महाभारतम्-03-आरण्यकपर्व-006
← आरण्यकपर्व-005 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-006 वेदव्यासः |
आरण्यकपर्व-007 → |
विदुरविप्रयोगखिन्नेन धृतराष्ट्रेण तदाह्वानाय संजयप्रेषणम् ।। 1 ।। संजयाहूतेन विदुरेण पुनर्धृतराष्ट्रंप्रत्यागमनम् ।। 2 ।।
वैशम्पायन उवाच।।
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति ।
धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत भारत ।।१।।
स सभाद्वारमागम्य विदुरस्मारमोहितः ।
समक्षं पार्थिवेन्द्राणां पपाताविष्टचेतनः ।।२।।
स तु लब्ध्वा पुनः सञ्ज्ञां समुत्थाय महीतलात् ।
समीपोपस्थितं राजा सञ्जयं वाक्यमब्रवीत् ।।३।।
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः ।
तस्य स्मृत्वाद्य सुभृशं हृदयं दीर्यतीव मे ।।४।।
तमानयस्व धर्मज्ञं मम भ्रातरमाशु वै ।
इति ब्रुवन्स नृपतिः करुणं पर्यदेवयत् ।।५।।
पश्चात्तापाभिसन्तप्तो विदुरस्मारकर्शितः ।
भ्रातृस्नेहादिदं राजन्सञ्जयं वाक्यमब्रवीत् ।।६।।
गच्छ सञ्जय जानीहि भ्रातरं विदुरं मम ।
यदि जीवति रोषेण मया पापेन निर्धुतः ।।७।।
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किञ्चन ।
व्यलीकं कृतपूर्वं मे प्राज्ञेनामितबुद्धिना ।।८।।
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान् ।
न जह्याज्जीवितं प्राज्ञस्तं गच्छानय सञ्जय ।।९।।
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च ।
सञ्जयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं वनम् ।।१०।।
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः ।
रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ।।११।।
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः ।
भ्रातृभिश्चाभिसङ्गुप्तं देवैरिव शतक्रतुम् ।।१२।।
युधिष्ठिरमथाभ्येत्य पूजयामास सञ्जयः ।
भीमार्जुनयमांश्चापि तदर्हं प्रत्यपद्यत ।।१३।।
राज्ञा पृष्टः स कुशलं सुखासीनश्च सञ्जयः ।
शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ।।१४।।
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः ।
तं पश्य गत्वा त्वं क्षिप्रं सञ्जीवय च पार्थिवम् ।।१५।।
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान् ।
नियोगाद्राजसिंहस्य गन्तुमर्हसि मानद ।।१६।।
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः ।
युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ।।१७।।
तमब्रवीन्महाप्राज्ञं धृतराष्ट्रः प्रतापवान् ।
दिष्ट्या प्राप्तोऽसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ।।१८।।
अद्य रात्रौ दिवा चाहं त्वत्कृते भरतर्षभ ।
प्रजागरे पपश्यामि विचित्रं देहमात्मनः ।।१९।।
सोऽङ्कमादाय विदुरं मूर्ध्न्युपाघ्राय चैव ह ।
क्षम्यतामिति चोवाच यदुक्तोऽसि मया रुषा ।।२०।।
विदुर उवाच।।
क्षान्तमेव मया राजन्गुरुर्नः परमो भवान् ।
तथा ह्यस्म्यागतः क्षिप्रं त्वद्दर्शनपरायणः ।।२१।।
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतसः ।
दीनाभिपातिनो राजन्नात्र कार्या विचारणा ।।२२।।
पाण्डोः सुता यादृशा मे तादृशा मे सुतास्तव ।
दीना इति हि मे बुद्धिरभिपन्नाद्य तान्प्रति ।।२३।।
वैशम्पायन उवाच।।
अन्योन्यमनुनीयैवं भ्रातरौ तौ महाद्युती ।
विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ।।२४।। 3.6.25
वैशंपायन उवाच। | 3-6-1x |
गते तु विदुरे राजन्नाश्रमं पाण्डवान्प्रति। धृतराष्ट्रो महाप्राज्ञः पर्यतप्यत दुर्मनाः ।। | 3-6-1a 3-6-1b |
[विदुरस्य प्रभावं च सन्धिविग्रहकारितम्। विवृद्धिं च परां मत्वा पाण्डवानां भविष्यति ।।] | 3-6-2a 3-6-2b |
स सभाद्वारमागम्य विदुरस्मारमोहितः। समक्षं पार्थिवेनद्राणां विसंज्ञः प्रापतद्भुवि ।। | 3-6-3a 3-6-3b |
स तु लब्ध्वा चिरात्संज्ञां समुत्थाय महीतलात्। समीपोपस्थितं राजा संजयं वाक्यमब्रवीत् ।। | 3-6-4a 3-6-4b |
भ्राता मम सुहृच्चैव साक्षाद्धर्म इवापरः। तस्य स्मृत्याऽद्य सुभृशं हृदयं दीर्यतीवमे ।। | 3-6-5a 3-6-5b |
तमानय स्वधर्मज्ञं मम भ्रातरमाशु वै। इति ब्रुवन्स नृपतिः कृपणं पर्यदेवयत् ।। | 3-6-6a 3-6-6b |
पश्चात्तापाभिसंतप्तो विदुरस्मारमोहितः। भ्रातृश्नेहादिदं राजा संजयं वाक्यमब्रवीत् ।। | 3-6-7a 3-6-7b |
गच्छ संजय जानीहि भ्रातरं विदुरं मम। यदि जीवति रोषेण मया पापेन निर्धुतः ।। | 3-6-8a 3-6-8b |
न हि तेन मम भ्रात्रा सुसूक्ष्ममपि किंचन। व्यलीकं कृतपूर्वं वै प्राज्ञेनामितबुद्धिना ।। | 3-6-9a 3-6-9b |
स व्यलीकं कथं प्राप्तो मत्तः परमबुद्धिमान्। न जह्माज्जीवितं प्राज्ञ तं गच्छानय संजय ।। | 3-6-10a 3-6-10b |
तस्य तद्वचनं श्रुत्वा राज्ञस्तमनुमान्य च। संजयो बाढमित्युक्त्वा प्राद्रवत्काम्यकं प्रति | 3-6-11a 3-6-11b |
सोऽचिरेण समासाद्य तद्वनं यत्र पाण्डवाः। रौरवाजिनसंवीतं ददर्शाथ युधिष्ठिरम् ।। | 3-6-12a 3-6-12b |
विदुरेण सहासीनं ब्राह्मणैश्च सहस्रशः। भ्रातृभिश्चाभिसंगुप्तं देवैरिव पुरंदरम् ।। | 3-6-13a 3-6-13b |
युधिष्ठिरमुपागम्य पूजयामास संजयः। भीमार्जुनयमाश्चापि तद्युक्तं प्रतिपेदिरे ।। | 3-6-14a 3-6-14b |
राज्ञा पृष्टः स कुशलं सुखासीनश्च संजयः। शशंसागमने हेतुमिदं चैवाब्रवीद्वचः ।। | 3-6-15a 3-6-15b |
संजय उवाच। | 3-6-16x |
राजा स्मरति ते क्षत्तर्धृतराष्ट्रोऽम्बिकासुतः। तं पश्य गत्वा त्वं क्षिप्रं संजीवय च पार्थिवम् ।। | 3-6-16a 3-6-16b |
सोऽनुमान्य नरश्रेष्ठान्पाण्डवान्कुरुनन्दनान्। नियोगाद्राजसिंहस्य गन्तुमर्हसि सत्तम् ।। | 3-6-17a 3-6-17b |
एवमुक्तस्तु विदुरो धीमान्स्वजनवत्सलः। युधिष्ठिरस्यानुमते पुनरायाद्गजाह्वयम् ।। | 3-6-18a 3-6-18b |
तमब्रवीन्महातेजा धृतराष्ट्रोऽम्बिकासुतः। दिष्ट्या प्राप्तोसि धर्मज्ञ दिष्ट्या स्मरसि मेऽनघ ।। | 3-6-19a 3-6-19b |
अद्य चाहं दिवारात्रौ त्वत्कृते भरतर्षभ। प्रजागरे प्रपश्यामि विचित्रं देहमात्मनः ।। | 3-6-20a 3-6-20b |
वैशंपायन उवाच। | 3-6-21x |
सोङ्कमानीय विदुरं मूर्धन्याघ्राय चैव ह। क्षम्यतामिति चोवाचयदुक्तोसि मयाऽनघ ।। | 3-6-21a 3-6-21b |
विदुर उवाच। | 3-6-22x |
क्षान्तमेव मया राजन्गुरुर्मे परमो भवान्। तथाऽहमागतः शीघ्रं त्वद्दर्शनपरायणः ।। | 3-6-22a 3-6-22b |
भवन्ति हि नरव्याघ्र पुरुषा धर्मचेतनाः। दीनानुकम्पिनो राजन्नात्र कार्या विचारणा ।। | 3-6-23a 3-6-23b |
पाण्डोः पुत्रा यादृशास्ते तादृशा मे सुतास्तव। दीना इतीव मे बुद्धिरभिपन्नाऽद्य तान्प्रति ।। | 3-6-24a 3-6-24b |
वैशंपायन उवाच। | 3-6-25x |
अन्योन्यमनुनीयैवं भ्रातरौ द्वौ महाद्युती। विदुरो धृतराष्ट्रश्च लेभाते परमां मुदम् ।। | 3-6-25a 3-6-25b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि षष्ठोऽध्यायः ।। 6 ।। |
3-6-1 महाप्राज्ञः विदुरेपदेशे स्थितानां जयो भविष्यतीति जानन् ।। 3-6-2 संधिविग्रहकारितं संधिविग्रहादिनीतिज्ञत्वकृतम्। भविष्यति आगामिनि काले ।। 3-6-8 निर्धुतः निःसारितः ।। 3-6-9 व्यलीकं अप्रियम् ।। 3-6-10 त्यक्ष्यामि जीवितमिति झ. पाठः ।।
आरण्यकपर्व-005 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-007 |