महाभारतम्-03-आरण्यकपर्व-165
← आरण्यकपर्व-164 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-165 वेदव्यासः |
आरण्यकपर्व-166 → |
इन्द्रादधिगतास्त्रेणार्जुनेन स्वर्गाद्गन्धमादननिवासिनो युधिष्ठिरादीन्प्रत्यागमनम् ।। 1 ।।
वैशंपायन उवाच। | 3-165-1x |
तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम्। रतिः प्रमोदश्च बभूव तेषा- माकाङ्क्षतां दर्शनमर्जुनस्य ।। | 3-165-1a 3-165-1b 3-165-1c 3-165-1d |
तान्वीर्ययुक्तान्सुविशुद्धसत्वां- स्तेजस्विनः सत्यधृतिप्रधानान्। संप्रीयमाणा बहवोऽबिजग्मु- र्गन्धर्वसङ्घाश्च महर्षयश्च ।। | 3-165-2a 3-165-2b 3-165-2c 3-165-2d |
तं पादपैः पुष्पफलैरुपेतं नगोत्तमं प्राप्य महारथानाम्। मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ।। | 3-165-3a 3-165-3b 3-165-3c 3-165-3d |
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य। शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ।। | 3-165-4a 3-165-4b 3-165-4c 3-165-4d |
साक्षात्कुबेरेण कृताश्च तस्मि- न्नगोत्तमे संवृतकूटगुल्माः। कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् ।। | 3-165-5a 3-165-5b 3-165-5c 3-165-5d |
क्रीडाप्रदेशांस्च समृद्धरूपा- न्सवेदिकांस्ते न्यवसन्सुवेशान्। मणिप्रकीर्णांश्च मनोरमांश्च यथा भवेयुर्नदस्य राज्ञः ।। | 3-165-6a 3-165-6b 3-165-6c 3-165-6d |
अनेकवर्णैश् सुगन्धिभिश्च महाद्रुमैः संततमभ्रजालैः। तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ।। | 3-165-7a 3-165-7b 3-165-7c 3-165-7d |
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात्। विभक्तरूपः सविता बभूव निशामुखं प्राप्य नरर्षभाणाम् ।। | 3-165-8a 3-165-8b 3-165-8c 3-165-8d |
यमास्थितः स्थावरजङ्गमानां विभावसुर्भाविता हरीशः। तस्योदयं चास्तमनं च वीर- स्तत्रस्थितास्ते ददृशुर्नृसिंहाः ।। | 3-165-9a 3-165-9b 3-165-9c 3-165-9d |
रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमनं च वीराः। समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च ।। | 3-165-10a 3-165-10b 3-165-10c 3-165-10d |
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च। सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ।। | 3-165-11a 3-165-11b 3-165-11c 3-165-11d |
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनंजयेन। इति ब्रुवन्तः परमाशिपस्ते पार्थास्तपोयोगपरा बभूवुः ।। | 3-165-12a 3-165-12b 3-165-12c 3-165-12d |
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम्। बभूव राविर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ।। | 3-165-13a 3-165-13b 3-165-13c 3-165-13d |
यदैव धौम्यानुमते महात्मा कृत्वा जटां प्रव्रजितः स जिष्णुः। तदैव तेषां नबभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ।। | 3-165-14a 3-165-14b 3-165-14c 3-165-14d |
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी। यत्काम्यकात्प्रव्रजितः स जिष्णु- स्तदैव ते शोकहता बभूवुः ।। | 3-165-15a 3-165-15b 3-165-15c 3-165-15d |
तथैव तं चिन्तयतां सिताश्व- मस्त्रार्थिनं वासवमभ्युपेतम्। कालः स कृच्छ्रेण महानतीत- स्तस्मिन्नगे भारत भारतानाम् ।। | 3-165-16a 3-165-16b 3-165-16c 3-165-16d |
[उषित्वा पञ्चवर्षाणि सहस्राक्षनिवेशने। अवाप्य दिव्यान्यस्त्राणि सर्वाणि विबुधेश्वरात् ।। | 3-165-17a 3-165-17b |
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम्। ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ।। | 3-165-18a 3-165-18b |
यमस्य धातुः सवितुस्त्वष्टुर्वैश्रवणस्य चं। तानि प्राप्य सहस्राक्षादभिवाद्य शतक्रतुम् ।। | 3-165-19a 3-165-19b |
अनुज्ञातस्तदा तेन कृत्वा चापि प्रदक्षिणम्। आगच्छदर्जुनः प्रीतः प्रहृष्टो गन्धपादनम् ।। | 3-165-20a 3-165-20b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि पञ्चषष्ट्यधिकशततमोऽध्यायः ।। 165 ।। |
3-165-4 महती चला लक्ष्मीः शोभा यस् महाचलस्य। चला लम्यां पुमान् कम्पे इति मेदिनी। सानून्येव तीक्ष्णाग्राणि पुंसंयोग्यानि शृङ्गाणीत्युच्यन्ते ।। 3-165-9 यं सूर्यम्। विभावसुवैह्निरास्थितः। यस्य सूर्यस्याश्रयेणैव रात्रौ वह्निर्जगद्दीपयति तस्योदयमित्यन्वयः ।।
आरण्यकपर्व-164 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-166 |