महाभारतम्-03-आरण्यकपर्व-007
← आरण्यकपर्व-006 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-007 वेदव्यासः |
आरण्यकपर्व-008 → |
विदुरस्य पुनरागमनेन खिद्यता दुर्योधनेन कर्णादिभिरालोचनम् ।। 1 ।। कर्णादिषु समालोच्य पाण्डवजिघांसया प्रस्थितेषु तदा समागतेन श्रीव्यासेन तेषां प्रतिषेधनम् ।। 2
वैशम्पायन उवाच।।
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम् ।
धृतराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ।।१।।
स सौबलं समानाय्य कर्णदुःशासनावपि ।
अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ।।२।।
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः ।
विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ।।३।।
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति ।
पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ।।४।।
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथञ्चन ।
पुनः शोषं गमिष्यामि निरासुर्निरवग्रहः ।।५।।
विषमुद्बन्धनं वापि शस्त्रमग्निप्रवेशनम् ।
करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ।।६।।
शकुनिरुवाच।।
किं बालिषां मतिं राजन्नास्थितोऽसि विशां पते ।
गतास्ते समयं कृत्वा नैतदेवं भविष्यति ।।७।।
सत्यवाक्ये स्थिताः सर्वे पाण्डवा भरतर्षभ ।
पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचित् ।।८।।
अथ वा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम् ।
निरस्य समयं भूयः पणोऽस्माकं भविष्यति ।।९।।
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः ।
छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः ।।१०।।
दुःशासन उवाच।।
एवमेतन्महाप्राज्ञ यथा वदसि मातुल ।
नित्यं हि मे कथयतस्तव बुद्धिर्हि रोचते ।।११।।
कर्ण उवाच।।
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम् ।
ऐकमत्यं हि नो राजन्सर्वेषामेव लक्ष्यते ।।१२।।
वैशम्पायन उवाच।।
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।
नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ।।१३।।
उपलभ्य ततः कर्णो विवृत्य नयने शुभे ।
रोषाद्दुःशासनं चैव सौबलेयं च तावुभौ ।।१४।।
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना ।
अहो मम मतं यत्तन्निबोधत नराधिपाः ।।१५।।
प्रियं सर्वे चिकीर्षामो राज्ञः किङ्करपाणयः ।
न चास्य शक्नुमः सर्वे प्रिये स्थातुमतन्द्रिताः ।।१६।।
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः ।
गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ।।१७।।
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम् ।
निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ।।१८।।
यावदेव परिद्यूना यावच्छोकपरायणाः ।
यावन्मित्रविहीनाश्च तावच्छक्या मतं मम ।।१९।।
तस्य तद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः ।
बाढमित्येव ते सर्वे प्रत्यूचुः सूतजं तदा ।।२०।।
एवमुक्त्वा तु सङ्क्रुद्धा रथैः सर्वे पृथक्पृथक् ।
निर्ययुः पाण्डवान्हन्तुं सङ्घशः कृतनिश्चयाः ।।२१।।
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनस्तदा ।
आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ।।२२।।
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः ।
प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरः ।।२३।। 3.7.24
वैशंपायन उवाच। | 3-7-1x |
श्रुत्वा च विदुरं प्राप्तं राज्ञा च परिसान्त्वितम्। धृताराष्ट्रात्मजो राजा पर्यतप्यत दुर्मतिः ।। | 3-7-1a 3-7-1b |
स सौबलेयमानाय्य कर्णदुःशासनौ तथा। अब्रवीद्वचनं राजा प्रविश्याबुद्धिजं तमः ।। | 3-7-2a 3-7-2b |
एष प्रत्यागतो मन्त्री धृतराष्ट्रस्य संमतः। विदुरः पाण्डुपुत्राणां सुहृद्विद्वान्हिते रतः ।। | 3-7-3a 3-7-3b |
यावदस्य पुनर्बुद्धिं विदुरो नापकर्षति। पाण्डवानयने तावन्मन्त्रयध्वं हितं मम ।। | 3-7-4a 3-7-4b |
अथ पश्याम्यहं पार्थान्प्राप्तानिह कथंचन। पुनः शोषं गमिष्यामि निरसुर्निष्परिग्रहः ।। | 3-7-5a 3-7-5b |
विषमुद्बन्धनं चैव शस्त्रमग्निप्रवेशनम्। करिष्ये न हि तानृद्धान्पुनर्द्रष्टुमिहोत्सहे ।। | 3-7-6a 3-7-6b |
सुकुनिरुवाच। | 3-7-7x |
किं बालिशमतिं राजन्नास्थितोसि विशांपते। गतास्ते समयं कृत्वा नैतदेवं भविष्यति ।। | 3-7-7a 3-7-7b |
सत्यवाक्येः स्विताः सर्वे पाण्डवा भरतषभ। पितुस्ते वचनं तात न ग्रहीष्यन्ति कर्हिचिति ।। | 3-7-8a 3-7-8b |
अथवा ते ग्रहीष्यन्ति पुनरेष्यन्ति वा पुरम्। निरस्य समयं सर्वे पणोऽस्माकं भविष्यति ।। | 3-7-9a 3-7-9b |
सर्वे भवामो मध्यस्था राज्ञश्छन्दानुवर्तिनः। छिद्रं बहु प्रपश्यन्तः पाण्डवानां सुसंवृताः । | 3-7-10a 3-7-10b |
दुःशासन उवाच। | 3-7-11x |
एवमेतन्महाप्राज्ञ यथा वदसि मातुल। नित्यं हि मे कथयतस्तव बुद्धिर्विरोचते ।। | 3-7-11a 3-7-11b |
कर्ण उवाच। | 3-7-12x |
काममीक्षामहे सर्वे दुर्योधन तवेप्सितम्। ऐकमत्यं हि नो राजन्सर्वेषामेव लक्षये ।। | 3-7-12a 3-7-12b |
[नागमिष्यन्ति ते धीरा अकृत्वा कालसंविदम्। आगमिष्यन्ति चेन्मोहात्पुनर्द्यूतेन ताञ्जय ।।] | 3-7-13a 3-7-13b |
वैशंपायन उवाच। | 3-7-14x |
एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा। नातिहृष्टमनाः क्षिप्रमभवत्स पराङ्मुखः ।। | 3-7-14a 3-7-14b |
उपलभ्य ततः कर्णो विवृत्य नयने शुभे। रोषाद्दुःशासनं चैव सौबलं च तमेव च ।। | 3-7-15a 3-7-15b |
उवाच परमक्रुद्ध उद्यम्यात्मानमात्मना। अथो मम मतं यत्तु तन्निबोधत भूमिपाः ।। | 3-7-16a 3-7-16b |
प्रियं सर्वे करिष्यामो राज्ञः किं करवामहे। न चास्य शक्नुमः स्थातुं प्रिये सर्वे ह्यतन्द्रिताः ।। | 3-7-17a 3-7-17b |
वयं तु शस्त्राण्यादाय रथानास्थाय दंशिताः। गच्छामः सहिता हन्तुं पाण्डवान्वनगोचरान् ।। | 3-7-18a 3-7-18b |
तेषु सर्वेषु शान्तेषु गतेष्वविदितां गतिम्। निर्विवादा भविष्यन्ति धार्तराष्ट्रास्तथा वयम् ।। | 3-7-19a 3-7-19b |
यावदेव परिद्यूना यावच्छोकपरायणाः। यावन्मित्रविहीनाश्च तावद्गच्छाम माचिरम् ।। | 3-7-20a 3-7-20b |
तस्यतद्वचनं श्रुत्वा पूजयन्तः पुनः पुनः। प्रहृष्टमनसः सर्वे प्रत्यूचुः सूतजं तदा ।। | 3-7-21a 3-7-21b |
एवमुक्त्वा सुसंरब्धा रथैः सर्वे पृथक्पृथक्। निर्ययुः पाण्डवान्हन्तुं सहिताः कृतनिश्चयाः ।। | 3-7-22a 3-7-22b |
तान्प्रस्थितान्परिज्ञाय कृष्णद्वैपायनः प्रभुः। आजगाम विशुद्धात्मा दृष्ट्वा दिव्येन चक्षुषा ।। | 3-7-23a 3-7-23b |
प्रतिषिध्याथ तान्सर्वान्भगवाँल्लोकपूजितः। प्रज्ञाचक्षुषमासीनमुवाचाभ्येत्य सत्वरम् ।। | 3-7-24a 3-7-24b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि सप्तमोऽध्यायः ।। 7 ।। |
3-7-2 तमो रागद्वेषात्मकं मोहम् ।। 3-7-6 करिष्ये स्वीकरिष्ये। ऋद्धान् ऋद्धिमतः ।। 3-7-9 पणः कार्याकार्यविवेकलक्षणो व्यवहारः ।। 3-7-10 छिद्रं समयातिक्रमदोषम् ।। 3-7-15 उपलभ्य दुर्योधनाशयमिति शेषः ।। 3-7-16 उद्यम्योत्क्षिष्य। आत्मानं देहम् ।। 3-7-17 प्रियं चिदीर्षामो नतु शक्नुमः प्रिये स्थातुमिति संबन्धः। धृतराष्ट्रेण निरुद्धत्वात् ।। 3-7-20 परिद्यूनाः खिन्ना वर्जितविजिगीषा वा ।। 3-7-21 बाढमित्येव ते सर्वे इति झ. फाठः ।।
आरण्यकपर्व-006 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-008 |