायो ह्याSSधारबुद्धिं कुर्यात् , आधेयबुद्धेिं वा उभयबुद्धिं वा, सर्वथाऽपि नोपपद्यते । तन्तुपटयो- रुभयोरप्याधारबुद्धेः , आधयबुद्धेः उभयबुद्धेश्चाऽविशेषेण प्र- सङ्गात्[३४] ।‘जातिजातिमन्तौ मिथः सम्बद्ध'इत्यस्येवाSनुभः वान्तरमिति चेत् , मैवम् । विकल्पासहत्वात् । तथा हि-अ- स्मिन्ननुभवे समवायस्तदीयत्वेन अन्पदीयवेन वा, स्वरूपेण वा[३५] प्रथते इति वक्तव्यम् । नाऽऽद्यः । तदीयत्वस्य[३६] सम्बन्धान्तरायत्त- त्वेनाऽनवस्थापातात् । न हि द्वितीयः। अन्यत्रैव सम्बन्धबोधप्रसङ्गात् । न तृतीयः । केचिदपि सम्बन्धप्रत्ययानुपपत्तेः । असत्येव सम्बन्धे[३७] तदीयवमनुभवसिद्धमिति चेन्न । जात्यादेरप्यसत्येव सम्बन्धे त---



  १ इत्यादिप्रतीतेरपि समवायविषयकत्वापातात् ।

  २ समवायस्य संसर्गतया द्विनिष्ठत्वेन ‘इह पटे समवयेन त-
  न्तवः इत्यपि धीः ’इह तन्तुषु एट” इति धीरिव स्यादिति भावः ।

  ३ जातिजातिमत्सम्बन्धित्वेन, तदन्यसम्बन्धित्वेन वा, स्वतन्त्रतया वेति भावः ।

  ४ तन्निरूपितसम्बन्धवस्वरूपतयेति शेषः ।

  ५ जातिजातिमद्भ्यामित्यर्थः।


दीयत्वानुभवप्रसङ्गात्, असत्ख्यातिप्रसङ्गाञ्च[३८][३९]असत्येव स- स्म्बन्धे सम्बन्धिभ्यां निरूपणात्[४०] तदीयत्वव्यवहारे जातावपि स- म्बन्धमन्तरेण व्यक्त्या[४१] निरूपणात्तदीयवव्यवहारप्रसङ्गइस्याहुः।

 न च ‘शुक्लो घटः, इह कपाले घटः इत्यादिप्रत्ययः विशेषणविशेष्य- सम्बन्धविषयाः, विशेष्टप्रत्ययवात्, दण्डीपुरुषः, इह कुण्डे बदराणी- तिप्रत्ययवदित्यनुमानमिति वाच्यम् । स्वरूपसम्बन्धेनाऽर्थान्तरत्वात् । स्वरूपातिरिक्तेति विशेषणदाने चाऽभावविशिष्टबुद्धौ व्यभिचारात् । न च । स्वरूपाणामानन्त्ययेन गौरवेण लाघवादेक एव सम्बन्धः सिद्धयति, स एव च समवय[४२] इति वाच्यम् । धर्मधर्म्यभय- कल्पनापेक्षय क्लृप्तस्वरूपषु सम्बन्धत्वरूपधमेकल्पनाया एव न्या- य्यवात्[४३]। अन्यथाऽभावविशिष्टबुद्धिषक्षीकरणे तत्राऽपि समवा- यसिद्ध्यापातात् । किञ्च तस्य जन्यस्वपक्षे लाघवानवकाशात् । भाव- कार्यस्य समवायिजन्यत्वनियमेनाऽनवस्थानाञ्च[४४] । तदनियमे



  १ तदायत्वम्-तन्निरूपितसम्बन्धवत्वम् । प्रकृते च तत्पदेन जति-
  जातिमन्तौ ग्राह्यौ । तथा च जातिजातिमन्निरूपितसम्बन्धत्वत्त्वा
  भाववति समवाये तदीयत्वप्रकारकज्ञानस्य सर्वादित्यर्थः।असत्ख्या
  तिः-तदभाववात तत्प्रकरकज्ञानम् ।

  २ ‘जात्यादेरपि-'इत्यादिहेतुमेव स्पष्टयति-असत्येवेत्यादिना ।

  ३ समवाये इति शेषः ।

  ४ जातिमता।

  ५ यद्धर्में व्यापकतावच्छेदकत्वज्ञानम्, तद्धर्मावच्छिन्नविधेय
  यताकनुमितिः’ इति नियमेऽपि सामान्यतोदृष्टानुमाने पक्षता सहकृते
  नेतरविशेषबाधनिश्चयेन, लाघवज्ञानेन वा विशेषधर्मावच्छिन्नप्रका
  रताकानुमितेरप्यभ्युपगमादित्यर्थः ।

  ६ क्लृप्तपदार्थातिरिक्ततय समवायाङ्गीकारे समवयत्वरूपध-
  मतदाश्रयीभूतसमवायरूपधर्मिकल्पनापेक्षया तव समवायत्वादिरूप-
  धर्मेण समवायादिरूपधार्मिणः संसर्गस्य कलृप्तपदाथस्वरूपतया कल्प
  नायमिव क्लृतेष्वेव संसर्गत्वरूपधर्मकल्पनायां लाघवादित्यर्थः ।

  ७ समवायः स्वसमवायिनि समवायेनैवोत्पत्स्यते,सोऽपि तथेत्यनवस्थेति भावः॥


च घटादावपि तदन।पातात् नित्यत्वपक्षे सम्बन्धितन्त्रतया तदभावे सम्बन्धत्वभङ्गात्[४५] । प्रतियोग्यनुयोगिनोऽनित्यत्वे तान्नित्यत्वस्या- ऽनुभवबाधितत्वाञ्च । अन्यथा सं योगादिसम्बन्धमात्रस्य नित्यत्वाप- तेः । किञ्च समवायस्य सामन्यानां च देशावच्छनत्वं स्वीक्रियते, न च । नाऽऽद्यः । तेषामद्रव्यत्वेन गमनासम्भवेऽवच्छेदकदेशा- तिरिक्तदेशे उत्पन्नव्यक्तिष्ववस्थानभावप्रसङ्गात् । नाऽन्यः। सर्वत्रा- ऽवस्थाने सर्वव्यक्तिसम्बन्दापत्त्या ‘अभावादेर्ने समवायः, सामान्यं द्विविधम्-परमपरं च, सत्त्ववत्त्वं द्रव्यदित्रयाणाम् , समान्यादीनां सामान्यराहित्यम्’ इत्यादिविभागानुपपत्तेः । सर्वस्य सर्वात्मताप्रती- त्यापत्तेश्च । न च व्यञ्जकाभवान्न तथेति वाच्यम् । [४६]आद्यदोषस्य



  १ समवायस्य नित्यस्वपक्षे तत्सम्बन्धिनोऽभावकाले सम्बन्धत्वं
-   न स्यात्, सम्बन्धमात्रस्यैकप्रतियोगिकत्वपरानुयोगीकत्वनियमादिति भावः ।

  २ अयं भावः-‘घटत्वादिरूपा जतिर्घंटादवेव समवायेन तिष्ट-
  ऽति । समवयस्तु स्वस्वरूपेण स्वस्यऽनुयगिनि प्रतिर्योगिनि च,
  नाऽन्यत्र । अन्यथा सर्वे सर्वे स्यात्" इतेि ते मतम् । न च तावन्यत्र
  तदन्यसम्बन्धेन स्थिताविति वाच्यम् । विकल्पासहत्वात् । तथा हि
  स सम्बन्धः-सप्तवायः संयोगः, कालिकः,स्वरूपं वा । नद्यौ । त्वया-   स्वीकृतवत् । न तृतीयः । न च कालिकसम्बन्धेन स्वाश्रयतोऽन्यत्र
  सत्त्वे जातिसमवाययोर्देशावच्छिन्नत्वेन सह कश्चन विरोध इति ।
  वक्तुं युक्तम् । अन्यथा घटेऽपे देशावच्छिन्नत्वं न स्यात् । तथा च
  ऽवच्छेदकदेशातिरिक्तदेशे तयोरद्रव्यत्वेन द्रव्येतरावृतितया पूर्वोक्त
  एवोत्पन्नेष्ववस्थानाभावरूपदोषप्रसङ्ग इति । नान्त्यः । तत्रस्वरूपस्य
  दुर्वचत्वात् । तथा हि-तत्स्वरूपमधिकरणस्य स्वस्य वा नाऽऽद्यस्य !
  त्वयाऽनभ्युपगमात् । नान्यस्य वा । युक्त्या समवयेन वृत्तित्वप्रसङ्गात् ।
  युक्तिश्च-घटादीनामन्तरे(पटादौ) घटत्वादिकं समवायसम्बन्धावच्छि
-   न्न-वृत्तित्वशालि, समवायेनाऽनुस्यूतत्वे (घटादिषु) सति तदन्तरे वि-
  द्यमानत्वात् । यथा--अनक-पुष्पेषु संयोगेनऽनुस्यूतं सत् तदन्तरे
  विद्यमानं सूत्रम् । यत् अनेकेषु येन सम्बन्धेनाऽनुस्यूतं सत् तदन्तरे वि-
  द्यमानम्, तत् तेन सम्बन्धेन तदन्तरे विद्यमानम् , इत्यत्र सामान्यमुखी-


दुरुद्धरत्वात् । किञ्च सिद्धे प्रमाणतः सर्वत्र सम्बन्धे स्वभावभेदावल- म्बनम्, नतु स्वभाववादपादप्रसारिकयैव वस्तुतिद्धिः । अन्यथा ‘पवनादावपि रूपादिकमस्तु स्वभावभेदादेवप्रतीतिः इत्यनर्गलगर्ज- नस्य कः प्रतीकारः स्यात् ? एतत्सर्वं मनसि निधायोक्तं वाह्यैः--


 नऽऽयाति न च तत्रासीदस्ति पश्चान्न चांशवत् ।
 जहाति पूर्वं नाऽऽधारमहो व्यसनसन्ततिः !

इति ।

 न च सामान्यानङ्गीकारे[४७] घटोऽयमित्याद्यनुगतव्यवहारानुप- पत्तिरिति वाच्यम् । व्यक्तिविशेषतादात्म्याषन्नप्रधानेनैव तदुपपत्तेः। घटत्वादिकमपि परमते व्यक्तिविशेषसमवेतमेव नियामकम्, न तु स्वरूपेण । पटादावपि सत्त्वात्[४८]। अत एव ‘नायाति’ इत्यादिरपि न दोषः । [४९]तस्याऽधिष्ठानत्वात् । न च खण्डमुण्डादिविलक्षण-

 व्याप्तिः । न चाऽप्रयोजकम् । सर्वत्र समवायेनैव वृत्तित्वकल्पने ला- घवात् । न च तथा लतेि पटाद्यवच्छेदेनाऽपि घटत्वादेः प्रत्यक्षे स्यात् । न होकत्र येन सम्बन्धेन यस्य प्रत्यक्षम्, तेन सम्बन्धेनाऽन्यत्राऽपि तस्य सत्वे प्रत्यक्षम् । अन्यथा समवायस्य रूपिद्रव्यावच्छेदेन प्रत्यक्षे तद्भिन्नेऽपि प्रत्यक्ष स्यात् । विषयतया घटत्वादेः प्रत्यक्षं प्रति स्वस मवेतत्वादिना पटादेः प्रतिबन्धकत्वकल्पनाञ्च । कल्पनाया अनुभ- वानुसारित्वात् । अत एव ‘सर्वं सर्वात्मकं स्यात्’ इति परास्तम् । न चेष्टमेव । सिद्धगन्तव्याघातात् । घटादेरन्यत्र न स्त एव ताविति चेत्, तयोर्देशावच्छिन्नत्वस्याऽऽवश्यकतया चोत्पत्स्यमानघटादिषु जाति- समवयों कथं सम्पत्स्येते । न च तवाकाशवद्विभू , अपि तु विभुत्व- विरुद्धवृत्तिमत्त्वधर्मवन्तौ । एतेन ‘परस्परं विभुद्वयवत् तत्र तत्राऽसम्ब- द्धावेव' इतेि परास्तम् । तस्मात्सूक्तम् ‘आद्यदाषस्य दुरुद्धरत्वत्’ इति ।



  १ परस्परं व्यक्तिभेदेऽपि “घटोऽयम्’ ‘घटोऽयम्’ इति समानकार-
  कव्यवहार इति भावः

  २ यथा सामान्यं स्वसमवायितोऽन्यत्राऽपि स्वस्वरूपेण विद्यते,
  तथाऽपि घटtदेव्यक्तिसमवेतं सदेव ‘घटः’ इत्यादिव्यवहारनिमित्तम्,
  तथा सर्वत्र प्रधानस्य सत्त्वेऽपि घटादिव्यक्तितादत्म्यापन्नमेव प्रधानं
  घटादिव्यवहारनिमित्तमित्यर्थः।

  ३ प्रधानस्य ।


 तमिममर्थं प्रामाणिकं कर्तुमभिमताः प्रमाणभेदा लक्षणीयः । न च समन्थलक्षणमन्तरेण शक्यते विशेषलक्षणं कर्तुम्, इति प्रमाणसामान्यं तावल्लक्षयति-


 दृष्टमनुमानमाप्तवचनं च, सर्वेप्रमाणसिद्धत्वात् ।
 त्रिविधं प्रमाणमिष्टं, प्रमेयसिद्धिः प्रमणाद्धि ॥ ४ ॥


 “प्रमणामिष्टम्" इति । अत्र च ‘प्रमाणम्’ इति समाख्या लक्ष्यपदम् । तन्निर्वचनं च लक्षणम् । प्रमीयतऽनेनोति निर्वचनत् प्रमां प्रति करणत्वमव-




नानाव्यक्तीनां परस्परव्यभिचारेण व्यञ्जकत्व सम्भवे एकस्यैव कस्यचिदुपाधेर्व्यञ्जकत्वं वाच्यम् । तथा च तुल्यन्यायेन तत्राऽपि व्य- जकान्तरावश्यकत्वेऽनवस्थापत्तिरिति वाच्यम् । [५०]जास्यतिरिक्त- बादिमतेऽप्युक्तदोषसाम्यात् । एतेन ‘व्यञ्जकचरणशरणावश्यकत्वे जातिकल्पनवैयर्थम्' इति परास्तम् ॥ ३ ॥

 [५१]उपोद्धातसङ्गर्तिं दर्शयन्नर्यागवतारयति-तमित्यादिना । व्याप्यरूपविशेषस्य व्यापकाधीनत्वादाह् । नचेति‘प्रमाणसमा न्यं लक्षयति' इत्युक्तम्,तञ्च न सम्भवति । आर्य्यायं लक्षणादर्शनात्, इत्याशङ्क्याऽऽह । अतचेति । 'प्रमाणम्' इति समाख्यया-लक्ष्य- बोधकं पदमित्यर्थः । स्मृतेरविसंवादिप्रवृत्तिजनकत्वेऽपि व्यावुत्ति- व्यवहारान्यतरभैयाजनाय[५२] प्रमात्वस्याऽभिधानात्तद्व्यावृत्तम्--



  १ ये जातिमतिरिक्तस्वेनाऽभ्युपगच्छन्ति, तन्मते-नैयायिकम ते इत्यर्थः ।

  २ चिन्तां प्रकृतसिद्ध्यर्थामुपोद्घातं विदुर्युधः।

  ३ अत्र व्यावृत्तिः -इतरभेदानुमितिः व्यवहरश्व-'प्र्मा’ ‘प्रमा’
  इत्यादिव्यवहारानुमितिः । मुग्धं प्रति सम्प्रतिपन्नेन तस्य सिद्धिः कार्या-
  इयं प्रमात्वेन व्यवहर्त्तव्या, असन्दिग्धाविपरीतानधिगतविषयचित्त
  वृत्तित्वात्, यतन्नैवं तन्नवम् , यथा-अप्रमा । प्रमाणत्वमिति वक्तव्ये
  प्रमावकथनं कार्यकारनाभेदेनेति भावः । अन्यथा ‘प्रमत्वमाह--
  असन्दिग्धेत्यादि’ इति कथनं व्याहतं स्यात् । असन्दिग्धेत्यादिना
  वृत्यात्मक-प्रमाणस्य निर्वचनात् । अथ च चक्षुरादेः करणत्वपे-


गम्यते । *तच्चाऽसन्दिग्धविपरीतानधिगतविषया । चि- त्तवृत्तिः । बोधश्च पौरुषेयः फलं प्रभा, तत्साध- नं प्रमाणमेितेि । एतेन-स्संशयविपर्य्स्मृतिसाधने- ष्वप्रमणेष्वप्रसङ्गः ॥

प्रमात्वमाह । असन्दिग्धेत्यादि । स्मृतिमाधारणे तु अनधिगतपदं न देयम् । अविपरीतः-अवाधितः । सिद्धान्ते चक्षुरादेः करणत्वाभावादाह । चित्तवृत्तिरिति । 'तत्साधनं प्रमाणम्' इत्यत्राऽन्वेति । प्रमाणस्वरूपमाह । बोधः परुषेय इति । चैतन्यप्रकाशस्वरूप इत्यर्थः । ननु चैतन्यप्रकाशस्य नित्यत्वात्कथं प्रमाणफलत्वव्यवहारः ? इत्यत आह । फलं प्रमेतितथा च चैतन्यप्रकाशस्य नियत्वेऽपि तत्तदर्थोपरक्तवृत्तिप्रतिबिम्बाश्रयत्वेन प्रमाणकार्य्यवदित्यर्थः । एतेनेति । असन्दिग्धादिनिवेशनेनेत्यर्थः।

 यत्तु-असन्दिग्धेत्यारभ्य फलमित्यन्तं प्रमालक्षणमिति, तन्न । चित्तवृत्तेः प्रमात्वे इन्द्रियाणां करणत्वापत्तेः ।

 यत्तु-चित्तवृत्यन्तं ‘प्रमाणम्’ इत्यत्राऽन्वेति । प्रमामाह । बोधश्चेति । पौरुषेयः- तादृशवृत्तिसंसर्गाञ्चिदनुग्रहः[५३]

क्षय वृत्तौ प्रमात्वं । स्वीकृत्य तत् । तथा च सूत्रम् (साङ्ख्य० अ० १ सू० ८७)-‘द्वयोरेकतरस्य वाऽप्यसन्निकृष्टधुपरिच्छित्तिः-प्रमा, तत्साधकतमं यत्, तत् त्रिविधं प्रमाणम्’ । द्वयोः -बुद्धिपुरुषयोः । एकतरस्य-तदन्यतरस्य । असन्निकृष्टार्थः-अनधिगतः । परिच्छित्तिः अवधारणम् । साधकतमम्-करणम् । भावार्थश्च प्रसङ्गदेवाऽस्य वक्ष्य- माणेन ‘अत्र’ इत्यादिना भाष्येण समीपे (पृ० १२० पं० १४) एव ज्ञातव्य इत्याशयः !

 * तञ्च=श्रमrण च ।



  १ चिति प्रतिबिम्बं-चिदनुग्रहः । अस्मिन् मते चक्षुरादिद्वारा
  निर्गत्य विषयाकारेण परिणतं यत् बुद्धिदर्पणम् , तत्र प्रतिबिम्बितं चै
  तन्यमेव मुख्यं प्रमाफलं ‘घटमहं जानामि’ इत्याद्याकारकं ‘अयं घटः’
  इत्याद्याकारकबुद्धिवृत्तिरूपकरणेन जायमानम् । अत्रत्यसिद्धान्तिभते-


वदन्तोऽपि । हि -यतः प्रमाणादेव प्रमंयण सिद्धिः, अतः प्रमाणं त्रिविधमित्यर्थः, इत्याहुःतन्न[५४]। प्रमेयाणां प्रमाणतः सिद्धेः प्रमाण- त्रैविध्यहेतुत्वासम्भवात्, प्रमातृस्वस्य वा । अन्तर्भावाद्यधीनतया तस्यैव [५५]त्रैविध्यप्रयोजकत्वात् । ननु प्रमेयध्युत्पादनस्य प्रकृतो-



न्तिमतेऽर्थापयत्त्यनुपलव्धी उपमानं चेति त्रीण्याधेकानि, पौराणिकमते तु उपमानार्थापयनुपलब्धिसम्भवैतिह्यानि पश्चाऽधिकानीति बोध्यम् ।



  १ 'सर्वप्रमाणसिद्धत्वात्इत्यत्र ‘प्रभेयाणां प्रमाणतः सिद्धः ’
  इत्यर्थकतया प्रमाणत्रैविध्यहेतुत्वं यत् अभिमतम् , तन्न सभ्भवति ।

  तथा हि-‘प्रमेयाणां प्रमाणतः सिद्धेःइति हेतुना प्रमाणत्रैविध्यं
  साक्षात् साध्यते, आहोस्वित् परस्परया वा । न तावदद्यः हेतुसा
  ध्ययोर्भिन्नधिकरणत्वत् । अन्यथा श्वेतः प्रासादःकाकस्य का-
  र्प्ण्यात्, इत्यप्यनुमानं स्यात् । न द्वितीयः । परम्परयेत्यस्य कोऽर्थः?
  यदि “यत् यत् प्रमाणतः सिद्धं, तत तत् प्रमेयम् इति व्याप्त्या प्रमाण-
  त्रैविध्यस्यापि प्रमाणसिद्धमया प्रमेयत्वम् , तत्रैविध्यप्रमापकं प्रमाणं
  तु परिशेषादनुमानम् अस्य हेतुस्त्यन्तभावादिरेवेतेि ‘प्रमेयाणां प्र
  माणसिद्धेःअस्यास्ति प्रयोजकत्वम्” एवमथः , तदऽन्तर्भावादेरेव
  प्रयोजकत्वं, अलं त्वदुक्तस्य प्रयोजकत्वेन । एवं 'प्रमrdसिद्धत्वात्
  इत्यनेनापि न हे प्रमाणत्रैविध्यं साधितुं युक्तम् । एते प्रमातार इति
  यथार्थतय ज्ञानं यदा भवेत् तदैव तषिद्धस्वस्य (तदभ्युपगतस्वस्य)
  हेतुत्वं स्यात् । ततु तदैव, यदा तदीयपदार्थस्य प्रामाणिकत्वं
  स्यात् । तथा चान्येन प्रमाणेनैव (अन्तर्भूतत्वादिहेतुकानुमानेनैव)
  प्रमणवैविध्यस्य सिद्धिः । अन्यथाऽन्योन्याश्रयः स्यादिते ।

  ऑपे तु प्रत्यक्षादित्रिके उपमनादेरन्तभावस्यैव प्रमा-
  णवैविध्यहेतुत्वमित्याह-तत्रेत्यादिन . त्रैविध्यप्रयोजकत्वादित्यन्ते-
  न । अनुमानप्रकारस्तु-उपमनादिकं प्रत्यक्षानुमानागमान्यत-
  मम्, प्रत्यक्षाद्यन्तभूतत्वात , यत् यदन्तर्भूतं, तत् तदन्यतमम्
  यथा पृथिव्याद्यन्तर्भूतं सुवर्णकरकादिकं पृथिव्याद्यन्यतमम् । न चात्र
  साध्यहेत्वोरैक्येन स्वरूपसिद्धिः । अन्यतमरत्वस्य भेदकूटावच्छिन्न-
  प्रतियोगिताकभेदवत्वरूपवत्, अन्तर्भावस्य च-यत्रान्तर्भावः तद्बृत्य
  साधारणधर्मवत्व रूपत्वात् ।

  २ उपमनदिप्रमाणानामन्तर्भवस्यैव ।


पपादयिष्यत इत्युक्तम् (पृ० १२० पं० ४।५)। अथ प्रमेय- व्युत्पादनाय प्रवृत्तं शखं कस्मात् प्रमाणं सामान्य- तो विशेषतश्च लक्षयति ? इत्यत आह—"प्रमेयसिद्धिः प्रमाणाद्धि” इति । सिद्भिः-प्रतीतिः । सेप्रमार्याऽर्थक- मनुरोधेन पाठक्रममनादृत्यैव व्य।ख्याता ॥ ४ ॥

 सम्प्रति प्रमणविशेषलक्षणावसरे प्रत्यक्षस्य सर्व- प्रमणेषु ज्येष्ठत्वात्, तद्धीनवाञ्चाऽनुमनदीनाम् ,


पयोगितया प्रमाणव्युत्पादनस्य वैयथ्येमाशङ्क्य परिहरति । अथे- त्यादिना । पाठक्रमत्यागे बीजमाह । सेयमिति ॥ ४ ॥

 प्रत्यक्षानन्तरमनुमाननिरूपणे, अनुमानात्प्राक् प्रत्यक्षनिरूपण च सङ्गतिं दर्शयति[५६]ज्येष्ठत्वादिति । ज्येष्ठ त्वं-तदुपजी= व्यत्वम् । तथा चाऽनुमाननिरूपितं प्रत्यक्षे उपजीव्यत्वम्, अनुमाने प्रत्यक्षनिरूपितमुपजीवकत्वमित्यर्थः[५७] । सङ्गस्यन्तरं च दर्शयति ।



  १ ‘यत् यदनन्तरं निरूपणीयं भवति, तत् तन्निरूपितसङ्गति
  मत् भवति' इति व्याप्तिः । ‘नऽसङ्गतं प्रयुञ्जत’ इत्याभियुक्तोक्तेः, इति
  सङ्गतस्यैव निरूपणीयत्वादित्यर्थः । सङ्गतिश्च-अनन्तराभिधानप्रयोज-
  कजिज्ञासाजनकज्ञानविषयरूप । तथा च प्रकृते प्रत्यक्षानन्तरमनु-
  मानस्याऽभिधानं, तत्प्रयोजिका जिज्ञासा-'प्रत्यक्षकार्यं किम्’ इत्याका-
  रिका, तज्जनकज्ञानं-‘प्रत्यक्षं ज्ञातं, तस्य कार्यमपि स्यात्’ इत्याद्या-
  कारकं प्रत्यक्षकार्यत्वज्ञानम्, न त्वनुमानं प्रत्यक्षकार्यमिति ज्ञानम् , अनु-
  माननिरूपणात् प्राक् तज्ज्ञानासम्भवात् । तद्विषयः प्रत्यक्षकार्यत्व
  रूपः, इति सैव सङ्गतिः । विशेषतश्च-अनुमानरामरुद्रीयादौ द्रष्टव्यम् ।

  २ निरुक्तलक्षणा सङ्गतिः षोढा । तथा चोक्तम्-


 सप्रसङ्ग उपद्घतो हेतुताऽवसरस्तथा ।
 निर्वाहकैक्य क्यकायेिक्ये षोढा सङ्गतिरिष्यते ।

इति ।

 तत्र प्रसङ्गः उपेक्षानर्हत्वं, उपोद्घातदिभिन्नत्वे सति स्मरण- प्रयोजकू सम्बन्धो वा । उपोद्घातस्तु (११८ पृ ० २३ प०) उक्तः । तत्र जिज्ञासा ‘प्रकृतबोधानुकूलचिन्ताविषयः कः? 'इत्यकारिका, तज्जनकज्ञानं च ‘प्रकृतबोधानुकूलचिन्ताविषयः स्यात्’ इत्याकारकं तादृशचिन्ताविषयत्वज्ञानं बोध्यम् । हेतुता-करणत्वम् । कारणस्वस्य कार्यत्वनिरूपितत्वेन हेतुतपदेन कार्यत्वमपि बोध्यम् ।


प्रतिवादिनामविप्रतिपत्तेश्च तदेव तावल्लक्षयति--


 प्रतिविषयाध्यवसायो दृष्टं, त्रिविधमनुमानमाख्यातम् ।
 तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं तु ॥ ५ ॥

 ‘प्रतिविषयाध्यवसायो दृष्टम्'इति । अत्र "दृष्टम्" इति समाख्या लक्ष्पदम् । परिशिष्टं तु लक्षणम् । समानासमानजातीयव्यवच्छेदो लक्षणार्थः । अवय-




प्रतिवादिनमति । अविप्रतिपयुक्त्या वलवद्द्वेषविषयत्वाजनकप्र्- तिपत्तिकतारूप-सुप्रतिपाद्यतासूचनेन प्रत्यक्षे एव प्रथमतः शिष्यजि- ज्ञासा, नऽन्यत्रेति सूचितम् । तथा च प्रतिबन्धकीभूतशिष्यजिज्ञासा- निवृत्ताववइयवक्तव्यत्वरूपावसरसङ्गतेिरनुमाने, अवश्यवक्तव्यत्व- प्रयोजकाभावप्रतियोगिजिजज्ञासविषयत्वं प्रत्यक्षे[५८], इति सूचितम् ।

लक्षणार्थ इति । लक्षणस्याऽर्थः-प्रयोजनमित्यर्थः । एतेन 'तदृशव्यवच्छेदस्याSसधारणधर्मरूप-लक्षणप्रयोज्यवत् कथं तादृशव्यवच्छेदस्य लक्षणार्थत्वोक्तिः[५९] इति परास्तम् । अवय-

अवसरः-अवश्यवक्तव्यत्वम् । निर्वाहकैक्यम्-एकप्रयोजकप्रयोज्यत्वम् । कायैक्यम्-एककार्यकारित्वम् । एतानि लक्षणानि तत्र तत्र सङ्गम- यिष्यन्ते । प्रकृते तु षड्विध सङ्गतिषु मध्ये हेतुतारूप-सङ्गतिरित्यर्थः । उप- जीव्यत्वम्-कारणत्वम् । उपजीवकत्वम्-कार्यत्वम् । अत्र अनुमानात्प्राक् प्रत्यक्षनिरूपणे 'प्रत्यक्षस्य प्रमाणेषु ज्येष्ठत्वात्’ इति हेतुः, प्रत्यक्षानन्तरम- नुमाननिरूपणे ‘तदधीनत्वाच्चाऽनुमानादीनाम्' इति च हेतुरिति विभागः।



  १ कार्यमात्रं प्रति प्रतिबन्धकाभावस्य कारणत्वेन, (अनुमान नि
  ष्ठस्य) अवश्यवक्तव्यत्वस्य प्रयोजको यः अवश्यवक्तव्यत्वप्रतिबन्धकीभूत
  प्रत्यक्ष जिज्ञासाऽभावः, तत्प्रतियोगिनी (प्रत्यक्ष जिज्ञासा, तद्विषयत्वं
  प्रत्यक्ष इत्यर्थः । अत्राऽवसरसङ्गतिपक्षे निरुक्तसङ्गतिलक्षणघटकजिज्ञासा
  'अवश्यवक्तव्यं किम्’ इत्याकारिका, तज्जनकज्ञानं च—‘प्रत्यक्षानन्तरम-
  वश्यं वक्तव्यं किञ्चित्’ इत्यवश्यवक्तव्यत्वप्रकारकम् । लक्षणलमन्वय
  प्रकारस्तु पूवोंक्त एव सर्वत्र बोध्यः ।

  २ प्रत्यक्षं स्वेतरेभ्यो भिन्नम्, प्रतिविषयाध्यवसायत्वात्, यन्नैवं,


वार्थस्तु=विसिन्वन्ति-विषयिणपनुबध्नन्ति , नुबभ्रति-स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत्-विषयः-पृथिव्यादयः सुखादयश्च । अस्मदादीनमविषयास्तन्मात्रलक्षणाः




वार्थः-प्रतिपदार्थः, अत्र पदानमेव वाक्यावयत्वात् । विष- यिणो बुद्धिवृत्तेर्मुख्यबन्धनासम्भव[६०]), [६१]प्रकृतेऽनुपयो- गाञ्चाऽऽह । स्वेनेति । स्वन-स्वीयेन -स्त्रसम्वन्धिवेन रूपेण । तृतीया प्रकारतायाम् । [६२]तथा च घटज्ञानं पटज्ञानमित्यादिस्व सम्बन्धित्वप्रकारकबोधजनकशब्दरूप-निरूपणविषयं कुर्वन्तीत्यर्थः । के ते ? इत्यत आह । पृथिव्यादय इति । तन्मात्राणामस्म- दीयप्रत्यक्षागोचरत्वाद्विषयत्वं न स्यादत आह । अस्मदादीनाम


तनैवम्, यथाऽनुमानमित्यादौ प्रमाणत्वेन समानजातीयानुमानादिभ्यः, असमानजातीयघटादिभ्यो भेदस्याऽनुमितेः प्रतिविषयाध्यवसायत्वाद्य- साधारणरूप-लक्षणहेतुकत्वम, तेन कथमितरभेदस्यैव लक्षणाभिधेय- त्वम्, न हेि साध्यमेव साधकम् । साध्यस्याऽसिद्धत्वात् । सधकस्य च लिद्धत्वात् । सिद्धत्वासिद्धत्वयोर्विरुद्धत्वात्, इति भावः ।

  १ चलनप्रतिबन्धक संयोगविशेषो मुख्यबन्धनम् । तथा च बुद्धिं
  वृत्तेरद्रव्यत्वेन तदसम्भवादित्यर्थः ।

  २ ननु बुद्धिवृतेश्चक्षुरादिद्वारा विषये सर्पणेत कथमद्रव्यत्वम् ,
  अपि तु क्रियाश्रयत्वेन रथादिवत् द्रव्यत्वमेव । तथा च सूत्रम्-
  (साङ्ख्य अ० ५ सू० १० ७) “भागगुणाभ्यां तत्त्वान्तरं वृत्तिः, सम्बन्धार्थं
  सर्पतीति” इति । अस्यार्थः--यतो बुद्ध्यादिवृत्तिर्विषयसम्बन्धार्थं सर्पति,
  ततो हेतोः सा वृत्तिबुद्ध्यादेर्विभक्तोऽग्निविस्फुलिङ्गादिवत् भागो न,
  यदि बुद्ध्यादिर्वृत्तितो विभक्तभागरूपा स्यात्, तर्हि भागत्वेनाऽभिमत-
  वृत्तिरेव विषयसंबद्धा स्यात्, न तु बुद्ध्यादिः, तयेर्भेदात् । एवं रूपदि
  वत् गुणो न, गुणस्य क्रियाशून्यत्वात् । बुद्ध्यादिवृत्तेस्तु सर्पणाक्य-
  क्रियाश्रयत्वात् । अपि तु ताभ्यां तत्वान्तरमेवति, इत्यत आह-प्रकृते
  ऽनुपयोगाञ्चेति ।

  ३ ‘बोधजनकः शब्दो निपूर्वकरूपधात्वर्थःकर्मत्वर्थक-‘अनी-
  यर्'प्रत्ययार्थश्च विषयत्वमिति शेषः । इत्यादि=इत्याद्याकारकम् ।


योगिनामूर्द्ध्वस्रोतसां च विषयाः । विषयं विषयं प्रति वत्तते इति प्रतिविषयम् –इन्द्रियम् । वृत्तिश्च-सन्नि- कर्षः । अर्थसन्निकृष्टमिन्द्रियमित्यर्थः । तस्मिन्नध्यव- सायः-तदाश्रित इत्यर्थः” । अध्यवसायश्च-बुद्धिव्या-



विषयश्चेति । उर्द्ध्व स्रोतसाम्-ऊर्द्ध्वं स्रोतः-प्रवाहो-गमनं येषा- माजन्मसिद्धानां-देवादीनांते ऊर्द्धस्रोत सः,तेषामित्यर्थः। इन्द्रिया- णां व्यापारमाह । वृत्तिश्चेति । विषयाकारवृत्तिरूपपरिणामविशेषः न तु संयोग इत्यर्थः[६३]तदश्रित इति । न च तादृशेन्द्रियेणा- [६४]ऽध्यवसाय इति कुतो नोक्तम् । एतन्मते नानाच्छिद्रघाटान्तर्वर्ति- प्रदीपप्रकाशवत् बुद्धिवृत्तिरूपाध्यवसायस्येन्द्रियाजन्यत्वात्[६५]



  * इन्द्रियनिष्ठ इत्याशयः।

  १ अयमभिसन्धिः--इन्द्रियैः सह विषयस्य संयोगो भवति
,   परं तन्मात्रस्य कारणत्वे परमाणुभिस्तस्य संयोगसत्त्वेन तेषा
  मपि प्रत्यक्षे स्यात् । अतश्चित्तवदिन्द्रियाणामपि विषयाकारेण प
-•   रिणामः स्वीकार्यः । तेन परण्वकारेन्द्रियपरिणमाभावेन नाऽतिप्रस
  ङ्गः । न च कार्यमात्रं प्रति स्वस्वकारणकूटेनैव कथायोत्पत्त्यभ्युपगमे
  न प्रत्यक्षरूपकार्यस्यऽपि स्वकारणकूटेनैवोत्पत्त्या महत्त्वस्यापे त-
  त्कूटान्तर्गततया परमाणुषु तदभावेन न तेषां प्रत्यक्षमितीन्द्रियपरि-
  णामः किमर्थं स्वीकार्य इति वाच्यम् । प्रत्यक्षत्वेन तत्पारिणामत्वेन
  कार्यकारणभावे लाघवात् । महत्त्वत्वेन प्रत्यक्षकरणत्वपक्षे उद्भूतरू
  पत्वदिनापि कारणत्वकल्पनाया आवश्यकतया गैौरवात् । मम मते
  तु महत्त्वादेरिन्द्रियपरिणाममात्रोपयोगितया प्रत्यक्षेऽन्यथासिद्धत्वात्
  तथा चोक्तं विज्ञानभिक्षुभिर्योगवर्तिके (यो० सू ० ७ पा ० १)“इन्द्रियाण्येव
  नाडी चित्तसञ्चरणमार्गः तैः संयुज्य, तद्गोलकद्धरा बाह्यवस्तुषूपरक्स्य
  चित्तस्येन्द्रियहित्येनैवाऽर्थीकारः परिणामो भवति, न केवलस्य चित्त
  स्य, शङ्खपत्त्याद्याकारतायां नयनादिगतपित्ताद्यन्वयव्यतिरेकाभ्याम्
,   अतो रूपादिवृत्तिषु चक्षुरादीनामपि कारणत्वं शास्त्रेषुच्यते ’इति ।

  २ विषयकारपरिणतेनेत्यर्थः ।

  ३ तथा च यथा घटादिप्रदीपप्रकाशयोर्न जन्यजनकभावः, तथा
  विषयाकारपरिणतेन्द्रियबुद्धिवृत्योरपीति भावः ।


पारो ज्ञानम् । उपात्तवेषयाणामन्द्रियाणां वृत्तौ सत्यां बुधैस्तमोऽभिभवेसति यः सत्त्वसमुद्रेकः सोऽध्यवसायः


किन्तु तदकारस्यैवेन्द्रियजन्यत्वाभ्युपगमात् । एतेन ‘प्रतिविषयः- नियतविषयोऽध्यवसीयते-श्रीयतेऽनेनेति प्रतिविषयाध्यव- सायमिन्द्रियम्’ इति परास्तम् ।बुद्धिव्यापारः-बुद्धिपरिणामः । [६६]नन्वेवमयोग्यविषयसन्निकृष्टेन्द्रियवृत्तिबुद्धिवृत्तिरूपं ज्ञानमपि दृष्ट- प्रमाणं स्यादत आह । उपात्तेतिउपात्तविषयाणां-स्वस्व योग्यविषयाणाम् । तथा च योग्य विषये एव तत्तदिन्द्रियसन्निकर्षो न तु परमतवत् [६७]प्रत्यक्षायोग्येऽपीत्यर्थः । वृत्तौ सत्याम्-परिणामरू पसन्निकर्षे सति । बुद्धस्तमोऽभिभवे सतीति । बुद्धेः-त्रिगुणमकस्य बुद्धिसत्वस्य । [६८]न च तमसः प्रतिबन्धकत्वे मानाभाव इति वाच्यम् । सर्वदा सत्तवकार्यापत्त्या तत्कल्पनात् । तदभिभवश्च- क्वचिदिन्द्रियसन्निकर्षेण, क्वचिच्च योगिनां धर्मेण, अञ्जन- संयोगे नयनमालिन्यवत् । तथा च रजस्तमसोर्गुणत्वेन सहका- रित्वे सतीति तात्पर्यार्थः[६९] । अत एव वक्ष्यति-अन्योन्या भिभवेत्यादि ( कारिका १२) । सत्त्वसमुद्रेकः-परिणाम विशेषः । तस्य सञ्ज्ञान्तरमाह । सोऽध्यवसाय इत्यादिना



  १ योग्यघटादिप्रत्यक्षकालेऽथोग्यपरमाण्वादिनपि सन्निकर्षेण
  घटादिसन्निकृष्टेन्द्रियनिष्टबुद्धिवृत्तेः परमाण्वचच्छेदेनापि प्रत्यक्षप्रमाणत्वं
  स्यात्, इति-इन्द्रियाणां संयोगादि रूपसन्निकर्षमात्रस्य प्रत्यक्षकारण
  त्वं मत्वा शङ्कते-नन्वेवमित्यादिना ।

  २ नैय्यायिकमतवत् । प्रत्यक्षे इन्द्रियपरिणामरूप-सन्निकर्षः
  कारणं, न तु सयांगदिरित्यर्थः ।

  ३ ‘बुद्धस्तमोभिभवे सति यः सर्वसमुद्रेकः’ इत्युक्त्या तमसः
  सत्वसमुद्रेकस्य प्रतिबन्धकत्वं सुचितम्, अतस्तत्र मानभावमाशङ्कय
  निषेधति--न चेत्यादिना ।

  ४ सत्वरजस्तमसां परस्परं व्याप्यतया तदन्यतमस्याऽपि वि-
  भागासम्भवेन सवप्रधानकार्यं रजस्तमसोरप्रधानत्वमात्रमित्यशयः ।


इति, वृत्तिरिति च, ज्ञानमिति चाऽऽख्यायते । इदं त- त्प्रमाणम् । अनेन यश्श्चेतनाशक्तेरनुग्रहः तत्-फलं, पमा,


इदम्-वृत्तिरूपनम् । तत् प्रमाणम्-प्रत्यक्षप्रमाणम् । बुद्धिवृत्ते- र्व्यापारभावेन[७०] कथं करणवमिति चेन्न । फलायोगव्यवच्छि- स्यैतन्मते करणत्वात् । [७१]ननु फलायोगेन-फलाभावेन, व्यव- च्छिन्नम्-शून्यम्,=स्वाव्यवहितोतरक्षणावच्छेदेन फलोपहितमिति यावत् । एवं सति व्यापारवदसाधारणकारणत्वापेक्षय गौरवमिति चेन[७२] । नष्टस्याऽपि स्वजन्यव्यापारद्वारा करणस्य कारण त्वनिर्वाहाय कारणतायां फलव्यापारान्यतराव्यवहितपूर्ववृत्तित्व- निवेशे तव मतेऽतिगौरवात् । [७३]कारणस्त्रस्य सम्बन्धविशेषघटि-



  १ व्यापारबदलधारणकारणस्य च करणपदर्थतयेत्यर्थः ।

  २ व्यापारवदसाधारणकारणत्वरूप-करणलक्षणपेक्षय। स्वा
  व्यवहेतोत्तरक्षणावच्छेदेन फलोपहितत्वरूप-करणलक्षणे शब्दातो
  गरवमिति शङ्कते--नन्विति ।

  ३ यागादिस्थले यागादेः क्रियादिरूपतया क्षणिकत्वेन स्वजन्य-
  स्वर्गादिरूप-फलस्य कालान्तरभावित्वन कारणलक्षणघटक-फलाव्यव-
  हिततरपूर्ववृत्तित्वस्य यागादावसम्भवेन यागादवव्याप्तिभिया फला-
  व्यवहितोत्तरपूर्ववृत्तित्वस्य फलव्यापारान्यतरपूर्वावृत्तित्वतात्पर्य्यकतया-
  वक्तव्यत्वेन तव मते करणलक्षणं तजन्यत्वे सति तज्जन्यजनकत्वरूप-
  व्यापारपदार्थस्य असाधारणत्वपदार्थस्य कारणत्त्वपदर्थस्य च निवेशेन,
  मम तु मते फलाव्यवहितपूर्ववृत्तित्वार्थक-स्च (करणस्वेनाभिमता)
  व्यवहितोतरक्षणावच्छिन्नफलोपहितत्वमात्रस्य करणलक्षणतयाऽति-
  लाघवम् , अतिगौरवं च तवेति समाधत्ते-नेति ।

  ४ ननु येन केनापि सम्बन्धेन घटादिरूप-फळात्र्यवहितपूर्ववृ
  त्तित्वस्य रासभादावपि सत्त्वेनऽतित्याप्तिः कारणलक्षणस्येति सा
  वृत्तिता कारणतावच्छेदकसम्बन्धेन बोध्या । तेन कलिकादिन रास
  भादेर्घटादिरूप-फलधिकरणे सर्वेऽपि नातिव्याप्तिः । कालिकस्य
  घटदिरूप-फलाधिकरणवृत्तितानवच्छेदकत्वात् । येन सम्बन्धेन
  कारणं कार्याधिकरणेऽभिमतम, तस्यैव तादृशवृत्तितावच्छेदकत्वत् ।

१२९
प्रत्यक्षनिरूपणम् ।'

तत्वेन तव तत्तस्सम्बन्धावच्छिन्नत्वनिवेशेऽपि पुनः स्वातन्त्र्येण व्याः परवत्त्वनिवेशव्पारवत्वस्य च प्रकारतया भाने तत्राSषे सम्वन्ध- निव्एशावश्यकत्वेनाऽतिगौरवाञ्च । इश्वरज्ञानस्याऽदृष्टादिव्यापर- वचेन कायेत्वावच्छन्नं प्रतेि कारणत्वेन च प्रयक्षानुमेत्यादावपि करणत्वापतत्तेश्च । न चेष्टापत्तिः। एकस्यैव चतुष्टयकरणतया प्रमाण चतुष्टयत्वेन व्यवहारानुपपत्तेः । [७४]कार्यत्वानवच्छिन्नजन्यता निरूपितत्वरूपासाधारणत्वनिवेशेऽपि आमनो आत्ममनःसंयो- गव्यापरवत्त्वेन जन्यज्ञानत्वावचंच्छिन्नकारणत्वेन ज्ञानकरणत्वापत्या-

न चान्यथासिद्धिशत्यत्वे सति फला(कार्या)वयवहितपूर्ववृत्तित्वरूप- कारणलक्षणेऽन्यथासिद्ध२न्यत्वमात्रनवेशेन रासभादेर्व्यावृत्तिः स्यात्, इति वाच्यम् । कारणत्वेनऽभिमतं यत्, तद्भिन्नत्वे सति फलव्यवहित पूर्ववृत्तित्वस्याऽन्यथासिद्धिपदार्थत्वात् । रासभादेस्तु तद्भिन्नत्वेऽपि फलाव्यवहितपूर्वेवृत्तित्वाभावेनाऽन्यथासिद्धिशून्यस्यात् । न चा- ऽन्यथसिद्धिलक्षणे सस्यन्तमेवऽस्तु, अलं विशेष्यदलेनेति वाच्यम् । कारणत्वशङ्कागन्धशून्यस्याप्यन्यथासिद्धत्वापत्तेः । तथा च कारण- लक्षणे न फलव्यवहितपूर्ववृत्तित्वमित्यस्य फलव्यापारान्यतराव्यव हितपूर्ववृत्तित्वमर्थः । यागे तु स्वजन्यापूर्वरूप-व्यापारवत्वसम्बन्धेन स्वर्गारूप-फलाव्यवहितपूर्ववृत्तित्वस्य सत्वेनैव कारणलक्षणस्य नाऽव्या- प्तिः, इति चेन्मैवम् । विकल्पासहत्वात् । तथा हि-तथापि करणलक्ष- णे स व्यापारः प्रकारविधया निवेश्यते, संसर्गविधया वेत्यत्राद्यन्त्य- योर्यथाक्रममुत्तरमाह-कारणत्वस्येत्यादिना करणत्वापत्तेश्चेत्यन्तेन । अत्रव्यापारवत्वस्य संसर्गविधया निवेशे तु, अनवस्थाभिया संसर्गे संसर्गान्तरानभ्युपगमेनाऽतिगौरवं नास्ति, तथाऽपि करणलक्षणे व्या- पारवत्वसंसर्गनिवेशेनापि (नैय्यायिकमते) गौरवं वर्तते एव, तथाऽपि तदभ्युपगम्य हेत्वन्तरमाह-ईश्वरेति, ईत बोध्यम् ।


    १ ननु करणलक्षणे कारणत्वांशेऽसाधारणत्वनिवेशेनेश्वरज्ञा-
-    नादेः कार्यमात्रं प्रतिसाधारणकारणत्वेन न तद्व्यवहरनुपपत्ति
   रित्यत आह-कार्यत्वानवच्छिन्नेति । साधारणकारणवं च-कायेत्वाव-
   च्छिन्नकार्यतानिरूपित-कारणतशालित्वम् ।


१७


प्रमाणत्वापत्तेः । एतेन[७५] ‘आमनो ज्ञानकरणत्वे इष्टापत्तिः'इति प- रास्तम् । न चऽनुभवय्याप्यधर्मावचिछन्न-प्रपावृत्ति-कार्येतानिरू- पितकारणत्वं[७६],[७७]प्रमाविभाजकधर्मावच्छिन्नकार्यतानिरूपितका- रणत्वं वा प्रमाणवघटकम्, अतो नाऽऽमनः प्रमाणत्वमिति वाच्यम्। उक्तगौरवानिवृत्तेः। [७८]घटादेः प्रमाणत्वापत्तेश्च । तस्येन्द्रियसंयो- गुरूप-व्यापारवत्त्वात् । [७९]लौकिकविषयतासम्बन्धेन प्रस्यक्षत्वाव-



  १ तव मते प्रमाणचतुष्टयत्वेन व्यवहारानुपपत्या ।

  २ नन्वत्रानुभवत्वावच्छिन्नकार्यत्वनिवेशेनैव कार्ये लिखे किमिति
  तद्व्याप्यधर्मावच्छिन्नकार्यत्वनिवेशनमिति चेन्न । अनुभवत्वावच्छि
  न्नकार्यतायां मानाभावात् । न च तुल्यन्यायेन घटत्वाद्यवच्छिन्नकार्य-
  तायामपि मानाभाव इति शङ्क्यम् । यत्र क्व चन घटानुत्पत्तै दण्डस्य
  घटकारणत्वेन दण्डाभाव एव प्रयोजक इति वक्तव्यम् । कावनुत्पत्तिं
  प्रति कारणभावस्य प्रयोजकत्वाभ्युपगमात् । तथा च दण्डत्वेन घटत्वेन
  सामान्यतः कार्यकारणभावनभ्युपगमे तद्धटं प्रति तद्दण्डस्य कारणतेति
  विशेषत एव कार्यकारणभावाभ्युपगमे ‘एतद्घटाभव एतद्दण्डाभा-
  वेन' इति शुङ्गग्राहिकतया ज्ञानं भवितुमशक्यम् । अतो दण्डत्वेन घट-
  त्वेन कार्यकारणभावः स्वीकार्यः । तेनऽत्र घटत्वेन घटानुत्पति
  र्दण्डत्वेन दण्डाभावेनेति सामान्यतो वक्तुं शक्यम् । न च तथा
  प्रकृते । अनुभवस्य चतुर्विधरूपण (प्रत्यक्षानुमानोपमानागमरूपेण) ज्ञातु-
  शक्यत्वात् । घeदनामनन्तत्वादिति । भ्रमकरणेऽतिव्याप्तिनिरासाय
-   प्रमावृत्तीति ।

  ३ ननु तथापि "नीलदण्डः पुरुषः" इत्यादिविशिष्टवैशिष्टपावग
  हिबुद्धिं प्रति विशेषणतावच्छेदकीभूत-नीलादिज्ञानस्य स्वजन्यविशे-
  षणीभूत-नीलदण्डादि ज्ञानद्वारा कारणत्वेन व्यापारवदनुभवत्वव्याप्य-
  धर्मावच्छिन्नप्रमावृत्तिकर्यतानिरूपितकारणत्वरूप-प्रमाकरणलक्षणस्य
  तत्रापि सत्त्वेनाऽतिव्याप्तिरित्यत आह-प्रमाविभाजकेत्यादि ।

  ४ ननु. व्यापारस्य तु करणलक्षणे संसर्गविधया निवेश इति
  कुतो निरुक्तातिगैरवमित्यत आह-घटादेरिति ।

  ५ घटादौ व्यापारवत्त्वं प्रदर्यासाधारणकारणत्वं तत्रैव प्रदर्श-


च्छिन्नं प्रति विषयस्वेन हेतुतया प्रत्यक्षत्वस्याऽनुभवत्वव्याप्यत्वेन, प्रमाविभाजकवेन व निरुक्तधर्मावच्छिन्नकार्यतानिरूपित-करण- तावत्त्वाञ्च ।

 ननु भवदभेमतप्रमाणस्य प्रमजनकत्वाभावात्कथं प्रमाणत्व- मिस्याशङ्क्याह । अनेनेति । अनुग्रह-[८०]सुखघटादिनिष्ठप्रतिवि-

यति-लौकिकेति । योगिनां योगजाख्यालौकिकसन्निकर्षेणाततिनागत- वस्तु प्रत्यक्षेण तेषां प्रत्यक्ष विषयस्य करणत्वाभावेन-लककांवेषय- तेत्युक्तम् । लौकिकसन्निकर्षप्रयोज्यधिषयतासम्बधेनेत्यर्थः । लौकिक- प्रत्यक्षं प्रत्येव विषयस्य कारणत्वमित्याशयः । निरुक्त–योगजाख्या- लौकिकसन्निकर्षावशिष्टेभय-सामान्यलक्षणज्ञानलक्षणरूपलौकिकस- न्निकर्षेणाऽपि प्रत्यक्षे विषयस्य न कारणत्वम् । सामान्यलक्षणस्थले सम्पूर्णघटाभावेऽपि यस्य कस्यचित् घटादेश्चक्षुरादिना सन्निकर्षेण स्व (चक्षुरादि) संयुक्त (घटादि) समवायेन घटत्वादेः प्रत्यक्षे, स्व (चक्षुरादि) सम्बद्ध (घटादि) विशेष्यकज्ञान (‘अयं घटः’ इत्याद्याका- रक) प्रकर (घटत्वादि) वत्वरूप-लमान्यलक्षणप्रत्यसस्या घटादिमात्र प्रत्यक्षं भवति-’घटाः' इत्याद्याकारकम् । एवं ज्ञानलक्षणस्थले, प्राक्- चन्दनादिगतगन्धादिप्रत्यक्षे इदनीं चक्षुरादिना चन्दनादिप्रत्यक्षे घ्राणदिना तद्गतगन्धप्रत्यक्षेऽपि चन्दनादेश्चाक्षुषादिप्रत्यक्षेण जाय- मानतदूगतगन्धादिस्मरणेन स्व (चन्दनादिसन्निकृष्टचक्षुरादि) सं-. युक्तमन: संयुक्तास्मसमवेतज्ञान (गन्धादिस्मरणादि) विषयस्वरूप-ज्ञा- नलक्षणसन्निकर्षेण चक्षुरादिना गन्धादिज्ञानं भवति–‘सुरभि चन्द- नम्’ इयाद्याकारकम् । अत्रापि चन्दनशे लौकिकचाक्षुषम्, सौ- रभ्यांशे तु-अलैकिकचाक्षुषम् , इति योजनीयम् । इत्थं चऽछौकिक- प्रत्यक्षमात्रे विषयस्य न कारणवमिति बोध्यम् ।



  १ सुखपदेनाऽऽन्तरविषया ज्ञानेच्छादयः, घटपदेन तु बाह्य वि-
  षयाः पटादयो बोध्याः । तथा च विषयकारेण परिणत या ‘घट' इत्य-
  द्याकारकवृत्त्यात्मिका बुद्धिः, तन्निष्ठत्वेन दर्पणनिष्ठतया दर्पणनिष्ठमुखप्र-
  तिबिम्बस्य दर्पणगमालिन्यदिविशिष्टतया भासेन मुखातदूतस्वप्रति-
  बिम्बयोधाऽविवेकेनेव बुद्धिनिष्ठचेतनप्रतिबिम्बस्य बुद्धिवृत्तिविशिष्ट
  तया भासेन चेतनबुद्धिगतस्वप्रतिबिम्बयेश्वऽविवेकेन ‘में मुखं मलिनम्’


बोधः। बुद्धितत्त्वं हि प्राकृतत्वादचेतनमिति तदीयोऽध्यव- सायोऽप्यचेतनो घटादिवत् । एवं हि बुद्धितत्वस्य सुखद- योऽपि परिणामभेदा अचेतनाः पुरुषस्तु-सुखाद्यननुषङ्गी चेतनः। सोऽयं बु द्धितत्त्ववर्तिना ज्ञाननुस्ख़ादिना तत्प्रति- बिम्बितस्तच्छयापत्या ज्ञानसुखादिमानिव भवतीति

म्बद्वारा ‘तज्ज्ञानवान्नहम्’इत्याद्यभिमानः । ‘ज्ञानसुखादिमानिव भवतीति चेतनोऽनुगृह्यते’ इत्यग्रिमग्रन्थेन. तथैव व्युत्पादनात् । अभिमानस्य भ्रमरूपत्वत्तथैव दोष[८१]इति चेन्न । प्रतिबिम्बरूपेण विषयोपरक्तबुद्धिवृत्तेस्तत्र[८२] सत्त्वात् । चिच्छक्तेर्ज्ञानद्यभिमानो- पपादनार्थं[८३] ज्ञानादेरन्यनिष्ठत्वमाह । सोयं बुद्धितत्ववर्त्ति नेति । ‘ज्ञानसुखादिना इत्यस्य ‘ज्ञानसुखादिनिव भव

इति वत् ‘अइ शनबान्' इति भ्रम इत्यर्थः । शनं–वृत्तिरिति चोक्तं मूले (पृ० १२८ पं० २) ।



  १ भवदभिमतप्रमाया अभिमानत्मकतया भ्रमरूपत्वात्तक
  रणे प्रमाणत्वाभावः । प्रमाणशब्दस्य प्रमाकरणत्वर्थकत्वादित्यर्थः ।

  २ चेतने । ननु प्रतिबिम्बरूपेण चेतने बुद्धिवृत्तेः सर्वेपि प्रति-
  बिम्बस्य तुच्छतया तां प्रमात्वेन न वक्तुमर्हसीतिचेत्सत्यम् । परं च
  सिकन्ते तस्या भ्रमरूपत्वेऽपि शास्त्रस्य लोकमात्रव्युत्पादकतया लोक
  तस्तस्याः प्रमात्वात् । ननु तर्हि लोके भ्रमत्वं कस्येति चेच्छृणु,-शुके
  श्चक्षुषा सन्निकर्षे तन्न तद्गतचाकचिक्यादि सादृश्यदर्शनेन जायमानरजत-
  स्मरणेन बुद्धिरेव रजताकारेण परिणमते, तदा तत्परिणामशुक्त्योरविवे-
  को यः , स एव वृत्तिविशेषो भ्रमः, न तु भेदेन ज्ञानाभावमात्रम् । अत्रा
  ऽभावस्याऽधिकरणावस्थाविशेषरूपवत् । प्रवृत्तिनिवृत्योज्ञानपूर्वक-
  त्वेनाऽनुभवसिद्धत्वञ्च । भ्रमस्याऽभावमात्रत्वे शुक्तिरजतादिस्थलेऽनु
  भवसिद्धप्रवृत्याद्यनुपपत्तेः ।

  ३ ज्ञानवत्तया भ्रमोपपादनार्थमित्यर्थः।


चेतनोऽनुगृह्यते । चितिच्छायापत्त्या चऽचेतनाऽपि बुद्धि- स्तदध्यवसायश्च चेतन इव भवतीति । तथा च वक्ष्यति-

ति’इत्यत्रऽन्वयः। तत्प्रतिबिम्बितः—बुद्धिप्रतिबिम्बितः । तच्छायापत्त्या–बुद्ध्यानुकारतया, तत्प्रतिविम्बाभिमानेन वा । ज्ञानेति । दर्पणान्तर्गतमुखप्रतिबिम्बाविवेकेन दर्पणान्तर्गतमालि न्याद्यभिमानवत् बुयन्तर्गतप्रतिबिम्बाविवेकेन तदन्तर्गतज्ञानाद्य- भिमान इत्यर्थः । [८४]यद्वा (चेतनगत-) बुद्धितद्वृत्तिप्रतिबिम्व एव फलं (चेतन गत-)बुद्धिप्रतिविम्वरूपेण, स्वात्मगतं बुद्धितद्वृत्तिप्रति- बिम्बं च प्रकाशयति, अतस्तदाश्रयत्वेन प्रमाता, प्रकाशकत्वेन च सक्षी, इति व्यवह्रियते इति । नन्वचेतनबुद्धिवृत्तेः कथं विषयप्रकाश- कत्वमित्याशङ्क्याह । चितीति । तथा च चैतन्यप्रतिबिम्बाश्रयत- या(बुद्धितदध्यवसाययोः) द्वयोश्चैतैन्यवदवभास इत्यर्थः ।।



     १ ननु कृत्याश्रयत्वं कर्तृस्वमितिवत् प्रमातृवं खलु प्रमाश्रयत्व
  मिति लोकतः सिद्धम् । पूर्वोक्त्या तु बुद्धेरेव प्रमाश्रयत्वमायातम् ।
  बुद्धन्तर्गतचित्प्रतिबिम्बाविवेकस्यैव बुध्न्तर्गतज्ञानादेश्चिन्निष्ठत्वेनाभि
  मानकारणत्वोक्तत्वात् ताद्दशाभिमानवेशषस्यैव च प्रमात्वेनोक्तत्वे
  नाऽथीकारेण परेणतया बुद्धिवृत्त्या स्वाकारतामापद्यमानस्य
  बुद्धिदर्पणे प्रतिबिम्बतस्येव चतनस्य प्रमात्वनाभिमतत्वात्
,   प्रतिबिम्बितश्चेतनस्य तु बुद्धिधर्मत्वादित्यतअह--यद्वेति ।
  अस्मिन् पक्षे ‘चतनशक्तेरनुग्रहः’ इत्यस्य स्वनिष्ठतया बुद्धिप्रतिबि-
  म्बावसरप्रदानेनाऽनुकम्पेत्यर्थः । तथा ‘तप्रतिबिम्बितः' इत्यस्य च
  तैन (ज्ञानसुखादिना) प्रतिबिम्बित इत्यर्थः। ‘ज्ञानसुखदिन'इति पदस्य
  च वेतन इत्यनेनान्वयः । अत्र फलस्य जन्यताप्रदर्शनाय-बुद्धिप्रति-
  बिम्बरूपेणेत्युक्तम । तेन चितो नित्यत्वेऽपि न क्षतिः । इदं त्ववधेयम्-
  पक्षद्वयेपि ज्ञानाकार उक्तः (पृ० १९ । १२० पं० २८ । २३) । तत्र सिद्धा-
  न्तिपक्षे ”अयं घट” इत्यस्यैव फलत्वेन परमार्थतोपि प्रमात्वमेव, ‘घटज्ञा-
  नवन्' इत्यनुव्यवसायस्य तु भ्रमत्वम् । लकेत्तरीत्या प्रमात्वमेवेति ।



 तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
 गुणकर्तृत्वेऽपि तथा कर्त्तेव भवत्युदासीनः ॥


    इति। (करिका २०)


 'चिति’ इति सप्तम्यन्तमिति केचित् । अयं प्रघट्टकार्यः– प्रमा नम-बुद्धिगतवस्त्ववधारणं, स च यदि पुरुषमात्रनिष्ठा तद वि- षयेन्द्रियसन्निकर्षे सति शरीरमध्यस्थबुद्धेस्तद्देशमारभ्य तत्तद्वि- षयाकारतया जायमानेन्द्रियाश्रितवृत्तिरेव प्रमाणम्=इन्द्रियार्थ- सन्निकर्षजन्याकाराश्रय इन्द्रियाश्रितवृत्तिः प्रत्यक्षप्रमाणमिति । निष्कर्षः । प्रददोपप्रकाशवत् वृत्तेस्सन्निकर्षाजन्यत्वादाकारग्र- हण[८५][८६]चैतन्यप्रकाशस्य नित्यत्वेऽपि तत्तदर्थोपरक्तवृत्ति- मत्त्वेन चैतन्यप्रकाशः फलमित्युक्तं प्राक् (पृ० ११९ पं० १३) । ननु लाघवात्स्मृतिव्यावृत्तं-तद्वतेि तत्प्रकारकानुभवत्वरूपं प्रमात्वं वाच्यम् । तथा हि[८७]—दिनादिभेदेन पुरुषभेदेन च जायमानस्य घटादिज्ञानस्य[८८] नानात्वात्तस्य च दिनान्तरावगत-



     १ एतश्शोक्तम् पृ० १२६ पं० ११)।

  २ ननु अवधारणस्य प्रकाशरूपत्वेन चिद्भिन्नस्य च प्रकृत्यु
  पादनकतया जडत्वेनाऽप्रकाशरूपतय चितिरेव फलमित्यापतितम् ।   तथा च कथं तस्य नित्यत्वेन फलत्वमित्यत आह-चैतन्येति ।

  ३ असन्दिग्धाविपरीतानधिगतविषयकचित्तवृत्तित्वरूप-स्मृति
  व्यावृत्ते प्रमात्वे, तद्वति तत्प्रकारकानुभवत्वरूप-प्रमात्वापेक्षया मह-
  द्गौरवमिति गौरवमुखेन स्वभिमतलक्षणे लाघवमेवोपपादयतीत्यर्थः ।
  अत्रासन्दिग्धेत्यादिप्रमालक्षणे स्मृतिव्यावृत्तयेऽनधिगतत्वं विषये विशे
  षणम्, स्मृतिविषये स्वकारणीभूतानुभवेनाऽधिगतत्ववात् । तद्धतीत्यादि-
  लक्षणं त्वनुभवत्वमेव स्मृतिव्यावर्त्तनाय, अनुभवत्वस्य स्मृतावभावात् ।

  ४ घटाद्यनुभवस्येत्यर्थः ।


घटादिविषयकत्वेन[८९]ऽव्याप्तिवारणायाऽनधिगतत्वमनुभवत्वेना जन्यर्त्वं वक्तव्यम्[९०] । तद्धटकीभूत-जन्यत्वं प्रागभावप्रतियोगित्वं, कालिकसम्बन्धेन घटवदिमत्त्वं[९१] वेति विनिगमनाविरहेणोभय-



  १ असन्दिग्धेत्यादिप्रमलक्षणघटकीभूत-अनधिगतविषयकत्वस्य
  चाऽसत्त्वेनेति शेषः ।

  २ दिनान्तरावगतघटादिविषयकानुभवस्य दिनान्तरीयानुभवा-
  जन्यत्वेन स्मृतेस्तु संस्कारद्वाराऽनुभवजन्यस्वेन च नाऽव्याप्तिरति
  व्याप्तिश्चेति भावः । तथा च-असन्दिग्धविपरीतविषयकाऽनुभवाज-
  न्या चित्तवृत्तिः प्रमेति निष्कर्षः । अत्राप्यनुभवाजन्यत्वं संस्कारमा-
  त्रद्वारा बोध्यम् । तेन धूमदिप्रत्यक्षात्मकानुभवेन घह्नयनुमित्याद्यात्म
  कानुभवस्य, संस्कारेण च "सोयं देवदतः " इत्यादिप्रत्यभिज्ञादेः स-
  त्त्वेऽपि न क्षतिः । अनुमित्यादौ संस्कारस्याऽकरणत्वात् । प्रत्य-
  भिज्ञादेस्तु संस्कारमात्रस्याकारणत्वात् । इन्द्रिय सन्निकर्षादेरपि का
  रणतयाऽऽवश्यकत्वात् ।

  ३ इदमत्राऽऽकूतम्-केचन क्लृप्तपदर्थातिरिक्ततया नित्यमेकं
  कालमभ्युपगच्छन्ति, अथ च ‘‘इदानीं (अस्मिन् काले) घटे ने
  तदानीम् (तस्मिन् काले)” इत्यादिप्रतीत्या ‘अस्ति’ ‘नस्ति' इति
  विधिनिषेधयोरेकत्र विरोधेन कञ्चनोपपार्धि स्वीकुर्वन्ति, तथापि स-
  उपाधिर्यदि नित्यः स्यात्तर्हि. नित्यस्य सर्वदा सत्वेन तदुपहितकाले
  च भेदभावेन विधिनिषेधयोरेकत्र प्रसङ्गः स्यात्, अतो हेतोर्जन्यमे-
  वोप।धिः । तथा च जन्यस्य सर्वदाऽसत्वेन तत्त्ज्जन्यस्य च भेदेन जा
  यमानतत्तदुपहितकलभेदेन न तयोः प्रसङ्गः इति च वदन्ति । सङ्ख्य
  राद्धान्ते अत्र लघवात् जया एव क्लृप्तपदार्थाः कालः। ननु तर्हि ‘घटो
  द्वयम्' इत्यादिवत् ’घटः कलः’ इति कथं न प्रतीतिः अपि तु ‘घट
  स्य कालः इत्यादिरेव घटकालयोर्भेदविषयकप्रतीतिरितिचेन्न । 'घ-
  टस्य मृत्तिका’ इत्यादिवत् सा भेदप्रतीतिर्भ्रन्ता । शास्त्रज्ञस्य तु न
  भवति, तर्हि साऽपि न भवति तस्येति समः समधिः । तथा च घ
  टादीनामेव कालत्वे सिद्धे ‘इदानीं पटः इत्यादिप्रतीतौ य आधारा-
  धेयभवोऽवभासते, तन्नियामकः कश्चन संसर्गः स्वीकार्यः । स सम्ब
  न्धः संयोगो न भवितुमर्हति । घटेन पटस्य संयोगाभावेऽपि ‘अस्मिन्


निवेशे[९२] महद्गौरवमिति चेन्न । रङ्गरजतयोः "इमे रजतरङ्गे" इत्यांशि- कभ्रमे[९३] कालिकादिसम्बन्धेनऽबाधिते तत्तदतिरिक्तसम्बन्धेन च बाधितेऽतिव्याप्तिवारणाय ‘तत्सम्बन्धेन तद्वन्निष्ठविशेष्यतानिरूपि- ततत्सम्बन्धावच्छिन्नतत्प्रकारताशालित्वं तेन सम्बन्धेन तत्प्रमात्व- म्' इत्युक्ते प्रकारतानवगाहि "प्रकृष्टप्रकाशश्चद्रः इत्यादिप्रमायामव्या- तेः । न च तादृशप्रमैवाऽसिद्धेति वाच्यम् । तात्पर्येबलाच्छाब्दात्मक- तादृशप्रमाया अन्यत्र व्युत्पादनात्[९४]। लौकायतिकेन चार्वाकवि- शेषेण नानुमानं प्रमाणम्' इति वदता किम् ? अनुमानेऽप्रामाणेऽप्रामा- ण्यमनुमितिप्रयोजकतावच्छेदकीभूतव्याप्तिनिश्चयत्वरूपशून्यत्वालिङ्ग- कानुमानेन तु साधयितुं न शक्यते, तेनाऽनुमानानभ्युपगमात् । ‘नानु- मानं प्रमाणम्’ इति वाक्येन स्वं प्रति, परं प्रति व साध्यते ? आद्ये वा-


काले पटः’ इत्यादिप्रतीतेः एवं क्षणरूप-क्रियया घटस्य कदाचिदपि- संयोगासम्भवे 'अस्मिन् क्षणे पटः’ इत्यादिप्रतीतेश्च सत्त्वात् । तस्मा- त्स संसर्गः स्वरूपविशेषः कलिकाख्यो विलक्षणः सिद्धः । तेन संस- र्गेण जन्य पदार्थे एवं सर्वं विद्यते, न नित्ये इति सूष्ठूक्तं -कालिकस- स्म्बन्धेन घटत्वदिमत्वम् (जन्यत्वम् ) ’ इति । उपाधिरूप एव काल- इति वक्ष्यते मूले (का० ३३) ‘कलश्च वैशिषिकमते’ इत्यादिना ।



  १ एकत्र पक्षपातिनी युक्तिर्विनिगमना, तस्या अभावेन प्राग-
  भावप्रतियोगित्वेसति कालिकसम्बन्धेन घटत्वादिमत्वरूप-जन्यत्व-
  स्याऽसन्दिग्धेत्यादिलक्षणे निवेशे इत्यर्थः।

  २ रजतत्वेन रङ्गावगाहिनि रङ्गस्वेन रजतावगाहिनि च ज्ञानं इत्यर्थः ।

  ३ केनचित् व्यक्तितश्चन्द्रो ज्ञातः परञ्च न ज्ञातः स्वरूपतः
  तेन कञ्चित् प्रति पृष्टम्-कश्चन्द्रः ? इति । तदा तेन ‘अयं स्वरूपतो
  जानातु’ इतीच्छयोक्तम्-प्रकृष्टप्रकाशश्चद्रः (प्रकृष्ट-विलक्षणो यः प्र-
  काशःतदभिज्ञश्चन्द्रः) इति । अत्र निष्प्रकारक एव प्रमात्मकशब्द-
  बोधो भवतीति वेदान्तदर्शनेऽभिधानादिश्यर्थः।


 अध्यवसायग्रहणेन संशयं व्यवच्छिनत्ति । संशय- स्याऽनवस्थितग्रहणेनाऽनिश्चितरूपत्वात् निश्चयोऽध्यव- साय इति चाऽनर्थान्तरम् । विषयग्रहणेन ऽसद्विषयं विप- येयमपाकरोति । प्रतिग्रहणेन चेन्द्रियार्थसन्निकर्षसूचनाद- नुमानस्मृत्यादयः पराकृत भयन्ति | तदेवं समानासमा- नजातीयव्यवच्छेदकत्वात् ‘प्रतिविषयाध्यवसायः इति दृष्टस्य सम्पूर्णं लक्षणम् । तन्त्रान्तरे तैर्थिकानां लक्षणा- न्तराणि न दूषितानि, विस्तरभयदिति ।

 नाऽनुमनं प्रमाणमिति वदता लौकायतिकेनाऽप्रति- पन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत ? न च पुरूषान्तरत अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रस्पक्षेण प्रतिपत्तुम् । नापि मानान्तरेण, अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्यासस्तु यं कश्चित्पुरुषं प्रति प्रवर्तमानोऽनवधेयवचनतया प्रेक्षाव- द्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाऽज्ञानादयः परपुरुषवर्त्तिनो- Sभिप्रायभेदाद्वचनभेदाद्वा लिङ्गादनुमातव्याः, इत्यकामे- नाप्यनुमानं प्रमाणमभ्युपेयम् । तत्र प्रत्यक्षकार्यत्वादनु- मानं प्रत्यक्षानन्तरं लक्षणीयम् । तत्राSपि सामन्यलक्षण- पूर्वकत्वाद्विशेषलक्षणस्य, इत्यनुमानसामान्यं तावल्लक्ष- याति । लिङ्गलिङ्गियूर्वकमिति । लिङ्ग-व्याप्यम् । लिङ्गि-




क्यवैयर्थ्यपत्तेः। अन्त्येऽप्यनुमानप्रम्ण्यनभ्युपगन्तरं प्रति वाक्य- वैयर्थानुद्धारः। अप्रतिपन्नसन्दिग्धविपर्यस्तान्यतमं प्रति साधनं तु न सम्भवतीत्याह । नानुमानमित्यादिना । अनवधृनाज्ञानादिकेना ऽन्यं प्रति साधने दोषमाह । अनवधृतेत्यादि । ननु व्यप्यं-वया- प्याश्रयः। व्याप्तिश्च-स्तवाभाविकः सम्बन्धः । तद्ग्रहश्चोपाधिविरह- ज्ञानात् । उपधिश्च-प्रकृतसाध्यव्यापकप्रकृतसाधनाव्यापकः। तस्य


१८


व्यापकम् । शङ्कित समारोपितोपधिनिराकारण न वस्तु- स्वभावप्रतिबद्धं व्याप्यम् । येन च प्रतिबद्धं, तत् व्यापकम् ।

च सद्धेताघसम्भवे कथं तद्विरहग्रहः? इत्याशङ्क्याऽऽह । शङ्कितेति। पक्षेतरत्वादिरित्यर्थः । स्वभावप्रतिबद्धमिति । स्वाभाविक-- साध्यसामानाधिकरण्यरूप-व्याप्त्याश्रय इत्यर्थः । व्यभिचारिणि तु साध्यसामानाधिकरण्यस्यौपाधिकत्वान्नातिव्याप्तिरिति भावः । येन च प्रतिबद्धमिति । व्याप्तिनिरूपकत्वं व्यापकत्व- | मित्यर्थः । न च 'प्रकृतसाध्यव्यापकत्वे सति प्रकृतसाधना- व्यापकत्वमुपाधित्वं न सम्भवति, ‘स श्यामो मित्रातनयत्वात्’ इत्यत्र साधनावच्छिन्नसाध्यव्यापके शाकपाकजत्वादौ, 'वायुः प्रत्यक्षो मूर्त्तत्वात्’ इत्यत्र पक्षधर्मावच्छिन्नसाध्यव्यापके उद्भूतरूपादौ चा- ऽव्यतेः, तयोः काकादिसधारणश्यामत्वाऽऽत्मादिसधारण- प्रत्यक्षत्वयोरव्यापकत्वात्, [९५]पक्षेतरत्वेऽतिव्याप्तेश्चेति वाच्यम् । यत्किञ्चिद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति यत्किञ्चिद्धर्मावच्छिन्न- साधनाव्यापकत्वस्य विवक्षितत्वात् । यत्किञ्चिद्धर्मावच्छिन्नत्वं च- सामानाधिकरण्यसम्बन्धेन तद्विशिष्टत्वम् । ‘धूमवान् वन्हे’ इत्यादौ च तादृशो धर्मो द्रव्यत्वादिकमेव, तद्धर्मावच्छिन्नसाध्यव्यापकत्वादा- र्द्रेन्धनादौ लक्षणसमन्वयः । 'स ३यामः’ ’वायुः प्रत्यक्षः’ इत्यत्र च तादृशो धर्मः-साधनं-मित्रातनयत्वं पक्षधर्मीबहिर्द्रव्यत्वं (आत्म- भिन्न द्रव्यत्वं) च, तदवच्छिन्नसाध्यव्यापकत्वात् शाकपाकजत्वो- द्भूतरूपयोर्लक्षणसम्भवान्नाव्याप्तिः। अत एव [९६]पक्षेतरत्वादावपि



  १ 'पर्वतो वह्निमान् धूमवत्वात्’ इत्यादिसद्धेतुस्थल इति शेषः ।

  २ उपधिलक्षणघटकीमृत-- साध्यांशे साधनांशे च यत्किञ्चिद्धर्मावच्छिन्नत्वस्य निवेशादेवेत्यर्थः ।


नातिव्याप्तिः। तादृशपर्वतस्वादिधर्मवच्छिन्नसाध्याव्यापकत्वात्[९७]



 (१) पक्षेतरत्वे केवलवह्न्यादिरूप-साध्यव्यपकन्वस्य सात्वेऽपि स्वा- धिकरणवृत्तित्वसम्बन्धेन यत्किञ्चित्दर्मात्मक-पर्वतात्वादिविशिष्टवह्न्या- दिरूप-साध्यव्यापकत्वाभावदित्यर्थः । पक्षेतरत्वभाववति पर्वतादौ- पर्र्वतत्वाद्यवच्छिन्नवह्निसत्त्वात् । ननु अनुमानात्प्राक् साध्यज्ञान- स्य साध्यसन्देहस्य वा सत्तवेन कथं पर्वतादौ सध्यज्ञानम् । न च सन्देहस्यापि ज्ञानात्मकतया कचिदनुमानात्प्राक् साध्यसन्देह स्यापि सम्भवेन तत्र वह्न्यादिसन्देहरूप-ज्ञानं विद्यते एवेति वाच्यम् । तथापि साध्यसन्देहेन सन्दिग्धोपाधित्वप्रसङ्गात् । नचेष्टपत्तिः । हेतो सन्दिग्धेपाधिकत्वस्यापि ’अनुमानप्रामण्य- विघटकत्वेन सद्धेतुकानुमानस्यप्यप्रमण्यापत्तेः इतेि चेन्न । पक्षे प्रत्यक्षादिना स्त्याद्ध्यनिश्चये सत्यापि अनुमित्सयाऽनुमितेरभ्युपगमात् । तथा चोक्तम्-प्रत्यक्षपरिकलितमप्यनुमानेन बुभुत्सन्ते तर्क्करसिका’ इति वाचस्पतिमिश्रैः । अत्रापि प्रत्यक्षपदमनुमनाद्युपलक्षकं बो- ध्यम् । अत एव साध्यसन्देहः सिध्याभावो वा पक्षतेतेि पक्षद्वयं वि- दूष्य सिषाधयिषाविरहविशिष्टसिध्यभावः पक्षतेति लक्षणं कृतम् । तथा च । साध्यनिश्चये, यत्किञ्चिद्धर्मपदेन पर्वतत्वादिधर्मोपि ग्रहीतुं शक्यः । तस्याऽज्ञाने सन्देहे व पक्षेतरत्वादार्वा । यत्किश्चि- द्धर्ममात्रस्य विवक्षितत्वेन तस्यापि ग्राह्यत्वात् । तस्य च स्वावच्छिन्न- साधनव्यापकत्वाभावात् ।

 इदमत्र बोध्यम्-बाधोन्नीतपक्षकस्थले-‘वन्हिरनुष्णः कृतकत्वा- त्’ इत्यादौ पक्षेतरत्वस्यापि उपाधित्वेनाभ्युपगमेन तत्राव्याप्तिवार- णय-यत्किञ्चद्धमेयदेन बाधोन्नीतपक्षाव्यावर्त्तकधर्मो बोध्यः । तेन तत्र वन्हिरूप-पक्षस्य साध्याभाववत्तया निश्चितत्वेन वन्हेर्बांधो- न्नीतपक्षतया तदितरत्वस्य पक्षव्यावर्तकतया नाऽव्याप्तिरिति । ननु अनुमानात्प्राक् तस्य सन्देहः, निश्चय, ज्ञानाभावो वाऽस्तु, किन्तेन ? सद्धेतुकस्थलीयपक्षे वस्तुतः साध्यस्य सत्त्वेन न पक्षेतरत्वस्य चाऽसत्वे- न पक्षेतरत्वे साध्यव्यापकत्वमेव नास्तीति तत्रातिव्याप्तिनिरासाय कि- मर्थं प्रयासः क्रियते, न हि स्वभावसिद्धयोर्व्याप्यव्यापकयोर्व्याप्यव्या- पकभावः कस्यचिदज्ञानेन नश्येत् । अन्यथा स्वभावसिद्धमारका- त्मकस्य गरलादेः प्राणवियोजकत्वमेव कस्यचिदज्ञानेन न स्यादिति साधु मतमायुष्मतम् , इति चेन्न । न हि मया तयोर्व्याप्यव्यापक-


न चैवमपि “वह्निमान्धूमात्' इत्यादौ तादृशधर्ममहानसत्वाद्यवच्छिन्न- साध्यव्यापके व्यञ्जनवत्त्वादवतिव्याप्तिरिति वाच्यम् । यद्धर्माव- च्छिनसाध्यव्यापकत्वं, तद्धर्मा वांछन्नसाधनाव्यापकत्वस्य विव क्षित्वात् । साध्यविरुद्धजलवादेरुपधित्ववारणाय सत्यन्तनिवेशः ।

 दीधितिकृतस्तु-साध्यासमानाधिकरणधर्मस्य, साध्यव्याप काभावस्य[९८] वाऽधिकरणं यत् साधनाधिकरणं, तनिष्ठ- प्रतियोगितावच्छेदकावच्छिन्नप्रतियोगिव्यधिकरणात्यन्ताभावप्रति- योगितावच्छेदकसाध्यममनाधिकरणवृत्तिधर्मवत्वमुपाधित्वम् । भ- वति च धूपासमानाधिकरणायोगोलकत्वादेः, श्यामत्वा समानाधि- करणगौरमित्रातनयत्वादेः प्र्रत्यक्षत्वासमानाधिकरणपरमाणुत्वस्य चाधिकरणं स धनाधिकरणम्-अयगोलकगौरमित्रातनयपरमा- ण्वादो, तन्निष्ठस्य प्रतियोगितावच्छेदकविशिष्टप्रतियोगिव्यधिकरणा- र्द्रेन्धनशाकपाकजत्वोद्भूतरूपादेरभावस्य प्रतियोगितावच्छेदकं सा- ध्यसमानधिकरणवृत्ति यत् अर्द्रेन्धनत्वादिकं, तदादाय सर्वत्र लक्षण- समन्वयः। सद्धेतौ व्यञ्जनवत्त्वादावतिप्रसङ्गवारणाय -साध्यासमा- नाधिकरणधर्माधिकरणेति साधनाधिकरणविशेषणम्। न च तद्वारणा- य-साध्यानधिकरणसाधनाधिकरणमित्येव निवेदयमिति वाच्यम् ।

भावोऽज्ञानेन भज्यते, अपि । तु साध्यसाधकतया प्रयुक्तहेतुनिष्ठा- नुमेितिप्रमण्याभावसम्पादकसोपाधिकत्वज्ञानस्योपाधिज्ञानाधीनतया उपाधेश्च साध्यव्यापकाद्यात्मकतयेपाधज्ञानस्य साध्यव्यापकत्वा- दिज्ञानाधीनत्वेन च ‘पर्वतो वह्निमान् धूमात्’ इत्यादौ पक्षेतरत्वस्य च साध्वव्यापकत्वभावज्ञानप्रदर्शनद्वारा परस्य-पक्षेतरत्वे उपधित्व- शङ्का वादिन निवर्त्यत इति प्रतिपाद्यत इति । इत्थञ्च बाधो- न्नीत-पक्षव्यावर्तकयद्धर्भावच्छिन्नप्रकृतसाध्यव्यापकत्वं, तद्धर्माधच्छि- न्नसाधनाव्यापकत्वमुपधत्वमिति निष्कर्षः । यत्तत्पदस्य फलमत्रैव ग्रन्थकृतैव वक्ष्यते ।



  १ साध्यस्य व्यापकः, तस्याऽभावस्तस्येत्यर्थः । प्रकृते आर्द्र-
  न्धनाद्यभावस्तादृशोऽभावः ।


उपाधिलक्षणज्ञानस्यैव हेतौ व्यभिचरविषयकत्या ! उपाधिज्ञानान-- न्तरभुपाधेन व्यभिचरनुमाननर्थक्यापत्तेः । साधनपदं साधन- तावच्छेदकावच्छिन्नपरम् । तन ‘द्रव्यं गुणकमन्यत्वविशिष्टसत्त्वा- त्' इत्यादौ घटादौ नाऽतिप्रसङ्गः। न वा ‘द्रव्यं गुणान्यवे सति । सत्त्वात्' इत्यादौ साधनव्यापकगुणान्यवादौ। 'धूमवान्वह्ने’ "पृथिवी द्रव्यत्वात्’ इत्यादौ संयोगादिवारणाय—प्रतियोगिव्यधिकरणत्व- मत्यन्ताभावविशेषणम् । ‘द्रव्यं जतेः’ इत्यादौ विशिष्टसत्त्वादिस- ङ्थहाय-प्रतियोगितावच्छेदकावच्छिन्नेति । न च साधनवति य- त्किञ्चिप्रतियोगितावच्छेदकावच्छिन्नसत्त्वेनोक्तभावप्रसिद्धवार- णाय-साधनवति स्वप्रतियोगितावच्छेदकावच्छिन्नानाधिकरण- त्वनिवेशावश्यकत्ववे तत्तदुपाध्य भावस्य स्वपदनोपदानात तदन- नुगमेन सकलोपाधिसाधारणमीदृशमपि लक्षणं न । सम्भवतीति वाच्यम् । साधनवन्निष्ठभेदप्रतियोगितावच्छेदकावच्छिन्नत्वेन प्र- तियोगीितानामनुगमसम्भवान् । धूमादिसाध्यकासद्धेतौ ह्रदत्वादि- वारणाय-साध्यसमानाधिकरणेत्यादि । न च तद्वारणाय–सा- ध्यसामानाधिकरण्यमेव निवेश्यमिति वाच्यम् । साध्यासमान- धिकरणार्द्रेन्धनाद्यसग्ङ्ग्राहापत्तेः । न चैवमपि जलवृत्तित्वविशिष्टद्रव्य- त्वादावतिप्रसङ्गः,स्वविष्टाधिकरणसाध्याधिकरणकत्वेन चरम- धर्मविशेषणे स्ववाननुगमेन । सकलोपाधिसाधारण्यानिर्वाहादिति वाच्यम् । साध्यवन्निष्ठाधिकरणतानिरूपकतावच्छेदकस्व स्य विवक्ष- णीयवत् । तथा च लघीयसा साध्यसमानाधिकरणेत्यादि- विशेषणेनैव पर्यवसितसाध्यव्यापकविशेषणेन साध्यविरुद्धजलत्वा- देर्वारणे तदनिवेशेन,यत्तत्त्वानिवेशेन चऽस्मिन्मते लाघवमिस्याहुः तन्न । साध्यासमानाधिकरणधर्मनिवेशपक्षे तुल्यत्वे, सध्यव्याप- काभावपक्षे अभावाधिक्येन गौरवात् । प्रार्थानुमानस्थळे उपा- घिघटकसध्यव्यभिचारपर्यवसिततादृशसधनोद्बावनेनैव कृतकृत्य


तायामुपाध्युद्भावनवैर्थ्यापत्तेश्च । सधनवानिष्ठभेदप्रतियोगिताव- च्छेदकीभूतो यो धर्मः, तद्धर्मावच्छिन्नप्रतियोगिव्यधिकरणाभाव- निवेशेन यत्तत्त्वनिबंशप्तत्त्वाच्च । सवावच्छिन्नसाध्यव्यापकत्वस्वाव- च्छिन्नसाधनाव्यापकत्वोभयसम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वप्नुपा- । धित्वमित्यनुगमस्य पूर्वमतेऽपि सम्भवाञ्च ।

 अन्ये तु स्वानाधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यः व्यापकत्वमुपाधित्वम् म् । स्वपदं लक्ष्यपरम् । अत्र च यत्तत्वानिवेशेन साधनाव्यापकत्वनिवेशेन च लाघवम् ।'धूमत्वान् वन्हेः’ इत्यादौ म- हीनसयोगोलकान्यतरत्वादिरूप-तादृशधर्मवच्छिन्नसाध्यव्यापक- त्वादार्द्रेन्धनादौ लक्षणसमन्वयः । सद्धेतौ तु व्यञ्जनवत्त्वादौ तादृ- शधर्मावच्छिन्नसाध्यव्यापकत्वाभावान्नऽतिप्रसङ्गः। न चाऽत्र स्व- त्त्वाननुगमेन लक्षणाननुगम इति वाच्यम् । स्वावच्छिन्नसाध्यव्याप- कत्वस्याधिकरणसाधनधिकरणनिष्ठाभावप्रतियोग्यधिकरणतानि- रूपकत्वोभयसम्बन्धेन किञ्चिद्धर्मविशिष्टत्वमुपाधित्वम्.। .स्वपदं धर्मपरम् , इति निष्कर्षादित्याहुः, तन्न । स्वानाधिकरणसाधनाधि- करणकत्वरूप-साधनाव्यापकत्वस्य शब्द भङ्गया-निवेशेन लाघवा सम्भवात् ।

 परे तु–यद्धर्मावच्छिन्नप्रतियोगिताकाभावाधिकरणं साधन- तावच्छदकावच्छिनधिकरणं साध्यतावच्१छेदकावच्छिन्न साध्याभा- वाधिकरणं, तद्धर्मावच्छिन्नत्वमुपाधिवम् । सधनतावच्छेदकावच्छि- न्नत्वनिवेशात् ‘द्रव्यं विशिष्टसत्त्वात् इत्यदौ विशिष्टस्याऽनतिरिक्त- त्वेऽपि गुणवत्त्वादौ नातिव्याप्तिः । महानसत्वाद्यभावाधिकरणस्य- जलह्राददेः साध्याभावाधिकरणत्वेन सदैतौ तत्राऽतिव्याप्तिवारणा- य-साधनेति । महानसाद्यभावाधिकरणस्य-पर्वतादेः साधनाधि करणत्वेन सद्धेतौ तत्राऽतिव्यप्तिवारणाय-साध्येत्यादि । उभयाभा- वमादय तत्राऽतिव्याप्तिवारणाय-साध्यतावच्छेदकनिवेशः । नचैव


मपि 'द्रव्यत्वाद्यभाववान् प्रमेयवत्’ इत्यादों माधनव्यापकसंयोगा भावादावतिव्याप्तिः, संयोगाभावभावस्याधिकरणे साधनवति द्रव्ये द्रव्यस्वभावाभावस्य सत्त्वादिति वाच्यम् । यद्धर्मावच्छिन्नेत्यत्र निविष्टाधिकरणपदेन निरवच्छिन्नाधिकरणताश्रयस्य विवक्षितवा- त् । न चैवं ‘धूमवान् वन्हे:’ इत्यादौ ह्रदत्वाद्यभावाधिकरणेऽयो- गोलकादौ धूमधभावमत्त्वेन ह्रदत्वादावतिव्याप्तिरिति वच्यम् । साध्यसमानाधिकरणवृत्तित्वेन धर्मस्य विशेषणीयत्वात् । न च ह्रदवृत्तित्वविशिष्टद्रव्यत्वेऽतिव्याप्तिरिति वाच्यम् । साध्यसमाना- धिकरणवृत्तित्वंपदस्थ-स्वविशिष्टानधिकरणसाध्याधिकरणकं य- द्यत्स्वं, तत्तद्भिन्नत्वपरत्वात् । अत्र नञ्द्वयोपादानान्न महान्- सवृत्तित्वविशिष्टद्रव्यत्वादेरुपाधित्वापत्तिरित्याहुः ।

 ननु उपाधेर्दूपकत्वं स्वव्यतिरेकालिङ्कपक्षविशेष्यकसध्या भावानुमितिप्रयोजनकरूप-सत्प्रतिपक्षोन्नायकतया, उत स्वाभाव- ववृत्तित्वलिङ्गकसाधनपक्षकसाध्यव्यभिचारानुमितिप्रयोजकरूप- साध्यव्यभिचारोन्नायकतया । नाद्यः । ’घटोऽनित्यो द्रव्यत्वात्’ आर्द्रेन्धनवान्पर्वतो धूमवान् वन्हेः’ इत्यादों पक्षवृत्तिकार्यत्वार्द्रेन्ध- नाद्युपाधेर्दूषकत्वानापत्तेः । न च तषामुपाधिवमेव नास्तीति शङ्क्यम् । तल्लक्षणयोगित्वात् । अन्यथापि दूषकत्वसम्भवाच्च । न द्वितीयः । उपाधिनिष्ठसाध्यव्यापकताहेतुनिष्ठसाध्यव्याप्यता । ग्राहकसहचारयोस्तुल्यत्वे् साध्ययापकोपाधिव्यभिचारित्वेन सा धनस्य सध्यव्यभिचरित्वानुमनवत्-साध्यव्यप्यसधनाव्याप- कत्वेनोपाधेः साध्यव्यापकत्वानुमानसम्भवेनोपाधिव्याभिचारित्वेन साध्यव्यभिचारानुमानासम्भवादिति चेन्न । चरमपक्षस्यैवाऽङ्गी- कारात् । न चाऽतुपदोक्तदोष इति । वाच्यम् । साधने साध्य- व्याप्तिग्राहकानुकूलतर्कासत्त्वे उपाधेश्च सध्यव्यापकत्वसादनाव्या- पकत्वनिश्चये संशये वा दूषकताबीजचिन्तनात् । तथा च सर्वत्र


यभिचारोन्नयकवमेव दूषकस्वमित्यर्थः

 यत्तु ‘अयोपध्यभास’’ इत्यारभ्य नवधोपाध्याभासः प्रति- पादिता गङ्गेश्चराचार्य्यैः तद् अपरे न क्षमन्ते । तथा हि-असाधारण । विपर्यय इति ? ‘असाधारणो विपर्ययो–व्यतिरेको यस्य’ इति बहु व्रीहिः। साध्याभावे साध्ये इति चादौ पूरणीयम् । तथा च यदभावः साध्याभावे साध्येऽमाधारणो भवति, स उपाध्याभास इत्यर्थः । असाधारण्यमिह मपक्षविषक्षव्यावृत्तस्वमात्रम् । साध्याभावरूप-सा ध्यवद्वद् वृत्तित्वमिति यावत् । तथा च यदभावः साध्याभावरूप-सा ध्यवद्वृत्तिः स उपाध्याभास इति फलितम् । तस्य साध्यव्याप- कत्वा भावेनाऽसदुपाधित्वादिति भावः इति माथुरी ।

 ननूपधेरसाधारणविपर्ययत्वं कथमभसतप्रयोजकं, तद्व्य तेरेकस्याऽसधारण्येन पक्षे सध्यभवासधकत्वेऽपि 'धूम वह्नि- व्यभिचारी पर्वतेतरत्व व्यभिचारित्वात् द्रव्यत्ववत्’ इति रीत्या तद्व्या- भचारेण हेतौ साध्यव्यभिचरसाधने Sसाधारण्यानवकाशेन- त्तत्साधकतया दूषकत्वसम्भवात् । दूषकत्वे सदुपाधिताया दुर्वारस्वात् । न च सत्प्रतिपक्षस्थलाभिप्रायेण तदभिधानं, अत एव 'इदं च सत्प्रतिपक्षोन्नयकत्वमभिप्रेत्य’ इतेि दीधितिग्रन्थोपि सङ्गच्छते, इति वाच्यम् । उपाधेरनित्यदोषता पत्तेः । न चेष्टापत्तिः। सद्धेतोरपि उक्तरीत्या सोपाधिकस्वापत्तेः । ‘उपाधेर्नेित्यदोषत्वात्' इत्यग्रिममूलविरोधाञ्च । उपाधिव्यतिरेकहेतु- ना साध्याभावसाधनेन अन्वयव्यप्तिग्रहप्रतिबन्धकस्यासाधारण्यस्य दोषाभावाञ्च । न च व्यतिरेकिणि असाधारण्यफलस्यान्वयव्या- प्त्यग्रहस्याऽकिञ्चित्करत्वेपि सत्प्रतिपक्षप्रयोजकतयाऽसाधारण्यदोष | एवेति वाच्यम् । सत्प्रतिपक्षे सत्पर्तिपक्षोत्थापकस्यादोषताया व्यवस्थापितत्वादिति चेत्--

 अत्र -दीधितिकृत्-सत्प्रतिपक्षोनयनौपयिकसाध्यव्यापकत्व


ग्राहकप्रमाणभावे तात्पर्यमिति । तस्यायमाशयः-`स श्यामो मित्र- तनयवत्' इत्यदौ सत्प्रतिपक्षोन्नायकस्यापि शाकपाकजत्वादेः सा- ध्यव्यापकत्वग्राहकप्रमाणशून्यत्वादाभासत्वं स्यादतस्सत्प्रतिपक्ष इतेि । तथा च ' स स्यामो मित्रातनयत्वात् 'इत्यादौ शाकपाकजत्वादो नि- रुक्तरूपसत्त्वे न तस्यऽऽभसत्वमित्यर्थः । न चैवमपि “काकः श्यमो मित्रतनयत्वात्’ इत्यादों तस्याऽऽभासत्वापात्तिर्दुर्वारा । तत्र तस्य निरु क्तरूपवत्वाभावादिति वाच्यम् । सप्रतिपक्षोन्नयनौपयिकरूपमादाय- ऽऽभसतायामिष्टपत्तेः। तत्र तस्य व्यभिचरोन्नायकतया दूषकत्वेनो- न्नयनौपयिकरूपवैकल्याभावेनाऽऽभासत्वविरहादुपाधित्वं सुघटम् । न चैवं “पर्वतो धूमवान् वह्नेः" इत्यादौ, आद्यविशेषणन्यत्वेन सत्प्रतिप क्षोन्नयनपयिकनिरुक्तरूपशून्यत्वेनाऽऽर्द्रेन्धनादेरप्याबासतापत्तिरि- तेि वच्यम् । यत्पक्षकयत्साध्यकयत्साधने यदुन्नायकतयोद्भावयितु- रुपाधेर्दूषणत्वमभिमतं, तदुन्नयनौपयिकरूपवैकल्यस्ययैवाऽऽभासत्वे प्रयोजकत्वात् । तथा च—यादि ‘पर्वतो धूमदान्वन्हेः’ इत्यादौ स्त्प्र- तिपक्षोनायकतया , तर्हि इष्टापत्तिः , नो चेत्तदाऽस्दुपाधित्वमिति । अत एव 'यत्र यदुन्नायकतया दूषणत्वमुपधेः तत्र तदुन्नयनोपयि- करूपवैकल्यमेवाऽऽभासत्वे प्रयोजकम्’ इति दीधितिग्रन्थोपि सङ्ग- च्छते इति । अस्योदहरणमाह-यथाऽन्व्यतिरेकिणी साध्ये बा- धोन्नीतान्यपक्षेतर इति । अस्योदाहरणं-'पर्वतो वह्निमान्धूमात्’ इत्यदों पर्वतेतरत्वादि । केवलान्वयिसध्ये सध्याभावप्रस्सिध्या ऽन्वयव्यतिरेकिणीति । अन्वयः-साध्यतावच्छेदकसम्बन्धः, तद- वच्छिन्नव्यतिरेकमतियोगिनीत्यर्थः । ‘जलह्रद वह्निमान्द्रव्यत्वात्’ इत्यादौ ह्रदेतरत्वदेर्व्यतेिरेकस्य सध्याभाववद्वृत्तित्वविरहाद्बाधो न्नीतान्येति-पक्षविशेषणमिति । साध्याभाववत्तया प्रमितान्येत्यर्थः ।

 अत्र विचारयामः-'असाधारणविपर्ययश् इति सूत्रम् । व्य- भिचरोनायकत्वपक्षे बाधोन्नीतान्यपक्षेतरत्वस्योपाध्याभासतां बो-



१९


धयति , उत सम्प्रतिपक्षोन्नयकवपक्षे । नाद्यः । पूर्वोक्तरीत्या त- द्व्यभिचारेण साधने साध्यव्यभिचारासाधनेऽसाधारण्यानकाशात् । न द्वितीयः । उपाधिव्यतिरेकहेतुना साध्याभावसाधनेऽन्वयव्याप्तिः ग्रहप्रतिबन्धकस्याऽसाधारण्यस्याऽदोपत्वात् । अत एव ‘यद्व साध्य- व्यापकाभाववद्वृत्तितया साध्यव्यभिचारित्वमुर्न्नयम्' इति मूला- विरोधित्वोपपादकः , इदञ्च सप्रतिपक्षोन्नायकत्वमभ्युपेत्य’ इति दी- । धितिरप्यसङ्गत इव प्रतिभाति । सत्प्रतिपक्षेऽऽभासत्वाङ्गीकारेपि व्यभिचारोन्नायकत्वपक्षे सदुपाधितयाऽनित्यदोषतापस्या तु 'उपाधे- र्नित्यदोषवत्’ इति मूलविरोधः । किञ्च ‘वाह्निरनुष्णः कुंतकव।व ’ इत्यादौ बाधोन्नतिपक्षेतरत्वस्याऽऽभासतापत्तेः । व्यतिरेके पक्षमा- त्रवृत्तित्वरूपासाधारण्यात् । नचेष्टपत्तिः । तस्य साध्यव्याकत्व - निश्चयेन सदुपधत्वात् ।

 अप्रसिद्धसाध्यविपर्ययः २ । यथा केवलान्वयिनि साध्ये पक्षेतरत्वादिः = "अप्रसेद्धः"-असत् साध्यविपर्ययो यस्य’ इत्यत्र यत्पदार्थस्य पदार्थैकदेशे साध्येऽन्वयः । तथा चऽप्रसिद्ध- विपर्ययसाध्यक इत्यर्थः-अत्यन्ताभावप्रतियोगितानवच्छेदकाव- ।च्छन्नसाध्यसम्बध इत्ति यावत् । साध्यतावच्छदकरूपण व्यतिरे- काप्रतियोगित्वे निश्चिते तेन रूपेण साध्यव्यतिरेकसिद्ध्यसम्भवादा- भासत्वम् । ‘पक्षेतरवादिः ’ इयत्राऽऽदिपस्त्पक्षेतरातिरिक्तवस्तुमा त्रधमेपरिग्रहः । केवलन्वयिनि साध्ये कुत्रचित्साध्यव्यपकत्वस्य क्वचिञ्च साधनाव्यापकत्वस्य विरहद्वस्तुमात्रधर्मस्यैवोपाध्याभा- सत्वादिति भावः । ‘अप्रसिद्धोऽज्ञतः साध्यविपर्ययोऽस्य’ इत्युक्ते ‘पृथिवीतरेभ्यो भिद्यते पृथिवीत्या" इत्यादावज्ञातेतरभेदसिद्धिवत् व्पापकव्यतिरेकेण ज्ञातस्य साध्यविपर्ययस्य सिद्धिसम्भवादा- भासत्वं न स्यादिति ।

 अघ्र विचरयामाः -असत्पदं विहाय सदिग्धार्थकाप्रसिद्ध
 

पदोपादानमनुचितम्, ‘असत्साध्य' इति च वक्तव्यम् । ‘अ- सप्तध्यं साध्याभावरूपं यस्य’ इति विग्रहे तादृशार्थळभात् । 'असद्विपर्ययसाध्यकः इति वा । पक्षमात्रवृत्तिरसाधारणः इति मते ऽसाधारणणे एतस्याऽन्तर्भवः ।

 बाधितसाध्यविपर्यः ३ । ‘व्याप्यतासम्बन्धेन बाधितः साध्यविर्षययो यत्र’ इति व्युत्पत्या साध्याभावव्याप्य इत्य- थैः । दृष्टो हि-व्याप्यतासम्वन्धेन वन्ह्भावे धूमाभवो वा- धितः, वन्ह्न्यभावश्च धूमाभावव्याप्य इतेि । अस्योदाहरण- माह-यथ ‘वह्निरनुष्णः, तेजस्त्वात् ’ इत्यत्रऽकृतकत्वम् । ‘न विद्यते कृतं कार्यं यत्र’ इति व्युत्पत्य जन्धर्मानश्रयत्वमित्यर्थः । तेन जन्यत्वरूपाकृतकत्वस्य तेजः परमाणवसत्त्वेपि न क्षतिः।

 अत्र विचारयामः- स्वस्मिन् साध्यभावव्यप्यत्वज्ञानेऽपि स्वा भावेन साध्याभावन्नयकत्वे विरोधाभवः । सध्याभावभावः- उपाधिसमानाधिकरणो न भवति, उपाधिर्वा साध्याभावाभावद्- वृत्तिर्न भवतीति-ज्ञाने उपाध्यभावे निरुक्तसध्याभावव्याप्यत्वज्ञा नाभावेनोपाधेः सत्प्रतिपक्षोन्नायकत्वसम्भवेनाऽऽभासवसम्भवेपि लाघवेन 'सध्याभावव्याप्यः’ इत्येव वक्तव्यम् ।

 पक्षाव्यापकविपर्ययः ४ । पक्षः-साध्यवान्, तदवृत्ति विपर्ययक इत्यर्थः । क्वचित् ‘पक्षाव्यार्त्तकविपर्ययः’ इति पाठः। तस्याप्यय- मेवार्थः । अस्योदाहरणमाह—‘क्षित्यादिकं सकर्तृकं कार्य्य- त्वान्’ इत्यत्राऽणुव्यतिरिक्तत्वम् । अत्राऽणुव्यातिरिक्तत्वव्यतिरे- कस्य क्षित्यादेरेकदेशवृत्त्या भागसिद्धेः । क्षित्यादिकं-पृथि- व्यादिकमित्यर्थः। अणुव्यतिरिक्तस्वं-परमाणुभिन्नत्वम् । अस्यो- पाध्याभसत्वे बीजमाह-अत्रेति । परमाणुव्यतिरिक्तत्वे इत्यर्थः । अणुव्यतिरिक्तत्वव्यतिरेकस्य एकदेशवृत्त्या एकदेश एव वृत्या नित्यपृथिव्यादावेव . वृत्येतियावत् ।.भागासिद्धेः-उपाधिलक्ष


णान्तर्गतस्य साधनाव्यापकत्वभागस्यासिद्धेरिस्यर्थः।।

 अत्र विचारयामः-“पर्वतो धूमवान्वह्नेः" इत्यादावार्द्रेन्धनादेरा- भासतापत्तिः, तद्व्यतिरेकस्य पक्षाव्यापकवात् । नचेष्टापतिः ‘सा- ध्यव्यापकः’ इत्याद्युपाधिलक्षणस्य तत्र सत्त्वत् । उपाधेर्नित्य - दोषत्वाङ्गीकारात् । दूषकताबीजस्य व्यभिचारोन्नायकवादेस्स- त्त्वाञ्च । पक्षपदस्य साधनपरत्वेपि उक्तदोषानुद्धरात् । न च सा- धनव्यापक इयत्रैव तात्पर्यम् । तादृशार्थे तात्पर्यग्राहकमानाभावा- त् । लाघवात्तथैव वक्तव्यत्वापाताञ्च । सप्रतिपक्षोन्नयकत्वपक्षे साधनव्यापकत्वस्याऽऽभासतप्रयोजकत्वाभावाञ्च । व्यभिचारोन्ना- यकत्वपक्षेपि ‘साध्याव्यापकः, ‘साधनव्यापकश्च' एवंरीत्याऽऽभा- सताप्रयोजकविभागसम्भवेऽसाधारणेत्यादिरीत्या विभागकरणा- नुपपत्तेः ।

 पूर्वसाधनव्यतिरेक:५। यथा-शर्करारसोऽनित्यवृत्तिर्गुणत्वात्’ ‘रस निरयो रसनेन्द्रियजन्यनिर्विकल्पकविषयत्वाद्रसत्ववत्’ इत्यादौ । न च घटादिवृत्तिरसे रसनेन्द्रियजन्यनिर्विकल्पकाविषयत्व सत्वाद्व्यभिचार इति वाच्यम् । तस्य गुणान्यत्वेन विशेषणीयत्वान् । ‘शर्करायां रसः’ इत्युपनीतभानाविषये शर्करयां व्यभिचारवारणाय निर्विकल्पकस्वेनोपादानम् । तञ्च प्रकारभिन्नस्वम् । तेनऽऽशिकनि- र्विकल्पकमादाय न दोषस्य तादवस्थ्यम् ।

 अत्र दीधितिकृत्-पूर्वेसधनव्यतिरेकत्वं चोपाध्याभासताप्रयो- जकम् , ‘अयोगोलकं धूमाभाववदर्द्रेन्धनाभावात् ’ तत्र ,’ ध्मा- भावद्वन्हे: इत्यादौ पूर्वसधनव्यतिरेकस्याऽऽर्द्रेन्धनादेः सदुपाधि- वात् । परन्तु सत्प्रतिपक्षस्थले कथकसम्प्रदायवंशात्तस्योपधित्वेन नोद्भावनमित्यत्रैव मूळतात्पर्यम् । कथकसम्प्रदायवंशादनुद्भावने बीजं-सत्प्रतिपक्षमात्रोच्छेदापत्तिः, सर्वत्रैव समतिपक्षे पूर्वसाधन- व्यतिरेकस्योपाधितयोद्भावनसम्भवादित्यर्थः ।


अत्र विचारयामः-‘धूमवान्वनेः’ इत्यादिस्थापनायां यत्राभासत्वं, तत्र ‘न धूमवान्नार्द्रेन्धनाभावात्’ इत्यादिप्रतिस्थापनायां पूर्वसाधन- व्यतरेकस्य साध्यव्यापकत्वनानुपाधित्वात् ,क्कचित् पूर्वसाधनव्य तिरेक उपाध्याभास?' इत्येवं रीत्या यथाश्रुतमूलार्थसम्भवे ‘सत्प्र- पक्षोच्छेदः-पूर्वेसाधनव्यतिरेकस्योपाधित्वेनानुद्भावने बीजं, नतूपा- ध्याभासस्वम्’ इति मूळतात्पर्यवर्णनं दीधितिकृतामसङ्गतमिव भा- ति । उक्तरीत्या तदनुद्भावने उपाध्याभासत्वस्यैव नियामकत्व लाभात् । यदषि सप्रतिपक्षमात्रोच्छेदापत्तिः, तदप्यज्ञानविजृम्भि तम्, आभासस्थल एव पूर्वसाधनव्यतिरेकारूपोपाधेराभासत्वेन सत्प्रतिपक्षसम्भवात् । मूले च ‘धूमवान्वहे:'इत्यादिस्थापनायां ‘व- ह्निव्यतिरेकः इत्येव कथनौत्चियात् ।

 पूर्वसाधनव्याप्यव्यतिरेकः ६ । यथा-अकर्तृकत्वानुमाने नित्य- त्वादि, कादाचित्कत्वेन किञ्चित्कालावृत्तित्वरूपेण सकर्तृकवस्था- पनायामिति शेषः । अकर्तृकत्वानुमानेऽकर्त्तृकत्वसाधके प्रतिहे- . तावजन्य इत्यर्थः । एतेन ‘क्षित्यादिकं सकर्त्तृकं कार्येत्वात्'इत्यत्र स्थापनायमनित्यत्वस्य-प्रागभावृत्तेः कार्यत्वव्याप्यत्वेन नेित्यत्वं पूर्वसाधनव्याप्यव्यतिरेको न भवति, एवं क्षित्यादिकं न स- कर्त्तृकं शरीराजन्यत्वाद्व्योमवत्’ इत्यादौ क्षित्यादिव्योमान्यतरत्वा- वच्छिन्नसाध्यव्यापकं नित्यत्वं कादाचिकत्वाच्याप्यं सदुपाधिरे- वेति कथमाभासत्वम्' इति परास्तम् । तथा च ’क्षित्यादिकं सक- र्त्तृकं कादाचित्कत्वात्’ इत्यत्र नित्यत्वं कादाचित्कत्वव्याप्यं, त- द्व्यतिरेकश्च नित्यत्वमिति न पूर्वदोषः । 'क्षित्यादिकमकर्तृकमज- न्यत्वात्' इत्यादिप्रतिहेतौ क्षित्यादिव्योमान्यतरत्वावच्छिन्नसाध्य- व्यापकं नित्यत्वं यथा ; तथा तदवच्छिन्नाजन्यत्वरूप-साधनव्या- पकमपीति न सदुपाधित्व मिति न द्वितीयोपि दोष इति ।

 अत्र विचारयामः-"धूमवान्वह्नेः" धूमाभाववान्नार्द्गेध्ननाभावात्,’


‘द्रव्यं सत्त्वात्' इदं न द्रव्यं गुणशून्यत्वत्’ इत्यादिप्रतिस्थापनायां व- ह्निव्याप्यधूमस्य-,-सत्तच्याप्यकर्मान्यत्वादेरभावः। तथा क्षिस्यादिकं सकर्त्तृकं कादाचित्कत्वत्’ इदमकर्त्तृकमजन्यत्वादित्यादिप्रतिहेतौ नित्यत्वमित्येवमुक्तस्य सम्भवे ‘यथा ऽकर्त्तृकत्वानुमाने’ इत्यादि क्लिष्टकथनमसङ्गतमिव भाति ।

 पक्षविपक्षान्यतरान्यत्वमाभासताप्रयोजकं [९९]न भवति ७ । ‘अयोगोलकं धूमवद्वह्नेः’ इत्यादौ हृदायोगोलकान्यतरान्यत्वस्य सदुपाधित्वात् । न च कचिदित्यध्याहार्यम् । क्वचित्पदमसूत्स्थाप- नापरं, सत्स्थापनापरं वा। नाद्यः । पूर्वोक्तदोषानुवृत्तेः । चरमे पूर्वोक्तदोषाभावेपि प्रसिद्धानुमाने पक्षसपक्षान्यतरान्यत्वसपक्षवि- पक्षान्यतरान्यत्वादेरपि उपाध्याभासतया गणनापत्तेः ।

 पक्षेतरसाध्याधारः ८ । यथात्रैव पर्वतेतरे वन्हिमत्त्वम्-पक्षे- तरत्वविशिष्टसाध्यवत्त्वमित्यर्थः । अत्रापि सत्स्थानाभिप्रायकं क्वचित्पदमध्याहार्य्यम् । तेन ‘अयोगोलकं धूपवदोन्हेः’ इत्यादावयो- गोलकेतरत्वविशिष्टधर्मवत्त्वादेस्सदुपाधित्वेपि न क्षतिः।

 अत्र विचारयाम-पक्षेतरत्वविशिष्टसाधनाधारत्वपक्षेतरत्वविशि- ष्टसपक्षत्वादेरपि उपाध्याभासतया गणनापत्तिः । न चात्रव्यर्थविशे- यत्वम् । पक्षेतरत्वविशिष्टसाध्यवयमित्यत्रापि तत्सत्त्वात् ।

 न च [१००]तत्तुल्यश्चेत्यनेन पक्षेतरत्वघटितवेन तुल्यो धर्मा- न्तरोपीत्यर्थकेन मूलेन त्वदुक्तसर्वेषां गणनाकृतेवैति वाच्यम् ९ । ‘पक्षेतरसाध्याधारः इत्यत्र व्यर्थविशेष्यतया एतस्य पक्षेतरत्वे पर्यवसाने पक्षेतरस्ततुल्यवेश्येवं सर्वसङ्ग्रहे असाधारणेत्यादि विशिष्यकथनासङ्गतेः । तौर्ल्य च-सत्प्रतिपक्षाद्युन्नयनौपयिकरूप- वैकल्येन बोध्यामिति ।



  १ "पक्षविपक्षान्यतराभ्यः” इति सप्तम उपाध्याभास इत्यर्थः।

  २ "तत्तुल्यः" इति नवम उपाध्याभास इत्यर्थः। । ------------------------------------------------------------------ लिङ्गलिङ्गिग्रहणेन विषयवाचिना विषधियं प्रत्यपमुप लक्षयति । धूमादिघ्थाप्यो वह्नयदिर्व्पपक इति यः प्रत्य- यस्तपूर्वकम् ।


 थतु "गङ्गदेश्वराचार्याः-नापि स्वाभाविकसम्बधो व्याप्तिः । स्वभवजन्यत्वे तदश्रतत्वादो वा ऽव्याप्त्यतिव्याप्तेइति । एतञ्च व्याख्यातं-मथुरानाथभट्टाचार्यैः स्वभाविकसवें हेि -हंदुस्वरूपज- न्यत्वं, हेतुस्वरूपाश्रितत्वं वा । आद्ये 'द्रव्यं पृथिवीत्वात्' इत्यादौ पृथि- वीत्वादिनिष्ठद्रव्यत्यादिसामानाधिकरण्यस्य नित्यतयाऽव्याप्तिः । द्वितीये ‘द्रव्यं सत्त्वात्' इयादों व्यभिचारिण्यतिव्याप्तिरित्याह-स्व- भावेति । स्वभावजन्यत्वे-नहेतुस्वरूजन्यत्वे, तदाश्रतत्वादौ वा स्वभाविकपदार्थे इति शेषः । अव्याप्त्यतिव्याप्तंरिति । अव्याप्ति सहातिव्याप्तेरित्यर्थः, मध्यमपदलोपीसमासात् । अन्यथा-द्वन्द्व दैविध्येन द्विधचननपुंसकलिङ्गयोरन्यतरापत्तेः । 'तदाश्रितवादौ’ इ- त्यादिपदादनारोपितत्त्वपरिग्रहः । तत्रापि ’द्रव्यं सत्वात्’ इत्या- दावतिव्याप्तिर्बोध्या,मतायां द्रव्यत्वसामानाधिकरण्यस्याऽनारो- पितत्वादिति, ” तन्न । निरुपाधिकसम्बन्धस्यैव स्वाभाविकत्वा- भिधानात् ।

 तदुक्तं-तात्पर्यटीकायां वाचस्पतिमिश्रैः। तथा हि-‘धूमादीनां वह्नयादिसम्बन्धः स्वाभाविकः न तु वह्न्यादीनां धूमादिभिः, ते हि विनाऽपि धूमादिभिरुपलभ्यन्ते । यदात्वार्द्रेन्धनादिसम्बन्ध- मनुभवति, तदा धूमादिभिः सह सम्बद्ध्यन्ते । तस्माद्वह्न्यादी- नामर्द्रेन्धनाद्युपाधिकृतः सम्बन्धो, न स्वाभाविक: , अतो न नियतः । स्वभाविकस्तु धूमादीनां वह्नयादिसम्बन्धः, उपाधे- रनुपलभ्यमानत्वादिति । अधिकं तु तन्निबन्धादावनुसन्धेयम् ।

 लिङ्गस्य करणत्वाभावादाह । लिङ्गलिङ्गिप्रहणेनेति ।

लिङ्गस्य करणत्वेऽतीतादि लिङ्गस्थळेऽनुमितिर्न स्यात्, अनुमित्य
 

लिङ्गिग्रहणं चाSSवर्त्तनीयम् । तेन लिङ्गमस्यास्तीति पक्ष- धर्मताज्ञानमपि दर्शितं भवति । तद्व्याप्यव्यापकभावपक्ष- धर्मताज्ञानपूर्वकमनुमानमेितेि-अनुमानसमिन्यं लक्षित- म् । अनुमानविशेषांस्तन्त्रान्तरलक्षितानभिमतान् स्मा- रयति । त्रिविधमनुमानमिति । तत् सामान्यतो लक्षितम- नुमानं विशेषतस्त्रिविधम्-पूर्ववच्छेषवत्सामान्यतो दृ ष्टश्चेति । तत्र प्रथमं तां च द्विविधं -वीतमवतिं च । अन्वय- मुखेन प्रवर्त्तमानं विधायकं वीतम् ।


व्यवहितपूर्वक्षणे लिङ्गाभावादिति भावः । व्याप्तिविशिष्टज्ञान सत्त्वे पि पक्षधर्मताज्ञानाभावेऽनुमित्यदर्शनादह । लिङ्गिग्रहणं चेति । तद्व्याप्यव्यापकभावेति । एतन्मते फलयोगव्यव- च्छिन्नस्यैव करणत्वादिति भावः । स्वमते प्रकरान्तरेण वक्तव्य- त्वादह। तन्त्रान्तरलक्षितानिति । तच्छब्दर्थमाह । सामा- न्यत इति । तत्रान्तरलक्षितान् इति यदुक्तं, तद्दर्शयति । पूर्व- वदित्यादिना । स्वमतेन विभागमाह । तत्रेति । तत्र-सामा न्यविशेषरूपेषु मध्येदं प्रथमं-सामामान्यतोलक्षितं यदनुमानं तत् । पूर्ववदादेः प्राचीनसाड्ख्यीयसञ्ज्ञान्तरमाह । वीतमवीतंचेति ।

 केचित्तु-तत्र-पूर्ववदित्यादिषु मध्ये प्रथमं-पूर्ववत् द्विविध- म्' इत्याहुः, तन्न । तथा सति प्रथमं वीतं द्वितीयमवीतमित्येव कथ- नापत्तेः, द्वयोः सञ्ज्ञायान्तरविधानात्-अपरञ्च वीतं सामान्यतोदृष्ट- मिति चरमस्य वीतान्तरभावकथनासङ्गतेश्च, स्मारयतीति कथनासङ्ग- तेश्च। ‘एवाभिमतान्’ इत्यपपाठः। तथाचानुमानं द्विविधम्-वी - तमधीतं च । अवीतं शेषवत् । वीतं द्विविधम्-दृष्टस्वलक्षणसामान्य- विषयमदृष्टस्वलक्षणसमान्यविषयं च । आद्य-पूर्ववत् । चरमं-समा- न्यतोदृष्टमिति । अयमर्थस्त्वग्रेस्पष्ट एव । अन्वयमुखेन-अन्वयसह- चरग्रहजन्याप्तिग्रहस्वेन । प्रवर्त्तमानम्-अनुमिति जनकम् ।


व्यतिरेकमुखेन प्रवर्तमानं निषेधकमधीतम् |

 तत्रावीतं शेषवत् । शिष्यते परिशिष्यते इति शेषः स एव विषयतया यस्यास्यनुमानज्ञानस्य लच्छेषवत् । यदाहुः-‘प्रसक्तप्रतिषेधे, अन्यत्राप्रसङ्गात् शिष्यमाणे सम्प्रत्ययः परिशेषः” इति ( वात्स्यायन-न्यायभाष्यम् अ० १ आ ० १ स्० ५) अस्य चाऽवीतस्प व्यातिरेकिण उदाहरणमग्रेऽभिधस्यते ।

 वीतं द्वधा-पूर्ववत् सामान्यतो



व्यतिरेकमुखेनव्यतिरेकसहचारमात्रग्रहजन्यव्याप्तिग्रहत्वेन । 'निषेधक -- अप्रसिद्धसाध्यकम् । तत्र संमतिमाह । यदाहु- रिति । यथा इच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपदिवदित्यादौ गुणत्वेन पृथिव्यादिकार्य–शरीरेन्द्रियाद्याश्रितवप्रसक्तौ अधि- करणाप्रत्यक्षस्वेन तन्निषेधे दिक्कालादिगुणानामतीन्द्रियतया तदा- श्रितत्वप्रसङ्गात्-अप्रसक्तेः शिष्यमाणे बुड्याश्रितत्वे सम्प्र- त्यय-प्रमारूपः, स यस्यानुमानस्य प्रतिपाद्यतया अस्ति, तच्छै- ववदित्यर्थः । न च पुरुषाश्रितत्वमेव परिशिष्यते, असङ्गो- ह्यमित्यादिश्रुतेः, कामः सङ्कल्प इत्यादिश्रुतेश्च । असदकरणादि- त्यार्य्यायामेतदुदाहरणस्यावयवक्तव्यत्वादाह । अग्रेऽभिधास्यते इति । न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात् , इह यद्यतो भिद्यते तत्तस्य धर्मो न भवति यथा । गौरश्वस्येत्यादौ (नवमकारिकायाम्)

 यतु-अने-‘सामान्यतस्तु दृष्टा’ इति ६ आर्यायामि- त्यर्थ इति । तन्न । तत्र-उपलक्षणं चैतच्छेषवत इत्यपि द्रष्टव्यम् इति कथनेप्युदाहरणानुक्तेः । असदकारणदि- त्याद्युपसंहारे (नवमकारिकायां) तान्येतान्यभेदसाधना- न्यवीतानीत्युक्तेश्च । महानसादौ प्रसिद्धस्य महानसीय-


२०


दृष्टस्वलक्षणसामान्यविषयं यत्तत्पूर्ववत् , पूर्वं-प्रसिद्धं- दृष्टस्वलक्षणसमान्यमिति यावत्, तदस्य विषयत्वेना- स्त्यनुमानज्ञानस्येति पूर्ववत् । यथा धूमात् वह्नित्वसामा- न्यविशेषः पर्वतेऽनुमीयते, तस्य वह्नित्वसामान्यविशे- षस्य स्वलक्षणं वह्निविशेषो दृष्टो रसवत्याम् । अपरं च वीतं सामान्यतो दृष्टम्-अदृष्टस्वलक्षणसामान्यविषयम्। यथेन्द्रियविषयमनुमानम् । अत्र हि रूपादिविज्ञाननां




वन्हेरनुमानविषयत्वासम्भवादाह । दृष्टेति । दृष्टं च तत् स्वलक्षणं च दृष्टस्वलक्षणं , स्वलक्षणं च-वह्नित्वाव्अच्छिन्नमहानसा- दिवृत्तित्वविशिष्टो महानसीयवह्निव्यक्तिविशेषः, तस्य सामान्यं तज्जातीयं-वह्नित्वावच्छिन्नम्। विषयत्वेनेति । साध्यतयेति शेषः । तथा च प्रत्यक्षीकृतजातीयप्तध्यकमित्यर्थः । उदहरणमाह । यथा धूमादिति । वहिषलामान्यविशेषः-वह्निवाव च्छिन्नपर्वतीयवन्हिव्यक्तिविशेषः ।

 स्वं-सामान्यं लक्षयतीति स्वलक्षणा-व्यक्तिः, दृष्टा स्वलक्षणा यस्य तत्, तच्च तत् सामान्यं च तत्तथ, तत् विषयो यस्य तदिति विग्रह इति कश्चित् । तचिन्त्यम् । चिन्ताबीजन्तु-अनु- मितेर्व्यक्तिविशेषविषयत्वाभावापत्तिः । स्वलक्षणपदस्य स्वयमेवार्थं दर्शयति । तस्येत्यादिना । वह्निविशेषः-वह्नित्वावच्छिन्न मइनसीयवह्निव्यक्तिविशेषः । अपरस्य वीतसंज्ञकस्य-सामान्यतो- दृष्टस्य लक्षणमाह। अदृष्टेत्यादिना । न दृष्टं प्रत्यक्षेण तत् अदृष्टं, अदृष्टं च तत् स्त्रलक्षणं चाऽदृष्टस्वलक्षणं,तस्य सामान्यं यज्जाती- यं, तत् विषयो यस्य साध्यतयाऽनुमानस्य तत् अदृष्टस्वलक्ष्ण- सामान्यविषयम् । तथाचाऽमत्यक्षी्कृतजातीयसाध्यकमित्यर्थः । उदाहरणमाहयथेन्द्रियविषयामिति । तदेवोपपादयतिं । अन्रर्हति । अत्र-अनुमाने ।


क्रियात्वेन करणवस्वमनुमीयते । यद्यपि करणयसाः- मान्यस्य छिदादौ वास्यादि स्वलक्षणमुपलब्धम्, तथा Sपि यज्जातीयं रूपादिज्ञाने करणवत्त्वमनुमीयते तज्जाती- यस्य करणस्य न दृष्टुं स्वलक्षणं प्रत्यक्षेंण । इन्द्रियजातीयं हि तत्करणम्, नचेन्द्रियत्वसामान्यस्य स्वलक्षणमिन्द्रि- यविशेषः प्रयक्षगोचरे ऽर्वाग्दृशाम्, यथा वह्नित्वसामा- न्यस्य स्वलक्षणं वह्निः । सोऽयं पूर्ववतः सामा- न्यतो दृष्टात् सत्यपि वीतत्वेन तुल्यत्वे विशेषः ।




अनुमीयते इतिप्रयोगस्तु-रूपादिज्ञानं सकरणकं क्रि यात्पात् छिदादिवदिति । न चे ज्ञानस्य क्रियात्वाभाव- द्धेत्सिद्धिरिति शङ्क्यम्, स्वमताभिप्रायेण तथाभिधानात् । नन्वत्रा- पि सकरणकत्व सामान्यस्य स्वलक्षणविशेषो वास्यादिकरणकत्व- रूपश्छिदादौ प्रसिद्धस्तत्कथमस्य दृष्टस्वलक्षणसामान्याद्भिन्नत्व- मित्याशङ्कते । यद्यपीति । अत्रेन्द्रियजातीयकरणकत्वस्य सा- ध्यतया तत्करणकत्वसामान्य जातीयविशेषस्याऽस्मदादिप्रत्यक्षागो- चरत्वादित्यभिप्रायेण समधत्ते । तथापीति । करणत्वसामान्यवि- शेषत्वस्य वास्यादावभिधानं तु सकरणकत्वस्य साध्यस्य करणे एव प्रर्यवसानामित्यभिप्रायेणेति बोध्यम् । व्यतिरेकदृष्टान्तमाह । यथेति । पूर्ववतः सामान्यतोदृष्टाद्भेदकं रूपं दर्शयति । सोयमितितत्पदेन-अनुपदोक्तदृष्टस्वलक्षणसामान्यसाध्यकत्वं गृह्यते । तस्य । च विशेष इत्यग्रिमेणान्वयः ।

 सोयं-सपक्षे साध्यदर्शनरूप इति कश्चित्अन्ये तु सोयम्- अदृष्टस्वलक्षणात्मक इत्याहुस्तन्न । सामान्य- तोदृष्टादितिपञ्चम्यनुपपत्तेः । पञ्चम्याः षष्ठ्यर्थेत्वे तु नायं दोषः ।

 परे तु सामान्यतोदृष्टात्- अदृष्टस्वलक्षणसामान्यांविषयात् सोयं सपक्षे दृष्टस्वलक्षणात्मकोऽपरवीतस्य पूर्ववतो विशेष इत्यर्थ


अत्र च दृष्टं दर्शनम् , सामान्यत इति सर्वविभक्ति कस्तसिः । अदृष्टस्वलक्षणस्य सामान्यविशेषस्य दर्श- नं-सामान्यतो ऽदृष्टमनुमानमित्यर्थः ।

इत्याहुःसामान्यतोदृष्टपदाददृष्टस्वलक्षणसमान्याविषयमि त्युक्तोऽर्थो न लभ्यते, अत उक्तार्थपरत्वं शक्त्यैव दर्शयति । अत्र च दृष्टमित्यादिना । सामान्यतोदृष्टमित्यत्राऽकारप्रश्लेषाभि- प्रायेण प्रकृतमुपसंहरति । अदृष्टस्वलक्षणस्येति

 ननु तञ्चानुमानं त्रिविधं, केवलान्वयिकेवलव्यतिरेक्यन्वय व्य तिरेकिभेदात् । तत्र केवळान्वयिसाध्यकानुमानत्वं केवलान्वय्य- नुमानस्वम् । साध्ये केवलान्वयित्वं च-अन्योन्याभावप्रतियो गितानवच्छेदकस्वम् । तादृशं च साध्यं-वाच्यवादिरेव, तंद्धे- तुरेवाऽत्र लक्ष्यः । संयोगाभाववान्मेयत्वादित्यादौ नाऽव्याप्तिः अन्योन्याभावस्य व्याप्यवृत्तित्वाभ्युपगमात् । अनुमित्यव्यव हितसमानाधिकरणनिर्णयविषयतानवच्छेदकव्यतिरेकितावच्छेदक धर्मावच्छिन्नसाध्यकानुमानत्वं केवलव्यतिरेक्यनुमानत्वम् । लक्ष्यं चेतरभेदर्थानुमानम् । न च ‘‘कवळव्यतिरेक्यनुमानमेव न संभवति, व्याप्तिविशिष्टपक्षधर्मताज्ञानमेवानुमितिहेतुःप्रकृते च व्य- तिरेकसहचारेण साध्यभावे हेत्वभावमात्रव्याप्तिर्गृह्यते हेतौ च पक्ष- धर्मताग्रह इति अनुमितिकारणाभावेनानुमितेरसम्भवात्” इति वा- चयम् । अनुभवबलेन साध्याभावव्यपकीभूताभूताप्रतियोगित्वरूप व्यतिरेकव्याप्तिज्ञानस्यानुमितिहेतुत्वाभ्युपगमेनोक्तदोषाभावात् ।

 स्वाश्रयाभावव्यापीभूताभावप्रतियोगित्व सम्बन्धेनाऽन्वयः्- व्याप्तिसस्त्वादेव न दोषः इत्यपि कश्चित् । न च “तत्र साध्यं प्रसिद्धमसिद्धं वा | ? नाद्यः । । अन्वयव्याप्त्यैव नि हे व्यतिरेकव्यप्तर्वैयर्थ्यापत्ते