महाभारतम्-01-आदिपर्व-066
← आदिपर्व-065 | महाभारतम् प्रथमपर्व महाभारतम्-01-आदिपर्व-066 वेदव्यासः |
आदिपर्व-067 → |
(अथ संभवपर्व।। 7 ।।) अदित्यादिदक्षकन्यावंशकथनम्।। 1 ।।
वैशंपायन उवाच।
अथ नारायणेनेन्द्रश्चकार सह संविदम्।
अवतर्तुं महीं स्वर्गादंशतः महितः सुरैः।। 1-66-1x
आदिश्य च स्वयं शक्रः सर्वानेव दिवौकसः।
निर्जगाम पुनस्तस्मात्क्षयान्नारायणस्य ह।। 1-66-2
तेऽमरारिविनाशाय सर्वलोकहिताय च।
अवतेरुः क्रमेणैव महीं स्वर्गाद्दिवौकसः।। 1-66-3
ततो ब्रह्मर्षिवंशेषु पार्थिवर्षिकुलेषु च।
जज्ञिरे राजशार्दूल यथाकामं दिवौकसः।। 1-66-4
दानवान्राक्षसांश्चैव गन्धर्वान्पन्नगांस्तथा।
पुरुषादानि चान्यानि जघ्नुः सत्वान्यनेकशः।। 1-66-5
दानवा राक्षसाश्चैव गन्धर्वाः पन्नगास्तथा।
न तान्बलस्थान्बाल्येऽपि जघ्नुर्भरतसत्तम।। 1-66-6
जनमेजय उवाच।
देवदानवसङ्घानां गन्धर्वाप्सरसां तथा।
मानवानां च सर्वेषां तथा वै यक्षरक्षसाम्।। 1-66-7
श्रोतुमिच्छामि तत्त्वेन संभवं कृत्स्नमादितः।
प्राणिनां चैव सर्वेषां संभवं वक्तुमर्हसि।। 1-66-8
वैशम्पायन उवाच।
हन्त ते कथयिष्यामि नमस्कृत्य स्वयंभुवे।
सुरादीनामहं सम्यग्लोकानां प्रभवाप्ययम्।। 1-66-9
ब्रह्मणो मानसाः पुत्रा विदिताः षण्महर्षयः।
मरीचिरत्र्यह्गिरसौ पुलस्त्यः पुलहः क्रतुः।। 1-66-10
मरीचेः कश्यपः पुत्रः कश्यपात्तु इमाः प्रजाः।
प्रजज्ञिरे महाभागा दक्षकन्यास्त्रयोदश।। 1-66-11
अदितिर्दितिर्दनुः काला दनायुः सिंहिका तथा।
क्रोधा प्राधा च विश्वा च विनता कपिला मुनिः।। 1-66-12
कद्रूश्च मनुजव्याघ्र दक्षकन्यैव भारत।
एतासां वीर्यसंपन्नं पुत्रपौत्रमनन्तकम्।। 1-66-13
अदित्यां द्वादशादित्याः संभूता भुवनेश्वराः।
ये राजन्नामतस्तांस्ते कीर्तयिष्यामि भारत।। 1-66-14
धाता मित्रोऽर्यमा शक्रो वरुणस्त्वंश एव च।
भगो विवस्वान्पूषा च सविता दशमस्तथा।। 1-66-15
एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते।
जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।। 1-66-16
एक एव दितेः पुत्रो हिरण्यकशिपुः स्मृतः।
नाम्ना ख्यातास्तु तस्येमे पञ्च पुत्रा महात्मनः।। 1-66-17
प्रह्लादः पूर्वजस्तेषां संह्लादस्तदनन्तरम्।
अनुह्लादस्तृतीयोऽभूत्तस्माच्च शिबिबाष्कलौ।। 1-66-18
प्रह्लादस्य त्रयः पुत्राः ख्याताः सर्वत्र भारत।
विरोचनश्च कुम्भश्च निकुम्भश्चेति भारत।। 1-66-19
विरोचनस्य पुत्रोऽभूद्बलिरेकः प्रतापवान्।
बलेश्च प्रथितः पुत्रो बाणो नाम महासुरः।। 1-66-20
रुद्रस्यानुचरः श्रीमान्महाकालेति यं विदुः।
चत्वारिंशद्दनोः पुत्राः ख्याताः सर्वत्र भारत।। 1-66-21
तेषां प्रथमजो राजा विप्रचित्तिर्महायशाः।
शम्बरो नमुचिश्चैव पुलोमा चेति विश्रुतः।। 1-66-22
असिलोमा च केशी च दुर्जयश्चैव दानवः।
अयःशिरा अश्वशिरा अश्वशह्कुश्च वीर्यवान्।। 1-66-23
तथा गगनमूर्धा च वेगवान्केतुमांश्च सः।
स्वर्भानुरश्वोऽश्वपतिर्वृषपर्वाऽजकस्तथा।। 1-66-24
अश्वग्रीवश्च सूक्ष्मश्च तुहुण्डश्च महाबलः।
इषुपादेकचक्रश्च विरूपाक्षहराहरौ।। 1-66-25
निचन्द्रश्च निकुम्भश्च कुपटः कपटस्तथा।
शरभः शलभश्चैव सूर्याचन्द्रमसौ तथा।
एते ख्याता दनोर्वंशे दानवाः परिकीर्तिताः।। 1-66-26
अन्यौ तु खलु देवानां सूर्याचन्द्रमसौ स्मृतौ।
अन्यौ दानवमुख्यानां सूर्याचन्द्रमसौ तथा।। 1-66-27
इमे च वंशाः प्रथिताः सत्ववन्तो महाबलाः।
दनुपुत्रा महाराज दश दानववंशजाः।। 1-66-28
एकाक्षो मृतपो वीरः प्रलम्बनरकावपि।
वातापिः शत्रुतपनः शठश्चैव महासुरः।। 1-66-29
गविष्ठश्च वनायुश्च दीर्घजिह्वश्च दानवः।
असङ्ख्येयाः स्मृतास्तेषां पुत्राः पौत्राश्च भारत।। 1-66-30
सिंहिका सुषुवे पुत्रं राहुं चन्द्रार्कमर्दनम्।
सुचन्द्रं चन्द्रहर्तारं तथा चन्द्रप्रमर्दनम्।। 1-66-31
क्रूरस्वभावं क्रूरायाः पुत्रपौत्रमनन्तकम्।
गणः क्रोधवशो नाम क्रूरकर्माऽरिमर्दनः।। 1-66-32
दनायुषः पुनः पुत्राश्चत्वारोऽसुरपुंगवाः।
विक्षरो बलवीरौ च वृत्रश्चैव महासुरः।। 1-66-33
कालायाः प्रथिताः पुत्राः कालकल्पाः प्रहारिणः।
प्रविख्याता महावीर्या दानवेषु परन्तपाः।। 1-66-34
विनाशनश्च क्रोधश्च क्रोधहन्ता तथैव च।
क्रोधशत्रुस्तथैवान्ये कालकेया इति श्रुताः।। 1-66-35
असुराणामुपाध्यायः शक्रस्त्वषिसुतोऽभवत्।
ख्याताश्चोशनसः पुत्राश्चत्वारोऽसुरयाजकाः।। 1-66-36
त्वष्टा धरस्तथात्रिश्च द्वावन्यौ रौद्रकर्मिणौ।
तेजसा सूर्यसंकाशा ब्रह्मलोकपरायणाः।। 1-66-37
इत्येष वंशप्रभवः कथितस्ते तरस्विनाम्।
असुराणां सुराणां च पुराणे संश्रुतो मया।। 1-66-38
एतेषां यदपत्यं तु न शक्यं तदशेषतः।।
प्रसंख्यातुं महीपाल गुणभूतमनन्तकम्।। 1-66-39
तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ।
आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्तिताः।। 1-66-40
शेषोऽनन्तो वासुकिश्च तक्षकश्च भुजङ्गमः।
कूर्मश्च कुलिकश्चैव काद्रवेयाः प्रकीर्तिताः।। 1-66-41
भीमसेनोग्रसेनौ च सुपर्णो वरुणस्तथा।
गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः।। 1-66-42
सत्यवागर्कपर्णश्च प्रयुतश्चापि विश्रुतः।
भीमश्चित्ररथश्चैव विख्यातः सर्वविद्वशी।। 1-66-43
तथा शालिशिरा राजन्पर्जन्यश्च चतुर्दशः।
कलिः पञ्चदशस्तेषां नारदश्चैव षोडशः।।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः।। 1-66-44
अथ प्रभूतान्यन्यानि कीर्तयिष्यामि भारत।
अनवद्यां मनुं वंशामसुरां मार्गणप्रियाम्।। 1-66-45
अरूपां सुभगां भासीमिति प्राधा व्यजायत।
सिद्धः पूर्णश्च बर्हिश्च पूर्णायुश्च महायशाः।। 1-66-46
ब्रह्मचारी रतिगुणः सुपर्णश्चैव सप्तमः।
विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा।। 1-66-47
इत्येते देवगन्धर्वाः प्राधेयाः परिकीर्तिताः।
इमं त्वप्सरसां वंशं विदितं पुण्यलक्षणम्।। 1-66-48
अरिष्टाऽसूत सुभगा देवी देवर्षितः पुरा।
अलम्बुषा मिश्रकेशी विद्युत्पर्णा तिलोत्तमा।। 1-66-49
अरुणा रक्षिता चैव रम्भा तद्वन्मनोरमा।
केशिनी च सुबाहुश्च सुरता सुरजा तथा।। 1-66-50
सुप्रिया चातिबाहुश्च विख्यातौ च हाहा हूहूः।
तुम्बुरुश्चेति चत्वारः स्मृता गन्धर्वसत्तमाः।। 1-66-51
अमृतं ब्राह्मणा गावो गन्धर्वाप्सरसस्तथा।
अपत्यं कपिलायास्तु पुराणे परिकीर्तितम्।। 1-66-52
इति ते सर्वभूतानां संभवः कथितो मया।
यथावत्संपरिख्यातो गन्धर्वाप्सरसां तथा।। 1-66-53
भुजंगानां सुपर्णानां रुद्राणां मरुतां तथा।
गवां च ब्राह्मणानां च श्रीमतां पुण्यकर्मणाम्।। 1-66-54
आयुष्यश्चैव पुण्यश्च धन्यः श्रुतिसुखावहः।
श्रोतव्यश्चैव सततं श्राव्यश्चैवानसूयता।। 1-66-55
इमं तु वंशं नियमेन यः पठे-
न्महात्मनां ब्राह्मणदेवसन्निधौ।
अपत्यलाभं लभते स पुष्कलं
श्रियं यशः प्रेत्य च शोभनां गतिम्।। 1-66-56
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि षट्षष्टितमोऽध्यायः।। 66 ।।
1-66-2 क्षयात् स्थानात्।। 1-66-16 जघन्यजः पश्चाज्जातः।। 1-66-32 क्रूरायाः क्रोधायाः।। 1-66-39 गुणभूतप्रधानरूपम्।। षट्षष्टितमोऽध्यायः।। 66 ।।
आदिपर्व-065 | पुटाग्रे अल्लिखितम्। | आदिपर्व-067 |