महाभारतम्-03-आरण्यकपर्व-019
← आरण्यकपर्व-018 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-019 वेदव्यासः |
आरण्यकपर्व-020 → |
प्रद्युम्नपराजितस्य साल्वस्य रणादपयानम् ।। 1 ।।
वासुदेव उवाच।।
एवमुक्तस्तु कौन्तेय सूतपुत्रस्तदा मृधे ।
प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ।।१।।
न मे भयं रौक्मिणेय सङ्ग्रामे यच्छतो हयान् ।
युद्धज्ञश्चास्मि वृष्णीनां नात्र किञ्चिदतोऽन्यथा ।।२।।
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः ।
सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ।।३।।
त्वं हि शाल्वप्रयुक्तेन पत्रिणाभिहतो भृशम् ।
कश्मलाभिहतो वीर ततोऽहमपयातवान् ।।४।।
स त्वं सात्वतमुख्याद्य लब्धसञ्ज्ञो यदृच्छया ।
पश्य मे हयसंयाने शिक्षां केशवनन्दन ।।५।।
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः ।
वीतभीः प्रविशाम्येतां शाल्वस्य महतीं चमूम् ।।६।।
एवमुक्त्वा ततो वीर हयान्सञ्चोद्य सङ्गरे ।
रश्मिभिश्च समुद्यम्य जवेनाभ्यपतत्तदा ।।७।।
मण्डलानि विचित्राणि यमकानीतराणि च ।
सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ।।८।।
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः ।
उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ।।९।।
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम् ।
दह्यमाना इव तदा पस्पृशुश्चरणैर्महीम् ।।१०।।
सोऽपसव्यां चमूं तस्य शाल्वस्य भरतर्षभ ।
चकार नातियत्नेन तदद्भुतमिवाभवत् ।।११।।
अमृष्यमाणोऽपसव्यं प्रद्युम्नेन स सौभराट् ।
यन्तारमस्य सहसा त्रिभिर्बाणैः समर्पयत् ।।१२।।
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन् ।
भूय एव महाबाहो प्रययौ हयसंमतः ।।१३।।
ततो बाणान्बहुविधान्पुनरेव स सौभराट् ।
मुमोच तनये वीरे मम रुक्मिणिनन्दने ।।१४।।
तानप्राप्ताञ्शितैर्बाणैश्चिच्छेद परवीरहा ।
रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवम् ।।१५।।
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन स सौभराट् ।
आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ।।१६।।
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलः ।
ब्रह्मास्त्रेणान्तरा छित्त्वा मुमोचान्यान्पतत्रिणः ।।१७।।
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः ।
शिरस्युरसि वक्त्रे च स मुमोह पपात च ।।१८।।
तस्मिन्निपतिते क्षुद्रे शाल्वे बाणप्रपीडिते ।
रौक्मिणेयोऽपरं बाणं संदधे शत्रुनाशनम् ।।१९।।
तमर्चितं सर्वदाशार्हपूगै; राशीर्भिरर्कज्वलनप्रकाशम् ।
दृष्ट्वा शरं ज्यामभिनीयमानं; बभूव हाहाकृतमन्तरिक्षम् ।।२०।।
ततो देवगणाः सर्वे सेन्द्राः सह धनेश्वराः ।
नारदं प्रेषयामासुः श्वसनं च महाबलम् ।।२१।।
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम् ।
नैष वध्यस्त्वया वीर शाल्वराजः कथञ्चन ।।२२।।
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे ।
एतस्य हि शरस्याजौ नावध्योऽस्ति पुमान्क्वचित् ।।२३।।
मृत्युरस्य महाबाहो रणे देवकिनन्दनः ।
कृष्णः सङ्कल्पितो धात्रा तन्न मिथ्या भवेदिति ।।२४।।
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम् ।
सञ्जहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ।।२५।।
तत उत्थाय राजेन्द्र शाल्वः परमदुर्मनाः ।
व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ।।२६।।
स द्वारकां परित्यज्य क्रूरो वृष्णिभिरर्दितः ।
सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ।।२७।। 3.19.27
वासुदेव उवाच। | 3-19-1x |
एवमुक्तस्तु कौन्तेय सूतपुत्रस्ततो मृधे। प्रद्युम्नमब्रवीच्छ्लक्ष्णं मधुरं वाक्यमञ्जसा ।। | 3-19-1a 3-19-1b |
न मे भयं रौक्मिणेय संग्रामे यच्छतो हयान्। युद्धज्ञोस्मि च वृष्णीनां नात्र किंचिदतोऽन्यथा ।। | 3-19-2a 3-19-2b |
आयुष्मन्नुपदेशस्तु सारथ्ये वर्ततां स्मृतः। सर्वार्थेषु रथी रक्ष्यस्त्वं चापि भृशपीडितः ।। | 3-19-3a 3-19-3b |
त्वं हि साल्वप्रयुक्तेन शरेणाभिहतो भृशम्। कश्मलाभिहतो वीर ततोऽहमपयातवान् ।। | 3-19-4a 3-19-4b |
सत्वं सात्वतमुख्याद्य लब्धसंज्ञो यदृच्छया। पश्य मे हयसंयाने शिक्षां केशवनन्दन ।। | 3-19-5a 3-19-5b |
दारुकेणाहमुत्पन्नो यथावच्चैव शिक्षितः। वीतभीः प्रविशाम्येतां साल्वस्य महतीं चमूम् ।। | 3-19-6a 3-19-6b |
वासुदेव उवाच। | 3-19-7x |
एवमुक्त्वा ततो वीरो हयान्संचोद्य संगरे। रश्मिभिस्तु समुद्यम्य जवेनाभ्यपतत्तदा ।। | 3-19-7a 3-19-7b |
मण्डलानि विचित्राणि यमकानीतराणि च। सव्यानि च विचित्राणि दक्षिणानि च सर्वशः ।। | 3-19-8a 3-19-8b |
प्रतोदेनाहता राजन्रश्मिभिश्च समुद्यताः। उत्पतन्त इवाकाशं विबभुस्ते हयोत्तमाः ।। | 3-19-9a 3-19-9b |
ते हस्तलाघवोपेतं विज्ञाय नृप दारुकिम्। उह्यमाना इव तदा नास्पृशंश्चरणैर्महीम् ।। | 3-19-10a 3-19-10b |
सोपसव्यां चमूं तस्य साल्वस्य भरतर्षभ। चकार नातियत्नेन तदद्भुतमिवाभवत् ।। | 3-19-11a 3-19-11b |
अमृष्यमाणोपसव्यं साल्वः समितिदारुणः। यन्तारमस्य सहसा त्रिभिर्बाणैः समार्दयत् ।। | 3-19-12a 3-19-12b |
दारुकस्य सुतस्तं तु बाणवेगमचिन्तयन्। भूय एव महाबाहो प्रययावपसव्यतः ।। | 3-19-13a 3-19-13b |
ततो बाणान्बहुविधान्पुनरेव स सौभराट्। मुमोच तनये वीर मम रुक्मिणिनन्दने ।। | 3-19-14a 3-19-14b |
तानप्राप्ताञ्शितैर्ब्राणैश्चिच्छेद परवीरहा। रौक्मिणेयः स्मितं कृत्वा दर्शयन्हस्तलाघवं ।। | 3-19-15a 3-19-15b |
छिन्नान्दृष्ट्वा तु तान्बाणान्प्रद्युम्नेन च सौभराट्। आसुरीं दारुणीं मायामास्थाय व्यसृजच्छरान् ।। | 3-19-16a 3-19-16b |
प्रयुज्यमानमाज्ञाय दैतेयास्त्रं महाबलम्। ब्रह्मास्त्रेणान्तरा च्छित्त्वामुमोचान्यन्पतस्त्रिणः ।। | 3-19-17a 3-19-17b |
ते तदस्त्रं विधूयाशु विव्यधू रुधिराशनाः। शिरस्युरसि वक्रे च स मुमोह पपात च ।। | 3-19-18a 3-19-18b |
तस्मिन्निपतिते क्षुद्रे साल्वे बाणप्रपीडिते। रौक्मिणेयोऽपरं बाणं संदधे शत्रतापनः ।। | 3-19-19a 3-19-19b |
तमर्चितं सर्वदाशार्हपूगै- राशीर्भिरर्कज्वलनप्रकाशम्। दृष्ट्वा शरं ज्यामभिनीयमानं बभूव हाहाकृतमन्तरिक्षम् ।। | 3-19-20a 3-19-20b 3-19-20c 3-19-20d |
ततो देवगणाः सर्वे सेन्द्राः सहधनेश्वराः। नारदं प्रेषयामासु- श्वसनं च मनोजवम् ।। | 3-19-21a 3-19-21b |
तौ रौक्मिणेयमागम्य वचोऽब्रूतां दिवौकसाम्। नैव वध्यस्त्वया वीर साल्वराजः कथंचन ।। | 3-19-22a 3-19-22b |
संहरस्व पुनर्बाणमवध्योऽयं त्वया रणे। एतस्य च शरस्याजौ नावध्योस्ति पुमान्क्वचित् ।। | 3-19-23a 3-19-23b |
मृत्युरस्य महाबाहो रणे देवकिनन्दनः। कृष्णः संकल्पितो धात्रा तन्मिथ्या न भवेदिति ।। | 3-19-24a 3-19-24b |
ततः परमसंहृष्टः प्रद्युम्नः शरमुत्तमम्। संजहार धनुःश्रेष्ठात्तूणे चैव न्यवेशयत् ।। | 3-19-25a 3-19-25b |
तत उत्थाय राजेन्द्र साल्वः परमदुर्मनाः। व्यपायात्सबलस्तूर्णं प्रद्युम्नशरपीडितः ।। | 3-19-26a 3-19-26b |
स द्वारकां परित्यज्य साल्वो वृष्णिभिरार्दितः। सौभमास्थाय राजेन्द्र दिवमाचक्रमे तदा ।। | 3-19-27a 3-19-27b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ।। 20 ।। |
टिप्पणी
सम्पाद्यताम्3-19-8 यमकानि सदृशानि। इतराणि विसदृशानि ।। 3-19-10 दह्यमाना इवेति ख. झ. पाठः ।।
आरण्यकपर्व-018 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-020 |