महाभारतम्-03-आरण्यकपर्व-204
← आरण्यकपर्व-203 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-204 वेदव्यासः |
आरण्यकपर्व-205 → |
महाभारतस्य पर्वाणि |
---|
वैशंपायन उवाच।
[श्रुत्वा तु राजा राजर्षेरिन्द्रद्युम्नस्य तत्तथा।
मार्कण्डेयान्महाभागात्स्वर्गस्य प्रतिपादनम् ।।] 3-204-1
युधिष्ठिरो महाराज पप्रच्छ भरतर्षभ।
मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ।। 3-204-2
विदितास्तव धर्मज्ञ देवदानवरक्षसाम्।
राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ।। 3-204-3
न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम।
अथ वेत्सि मुने वंशान्मनुष्योरगरक्षसाम् ।। 3-204-4
देवगन्धर्वयक्षाणां किन्नराप्सरसां तथा।
इदमिच्छाम्यहं श्रोतुं तत्त्वे द्विजसत्तम ।। 3-204-5
कुवलाश्व इति ख्यात इक्ष्वाकुकुलसंभवः।
कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ।। 3-204-6
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम।
विपर्यस्तं यथा नाम कुवलाश्वस् धीमतः ।। 3-204-7
[वैशंपायन उवाच।
युधिष्ठिरेणैवमुक्तो मार्कण्डेयो महामुनिः।
धौन्धुमारमुपाख्यानं कथयामास भारत ।।] 3-204-8
मार्कण्डेय उवाच।
हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर।
धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ।। 3-204-9
यथा स राजा ऐक्ष्वाकः कुवलाश्वो महीपतिः।
धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ।। 3-204-10
महर्षिर्विश्रुतस्तात उदङ्क इति भारत।
मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ।। 3-204-11
उदङ्कस्तु महाराज तपोतप्यत्सुदुश्चरम्।
आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभुः ।। 3-204-12
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान्।
दृष्ट्वा महर्षिस्तद्ब्रह्म तुष्टाव विविधैः स्तवैः ।। 3-204-13
उदङ्क उवाच।
त्वया देव प्रजाः सर्वाः ससुरासुरमानवाः।
स्थावराणि च भूतानि जङ्गमानि तथैव च ।। 3-204-14
ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते।
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ।। 3-204-15
निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत।
बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ।। 3-204-16
ऊरू ते पर्वता देव स्वं नाभिर्मधुसूदन।
पादौ ते पृथिवी चैव रोमाण्योषधयस्तथा ।। 3-204-17
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः।
प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ।। 3-204-18
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर।
योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ।। 3-204-19
त्वयि तुष्टे जगच्छान्तं त्वयि क्रुद्धे महद्भयम्।
भयानामपनेतासि त्वमेकः पुरुषोत्तम ।। 3-204-20
देवानां मानुषाणां च सर्वभूतसुखावहः।
त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वया वृताः ।। 3-204-21
असुराणां समृद्धानां विनाशश्च त्वया कृतः।
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ।। 3-204-22
पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते।
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः।
आराधयित्वा त्वां देवाः सुखमेधन्ति नित्यशः ।। 3-204-23
एवं स्तुतो हृषीकेश उदङ्केन महात्मना।
उदङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ।। 3-204-24
उदङ्क उवाच।
पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम्।
पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ।। 3-204-25
विष्णुरुवाच।
प्रीतस्तेऽहमलौल्येन भक्त्या तव च सत्तम।
अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ।। 3-204-26
एवं स च्छन्द्यमानस्तु वरेण हरिणा तदा।
उदङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ।। 3-204-27
यदि मे भगवन्प्रीतः पुण्डरीकनिभेक्षण।
धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा।
अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं ममेश्वर ।। 3-204-28
भगवानुवाच।
सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ।। 3-204-29
प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम्।
त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ।। 3-204-30
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः।
तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ।। 3-204-31
[राजा हि वीर्यवांस्तात इक्ष्वाकुरपराजितः]
बृहदश्व इति ख्यातो भविष्यति महीपतिः ।। 3-204-32
तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः।
स योगबलामास्थाय मामकं पार्थिवोत्तमः।
शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ।। 3-204-33
उदङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ।। 3-204-34
।। इति श्रीमन्महाभारते अरण्यपर्वणि मार्कण्डेयसमास्यापर्वणि चतुरधिकद्विशततमोऽध्यायः ।। 204 ||
3-204-3 देवदानवराक्षसा इति ध. पाठः ।।
आरण्यकपर्व-203 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-205 |