महाभारतम्-03-आरण्यकपर्व-184
← आरण्यकपर्व-183 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-184 वेदव्यासः |
आरण्यकपर्व-185 → |
वर्षाशरद्वर्णनम् ।। 1 ।।
युधिष्ठिरादिभिर्द्वैतवनात्पुनः काम्यकवनप्रवेशः ।। 2 ।।
वैशंपायन उवाच। | 3-184-1x |
निदाघान्तकरः कालः सर्वभूतसुखावहः। तत्रैव वसतां तेषां प्रावृट् समभिपद्यत ।। | 3-184-1a 3-184-1b |
छादयन्तो महाघोषाः स्वं दिशश्च बलाहकाः। प्रववर्षुर्दिवारात्रमसिताः सततं तदा ।। | 3-184-2a 3-184-2b |
तपात्ययनिकेताश्च शतशोऽथ सहस्रशः। अपेतार्कप्रभाजालाः सविद्युन्मण्डप्रभाः ।। | 3-184-3a 3-184-3b |
विरूढशष्पा धरणी मत्तदंशसरीसृपा। बभूव पयसा सिक्ता शान्तधूमरजोगणा ।। | 3-184-4a 3-184-4b |
न स्म प्रज्ञायते किंचिदम्भसा समवस्तृते। समं वा विषमं वाऽपि नद्यो वा स्तावराणि वा ।। | 3-184-5a 3-184-5b |
क्षुब्धतोया महावेगाः श्वसमाना इवाशुगाः। सिन्धवः शोभयांचक्रुः काननानि तपात्यये ।। | 3-184-6a 3-184-6b |
नदतां काननान्तेषु श्रूयन्ते विविधाः स्वनाः। वृष्टिभिस्ताड्यमानानां वराहमृगपक्षिणाम् ।। | 3-184-7a 3-184-7b |
स्तोककाः शिखिनश्चैव पुंस्कोकिलगणैः सह। मत्ताः परिपतन्ति स्म दर्दुरश्चैव दर्पिताः ।। | 3-184-8a 3-184-8b |
तदा बहुविधाकारा प्रावृण्मेघानुनादिता। अभ्यतीता शिवा तेषां चरतां मरुधन्वसु ।। | 3-184-9a 3-184-9b |
क्रौञ्चहंससमाकीर्णा शरत्प्रमुदीताऽभवत्। रूढकक्षवनप्रस्था प्रसन्नजलनिम्नगा ।। | 3-184-10a 3-184-10b |
विमलाकाशनक्षत्रा शरत्तेषां शिवाऽभषत्। मृगद्विजसमाकीर्णा पाण्डवानां महात्मनाम् ।। | 3-184-11a 3-184-11b |
दृश्यन्ते शान्तरजसः क्षपाजलदशीतलाः। ग्रहनक्षत्रसङ्घैश्च सोमेन च विराजिताः ।। | 3-184-12a 3-184-12b |
कुमुदैः पुण्डरीकैश्च शीतवारिधराः शिवाः। नदीः पुष्करिणीश्चैव ददृशुः समलंकृताः ।। | 3-184-13a 3-184-13b |
ते वै मुमुदिरे वीराः प्रसन्नसलिलां शिवाम्। पश्यन्तो दृढधन्वानः परिपूर्णां सरस्वतीम् ।। | 3-184-15a 3-184-15b |
तेषां पुण्यतमा रात्रिः पर्वसन्धौ स्म शारदी। तत्रैव वसतामासीत्कार्तिकी जनमेजय ।। | 3-184-16a 3-184-16b |
पुण्यकृद्भिर्महासत्वैस्तापसैः सह पाण्डवाः। तत्सर्वं भरतश्रेष्ठ समूहुर्योगमुत्तमम् ।। | 3-184-17a 3-184-17b |
तमिस्राभ्युदये तस्मिन्धौम्येन सह पाण्डवाः। सूतैः पौरोगवैः साकं काम्यकं प्रययुर्वनम् ।। | 3-184-18a 3-184-18b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरशीत्यधिकशततमोऽध्यायः ।। 184 ।। |
3-184-2 असिताः कृष्णवर्णाः ।। 3-184-3 तपात्यये वर्षासु निकेता इव मण्डपीभूता इत्यर्थः ।। 3-184-5 समवस्तृते आच्छादिते। स्थावराणि भूतलादीनि ।। 3-184-6 आशुगाः तीव्रवेगाः। सिंधवः नद्यः ।। 3-184-8 स्तोककाश्चाकाः। दुर्दराः मण्डूकाः ।। 3-184-9 मरुधन्वसु गिरेः शुष्कस्थानेषु ।। 3-184-10 रूढकक्षाणि बहुतृणानि वनानि प्रस्थशब्देदितानि सानूनि च यस्यां सा तथा ।। 3-184-16 कार्तिकी कृत्तिकायुक्ता पौर्णमासी ।। 3-184-17 योगं युज्यते रथादाविति व्युत्पत्त्या वाहनादिक समूहुः आरोपितभारं कृतवन्तः ।।
आरण्यकपर्व-183 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-185 |