महाभारतम्-03-आरण्यकपर्व-031
← आरण्यकपर्व-030 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-031 वेदव्यासः |
आरण्यकपर्व-032 → |
युधिष्ठिरेण द्रौपदींप्रति धर्मस्य साफल्योपपादनम् ।। 1 ।।
युधिष्ठिर उवाच।।
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः ।
उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ।।१।।
नाहं धर्मफलान्वेषी राजपुत्रि चराम्युत ।
ददामि देयमित्येव यजे यष्टव्यमित्युत ।।२।।
अस्तु वात्र फलं मा वा कर्तव्यं पुरुषेण यत् ।
गृहानावसता कृष्णे यथाशक्ति करोमि तत् ।।३।।
धर्मं चरामि सुश्रोणि न धर्मफलकारणात् ।
आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ।।४।।
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम् ।।४।।
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति ।
यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ।।५।।
अतिवादान्मदाच्चैव मा धर्ममतिशङ्किथाः ।
धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ।।६।।
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः ।
वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ।।७।।
वेदाध्यायी धर्मपरः कुले जातो यशस्विनि ।
स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ।।८।।
पापीयान्हि स शूद्रेभ्यस्तस्करेभ्यो विशेषतः ।
शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ।।९।।
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः ।
मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविताम् ।।१०।।
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः ।
अन्ये च ऋषयः सिद्धा धर्मेणैव सुचेतसः ।।११।।
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान् ।
शापानुग्रहणे शक्तान्देवैरपि गरीयसः ।।१२।।
एते हि धर्ममेवादौ वर्णयन्ति सदा मम ।
कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ।।१३।।
अतो नार्हसि कल्याणि धातारं धर्ममेव च ।
रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ।।१४।।
धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ।
आत्मप्रमाण उन्नद्धः श्रेयसो ह्यवमन्यकः ।।१५।।
इन्द्रियप्रीतिसम्बद्धं यदिदं लोकसाक्षिकम् ।
एतावान्मन्यते बालो मोहमन्यत्र गच्छति ।।१६।।
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते ।
ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ।।१७।।
प्रमाणान्यतिवृत्तो हि वेदशास्त्रार्थनिन्दकः ।
कामलोभानुगो मूढो नरकं प्रतिपद्यते ।।१८।।
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते ।
अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ।।१९।।
आर्षं प्रमाणमुत्क्रम्य धर्मानपरिपालयन् ।
सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ।।२०।।
शिष्टैराचरितं धर्मं कृष्णे मा स्मातिशङ्किथाः ।
पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ।।२१।।
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम् ।
सैव नौः सागरस्येव वणिजः पारमृच्छतः ।।२२।।
अफालो यदि धर्मः स्याच्चरितो धर्मचारिभिः ।
अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ।।२३।।
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम् ।
विघातेनैव युज्येयुर्न चार्थं किञ्चिदाप्नुयुः ।।२४।।
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च ।
दानमार्जवमेतानि यदि स्युरफलानि वै ।।२५।।
नाचरिष्यन्परे धर्मं परे परतरे च ये ।
विप्रलम्भोऽयमत्यन्तं यदि स्युरफलाः क्रियाः ।।२६।।
ऋषयश्चैव देवाश्च गन्धर्वासुरराक्षसाः ।
ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ।।२७।।
फलदं त्विह विज्ञाय धातारं श्रेयसि ध्रुवे ।
धर्मं ते ह्याचरन्कृष्णे तद्धि धर्मसनातनम् ।।२८।।
स चायं सफलो धर्मो न धर्मोऽफल उच्यते ।
दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ।।२९।।
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथा श्रुतम् ।
वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ।।३०।।
एतावदेव पर्याप्तमुपमानं शुचिस्मिते ।
कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ।।३१।।
बहुनापि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः ।
तेषां न धर्मजं किञ्चित्प्रेत्य शर्मास्ति कर्म वा ।।३२।।
कर्मणामुत पुण्यानां पापानां च फलोदयः ।
प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ।।३३।।
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः ।
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः ।।३४।।
कृशाङ्गाः सुव्रताश्चैव तपसा दग्धकिल्बिषाः ।
प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ।।३५।।
न फलादर्शनाद्धर्मः शङ्कितव्यो न देवताः ।
यष्टव्यं चाप्रमत्तेन दातव्यं चानसूयता ।।३६।।
कर्मणां फलमस्तीति तथैतद्धर्म शाश्वतम् ।
ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद कश्यपः ।।३७।।
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु ।
व्यवस्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ।।३८।।
ईश्वरं चापि भूतानां धातारं मा विचिक्षिपः ।
शिक्षस्वैनं नमस्वैनं मा ते भूद्बुद्धिरीदृशी ।।३९।।
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम् ।
उत्तमं दैवतं कृष्णे मातिवोचः कथञ्चन ।।४०।। 3.31.42
युधिष्ठिर उवाच। | 3-31-1x |
वल्गु चित्रपदं श्लक्ष्णं याज्ञसेनि त्वया वचः। उक्तं तच्छ्रुतमस्माभिर्नास्तिक्यं तु प्रभाषसे ।। | 3-31-1a 3-31-1b |
नाहं धर्मफलाकाङ्क्षी राजपुत्रि चराम्भुत। ददामि देयमित्येव यजे यष्टव्यमित्युत ।। | 3-31-2a 3-31-2b |
अस्तु वाऽत्र फलं मा वा कर्तव्यं पुरुषेण यत्। गृहे निवसता कृष्णे यथाशक्ति करोमि तत् ।। | 3-31-3a 3-31-3b |
धर्मं चरामि सुश्रोणि न धर्मफलकारणात्। आगमाननतिक्रम्य सतां वृत्तमवेक्ष्य च ।। | 3-31-4a 3-31-4b |
धर्म एव मनः कृष्णे स्वभावाच्चैव मे धृतम्। [धर्मवाणिज्यको हीनो जघन्यो धर्मवादिनाम्] | 3-31-5a 3-31-5b |
न धर्मफलमाप्नोति यो धर्मं दोग्धुमिच्छति। यश्चैनं शङ्कते कृत्वा नास्तिक्यात्पापचेतनः ।। | 3-31-6a 3-31-6b |
अतिवादान्मदाच्चैव मा धर्ममभिशङ्कथाः। धर्मातिशङ्की पुरुषस्तिर्यग्गतिपरायणः ।। | 3-31-7a 3-31-7b |
धर्मो यस्यातिशङ्क्यः स्यादार्षं वा दुर्बलात्मनः। वेदाच्छूद्र इवापेयात्स लोकादजरामरात् ।। | 3-31-8a 3-31-8b |
वेदाध्यायी धर्मपरः कुले जातो मनस्विनि। स्थविरेषु स योक्तव्यो राजभिर्धर्मचारिभिः ।। | 3-31-9a 3-31-9b |
पापीयान्स हि शूद्रेभ्यस्तस्करेभ्यो विशिष्यते। शास्त्रातिगो मन्दबुद्धिर्यो धर्ममतिशङ्कते ।। | 3-31-10a 3-31-10b |
प्रत्यक्षं हि त्वया दृष्ट ऋषिर्गच्छन्महातपाः। मार्कण्डेयोऽप्रमेयात्मा धर्मेण चिरजीविता ।। | 3-31-11a 3-31-11b |
व्यासो वसिष्ठो मैत्रेयो नारदो लोमशः शुकः। अन्ये च ऋषयः सर्वे धर्मेणैव सुचेतसः ।। | 3-31-12a 3-31-12b |
प्रत्यक्षं पश्यसि ह्येतान्दिव्ययोगसमन्वितान्। शापानुग्रहणे शक्तान्देवेभ्योऽपि गरीयसः ।। | 3-31-13a 3-31-13b |
एते हि धर्ममेवादौ वर्णयन्ति सदाऽनधे। कर्तव्यममरप्रख्याः प्रत्यक्षागमबुद्धयः ।। | 3-31-14a 3-31-14b |
अतो नार्हसि कल्याणि धातारं धर्ममेव च। रजोमूढेन मनसा क्षेप्तुं शङ्कितुमेव च ।। | 3-31-15a 3-31-15b |
उन्मत्तान्मन्यते बालः सर्वानागतनिश्चयान्। धर्मातिशङ्की नान्यस्मिन्प्रमाणमधिगच्छति ।। | 3-31-16a 3-31-16b |
इन्द्रियप्रीतिसंबद्धं यदिदं लोकसाक्षिकम्। एतावन्मन्यते बालो मोहमन्यत्र गच्छति ।। | 3-31-17a 3-31-17b |
प्रायश्चित्तं न तस्यास्ति यो धर्ममतिशङ्कते। ध्यायन्स कृपणः पापो न लोकान्प्रतिपद्यते ।। | 3-31-18a 3-31-18b |
प्रमाणाद्धि निवृत्तो हि वेदशास्त्रार्थनिन्दकः। कामलोभानुगो मूढो नरकं प्रतिपद्यते ।। | 3-31-19a 3-31-19b |
आर्षं प्रमाणमुत्क्राम्य धर्मं न प्रतिपालयन्। सर्वशास्त्रातिगो मूढः शं जन्मसु न विन्दति ।। | 3-31-20a 3-31-20b |
यस्तु नित्यं कृतमतिर्धर्ममेवाभिपद्यते। अशङ्कमानः कल्याणि सोऽमुत्रानन्त्यमश्नुते ।। | 3-31-21a 3-31-21b |
यस्य नार्षं प्रमाणं स्याच्छिष्टाचारश्च भामिनि। न वै तस्य परो लोको नायमस्तीति निश्चयः ।। | 3-31-22a 3-31-22b |
शिष्टैराचरितं धर्मं कृष्णे मास्मातिशङ्कथाः। पुराणमृषिभिः प्रोक्तं सर्वज्ञैः सर्वदर्शिभिः ।। | 3-31-23a 3-31-23b |
धर्म एव प्लवो नान्यः स्वर्गं द्रौपदि गच्छताम्। सैवः नौः सागरस्येव वणिजः पारमिच्छतः ।। | 3-31-24a 3-31-24b |
अफलो यदि धर्मः स्याच्चरितो धर्मचारिभिः। अप्रतिष्ठे तमस्येतज्जगन्मज्जेदनिन्दिते ।। | 3-31-25a 3-31-25b |
निर्वाणं नाधिगच्छेयुर्जीवेयुः पशुजीविकाम्। विघातेनैव युज्येयुर्न चार्थं कंचिदाप्नुयुः ।। | 3-31-26a 3-31-26b |
तपश्च ब्रह्मचर्यं च यज्ञः स्वाध्याय एव च। दानमार्जवमेतानि यदि स्युरफलानि वै ।। | 3-31-27a 3-31-27b |
नाचरिष्यन्परे धर्मं परे परतरेऽपि च। दानमार्जवमेतानि यदि स्युरफलानि वै ।। | 3-31-28a 3-31-28b |
ऋषयस्चैव देवाश्च गन्धर्वासुरराक्षसाः। ईश्वराः कस्य हेतोस्ते चरेयुर्धर्ममादृताः ।। | 3-31-29a 3-31-29b |
फलदं त्विह विज्ञाय धातारं श्रेयसि स्थितम्। धर्मं तेऽव्यचरन्कृष्णे स हि धर्म सनातनः ।। | 3-31-30a 3-31-30b |
स चायं सफलो धर्मो न धर्मोऽफल उच्यते। दृश्यन्तेऽपि हि विद्यानां फलानि तपसां तथा ।। | 3-31-31a 3-31-31b |
त्वय्येतद्वै विजानीहि जन्म कृष्णे यथाश्रुतम्। वेत्थ चापि यथा जातो धृष्टद्युम्नः प्रतापवान् ।। | 3-31-32a 3-31-32b |
एतावदेव पर्याप्तमुपमानं शुचिस्मिते। कर्मणां फलमस्तीति धीरोऽल्पेनापि तुष्यति ।। | 3-31-33a 3-31-33b |
बहुनाऽपि ह्यविद्वांसो नैव तुष्यन्त्यबुद्धयः। तेषां न ध्मजं किंचित्प्रेत्य कर्मास्ति शर्म वा ।। | 3-31-34a 3-31-34b |
कर्मणामुत पुण्यानां पापानां च फलोदयः। प्रभवश्चाप्ययश्चैव देवगुह्यानि भामिनि ।। | 3-31-35a 3-31-35b |
नैतानि वेद यः कश्चिन्मुह्यन्त्यत्र प्रजा इमाः। [अपि कल्पसहस्रेण न च श्रेयोऽधिगच्छति ।।] | 3-31-36a 3-31-36b |
रक्ष्याण्येतानि देवानां गूढमाया हि देवताः। कृशाङ्गाः सुब्रताश्चैव तपसा दग्धकिल्विषाः। प्रसन्नैर्मानसैर्युक्ताः पश्यन्त्येतानि वै द्विजाः ।। | 3-31-37a 3-31-37b 3-31-37c |
न फलादर्सनाद्धर्मः शङ्कितव्यो न देवताः। यष्टव्यं च प्रयत्नेन दातव्यं चानमूयता ।। | 3-31-38a 3-31-38b |
कर्मणां फलमस्तीह तथैतद्धर्मशासनम्। ब्रह्मा प्रोवाच पुत्राणां यदृषिर्वेद काश्यपः ।। | 3-31-39a 3-31-39b |
तस्मात्ते संशयः कृष्णे नीहार इव नश्यतु। विमृश्य सर्वमस्तीति नास्तिक्यं भावमुत्सृज ।। | 3-31-40a 3-31-40b |
ईश्वरं चापि भूतानां धातारं मा च वै क्षिप। शिक्षस्वैनं नमस्वैनं मा तेऽभूद्बुद्धिरीदृशी ।। | 3-31-41a 3-31-41b |
यस्य प्रसादात्तद्भक्तो मर्त्यो गच्छत्यमर्त्यताम्। उत्तमां देवतां कृष्णे मातिवोचः कथंचन ।। | 3-31-42a 3-31-42b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि एकत्रिंशोऽध्यायः ।। 31 ।। |
टिप्पणी
सम्पाद्यताम्3-31-1 वल्गु शोभनम्। श्लक्ष्णं सुकुमारम्। नास्तिक्यं वेदविद्विष्टम् ।। 3-31-8 दोषो दुर्बोध आत्मन इति ट. पाठः। अदोषो दुर्बलात्मनः इति ध. पाठः ।। 3-31-21 मूढ आजन्म स न नन्दतीति ट. पाठः। आजन्मसु न नन्दतीति ध. पाठः। आत्मानं स विनश्यतीति क. पाठः ।। 3-31-24 स वै नौः सागरस्येवेति ट. पाठः ।।
आरण्यकपर्व-030 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-032 |