महाभारतम्-03-आरण्यकपर्व-076
← आरण्यकपर्व-075 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-076 वेदव्यासः |
आरण्यकपर्व-077 → |
नलेन पुनः स्वपुरंप्रत्यागमनम् ।। 1 ।। तथा पुनर्द्यूतेन पुष्रं पराजित्य तस्य तत्पुरं प्रतियापनम् ।। 2 ।।
बृहदश्व उवाच।।
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः ।
पुरादल्पपरीवारो जगाम निषधान्प्रति ।।१।।
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः ।
पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ।।२।।
स कम्पयन्निव महीं त्वरमाणो महीपतिः ।
प्रविवेशातिसंरब्धस्तरसैव महामनाः ।।३।।
ततः पुष्करमासाद्य वीरसेनसुतो नलः ।
उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ।।४।।
दमयन्ती च यच्चान्यन्मया वसु समर्जितम् ।
एष वै मम संन्यासस्तव राज्यं तु पुष्कर ।।५।।
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः ।
एकपाणेन भद्रं ते प्राणयोश्च पणावहे ।।६।।
जित्वा परस्वमाहृत्य राज्यं वा यदि वा वसु ।
प्रतिपाणः प्रदातव्यः परं हि धनमुच्यते ।।७।।
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम् ।
द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ।।८।।
वंशभोज्यमिदं राज्यं मार्गितव्यं यथा तथा ।
येन तेनाप्युपायेन वृद्धानामिति शासनम् ।।९।।
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।
कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ।।१०।।
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।
ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ।।११।।
दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध ।
दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ।।१२।।
दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ।।१२।।
धनेनानेन वैदर्भी जितेन समलङ्कृता ।
मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ।।१३।।
नित्यशो हि स्मरामि त्वां प्रतीक्षामि च नैषध ।
देवने च मम प्रीतिर्न भवत्यसुहृद्गणैः ।।१४।।
जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।
कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ।।१५।।
श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः ।
इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ।।१६।।
स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः ।
पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ।।१७।।
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।
एकपाणेन भद्रं ते नलेन स पराजितः ।।१८।।
सरत्नकोशनिचयः प्राणेन पणितोऽपि च ।।१८।।
जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ।
मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ।।१९।।
वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् ।
तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ।।२०।।
न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा ।
कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ।।२१।।
नाहं परकृतं दोषं त्वय्याधास्ये कथञ्चन ।।२१।।
यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते ।
तथैव च मम प्रीतिस्त्वयि वीर न संशयः ।।२२।।
सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति ।
पुष्कर त्वं हि मे भ्राता सञ्जीवस्व शतं समाः ।।२३।।
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः ।
स्वपुरं प्रेषयामास परिष्वज्य पुनः पुनः ।।२४।।
सान्त्वितो नैषधेनैवं पुष्करः प्रत्युवाच तम् ।
पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ।।२५।।
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।
यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ।।२६।।
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः ।
प्रययौ स्वपुरं हृष्टः पुष्करः स्वजनावृतः ।।२७।।
महत्या सेनया राजन्विनीतैः परिचारकैः ।
भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ।।२८।।
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।
प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ।।२९।।
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः ।।२९।।3.78.32-33
बृहदश्व उवाच। | 3-76-1x |
स मासमुष्य कौन्तेय भीममामन्त्र्य नैषधः। पुरादल्पपरीवारो जगाम निषधान्प्रति ।। | 3-76-1a 3-76-1b |
रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशै। पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ।। | 3-76-2a 3-76-2b |
स कम्पयन्निव महीं त्वरमाणो महापुरीम्। प्रविवेशाथ संरब्धस्तरसैव महामनाः ।। | 3-76-3a 3-76-3b |
ततः पुष्करमासाद्य वीरसेनसुतो नलः। उवाच दीव्याव पुनर्बहुवित्तं मयाऽर्जितम् ।। | 3-76-4a 3-76-4b |
दमयन्ती च यच्चान्यन्मम किंचन विद्यते। एष वै मम संन्यासस्तव राज्यंतु पुष्कर ।। | 3-76-5a 3-76-5b |
पुनः प्रवर्ततां द्यूतमिति मे निश्चिता मतिः। एकपाणेन भद्रं ते प्राणयोश्च पणावहे ।। | 3-76-6a 3-76-6b |
जित्वा परस्वमाहृत् राज्यंवा यदि वा वसु। प्रतिपाणः प्रदातव्यः प्राणो हि पणमुच्यते ।। | 3-76-7a 3-76-7b |
न चेद्वाञ्छसि तद्द्यूतं युद्धद्यूतं प्रवर्तताम्। द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ।। | 3-76-8a 3-76-8b |
वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा। येनकेनाप्युपायेन वृद्धानामिति शासनम् ।। | 3-76-9a 3-76-9b |
द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर। कैतवेनाक्षवत्यां वा युद्धे वा नाम्यतां धनुः ।। | 3-76-10a 3-76-10b |
नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव। ध्रुवमात्मजयं मत्वा प्रत्याह निषधाधिपम् ।। | 3-76-11a 3-76-11b |
दिष्ट्या त्वयाऽर्जितं वित्तं प्रतिपाणाय नैषध। दिष्ट्या च दुष्कृतंकर्म दमयन्त्याः क्षयं गतम् ।। | 3-76-12a 3-76-12b |
दिष्ट्या वै प्रीसे राजन्मम लाभाय नैषध। पुनर्द्यूते च ते बुद्धिर्दिष्ट्या पुरुषसत्तम ।। | 3-76-13a 3-76-13b |
धनेनानेन वै भैमी जितेन समलंकृता। मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ।। | 3-76-14a 3-76-14b |
नित्यशो हि स्मरामि त्वां प्रतीक्षेऽपि च नैषध। देवने च मभ प्रीतिर्भवत्येवासुहृद्गणैः ।। | 3-76-15a 3-76-15b |
जित्वात्वद्य वरारोहां दमयन्तीमनिन्दिताम्। कतकृत्यो भविष्यामि सा हिमे नित्यशो हृदि ।। | 3-76-16a 3-76-16b |
श्रुत्वा तु तस् ता वाचो बह्वबद्धप्रलापिनः। इयेष स शिरश्छेत्तुं खङ्गेन कुपितो नलः ।। | 3-76-17a 3-76-17b |
स्मयंस्तु रोषताम्राक्षस्तमुवाच नलो नृपः। पणावः किं व्याहरसे जितो न व्याहरिष्यसि ।। | 3-76-18a 3-76-18b |
ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च। एकपाणेन भद्रं ते नलेन स पराजितः ।। | 3-76-19a 3-76-19b |
स रत्नकोशनिचयैः प्राणेन पणितोपि च। जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ।। | 3-76-20a 3-76-20b |
मम सर्वमिदं राज्यमव्यग्रं हतकण्ठकम्। वैदर्भी न त्वया शक्या राजापशद वीक्षितम्। तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ।। | 3-76-21a 3-76-21b 3-76-21c |
न त्वया तत्कृतंकर्म येनाहं विजितः पुरा। कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ।। | 3-76-22a 3-76-22b |
नाहं परकृतं दोषं त्वय्याधास्ये कथंचन। यथासुखं वै जीवत्वंप्राणानवसृजामि ते ।। | 3-76-23a 3-76-23b |
तथैव सर्वसंभारं स्वमंशं वितरामि ते। तथैव च मम प्रीतिस्त्वयि वीर न संशयः ।। | 3-76-24a 3-76-24b |
सौहार्दं चापि मे त्वत्तो न कदाचित्प्रहास्यति। पुष्कर त्वं हि मे भ्राता संजीव शरदः शतम् ।। | 3-76-25a 3-76-25b |
एवं नलः सान्त्वयित्वा भ्रातरं सत्यविक्रमः। वचनैस्तोषयामास परिष्वज्य पुनः पुनः ।। | 3-76-26a 3-76-26b |
सान्त्वितो नैषधेनैवं पुष्ररः प्रत्युवाच तम्। पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलिः ।। | 3-76-27a 3-76-27b |
कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी। यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ।। | 3-76-28a 3-76-28b |
स तथा सत्कृतो राज्ञा मासमुष्य तदा नृपः। प्रययौ पुषरो हृष्टः स्वपुरं स्वजनावृतः ।। | 3-76-29a 3-76-29b |
महत्या सेनया सार्धंविनीतैः परिचारकैः। भ्राजमान इवादित्यो वपुषा पुरुषर्षभ ।। | 3-76-30a 3-76-30b |
प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम्। प्रविवेश पुरं श्रीमानत्यर्थमुपशोभिताम् ।। | 3-76-31a 3-76-31b |
प्रविश्य सान्त्वयामास पौरांश्च निषधाधिपः। `हितेषु चैषां सततं पितेवावहितोऽभवत्' ।। | 3-76-32a 3-76-32b |
पौरा जानपदाश्चापि संप्रहृष्टतनूरुहाः। ऊचुः प्राञ्जलयः सर्वे सामात्यप्रमुखा जनाः ।। | 3-76-33a 3-76-33b |
अद्यस्म निर्वृता राजन्पुरे जनपदेऽपि च। उपासितुं पुनः प्राप्ता देवा इव शतक्रतुम् ।। | 3-76-34a 3-76-34b |
3-76-1 उष्य वासं कृत्वा ।। 3-76-5 श्मयन्त्या च यच्चान्यज्जयत्वं सुसमार्जितमिति ध. पाठः .। 3-76-6 राज्यं एकपाणेनैव मम तुदमयन्त्यादि च प्राणयोश्च पणावहे युद्धमपि वर्ततामित्यर्तः ।। 3-76-7 प्राणो हि धनमुच्यते इति ध. पाठः ।। 3-76-9 प स्तगतं राज्यंइतिध. पाठः ।। 3-76-13 दिष्ट्याच ध्रियसे राजन्सदारोऽद्य महाभुजेति झ. पाठः ।। 3-76-18 पणाय किं व्याहरसे शीघ्रं द्यूतं प्रवर्ततामिति क. पाठः ।।
आरण्यकपर्व-075 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-077 |