महाभारतम्-03-आरण्यकपर्व-109
← आरण्यकपर्व-108 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-109 वेदव्यासः |
आरण्यकपर्व-110 → |
लोमश उवाच । 3-109-1x
भगीरथवचः शुत्वा प्रियार्य च द्विचौकसाम् । 3-109-1a
एवमस्त्विति राजानं भगवान्प्रत्यभापत ॥ 3-109-1b
धारयिष्ये महाभाग गगनात्मच्युतां शिवाम् 3-109-2a
दिव्यां देवनदीं पुण्यां त्वत्कृते नृपसत्तम् । 3-109-2b
एवमुक्त्वा महाबाहो हिमवन्तुमुपागमत् । 3-109-3a
संवृतः पार्षदैर्घोरैर्नानाप्रहरणोधतैः । 3-109-3b
तत्र स्थित्वा नरश्रेष्ठं भगीरथमुवाच ह । 3-109-4a
प्रयाचस्व महाबाहो शैलराजसुतां नदीम् ॥ 3-109-4b
पितृणां पावनार्थ ते तामहं मनुजाधिप । 3-109-5a
पतमानां सरिच्छ्रेष्ठां धारयिष्ये त्रिविष्टपात् ।। 3-109-5b
एतच्छ्रुत्वा बचो राजा शर्वेण समुदाहृतम् । 3-109-6a
प्रयतः प्रणतो भूत्वा गङ्गं हि समचिन्तयत् ॥ 3-109-6b
ततः पुण्यजला रम्या राज्ञा समनुचिन्तिता । 3-109-7a
ईशानं च स्थितं दृष्ट्वा गगनात्सहसा च्युता ॥ 3-109-7b
तां प्रच्युतामथो दृष्ट्वा देवाः सार्घ् महर्षिभिः । 3-109-8a
गन्धर्वोरगयक्षाश्व समाजग्मुर्दिदृक्षवः ॥ 3-109-8b
ततः पपात गगनाद्ग्ङ्गा हिमवतः सुता । 3-109-9a
समुद्वान्तमहावर्ता मीनग्राहसमाकुला ॥ 3-109-9b
तां दधार हरो राजन्गङ्गां गगनमेखलाम् । 3-109-10a
ललाटदेशे पतितां मालां मुक्तामयीमिव । 3-109-10b
सा बभूव विसर्पन्ती त्रिधा राजन्समुद्रगा । 3-109-11a
फेनपुञ्जाकुलजला हंसानामिव पङ्कयः ॥ 3-109-11b
क्कचिदाभोगकुटिला प्रस्खलन्ती क्कचित्क्कचित् । 3-109-12a
सा फेनपटसंवीता मत्तेव प्रमदाऽव्रजत् ।। 3-109-12b
क्कचित्सा तोयनिनदैर्नदन्ती नादमुत्तमम् । 3-109-13a
‘क्कचिदाकाशमावर्तैः संक्षिपन्तीव सर्वशः ॥ 3-109-13b
एवंप्रकारान्सुबहून्कुर्वती गगनाच्युता । 3-109-14a
पृथिवीतलमासाद्य भगीरथमथाब्रवीत् ॥ 3-109-14b
दर्शयस्व महाराज मार्ग केन व्रजाम्यहम् । 3-109-15a
त्वदर्थमवतीर्णास्मि पृथिवीं पृथिवीपते ॥ 3-109-15b
एतच्छ्रुत्वा वचो राजा प्रातिष्टत भगीरथः । 3-109-16a
तत्र तानि शरीराणि सागराणां महात्मनाम् । 3-109-16b
प्लावनार्थं नरश्रेष्ठ पुण्येन सलिलेन च ॥ 3-109-16c
गंङ्गाया धारणं कृत्वा हरो लोकनमस्कृतः । 3-109-17a
कैलासं पर्वतश्रेष्ठं जगाम त्रिदशैः सह ॥ 3-109-17b
समासाद्य समुद्रं च गङ्गया सहितो नृपः । 3-109-18a
पूरयामास वेगेन समुद्रं वरुणालयम् ॥ 3-109-18b
दुहितृत्वे च नृपतिर्गङ्गां समनुकल्पयत् । 3-109-19a
पितृणां चोदकं तत्र ददौ पूर्णमनोरथः ॥ 3-109-19b
एतत्ते सर्वमाख्यातं गङ्ग त्रिपथगा यथा । 3-109-20a
पूरणार्थ समुद्रस्य पृथिवीमवतारिता ॥ 3-109-20b
`कालेयाश्च महाराज त्रिदशैर्विनिपातिताः । 3-109-21a
समुद्रश्च यथा पीतः कारणार्थ महात्मना ॥ 3-109-21b
वातापिश्च यथा नीतः क्षयं स ब्रह्महा प्रभो । 3-109-22a
अगस्त्येन महाराज यन्मां त्वं परिपृच्छसि ॥ 3-109-22b
॥ इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि नवाधिकशततमोऽध्यायः ॥१०९॥
---
F.N. गगनाच्युतं यथा भवति तथा पतन्त्याः । गगनाद्भुवमिति ।
झ्.पाठः ॥२२॥ अष्टाधिकशततमोऽध्यायः ॥ १०८॥