महाभारतम्-03-आरण्यकपर्व-194
← आरण्यकपर्व-193 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-194 वेदव्यासः |
आरण्यकपर्व-195 → |
मार्कण्डेयेन युधिष्ठिरप्रति कृतयुगवृत्तान्तकथनपूर्वकं धर्माचरणचोदना ।। 1 ।।
महाभारतस्य पर्वाणि |
---|
मार्कण्डेय उवाच। | 3-194-1x |
ततश्चोरक्षयंकृत्वाद्विजेभ्यः पृथिवीमिमाम्। वाजिमेधे महायज्ञे विधिवत्कल्पयिष्यति ।। | 3-194-1a 3-194-1b |
स्थापयित्वा च मर्यादाः स्वयंभुविहिताः शुभाः। पुनः पुण्ययशःकर्म जरया संश्रयिष्यति ।। | 3-194-2a 3-194-2b |
तच्छीलमनुवर्स्यन्ति मनुष्या लोकवासिनः। विप्रैश्चोरक्षये चैव कृतेक्षेमं भविष्यति ।। | 3-194-3a 3-194-3b |
कृष्णाजिनानि शक्तीश्च त्रिशूलान्यायुधानि च। स्थापयन्द्विजशार्दूलो देशेषु विजितेषु च ।। | 3-194-4a 3-194-4b |
संस्तूयमानो विप्रेन्द्रैर्मानयानो द्विजोत्तमान्। कल्कीचरिष्यति महीं सदा दस्युवधे रतः ।। | 3-194-5a 3-194-5b |
हा मातस्तात पुत्रेति तास्ता वाचः सुदारुणाः। विक्रोशमानान्सुभृशं दस्यूननेष्यति संक्षयम् ।। | 3-194-6a 3-194-6b |
ततोऽधऱ्मविनाशो वै धर्मवृद्धिश्च भारत। भविष्यति कृतेप्राप्ते क्रियावांश्च जनस्तथा ।। | 3-194-7a 3-194-7b |
आरामाश्चैव चैत्याश्च तटाकावसथास्तथा। पुष्करिण्यश्च विविधा देवतायतनानि च ।। | 3-194-8a 3-194-8b |
यज्ञक्रियाश्च विविधा भविष्यन्ति कृते युगे। ब्राह्मणाः साधवश्चैव मुनयश्च तपस्विनः ।। | 3-194-9a 3-194-9b |
आश्रमा हतपाषण्डाः स्थिताः सत्ये जनास्तदा। जायन्ति सर्वभूतानि शुध्यमानानि चैव हि ।। | 3-194-10a 3-194-10b |
सर्वेष्वृतुषु राजेन्द्र सर्वं सस्यं भविष्यति। नरा दानेषु निरता व्रतेषु नियमेषु च ।। | 3-194-11a 3-194-11b |
जपयज्ञपरा विप्रा धर्मकामा मुदा युताः। पालयिष्यन्ति राजानो धर्मेणेमां वसुंधराम् ।। | 3-194-12a 3-194-12b |
व्यवहाररता वैश्या भविष्यन्ति कृते युगे। षट्कर्मनिरता विप्राः क्षत्रिया रक्षणे रताः ।। | 3-194-13a 3-194-13b |
शुश्रूषायां रताः शूद्रास्तथा वर्णत्रयस्य च। एष धर्मः कृतयुगे त्रेतायां द्वापरे तथा ।। | 3-194-14a 3-194-14b |
पश्चिमे युगकाले च यः स ते संप्रकीर्तितः। सर्वलोकस् विदिता युगसह्ख्या च पाण्डव ।। | 3-194-15a 3-194-15b |
एतत्ते सर्वमाख्यातमतीतानागतं मया। वायुप्रोक्तमनुस्मृत्यपुराणमृषिसंस्तुतम् ।। | 3-194-16a 3-194-16b |
एवं संसारमार्गा मे बहुशश्चिरजीविनः। दृष्टाश्चैवानुभूताश्च किं भूयः श्रोतुमिच्छसि ।। | 3-194-17a 3-194-17b |
इदं चैवापरं भूयः सह भ्रातृभिरच्युत। धर्मसंशयमोक्षार्थं निबोध वचनं मम ।। | 3-194-18a 3-194-18b |
न तेऽन्यथाऽत्र विज्ञेयो धर्मो धर्मभृतांवर। धर्मात्मा हि सुखं राजन्प्रेत्य चेह च नन्दति ।। | 3-194-19a 3-194-19b |
न ब्राह्मणे परिभवः कर्तव्यस्ते कदाचन। ब्राह्मणः कुपितोऽहन्यादपि लोकान्प्रतिज्ञया ।। | 3-194-20a 3-194-20b |
वैशंपायन उवाच। | 3-194-21x |
मार्कण्डेयवचः श्रुत्वा कुरूणां प्रवरो नृपः। उवाच वचनं धीमान्परमं परमद्युतिः ।। | 3-194-21a 3-194-21b |
`एतच्छ्रुत्वा मया किं स्यात्कर्तव्यं मुनिसत्तम। कथं चायं जितोलोको रक्षितव्यो भविष्यति' ।। | 3-194-22a 3-194-22b |
कस्मिन्धर्मे मया स्थेयं प्रजाः संरक्षता मुने। कथंच वर्तमानो वै न च्यवेयं स्वधर्मतः ।। | 3-194-23a 3-194-23b |
मार्कण्डेय उवाच। | 3-194-24x |
दयावान्सर्वबूतेषु हितो रक्तोऽनसूयकः। उपत्यानामिव स्नेहात्प्रजानां रक्षणे रतः ।। | 3-194-24a 3-194-24b |
चर धर्मं त्यजाधर्मं पितॄन्पूर्वाननुस्मर। प्रमादाद्यत्कृतं तेऽभूत्सम्यग्ज्ञानेन तज्जय ।। | 3-194-25a 3-194-25b |
अलं ते मानमाश्रित्य सततं प्रियवाग्भव। विजित्य पृथिवीं सर्वां मोदमानः सुखी भव ।। | 3-194-26a 3-194-26b |
एष भूतो भविष्यश्च धर्मस्ते समुदीरितः। न तेऽस्त्यविदितं किंचिदतीतानागतं भुवि ।। | 3-194-27a 3-194-27b |
तस्मादिमं परिक्लेशं त्वं तात हृदि मा कृथाः। प्राज्ञास्तात न मुह्यन्ति कालेनापि प्रपीडिताः ।। | 3-194-28a 3-194-28b |
एष कालो महाबाहो अपि सर्वदिबौकसाम्। मुह्यन्ति हि प्रजास्तात कालेनापि प्रचोदिताः ।। | 3-194-29a 3-194-29b |
मा च तेऽत्र विशङ्का भूद्यन्मयोक्तं तवानघ। अतिशङ्क्य वचो ह्येतद्धर्मलोपो भवेत्तव ।। | 3-194-30a 3-194-30b |
जातोसि प्रथिते वंशे कुरूणां भरतर्षभ। कर्मणा मनसा वाचा सर्वमेतत्समाचर ।। | 3-194-31a 3-194-31b |
युधिष्ठिर उवाच। | 3-194-32x |
यत्त्वयोक्तं द्विजश्रेष्ठ वाक्यं श्रुतिमनोहरम्। तथा करिष्ये यत्नेन भवतः शासनं विभो ।। | 3-194-32a 3-194-32b |
न मे लोभोस्ति विप्रेन्द्रन भयं न च मत्सरः। करिष्यामि हि तत्सर्वमुक्तं यत्ते मयि प्रभो ।। | 3-194-33a 3-194-33b |
वैशंपायन उवाच। | 3-194-34x |
श्रुत्वा तु वचनं तस्य पाण्डवस्य यशस्विनः। संहृष्टः पाण्डवा राजन्सहिता शार्ङ्गधन्वना ।। | 3-194-34a 3-194-34b |
विप्र्रषभाश्च ते सर्वे ये तत्रासन्समागताः। तथा कथां शुभां श्रुत्वा रमार्कण्डेयस्य धमतः। विस्मिता समपद्यन्त पुराणस् निवेदनात् ।। | 3-194-35a 3-194-35b 3-194-35c |
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुर्नवत्यधिकशततमोऽध्यायः ।। 194 ।। |
3-194-1 कल्पयिष्ति दास्यति ।। 3-194-2 वनं पुण्ययशः कर्मारमणीयं प्रवेक्ष्यति. इति झ. पाठः ।। 3-194-3 विप्रैर्हेतुभिः कृतेयुगे ।। 3-194-4 कृष्णाजिनानि ब्रह्मचारिपरिधेयानि। तेन सर्वाणि ब्राह्मणकर्माणि लक्ष्यन्ति. शक्तीरित्यादिना राजधर्माः। स्थापयान् ब्रह्मक्षत्रयोर्धर्मव्यवस्थांचक्रे इतिभावः ।। 3-194-10 प्रयन्ति सर्वबीजानि रोप्यमाणानि चैव हेति झ. पाठः। तत्र प्रयन्ति नश्यन्ति बीजानि संस्काराः रोप्यमाणानि क्रियमाणैः कर्मभिर्दृढं संपाद्यमानान्यपि ज्ञानबलान्नश्यन्तीत्यर्थ ।। 3-194-25 सम्यग्दानेन इति झ. पाठः ।। 3-194-34 तस्य मार्कण्डेयस् धीमत इति झ. पाठः ।।
आरण्यकपर्व-193 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-195 |