महाभारतम्-03-आरण्यकपर्व-073
← आरण्यकपर्व-072 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-073 वेदव्यासः |
आरण्यकपर्व-074 → |
केशिन्या बाहुकस्य जलाग्न्युत्पादनाद्यद्भुतकर्मनिवेदितया दमयन्त्या पुनःपरीक्षणाय तंप्रति कन्यापुत्रयोः प्रेपणम् ।। 1 ।।
बाहुकेन सबाष्पं पुत्रयोः परिरम्भणम्। केशिनींप्रति स्वकर्मणः कारणान्तरकथनेनापह्नवश्च ।। 2 ।।
बृहदश्व उवाच।।
दमयन्ती तु तच्छ्रुत्वा भृशं शोकपरायणा ।
शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ।।१।।
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके ।
आब्रुवाणा समीपस्था चरितान्यस्य लक्षय ।।२।।
यदा च किञ्चित्कुर्यात्स कारणं तत्र भामिनि ।
तत्र सञ्चेष्टमानस्य संलक्ष्यं ते विचेष्टितम् ।।३।।
न चास्य प्रतिबन्धेन देयोऽग्निरपि भामिनि ।
याचते न जलं देयं सम्यगत्वरमाणया ।।४।।
एतत्सर्वं समीक्ष्य त्वं चरितं मे निवेदय ।
यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ।।५।।
दमयन्त्यैवमुक्ता सा जगामाथाशु केशिनी ।
निशाम्य च हयज्ञस्य लिङ्गानि पुनरागमत् ।।६।।
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत् ।
निमित्तं यत्तदा दृष्टं बाहुके दिव्यमानुषम् ।।७।।
केशिन्युवाच।।
दृढं शुच्युपचारोऽसौ न मया मानुषः क्वचित् ।
दृष्टपूर्वः श्रुतो वापि दमयन्ति तथाविधः ।।८।।
ह्रस्वमासाद्य सञ्चारं नासौ विनमते क्वचित् ।
तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।।९।।
सङ्कटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ।।९।।
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः ।
प्रेषितं तत्र राज्ञा च मांसं सुबहु पाशवम् ।।१०।।
तस्य प्रक्षालनार्थाय कुम्भस्तत्रोपकल्पितः ।
स तेनावेक्षितः कुम्भः पूर्ण एवाभवत्तदा ।।११।।
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः ।
तृणमुष्टिं समादाय आविध्यैनं समादधत् ।।१२।।
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः ।
तदद्भुततमं दृष्ट्वा विस्मिताहमिहागता ।।१३।।
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया ।
यदग्निमपि संस्पृश्य नैव दह्यत्यसौ शुभे ।।१४।।
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम् ।
अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ।।१५।।
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः ।
मृद्यमानानि पाणिभ्यां तेन पुष्पाणि तान्यथ ।।१६।।
भूय एव सुगन्धीनि हृषितानि भवन्ति च ।
एतान्यद्भुतकल्पानि दृष्ट्वाहं द्रुतमागता ।।१७।।
बृहदश्व उवाच।।
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम् ।
अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ।।१८।।
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम् ।
केशिनीं श्लक्ष्णया वाचा रुदती पुनरब्रवीत् ।।१९।।
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम् ।
महानसाच्छृतं मांसं समादायैहि भामिनि ।।२०।।
सा गत्वा बाहुके व्यग्रे तन्मांसमपकृष्य च ।
अत्युष्णमेव त्वरिता तत्क्षणं प्रियकारिणी ।।२१।।
दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ।।२१।।
सोचिता नलसिद्धस्य मांसस्य बहुशः पुरा ।
प्राश्य मत्वा नलं सूदं प्राक्रोशद्भृशदुःखिता ।।२२।।
वैक्लव्यं च परं गत्वा प्रक्षाल्य च मुखं ततः ।
मिथुनं प्रेषयामास केशिन्या सह भारत ।।२३।।
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः ।
अभिद्रुत्य ततो राजा परिष्वज्याङ्कमानयत् ।।२४।।
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ ।
भृशं दुःखपरीतात्मा सस्वरं प्ररुदोद ह ।।२५।।
नैषधो दर्शयित्वा तु विकारमसकृत्तदा ।
उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ।।२६।।
इदं सुसदृशं भद्रे मिथुनं मम पुत्रयोः ।
ततो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ।।२७।।
बहुशः सम्पतन्तीं त्वां जनः शङ्केत दोषतः ।
वयं च देशातिथयो गच्छ भद्रे नमोऽस्तु ते ।।२८।। 3.75.28
बृहदश्व उवाच। | 3-73-1x |
केशिन्यास्तद्वचः श्रुत्वा दमयन्ती विशांपते। शङ्कमाना नलं तं वै केशिनीमिदमब्रवीत् ।। | 3-73-1a 3-73-1b |
गच्छ केशिनि भूयस्त्वं परीक्षां कुरु बाहुके। अब्रुवाणा समीपस्था चरितान्यस्य लक्षय ।। | 3-73-2a 3-73-2b |
यदा च किंचित्कुर्यात्स कारणं तत्र भामिनि। तत्रसंचेष्टमानस्य संलक्षेथा विचेष्टितम् ।। | 3-73-3a 3-73-3b |
न चास्य प्रतिबन्धेन देयोऽग्निरपि केशिनि। याचते न जलं देयं सकृच्चात्वरमाणया। एतत्सर्वं समीक्ष्यत्वं चरितं मे निवेदय ।। | 3-73-4a 3-73-4b 3-73-4c |
निमित्तं यत्त्वया दृष्टं बाहुके दैवमानुषम्। यच्चान्यदपि पश्येथास्तच्चाख्येयं त्वया मम ।। | 3-73-5a 3-73-5b |
दमयन्त्यैवमुक्ता सा जगामाथ च केशिनी। निशाम्याथ हयज्ञस्य लिङ्गानि पुनरागमत् ।। | 3-73-6a 3-73-6b |
सा तत्सर्वं यथावृत्तं दमयन्त्यै न्यवेदयत्। निमित्तं यत्तया दृष्टं बाहुके दिव्यमानुषम् ।। | 3-73-7a 3-73-7b |
केशिन्युवाच। | 3-73-8x |
दृढं शुच्यपदानोसौ न मया मानुषः क्वचित्। दृष्टपूर्वः श्रुतो वाऽपि दमयन्ति तथाविधः ।। | 3-73-8a 3-73-8b |
ह्रस्वमासाद्य तु द्वारं नासौ विनमते क्वचित्। तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम्। संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ।। | 3-73-9a 3-73-9b 3-73-9c |
ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। ऋतुपर्णस्य चार्थाय भोजनीयमनेकशः। प्रेषितं तत्रराज्ञा तु मांसं बहु च पाशवम् ।। | 3-73-10a 3-73-10b 3-73-10c |
तस्य प्रक्षालनार्थाय कुम्भास्तत्रोपकल्पिताः। ते तेनावेक्षिताः कुम्भाः पूर्णा एवाभवंस्ततः ।। | 3-73-11a 3-73-11b |
ततः प्रक्षालनं कृत्वा समधिश्रित्य बाहुकः। तृणमुष्टिं समादाय सवितुस्तं समादधत् ।। | 3-73-12a 3-73-12b |
अथ प्रज्वलितस्तत्र सहसा हव्यवाहनः। तदद्भुततमं दृष्ट्वा विस्मिताऽमिहागता ।। | 3-73-13a 3-73-13b |
अन्यच्च तस्मिन्सुमहदाश्चर्यं लक्षितं मया। यदग्निमपि संस्पृश्य नैवासौ दह्यते शुभे ।। | 3-73-14a 3-73-14b |
छन्देन चोदकं तस्य वहत्यावर्जितं द्रुतम्। अतीव चान्यत्सुमहदाश्चर्यं दृष्टवत्यहम् ।। | 3-73-15a 3-73-15b |
यत्स पुष्पाण्युपादाय हस्ताभ्यां ममृदे शनैः। मृद्यमानानि पाणिभ्यां तेन पुष्पाणि नान्यथा। भूय एव सुगन्धीनि हृपितानि भवन्ति हि ।। | 3-73-16a 3-73-16b 3-73-16c |
एतान्यद्भुतकल्पानि दृष्ट्वाऽहं भृशविस्मिता। चेष्टितानि विशालाक्षि बाहुकस्य समीपतः ।। | 3-73-17a 3-73-17b |
बृहदश्व उवाच। | 3-73-18x |
दमयन्ती तु तच्छ्रुत्वा पुण्यश्लोकस्य चेष्टितम्। अमन्यत नलं प्राप्तं कर्मचेष्टाभिसूचितम् ।। | 3-73-18a 3-73-18b |
सा शङ्कमाना भर्तारं नलं बाहुकरूपिणम्। केशिनीं श्लक्ष्णया वाचा रुदन्ती पुनरब्रवीत् ।। | 3-73-19a 3-73-19b |
पुनर्गच्छ प्रमत्तस्य बाहुकस्योपसंस्कृतम्। महानसाच्छ्रितं मांसमानयस्वेह भामिनि ।। | 3-73-20a 3-73-20b |
सा दृष्ट्वाबाहुके व्यग्रे तन्मांसमपकृष्य च। अत्युष्णमेव त्वरिता तत्क्षणात्प्रियकारिणी। दमयन्त्यै ततः प्रादात्केशिनी कुरुनन्दन ।। | 3-73-21a 3-73-21b 3-73-21c |
साऽशिता नलसिद्धस् मांसस्य बहुशः पुरा। प्राश्य मत्वा नलं सूतं प्राक्रोशद्भृशदुःखिता ।। | 3-73-22a 3-73-22b |
वैक्लव्यं परमं गत्वाप्रक्षाल्य च मुखं ततः। मिथुनं प्रेषयामास केशिन्या सह भारत् ।। | 3-73-23a 3-73-23b |
इन्द्रसेनां सह भ्रात्रा समभिज्ञाय बाहुकः। अभिद्रुत्य तदा राजा परिष्वज्याङ्कमानयत् ।। | 3-73-24a 3-73-24b |
बाहुकस्तु समासाद्य सुतौ सुरसुतोपमौ। भृशं दुःखपरीतात्मा सुस्वरं प्ररुरोद ह ।। | 3-73-25a 3-73-25b |
नैषधो दर्शयित्वा तु विकारमसकृत्तदा। उत्सृज्य सहसा पुत्रौ केशिनीमिदमब्रवीत् ।। | 3-73-26a 3-73-26b |
इदं च मदृशं भद्रे मिथुनं मम पुत्रयोः। अतो दृष्ट्वैव सहसा बाष्पमुत्सृष्टवानहम् ।। | 3-73-27a 3-73-27b |
बहुशः संपतन्तीं त्वां जनः शङ्केत दोषतः। वयंच देशातिथयो गच्छ भद्रे यथासुखम् ।। | 3-73-28a 3-73-28b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिसप्ततितमोऽध्यायः ।। 73 ।। |
3-73-9 द्वारं ह्रस्वमपि उत्सर्पति दीर्घं भवति। संकटे संकुचिते ।। 3-73-10 पाशवं पशुसंबन्धि ।। 3-73-12 सवितुः सकाशात्। समादधत् उद्दीपितवान्। समादाय ह्याविध्यैनमिति झ. पाठः ।। 3-73-18 कर्म पाकादि। चेष्टा भूतजयादि ।। 3-73-22 बहुशः बहुवारम् ।। 3-73-28 संपतन्तीं आयान्तीम् ।।
आरण्यकपर्व-072 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-074 |