महाभारतम्-03-आरण्यकपर्व-039
← आरण्यकपर्व-038 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-039 वेदव्यासः |
आरण्यकपर्व-040 → |
किरातरूपिणआ हरेणार्जुनस्य पराजयः ।। 1 ।।
तथा पार्थपूजास्तुतिसंतुष्टेन तेन तदाश्वासनम् ।। 2 ।।
वैशम्पायन उवाच।।
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु ।
पिनाकपाणिर्भगवान्सर्वपापहरो हरः ।।१।।
कैरातं वेषमास्थाय काञ्चनद्रुमसंनिभम् ।
विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ।।२।।
श्रीमद्धनुरुपादाय शरांश्चाशीविषोपमान् ।
निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ।।३।।
देव्या सहोमया श्रीमान्समानव्रतवेषया ।
नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ।।४।।
किरातवेषप्रच्छन्नः स्त्रीभिश्चानु सहस्रशः ।
अशोभत तदा राजन्स देवोऽतीव भारत ।।५।।
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा ।
नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ।।६।।
स संनिकर्षमागम्य पार्थस्याक्लिष्टकर्मणः ।
मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ।।७।।
वाराहं रूपमास्थाय तर्कयन्तमिवार्जुनम् ।
हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ।।८।।
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान् ।
सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ।।९।।
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम् ।
तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ।।१०।।
तं दृष्ट्वा प्रहरिष्यन्तं फल्गुनं दृढधन्विनम् ।
किरातरूपी सहसा वारयामास शङ्करः ।।११।।
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः ।
अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ।।१२।।
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः ।
प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ।।१३।।
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः ।
मूकस्य गात्रे विस्तीर्णे शैलसंहनने तदा ।।१४।।
यथाशनिविनिष्पेषो वज्रस्येव च पर्वते ।
तथा तयोः संनिपातः शरयोरभवत्तदा ।।१५।।
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव ।
ममार राक्षसं रूपं भूयः कृत्वा विभीषणम् ।।१६।।
ददर्शाथ ततो जिष्णुः पुरुषं काञ्चनप्रभम् ।
किरातवेषप्रच्छन्नं स्त्रीसहायममित्रहा ।।१७।।
तमब्रवीत्प्रीतमनाः कौन्तेयः प्रहसन्निव ।।१७।।
को भवानटते शून्ये वने स्त्रीगणसंवृतः ।
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ ।।१८।।
किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ।
मयाभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः ।।१९।।
कामात्परिभवाद्वापि न मे जीवन्विमोक्ष्यसे ।
न ह्येष मृगयाधर्मो यस्त्वयाद्य कृतो मयि ।।२०।।
तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रय ।।२०।।
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव ।
उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनम् ।।२१।।
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः ।
ममैव च प्रहारेण जीविताद्व्यवरोपितः ।।२२।।
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः ।
अभिषक्तोऽस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ।।२३।।
स्थिरो भवस्व मोक्ष्यामि सायकानशनीनिव ।
घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ।।२४।।
ततस्तौ तत्र संरब्धौ गर्जमानौ मुहुर्मुहुः ।
शरैराशीविषाकारैस्ततक्षाते परस्परम् ।।२५।।
ततोऽर्जुनः शरवर्षं किराते समवासृजत् ।
तत्प्रसन्नेन मनसा प्रतिजग्राह शङ्करः ।।२६।।
मुहूर्तं शरवर्षं तत्प्रतिगृह्य पिनाकधृक् ।
अक्षतेन शरीरेण तस्थौ गिरिरिवाचलः ।।२७।। 3.39.37
स दृष्ट्वा बाणवर्षं तन्मोघीभूतं धनञ्जयः ।
परमं विस्मयं चक्रे साधु साध्विति चाब्रवीत् ।।२८।।
अहोऽयं सुकुमाराङ्गो हिमवच्छिखरालयः ।
गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ।।२९।।
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरेश्वरः ।
विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ।।३०।।
न हि मद्बाणजालानामुत्सृष्टानां सहस्रशः ।
शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ।।३१।।
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः ।
अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ।।३२।।
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः ।
व्यसृजच्छतधा राजन्मयूखानिव भास्करः ।।३३।।
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः ।
शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ।।३४।।
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा ।
वित्रासं च जगामाथ तं दृष्ट्वा शरसङ्क्षयम् ।।३५।।
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम् ।
पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ।।३६।।
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः ।
अयं च पुरुषः कोऽपि बाणान्ग्रसति सर्वशः ।।३७।।
अहमेनं धनुष्कोट्या शूलाग्रेणेव कुञ्जरम् ।
नयामि दण्डधारस्य यमस्य सदनं प्रति ।।३८।।
सम्प्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा ।
तदप्यस्य धनुर्दिव्यं जग्रास गिरिगोचरः ।।३९।।
ततोऽर्जुनो ग्रस्तधनुः खड्गपाणिरतिष्ठत ।
युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ।।४०।।
तस्य मूर्ध्नि शितं खड्गमसक्तं पर्वतेष्वपि ।
मुमोच भुजवीर्येण विक्रम्य कुरुनन्दनः ।।४१।।
तस्य मूर्धानमासाद्य पफालासिवरो हि सः ।।४१।।
ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ।
यथा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः ।।४२।।
किरातरूपी भगवांस्ततः पार्थो महाबलः ।
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे ।।४३।।
प्रजहार दुराधर्षे किरातसमरूपिणि ।।४३।।
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः ।
किरातरूपी भगवानर्दयामास फल्गुनम् ।।४४।।
ततश्चटचटाशब्दः सुघोरः समजायत ।
पाण्डवस्य च मुष्टीनां किरातस्य च युध्यतः ।।४५।।
सुमुहूर्तं महद्युद्धमासीत्तल्लोमहर्षणम् ।
भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ।।४६।।
जहाराथ ततो जिष्णुः किरातमुरसा बली ।
पाण्डवं च विचेष्टन्तं किरातोऽप्यहनद्बलात् ।।४७।।
तयोर्भुजविनिष्पेषात्सङ्घर्षेणोरसोस्तथा ।
समजायत गात्रेषु पावकोऽङ्गारधूमवान् ।।४८।।
तत एनं महादेवः पीड्य गात्रैः सुपीडितम् ।
तेजसा व्याक्रमद्रोषाच्चेतस्तस्य विमोहयन् ।।४९।।
ततो निपीडितैर्गात्रैः पिण्डीकृत इवाबभौ ।
फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ।।५०।।
निरुच्छ्वासोऽभवच्चैव संनिरुद्धो महात्मना ।
ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ।।५१।।
भगवानुवाच।।
भो भो फल्गुन तुष्टोऽस्मि कर्मणाप्रतिमेन ते ।
शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ।।५२।।
समं तेजश्च वीर्यं च ममाद्य तव चानघ ।
प्रीतस्तेऽहं महाबाहो पश्य मां पुरुषर्षभ ।।५३।।
ददानि ते विशालाक्ष चक्षुः पूर्वऋषिर्भवान् ।
विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ।।५४।।
वैशम्पायन उवाच।।
ततो देवं महादेवं गिरिशं शूलपाणिनम् ।
ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ।।५५।।
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च ।
प्रसादयामास हरं पार्थः परपुरञ्जयः ।।५६।।
अर्जुन उवाच।।
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन ।
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शङ्कर ।।५७।।
भवगद्दर्शनाकाङ्क्षी प्राप्तोऽस्मीमं महागिरिम् ।
दयितं तव देवेश तापसालयमुत्तमम् ।।५८।।
प्रसादये त्वां भगवन्सर्वभूतनमस्कृत ।
न मे स्यादपराधोऽयं महादेवातिसाहसात् ।।५९।।
कृतो मया यदज्ञानाद्विमर्दोऽयं त्वया सह ।
शरणं सम्प्रपन्नाय तत्क्षमस्वाद्य शङ्कर ।।६०।।
वैशम्पायन उवाच।।
तमुवाच महातेजाः प्रहस्य वृषभध्वजः ।
प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ।।६१।। 3.39.83-84
वैशंपायन उवाच। | 3-39-1x |
गतेषु तेषु सर्वेषु तपस्विषु महात्मसु। पिनाकपाणिर्भगवान्सर्वपापहरो हरः ।। | 3-39-1a 3-39-1b |
कैरातं वेषमास्थाय काञ्चनद्रुमसन्निभम्। विभ्राजमानो वपुषा गिरिर्मेरुरिवापरः ।। | 3-39-2a 3-39-2b |
श्रीगद्धनुरुपादाय शरांश्चाशीविषोपमान्। निष्पपात महार्चिष्मान्दहन्कक्षमिवानलः ।। | 3-39-3a 3-39-3b |
देव्या सहोमया श्रीमान्समानव्रतवेषया। नानावेषधरैर्हृष्टैर्भूतैरनुगतस्तदा ।। | 3-39-4a 3-39-4b |
किरातवेषसंछन्नः स्त्रीभिश्चापि सहस्रशः। अशोभत तदा राजन्स देशोऽतीव भारत ।। | 3-39-5a 3-39-5b |
क्षणेन तद्वनं सर्वं निःशब्दमभवत्तदा। नादः प्रस्रवणानां च पक्षिणां चाप्युपारमत् ।। | 3-39-6a 3-39-6b |
स सन्निकर्षमागम्य पार्थस्याक्लिष्टकर्मणः। मूकं नाम दितेः पुत्रं ददर्शाद्भुतदर्शनम् ।। | 3-39-7a 3-39-7b |
वाराहं रूपमास्थाय तर्जयन्तमिवार्जुनम्। हन्तुं परमदुष्टात्मा तमुवाचाथ फल्गुनः ।। | 3-39-8a 3-39-8b |
गाण्डीवं धनुरादाय शरांश्चाशीविषोपमान्। सज्यं धनुर्वरं कृत्वा ज्याघोषेण निनादयन् ।। | 3-39-9a 3-39-9b |
यन्मां प्रार्थयसे हन्तुमनागसमिहागतम्। तस्मात्त्वां पूर्वमेवाहं नेष्यामि यमसादनम् ।। | 3-39-10a 3-39-10b |
दृष्ट्वा तं प्रहरिष्यन्तं फल्गुनं दृढधन्विनम्। किरातरूपी सहसा वारयामास शंकरः ।। | 3-39-11a 3-39-11b |
मयैष प्रार्थितः पूर्वं नीलमेघसमप्रभः। अनादृत्यैव तद्वाक्यं प्रजहाराथ फल्गुनः ।। | 3-39-12a 3-39-12b |
किरातश्च समं तस्मिन्नेकलक्ष्ये महाद्युतिः। प्रमुमोचाशनिप्रख्यं शरमग्निशिखोपमम् ।। | 3-39-13a 3-39-13b |
तौ मुक्तौ सायकौ ताभ्यां समं तत्र निपेततुः। मूकस्य गात्रे विस्तीर्णे शैलपृष्ठनिभे तदा ।। | 3-39-14a 3-39-14b |
यथाऽशनैर्विनिष्पेषो वज्रस्येव च पर्वते। तथा तयोः सन्निपातः शरयोरभवत्तदा ।। | 3-39-15a 3-39-15b |
स विद्धो बहुभिर्बाणैर्दीप्तास्यैः पन्नगैरिव। ममार राक्षसं रूपं भूयः कृत्वा सुदारुणम् ।। | 3-39-16a 3-39-16b |
स ददर्श ततो जिष्णुः पुरुषं काञ्चनप्रभम्। किरातवेषसंछन्नं स्त्रीसहायममित्रहा ।। | 3-39-17a 3-39-17b |
तमब्रवीत्प्रीतमना कौन्तेयः प्रहसन्निव। को भवानटते शून्ये वने रस्त्रीगणसंवृतः ।। | 3-39-18a 3-39-18b |
न त्वमस्मिन्वने घोरे बिभेषि कनकप्रभ। किमर्थं च त्वया विद्धो मृगोऽयं मत्परिग्रहः ।। | 3-39-19a 3-39-19b |
मयाऽभिपन्नः पूर्वं हि राक्षसोऽयमिहागतः। कामात्परिभवाद्वाऽपि न मे जीवन्विमोक्ष्यसे ।। | 3-39-20a 3-39-20b |
न ह्येष मृगयाधर्मो यस्त्वयाऽद्य कृतो मयि। तेन त्वां भ्रंशयिष्यामि जीवितात्पर्वताश्रयम् ।। | 3-39-21a 3-39-21b |
इत्युक्तः पाण्डवेयेन किरातः प्रहसन्निव। उवाच श्लक्ष्णया वाचा पाण्डवं सव्यसाचिनं ।। | 3-39-22a 3-39-22b |
न मत्कृते त्वया वीरः भीः कार्या वनमन्तिकात्। इयं भूमिः सदाऽस्माकमुचिता वसतां वने ।। | 3-39-23a 3-39-23b |
त्वया तु दुष्करः कस्मादिह वासः प्ररोचितः। वयं तु बहुसत्त्वेऽस्मिन्निवसामस्तपोधन ।। | 3-39-24a 3-39-24b |
भवांस्तु कृष्णवत्मार्भः सुकुमारः सुखोचितः। कथं शून्यमिमं देशमेकाकी विचरिष्यति ।। | 3-39-25a 3-39-25b |
अर्जुन उवाच। | 3-39-26x |
गाण्डीवमाश्रयं कृत्वा नाराजांश्चाग्निसन्निभान्। निवसामि महारण्ये द्वितीय इव पावकः ।। | 3-39-26a 3-39-26b |
एष चापि मया जन्तुर्मृगरूपं समाश्रितः। राक्षसो निहतो घोरो हन्तुं मामिह चागतः ।। | 3-39-27a 3-39-27b |
किरात उवाच। | 3-39-28x |
मयैष धन्वनिर्मुक्तैस्ताडितः पूर्वमेव हि। बाणैरभिहतः शेते नीतश्च यमसादनम् ।। | 3-39-28a 3-39-28b |
ममैवायं लक्ष्यभूतः पूर्वमेव परिग्रहः। ममैव च प्रहारेण जीविताद्व्यपरिपितः ।। | 3-39-29a 3-39-29b |
दोषान्स्वान्नार्हसेऽन्यस्मै वक्तुं स्वबलदर्पितः। अभिषक्तोस्मि मन्दात्मन्न मे जीवन्विमोक्ष्यसे ।। | 3-39-30a 3-39-30b |
स्थिरो भव विमोक्ष्यामि सायकानशनीनिव। घटस्व परया शक्त्या मुञ्च त्वमपि सायकान् ।। | 3-39-31a 3-39-31b |
तस्य तद्वचनं श्रुत्वा किरातस्यार्जुनस्तदा। रोषमाहारयामास ताडयामास चेषुभिः ।। | 3-39-32a 3-39-32b |
ततो हृष्टेन मनसा प्रतिजग्राह सायकान्। भूयोभूय इति प्राह मन्दमन्देत्युवाच ह ।। | 3-39-33a 3-39-33b |
प्रहरस्व शरानेतान्नाराचान्मर्मभेदिनः। इत्युक्तो बाणवर्षं स मुमोच सहसाऽर्जुनः ।। | 3-39-34a 3-39-34b |
ततस्तौ तत्रसंरब्धौ गर्जमानौ मुहुर्मुहुः। शरैराशीविषाकारैस्ततक्षाते परस्परम् ।। | 3-39-35a 3-39-35b |
ततोऽर्जुनः शरवर्षं किराते समवासृजत्। तत्प्रसन्नेन मनसा प्रतिजग्राह शंकरः ।। | 3-39-36a 3-39-36b |
मुहूर्तं शरवर्षं तु प्रतिगृह्य पिनाकधृक्। अक्षतेन शरीरेण तस्थौ गिरिवाचलः ।। | 3-39-37a 3-39-37b |
स दृष्ट्वा बाणवर्षं तु मघीभूतं धनंजयः। परमं विस्मयं चक्रे साधुसाध्विति चाब्रवीत् ।। | 3-39-38a 3-39-38b |
अहोऽयं सुकुमाराङ्गो हिमवच्छिखराश्रयः। गाण्डीवमुक्तान्नाराचान्प्रतिगृह्णात्यविह्वलः ।। | 3-39-39a 3-39-39b |
कोऽयं देवो भवेत्साक्षाद्रुद्रो यक्षः सुरोऽसुरः। विद्यते हि गिरिश्रेष्ठे त्रिदशानां समागमः ।। | 3-39-40a 3-39-40b |
न हि मद्वाणजालानामुत्सृष्टानां सहस्रशः। शक्तोऽन्यः सहितुं वेगमृते देवं पिनाकिनम् ।। | 3-39-41a 3-39-41b |
देवो वा यदि वा यक्षो रुद्रादन्यो व्यवस्थितः। अहमेनं शरैस्तीक्ष्णैर्नयामि यमसादनम् ।। | 3-39-42a 3-39-42b |
ततो हृष्टमना जिष्णुर्नाराचान्मर्मभेदिनः। व्यसृजच्छतधा राजन्मयूखानिव भास्करः ।। | 3-39-43a 3-39-43b |
तान्प्रसन्नेन मनसा भगवाँल्लोकभावनः। शूलपाणिः प्रत्यगृह्णाच्छिलावर्षमिवाचलः ।। | 3-39-44a 3-39-44b |
क्षणेन क्षीणबाणोऽथ संवृत्तः फल्गुनस्तदा। वित्रासं च जगामाथ तं दृष्ट्वा शरसंक्षयम् ।। | 3-39-45a 3-39-45b |
चिन्तयामास जिष्णुस्तु भगवन्तं हुताशनम्। पुरस्तादक्षयौ दत्तौ तूणौ येनास्य खाण्डवे ।। | 3-39-46a 3-39-46b |
किं नु मोक्ष्यामि धनुषा यन्मे बाणाः क्षयं गताः। अयं च पुरुषः कोपि बाणान्ग्रसति सर्वशः ।। | 3-39-47a 3-39-47b |
अहमेनं धनुष्कोट्या रशूलाग्रेणेव कुञ्जरम्। नयामि दण्डधारस्य यमस्य सदनं प्रति ।। | 3-39-48a 3-39-48b |
प्रगृह्याथ धनुष्कोट्या ज्यापाशेनावकृष्य च। मुष्टिभिश्चापि हतवान्वज्रकल्पैर्महाद्युतिः ।। | 3-39-49a 3-39-49b |
संप्रायुध्यद्धनुष्कोट्या कौन्तेयः परवीरहा। तदप्यस्य धनुर्दिव्यं जग्राह गिरिगोचरः ।। | 3-39-50a 3-39-50b |
ततोऽर्जुनो ग्रस्तधनुः खङ्गपाणिरतिष्ठत। युद्धस्यान्तमभीप्सन्वै वेगेनाभिजगाम तम् ।। | 3-39-51a 3-39-51b |
तस्य मूर्ध्नि शितं खङ्गमसक्तं पर्वतेष्वपि। मुमोय भुजवीर्येण विक्रम्य कुरुनन्दनः ।। | 3-39-52a 3-39-52b |
तकस्य मूर्धानमासाद्य पफालासिवरो हि सः। ततो वृक्षैः शिलाभिश्च योधयामास फल्गुनः ।। | 3-39-53a 3-39-53b |
तदा वृक्षान्महाकायः प्रत्यगृह्णादथो शिलाः। किरातरूपी भगवांस्ततः पार्थो महाबलः ।। | 3-39-54a 3-39-54b |
मुष्टिभिर्वज्रसंस्पर्शैर्धूममुत्पादयन्मुखे। प्रजहार दुराधर्षे किरातसमरूपिणि ।। | 3-39-55a 3-39-55b |
ततः शक्राशनिसमैर्मुष्टिभिर्भृशदारुणैः। किरातरूपी भगवानर्दयामास फल्गुनम् ।। | 3-39-56a 3-39-56b |
ततश्चटचटाशब्दः सुधोरः समजायत। पाण्डवस्य च मुष्टीनां किरातस् च युध्यतः ।। | 3-39-57a 3-39-57b |
सुमुहूर्तं तयोर्युद्धमभवल्लोमहर्षणम्। भुजप्रहारसंयुक्तं वृत्रवासवयोरिव ।। | 3-39-58a 3-39-58b |
महाराज ततो जिष्णुः किरातमुरसा बली। पाण्डवं च विचेष्टन्तं किरातोप्यहनद्बलात् ।। | 3-39-59a 3-39-59b |
तयोर्भुजविनिष्पेषात्संधर्षेणोरसोस्तथा। समजायत गात्रेषु पावकोऽङ्गारधूमवान् ।। | 3-39-60a 3-39-60b |
तत एनं महादेवः पीड्य गात्रैः सुपीडितम्। तेजसा व्क्रमद्रोषाच्चेतस्तस्य विमोहयन् ।। | 3-39-61a 3-39-61b |
ततोऽभिपीडितैर्गात्रैः पिण्डीकृत इवाबभौ। फल्गुनो गात्रसंरुद्धो देवदेवेन भारत ।। | 3-39-62a 3-39-62b |
निरुच्छ्वासोऽभवच्चैव सन्निरुद्धो महामनाः। ततः पपात संमूढस्ततः प्रीतोऽभवद्भवः ।। | 3-39-63a 3-39-63b |
स मुहूर्तं तथा भूत्वा सचेताः पुनरुत्थितः। रुधिरेणाप्लुताङ्गस्तु पाण्डवो भृशदुःखितः ।। | 3-39-64a 3-39-64b |
शरण्यं शरणं गत्वा भगवन्तं पिनाकिनम्। मृन्मयं स्ण्डिलं कृत्वामाल्येनापूजयद्भवम् ।। | 3-39-65a 3-39-65b |
तच्च माल्यं तदा पार्थः किरातशिरसि स्थितम्। अपश्यत्पाण्डवश्रेष्ठो हर्षेण प्रकृतिं गतः ।। | 3-39-66a 3-39-66b |
पपात पादयोस्तस्य ततः प्रीतोऽभवद्भवः। [उवाच चैनं वचसा मेघगम्भीरगीर्हसः। जातविस्मयमालोक्य ततः क्षीणाङ्गसंहतिम् ।। | 3-39-67a 3-39-67b 3-39-67c |
भव उवाच। | 3-39-68x |
भोभो फल्गुन तुष्टोस्मि कर्मणाऽप्रतिमेन ते। शौर्येणानेन धृत्या च क्षत्रियो नास्ति ते समः ।। | 3-39-68a 3-39-68b |
समं तेजश्च वीर्यं च ममाद्य तव चानघ। प्रीतस्तेऽहं महाबाहो पश्य मां भरतर्षभ ।। | 3-39-69a 3-39-69b |
ददामि ते विशालाक्ष चक्षुः पूर्वं मुनिर्भवान्। विजेष्यसि रणे शत्रूनपि सर्वान्दिवौकसः ।। | 3-39-70a 3-39-70b |
[प्रीत्या च तेऽहं दास्यामि यदस्त्रमनिवारितम्। त्वं हि शक्तो मदीयं तदस्त्रं धारयितुं क्षणात् ।।] | 3-39-71a 3-39-71b |
वैशंपायन उवाच। | 3-39-72x |
ततो देवं महादेवं गिरिशं शूनपाणिनम्। ददर्श फल्गुनस्तत्र सह देव्या महाद्युतिम् ।। | 3-39-72a 3-39-72b |
स जानुभ्यां महीं गत्वा शिरसा प्रणिपत्य च। प्रसादयामास हरं पार्थः परपुरंजयः ।। | 3-39-73a 3-39-73b |
अर्जुन उवाच। | 3-39-74x |
कपर्दिन्सर्वभूतेश भगनेत्रनिपातन। [देवदेव महादेव नीलग्रीव जटाधर ।। | 3-39-74a 3-39-74b |
कारणानां च परमं जाने त्वां त्र्यम्बकं विभुम्। देवानां च गतिं देवं त्वत्प्रसूतमिदं जगत् ।। | 3-39-75a 3-39-75b |
अजेयस्त्वं त्रिभिर्लोकैः सदेवासुरमानुषैः। शिवाय विष्णुरूपाय विष्णवे शिवरूपिणे ।। | 3-39-76a 3-39-76b |
दक्षियज्ञविनाशाय हरिरूपाय ते नमः। ललाटाक्षाय शर्वाय मीढुषे शूलपाणये ।। | 3-39-77a 3-39-77b |
पिनाकगोप्त्रे सूर्याय मङ्गल्याय च वेधसे। प्रसादये त्वां भगवन्सर्वभूतमहेश्वर ।। | 3-39-78a 3-39-78b |
गणेशं जगतः शम्भुं लोककारणकारणम्। प्रधानपुरुषातीतं परं सूक्ष्मतरं हरम् ।। | 3-39-79a 3-39-79b |
व्यतिक्रमं मे भगवन्क्षन्तुमर्हसि शंकर। भगवन्दर्शनाकाङ्क्षी प्राप्तोस्मीमं महागिरिम् ।। | 3-39-80a 3-39-80b |
दयितं तव देवेश तापसालयमुत्तमम्। प्रसादये त्वां भगवन्सर्वलोकनमस्कृतम् ।। | 3-39-81a 3-39-81b |
कृतो मयाऽयमज्ञानाद्विमर्दो यस्त्वया सह। शरणं प्रतिपन्नाय तत्क्षमस्वाद्य शंकर ।। | 3-39-82a 3-39-82b |
वैशंपायन उवाच। | 3-39-83x |
तमुवाच महातेजाः प्रहसन्वृषभध्वजः। प्रगृह्य रुचिरं बाहुं क्षान्तमित्येव फल्गुनम् ।। | 3-39-83a 3-39-83b |
परिष्वज्य च बाहुभ्यां प्रीतात्मा भगवान्हरः। पुनः पार्थं सान्त्वपूर्वमुवाच वृषभध्वजः ।। | 3-39-84a 3-39-84b |
`गङ्गाङ्गितजटः शर्वः पार्थस्यामिततेजसः। प्रगृह्य रुचिरं बाहुं वृत्तं ताम्रतलाङ्गुलिम् ।।' | 3-39-85a 3-39-85b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि कैरातपर्वणि एकोनचत्वारिंशोऽध्यायः ।। 39 ।। |
टिप्पणी
सम्पाद्यताम्3-39-4 भूतैः प्रमथाख्यैः स्वपार्षदैः ।। 3-39-13 समं एककालम् ।। 3-39-15 अशनिर्मेधजं वज्रम्। वज्रं इन्द्रप्रहरणम्। संनिषातो योगः ।। 3-39-16 स दानवः राक्षसमिव ।। 3-39-20 अभिपन्नः परिगृहीतः कामानत्। यदृच्छातः। परिभवात् ममाभिभवाय ।। 3-39-23 मत्कृते मन्निमित्तम्। वनमन्तिकाद्वनस्य समीपे ।। 3-39-24 प्ररोचितः स्वीकृतः ।। 3-39-30 दोषान्मृगया धर्मातिक्रमरूपान् ।। 3-39-34 नाराचान् शरजातिभेदान् ।। 3-39-39 अहोऽयमिति संधिरार्षः ।। 3-39-41 सहितुं सोढुम् ।। 3-39-52 असक्तमकुण्ठितम् ।। 3-39-53 पफाल विशीर्ण 3-39-55 धूमं क्रोधावेशेन ।। 3-39-61 पीड्य निपीड्य ।। 3-39-62 गात्रेषु संरुद्धश्चलनहीनः ।। 3-39-66 प्रकृतिं स्वास्थ्यम् ।। 3-39-70 चक्षुः दिव्यज्ञानम् ।। 3-39-77 मीढुषे वर्षकाय ।।
आरण्यकपर्व-038 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-040 |