महाभारतम्-03-आरण्यकपर्व-135
← आरण्यकपर्व-134 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-135 वेदव्यासः |
आरण्यकपर्व-136 → |
श्वेतकेतुना सह जनकयज्ञशालां विविक्षोरष्टावक्रस्य द्वारपालेन निरोधनम् ।। 1 ।। अष्ठावक्रद्वारपालयोः संवादः ।। 2 ।। स्वप्रश्नस्योत्तरदानतुष्टेन राज्ञा सभाप्रवेशाभुमतिः ।। 3 ।।
अष्टावक्र उवाच।।
अन्धस्य पन्था बधिरस्य पन्थाः; स्त्रियः पन्था वैवधिकस्य पन्थाः ।
राज्ञः पन्था ब्राह्मणेनासमेत्य; समेत्य तु ब्राह्मणस्यैव पन्थाः ।।१।।
राजोवाच।।
पन्था अयं तेऽद्य मया निसृष्टो; येनेच्छसे तेन कामं व्रजस्व ।
न पावको विद्यते वै लघीया; निन्द्रोऽपि नित्यं नमते ब्राह्मणानाम् ।।२।।
अष्टावक्र उवाच।।
यज्ञं द्रष्टुं प्राप्तवन्तौ स्व तात; कौतूहलं नौ बलवद्वै विवृद्धम् ।
आवां प्राप्तावतिथी सम्प्रवेशं; काङ्क्षावहे द्वारपते तवाज्ञाम् ।।३।।
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां; विवक्षू वै जनकेन्द्रं दिदृक्षू ।
न वै क्रोधाद्व्याधिनैवोत्तमेन; संयोजय द्वारपाल क्षणेन ।।४।।
द्वारपाल उवाच।।
बन्देः समादेशकरा वयं स्म; निबोध वाक्यं च मयेर्यमाणम् ।
न वै बालाः प्रविशन्त्यत्र विप्रा; वृद्धा विद्वांसः प्रविशन्ति द्विजाग्र्याः ।।५।।
अष्टावक्र उवाच।।
यद्यत्र वृद्धेषु कृतः प्रवेशो; युक्तं मम द्वारपाल प्रवेष्टुम् ।
वयं हि वृद्धाश्चरितव्रताश्च; वेदप्रभावेन प्रवेशनार्हाः ।।६।।
शुश्रूषवश्चापि जितेन्द्रियाश्च; ज्ञानागमे चापि गताः स्म निष्ठाम् ।
न बाल इत्यवमन्तव्यमाहु; र्बालोऽप्यग्निर्दहति स्पृश्यमानः ।।७।।
द्वारपाल उवाच।।
सरस्वतीमीरय वेदजुष्टा; मेकाक्षरां बहुरूपां विराजम् ।
अङ्गात्मानं समवेक्षस्व बालं; किं श्लाघसे दुर्लभा वादसिद्धिः ।।८।।
अष्टावक्र उवाच।।
न ज्ञायते कायवृद्ध्या विवृद्धि; र्यथाष्ठीला शाल्मलेः सम्प्रवृद्धा ।
ह्रस्वोऽल्पकायः फलितो विवृद्धो; यश्चाफलस्तस्य न वृद्धभावः ।।९।।
द्वारपाल उवाच।।
वृद्धेभ्य एवेह मतिं स्म बाला; गृह्णन्ति कालेन भवन्ति वृद्धाः ।
न हि ज्ञानमल्पकालेन शक्यं; कस्माद्बालो वृद्ध इवावभाषसे ।।१०।।
अष्टावक्र उवाच।।
न तेन स्थविरो भवति येनास्य पलितं शिरः ।
बालोऽपि यः प्रजानाति तं देवाः स्थविरं विदुः ।।११।।
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।।१२।।
दिदृक्षुरस्मि सम्प्राप्तो बन्दिनं राजसंसदि ।
निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ।।१३।।
द्रष्टास्यद्य वदतो द्वारपाल; मनीषिभिः सह वादे विवृद्धे ।
उताहो वाप्युच्चतां नीचतां वा; तूष्णीं भूतेष्वथ सर्वेषु चाद्य ।।१४।।
द्वारपाल उवाच।।
कथं यज्ञं दशवर्षो विशेस्त्वं; विनीतानां विदुषां सम्प्रवेश्यम् ।
उपायतः प्रयतिष्ये तवाहं; प्रवेशने कुरु यत्नं यथावत् ।।१५।।
अष्टावक्र उवाच।।
भो भो राजञ्जनकानां वरिष्ठ; सभाज्यस्त्वं त्वयि सर्वं समृद्धम् ।
त्वं वा कर्ता कर्मणां यज्ञियानां; ययातिरेको नृपतिर्वा पुरस्तात् ।।१६।।
विद्वान्बन्दी वेदविदो निगृह्य; वादे भग्नानप्रतिशङ्कमानः ।
त्वया निसृष्टैः पुरुषैराप्तकृद्भि; र्जले सर्वान्मज्जयतीति नः श्रुतम् ।।१७।।
स तच्छ्रुत्वा ब्राह्मणानां सकाशा; द्ब्रह्मोद्यं वै कथयितुमागतोऽस्मि ।
क्वासौ बन्दी यावदेनं समेत्य; नक्षत्राणीव सविता नाशयामि ।।१८।।
राजोवाच।।
आशंससे बन्दिनं त्वं विजेतु; मविज्ञात्वा वाक्यबलं परस्य ।
विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं; दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ।।१९।।
अष्टावक्र उवाच।।
विवादितोऽसौ न हि मादृशैर्हि; सिंहीकृतस्तेन वदत्यभीतः ।
समेत्य मां निहतः शेष्यतेऽद्य; मार्गे भग्नं शकटमिवाबलाक्षम् ।।२०।।
राजोवाच।।
षण्णाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः ।
यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ।।२१।।
अष्टावक्र उवाच।।
चतुर्विंशतिपर्व त्वां षण्णाभि द्वादशप्रधि ।
तत्त्रिषष्टिशतारं वै चक्रं पातु सदागति ।।२२।।
राजोवाच।।
वडवे इव संयुक्ते श्येनपाते दिवौकसाम् ।
कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ।।२३।।
अष्टावक्र उवाच।।
मा स्म ते ते गृहे राजञ्शात्रवाणामपि ध्रुवम् ।
वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ।।२४।।
राजोवाच।।
किं स्वित्सुप्तं न निमिषति किं स्विज्जातं न चोपति ।
कस्य स्विद्धृदयं नास्ति किं स्विद्वेगेन वर्धते ।।२५।।
अष्टावक्र उवाच।।
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति ।
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ।।२६।।
राजोवाच।।
न त्वा मन्ये मानुषं देवसत्त्वं; न त्वं बालः स्थविरस्त्वं मतो मे ।
न ते तुल्यो विद्यते वाक्प्रलापे; तस्माद्द्वारं वितराम्येष बन्दी ।।२७।। 3.133.30
अष्टावक्र उवाच। | 3-135-1x |
अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवाहस्य पन्थाः। राज्ञः पन्था ब्राह्मणेनासमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ।। | 3-135-1a 3-135-1b 3-135-1c 3-135-1d |
राजोवाच। | 3-135-2x |
पन्था अयं तेऽद्य मया निसृष्टो येनेच्छसे तेन कामं व्रजस्व। न पावको विद्यते वै लघीया- निन्द्रोपि नित्यं नमते ब्राह्मणानाम् ।। | 3-135-2a 3-135-2b 3-135-2c 3-135-2d |
लोमश उवाच। | 3-135-3x |
`स एवमुक्तो मातुलेनैव सार्धं यथेष्टमार्गो यज्ञनिवेशनं तत्। संप्राप्य धर्मेण निवारितः सन् द्वारि द्वाःस्थं वाक्यमिदं बभाषे ।।' | 3-135-3a 3-135-3b 3-135-3c 3-135-3d |
यज्ञं द्रष्टुं प्राप्तवन्तौ स्म तात कौतूहलं बलवद्वै विवृद्धम्। आवां प्राप्तावतिथी संप्रवेशं काङ्क्षावहे द्वारपते तवाज्ञाम् ।। | 3-135-4a 3-135-4b 3-135-4c 3-135-4d |
ऐन्द्रद्युम्नेर्यज्ञदृशाविहावां विवक्षू वै जनकेन्द्रं दिदृक्षू। न वै क्रुध्यो वन्दिना चोत्तमेन संयोजय द्वारपाल क्षणेन ।। | 3-135-5a 3-135-5b 3-135-5c 3-135-5d |
द्वारपाल उवाच। | 3-135-5x |
वन्देः समादेशकरा वयं स्म निबोध वाक्यं च मयेर्यमाणम्। न वै बालाः प्रविशन्त्यत्र विप्रा वृद्धा विदग्धाः प्रविशन्ति द्विजाग्र्याः ।। | 3-135-6a 3-135-6b 3-135-6c 3-135-6d |
अष्टावक्र उवाच। | 3-135-7x |
यद्यत्रवृद्धेषु कृतः प्रवेशो युक्तं मया द्वारपाल प्रवेष्टुम्। वयं हि वृद्धाश्चरितव्रताश्च वेदप्रभावेन समन्विताश्च ।। | 3-135-7a 3-135-7b 3-135-7c 3-135-7d |
शुश्रूषवश्चापि जितेन्द्रियाश्च ज्ञानागमे चापि गताः स्म निष्ठाम्। न बाल इत्येव मन्तव्यमाहु- र्बालोऽप्यग्निर्दहति स्पृश्यमानः ।। | 3-135-8a 3-135-8b 3-135-8c 3-135-8d |
द्वारपाल उवाच। | 3-135-9x |
सरस्वतीमीरय वेद जुष्टा- मेकाक्षरां बहुरूपां विराजम्। अङ्गात्मानं समवेक्षस्व बालं किं श्लाघसे दुर्लभा वादसिद्धिः ।। | 3-135-9a 3-135-9b 3-135-9c 3-135-9d |
अष्टावक्र उवाच। | 3-135-10x |
न ज्ञायते कायवृद्ध्या विवृद्धि- र्यथाऽष्ठीला शाल्मलेः संप्रवृद्धाः। ह्रस्वोऽल्पकायः फलितो विवृद्धो यश्चाफलस्तस्य न वृद्धभावः ।। | 3-135-10a 3-135-10b 3-135-10c 3-135-10d |
द्वारपाल उवाच। | 3-135-11x |
वृद्धेभ्य एवेह मतिं स्म बाला गृह्णन्ति कालेन भवन्ति वृद्धाः। न हि ज्ञातुमल्पकालेन शक्यं कस्माद्बालः स्थविर इव प्रभाषसे ।। | 3-135-11a 3-135-11b 3-135-11c 3-135-11d |
अष्टावक्र उवाच। | 3-135-12x |
न तेन स्थविरो भवति येनास्य पलितं शिरः। बालोपि यः प्रजानाति तं देवाः स्थविरं विदुः ।। | 3-135-12a 3-135-12b |
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः। ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ।। | 3-135-13a 3-135-13b |
दिदृक्षुरस्मि संप्राप्तो बन्दिनं राजसंसदि। निवेदयस्व मां द्वाःस्थ राज्ञे पुष्करमालिने ।। | 3-135-14a 3-135-14b |
द्रष्टास्यद्य वदतोऽस्मान्द्वारपाल मनीषिभिः। सह वादे विवृद्धे तु वन्दिनं चापि निर्जितम् ।। | 3-135-15a 3-135-15b |
पश्यन्तु विप्राः परिपूर्णविद्याः सहैव राज्ञा सपुरोधमुख्याः। उताहो वाऽप्युच्चतां नीचतां वा तूष्णींभूतेष्वेव सर्वेष्वथाद्य ।। | 3-135-16a 3-135-16b 3-135-16c 3-135-16d |
द्वारपाल उवाच। | 3-135-17x |
कथं यज्ञं दशवर्षो विशेस्त्वं विनीतानां विदुषां संप्रवेशम्। उपायतः प्रयतिष्ये तवाहं प्रवेशने कुरु यत्नं यथावत् ।। | 3-135-17a 3-135-17b 3-135-17c 3-135-17d |
`एष राजा संश्रवणे स्थितस्ते स्तुह्येनं त्वं वचसा संस्कृतेन। स चानुज्ञां दास्यति प्रीतियुक्तः प्रवेशने यच्च किंचित्तवेष्टम्'।। | 3-135-18a 3-135-18b 3-135-18c 3-135-18d |
अष्टावक्र उवाच। | 3-135-19x |
भोभो राजञ्जनकानां वरिष्ठ त्वं वै सम्राट् त्वयि सर्वं समृद्धम्। त्वं वा कर्ता कर्मणां यज्ञियानां ययातिरेको नृपतिर्वा पुरस्तात् ।। | 3-135-19a 3-135-19b 3-135-19c 3-135-19d |
विद्वान्वन्दी वादविदो निगृह्य वादे भग्नानप्रतिशङ्कमानः। त्वयाऽभिसृष्टैः पुरुषैराप्तकृद्भि- र्जले सर्वान्मज्जयतीति नः श्रुतम् ।। | 3-135-20a 3-135-20b 3-135-20c 3-135-20d |
सोऽहं श्रुत्वा ब्राह्मणानां सकाशे ब्रह्माद्य वै कथयितुमागतोस्मि। क्वासौ वनदी यावदेनं समेत्य नक्षत्राणीव सविता नाशयामि ।। | 3-135-21a 3-135-21b 3-135-21c 3-135-21d |
राजोवाच। | 3-135-22x |
आशंससे वन्दिनं वै विजेतु- मविज्ञाय त्वं वाक्यबलं परस्य। विज्ञातवीर्यैः शक्यमेवं प्रवक्तुं दृष्टश्चासौ ब्राह्मणैर्वादशीलैः ।। | 3-135-22a 3-135-22b 3-135-22c 3-135-22d |
आशंसमाना वन्दिनं वै बिजेतु- मविज्ञात्वा तु बलं वन्दिनोऽस्य। समागता ब्राह्मणास्तेन पूर्वं न शोभन्ते भास्करेणेव ताराः ।। | 3-135-23a 3-135-23b 3-135-23c 3-135-23d |
आशानुबन्धो हि तवात्र यत्नः स वन्दिमासाद्यतथा विनश्यति। विज्ञानवन्तो निकृतास्तु तात कथं सदस्तर्तुमिदं समर्थः ।। | 3-135-24a 3-135-24b 3-135-24c 3-135-24d |
अष्टावक्र उवाच। | 3-135-25x |
विवादितोऽसौ न हि मादृशैर्हि सिंहीकृतस्तेन वदन्यभीतः। समेत्य मां निहतः शेष्यतेऽद्य मार्गे भग्नं शकटमिवाबलाक्षम् ।। | 3-135-25a 3-135-25b 3-135-25c 3-135-25d |
राजोवाच। | 3-135-26x |
षण्नाभेर्द्वादशाक्षस्य चतुर्विंशतिपर्वणः। यस्त्रिषष्टिशतारस्य वेदार्थं स परः कविः ।। | 3-135-26a 3-135-26b |
अष्टावक्र उवाच। | 3-135-27x |
चतुर्विंशतिपर्व त्वां षणअनाभि द्वादशप्रधि। तत्रिषष्टिशतारं वै चक्रं पातु सदागति ।। | 3-135-27a 3-135-27b |
राजोवाच। | 3-135-28x |
बडबे इव संयुक्ते श्येनपाते दिवौकसाम्। कस्तयोर्गर्भमाधत्ते गर्भं सुषुवतुश्च कम् ।। | 3-135-28a 3-135-28b |
अष्टावक्र उवाच। | 3-135-29x |
मा स्म भूः स्वगृहे राजञ्शात्रवाणामपि ध्रुवम्। वातसारथिराधत्ते गर्भं सुषुवतुश्च तम् ।। | 3-135-29a 3-135-29b |
राजोवाच। | 3-135-30x |
किंस्वित्स्तुप्तं न निमिषति किंस्विज्जातं न चोपति। कस्यखिद्धृदयं नास्ति किंस्विद्वेगेन वर्धते ।। | 3-135-30a 3-135-30b |
अष्टावक्र उवाच। | 3-135-31x |
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति। अश्मनो हृदयं नास्ति नदी वेगेन वर्धते ।। | 3-135-31a 3-135-31b |
राजोवाच। | 3-135-32x |
न त्वां मन्ये मानुषं देवसत्व न त्वं बालः स्थविरः संमतो मे। न ते तुल्यो विद्यते वाक्प्रलापे तस्माद्द्वारं वितराम्येष विद्वन् ।। | 3-135-32a 3-135-32b 3-135-32c 3-135-32d |
।। इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चत्रिंशदधिकशततमोऽध्यायः ।। 135 ।। |
3-135-1 स्त्रियः पन्था वै पथिकस्य पन्था इति क. पाठः. अन्धादीनामक्षमत्वान्मार्गो देय इत्यर्थः। असमेत्य समीपं अप्राप्य ।। 3-135-5 ऐन्द्रद्युम्नेर्जनकस्य ।। 3-135-7 चरितव्रताश्च तपःप्रभावेन निवेशनार्हाः इति क. ध. पाठः ।। 3-135-8 ज्ञानागमे ज्ञानशास्त्रे वेदान्तेष्वित्यर्थः। निष्ठां निश्चयम् ।। 3-135-9 वेद जानीते यदि तर्हि ईरय। जुष्टां मुनिसेविताम्। एकमेव अक्षरं ब्रह्म प्रतिपाद्यं यस्यां तां एकाक्षराम्। बहुरूपां मन्त्रार्थवादादिरूपाम्। विराजं विशेषेण कर्मकाण्डादाधिवयेन राजमानाम्। अङ्गेति संबोधने ।। 3-135-10 शाल्मलेरष्ठीला शाल्मलिफलान्तर्गतग्रन्थिः। सहि केवलतूलमयत्वान्निःसारः। अतो देहवृद्धिर्व्यर्था। अल्पकायः कृशः ।। 3-135-13 अनूचानः साङ्गवेदाध्यायी ।। 3-135-14 पुष्करमालिने स्वर्णमालाधारिणे ।। 3-135-19 सम्राट् सार्वभौमः ।। 3-135-21 ब्रह्माद्वैत इति झ. पाठः। ब्रह्माद्यं वै इति ध. पाठः ।। 3-135-27 प्रधयो मासा राशयो वा। तेषु हि त्रिंशदहोरात्रा अंशा वा प्रत्येकं प्रत्येकं प्रधीयन्ते। चक्रं पात्वस्मिन् काले यथाकालं विहितो धर्मस्त्वां पात्वित्यर्थः। केवलकालज्ञानस्यापुरुषार्थत्वात्। एवमन्यत्रापि विंधानं द्रष्टव्यम् ।। 3-135-28 रथसंयुक्ते अश्वे इव सहचारिण्यौ श्येनपाते श्येनवदकस्मात् पतनशीले ये उभे वर्तेते। दिवौकसां देवानां मध्ये तयोः संबन्धिनं गर्भं को धत्ते। कस्य गर्भे ते उत्पद्येते कंच जनयत इत्यर्थः ।। 3-135-32 वाक्प्रलापे वाचां प्रकृष्टे संलापे। वितराम्येष वन्दीति झ. पाठः। एष वन्दी दृश्यतामिति शेषः ।।
आरण्यकपर्व-134 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-136 |