महाभारतम्-03-आरण्यकपर्व-201
← आरण्यकपर्व-200 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-201 वेदव्यासः |
आरण्यकपर्व-202 → |
वैशम्पायन उवाच
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवो मार्कण्डेयम् । अथाचष्ट मार्कण्डेयः । अष्टकस्य वैश्वामित्रेरश्वमेधे सर्वे राजानः प्रागच्छन् ।। १ ।।
भ्रातरश्चास्य प्रतर्दनो वसुमनाः शिबिरौशीनर इति । स च समाप्तयज्ञो भ्रातृभिः सह रथेन प्रायात् । ते च नारदमागच्छन्तमभिवाद्यारोहतु भवान् रथमित्यब्रुवन् ।। २ ।।
तांस्तथेत्युक्त्वा रथमारुरोह । अथ तेषामेकः सुरर्षिं नारदमब्रवीत् । प्रसाद्य भगवन्तं किंचि- दिच्छेयं प्रष्टुमिति ।। ३ ।।
पृच्छेत्यब्रवीदृषिः । सोऽब्रवीदायुष्मन्तः सर्व- गुणप्रमुदिताः । अथायुष्मन्तं स्वर्गस्थानं चतुर्भि- र्यातव्यं स्यात् कोऽवतरेत् । अयमष्टकोऽवतरेदित्यब्रवीदृषिः ।। ४ ।।
किं कारणमित्यपृच्छत् । अथाचष्टाष्टकस्य गृहे मया उषितं स मां रथेनानुप्रावहदथापश्यमनेकानिगोसहस्राणि वर्णशो विविक्तानि तमहमपृच्छं कस्येमे गाव इति सोऽब्रवीत् । मया निसृष्टा इत्येतास्तेनैव स्वयं श्लाघति कथितेन । एषोऽवतरेदथ त्रिभिर्यातव्यं साम्प्रतं कोऽवतरेत् ।।
प्रतर्दन इत्यब्रवीदृषिः । तत्र किं कारणं प्रत- र्दनस्यापि गृहे मयोषितं स मां रथेनानुप्रावहत् ।।६।।
अथैनं ब्राह्मणोऽभिक्षेताश्वं मे ददातु भवान् निवृत्तो दास्यामीत्यब्रवीद् ब्राह्मणं त्वरितमेव दीयतामित्यब्रवीद् ब्राह्मणस्त्वरितमेव स ब्राह्मणस्यैवमुक्त्वा दक्षिणं पार्श्वमददत् ।। ७ ।।
अथान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् । तथैव चैनमुक्त्वा वामपार्ष्णिमभ्यदादथ प्रायात् पुनरपि चान्योऽप्यश्वार्थी ब्राह्मण आगच्छत् त्वरितोऽथ तस्मै अपनह्य वामं धुर्यमददत् ।। ८ ।।
अथ प्रायात् पुनरन्य आगच्छदश्वार्थी ब्राह्मण- स्तमब्रवीदतियातो दास्यामि त्वरितमेव मे दीयतामित्यब्रवीद् ब्राह्मणस्तस्मै दत्त्वाश्वं रथधुरं गृह्णता व्याहृतं ब्राह्मणानां साम्प्रतं नास्ति किंचिदिति ।।९।।
य एष ददाति चासूयति च तेन व्याहृतेन तथावतरेत् । अथ द्वाभ्यां यातव्यमिति कोऽव- तरेत् ।। १० ।।
वसुमना अवतरेदित्यब्रवीदृषिः ।। ११ ।।
किं कारणमित्यपृच्छदथाचष्ट नारदः । अहं परिभ्रमन् वसुमनसो गृहमुपस्थितः ।। १२ ।।
स्वस्तिवचनमासीत् पुष्परथस्य प्रयोजनेन तमहमन्वगच्छं स्वस्तिवाचितेषु ब्राह्मणेषु रथो ब्राह्मणानां दर्शितः ।। १३ ।।
तमहं रथं प्राशंसमथ राजाब्रवीद्भगवता रथः प्रशस्तः । एष भगवतो रथ इति ।। १४ ।।
अथ कदाचित् पुनरप्यहमुपस्थितः पुनरेव च रथप्रयोजनमासीत् । सम्यगयमेष भगवत इत्येवं राजाब्रवीदिति पुनरेव तृतीयं स्वस्तिवाचनं समभावयमथ राजा ब्राह्मणानां दर्शयन् मामभि प्रेक्ष्याब्रवीत् । अथो भगवता पुष्परथस्य स्वस्ति- वाचनानि सुष्ठु सम्भावितानि एतेन द्रोहवचनेनावतरेत् ।। १५ ।
अथैकेन यातव्यं स्यात् कोऽवतरेत् पुनर्नारद आह शिबिर्यायादहमवतरेयमत्र किं कारण- मित्यब्रवीत् । असावहं शिबिना समो नास्मि यतो ब्राह्मणः कश्चिदेनमब्रवीत् ।। १६ ।।
शिबे अन्नार्थ्यस्मीति तमब्रवीच्छिविः किं क्रियतामाज्ञापयतु भवानिति ।। १७ ।।
अथैनं ब्राह्मणोऽब्रवीद् य एष ते पुत्रो बृहद्गर्भो नाम एष प्रमातव्य इति तमेनं संस्कुरु अन्नं चोप- पादय ततोऽहं प्रतीक्ष्य इति । ततः पुत्रं प्रमाथ्य संस्कत्य विधिना साधयित्वा पाश्यामर्पयित्वा शिरसा प्रतिगृह्य ब्राह्मणममृगयत् ।। १८ ।।
अथास्य मृगयमाणस्य कश्चिदाचष्ट एव ते ब्राह्मणो नगरं प्रविश्य दहति ते गृहं कोशागारमायुधागारं स्त्र्यगारमश्वशालां हस्तिशालां च क्रुद्ध इति।।१९।।
अथ शिबिस्तथैवाविकृतमुखवर्णो नगरं प्रविश्य ब्राह्मणं तमब्रवीत् सिद्धं भगवन्नन्नमिति ब्राह्मणो न किंचिद्व्याजहार विस्मयादधोमुखश्चासीत् ।। २० ।।
ततः प्रासादयद् ब्राह्मणं भगवन् भुज्यतामिति । मुहूर्तादुद्वीक्ष्य शिबिमब्रवीत्।।२१।।
त्वमेवैतदशानेति तत्राह तथेति शिबिस्तथैवा- विमना महित्वा कपालमभ्युद्धार्य भोक्तुमैच्छत् ।। २२ ।।
अथास्य ब्राह्मणो हस्तमगृह्णात् । अब्रवीच्चैनं जितक्रोधोऽसि न ते किञ्चिदपरित्याज्यं ब्राह्मणार्थे ब्राह्मणोऽपि तं महाभागं सभाजयत्।।२३।।
स ह्युद्वीक्षमाणः पुत्रमपश्यदग्रे तिष्ठन्तं देव- कुमारमिव पुण्यगन्धान्वितमलङ्कृतं सर्वं च तमर्थं विधाय ब्राह्मणोऽन्तरधीयत ।। २४ ।।
तस्य राजर्षेर्विधाता तेनैव वेषेण परीक्षार्थमागत इति तस्मिन्नन्तर्हिते अमात्या राजानमूचुः । किं प्रेप्सुना भवता इदमेवं जानता कृतमिति ।। २५ ।।
शिबिरुवाच
नैवाहमेतद् यशसे ददानि
न चार्थहेतोर्न च भोगतृष्णया ।
पापैरनासेवित एष मार्ग
इत्येवमेतत् सकलं करोमि ।। २६ ।।
सद्भिः सदाध्यासितं तु प्रशस्तं
तस्मात् प्रशस्तं श्रयते मतिर्मे ।
एतन्महाभाग्यवरं शिबेस्तु
तस्मादहं वेद यथावदेतत् ।। २७ ।।
इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वणि राजन्यमहाभाग्ये शिबिचरिते अष्टनवत्यधिकशततमोऽध्यायः ।।१ ९८।।
महाभारतस्य पर्वाणि |
---|