महाभारतम्-03-आरण्यकपर्व-199
← आरण्यकपर्व-198 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-199 वेदव्यासः |
आरण्यकपर्व-200 → |
महाभारतस्य पर्वाणि |
---|
वैशम्पायन उवाच
भूय एव महाभाग्यं कथ्यतामित्यब्रवीत् पाण्डवः ।। १ ।।
अथाचष्ट मार्कण्डेयो महाराज वृषदर्भसेदुकनामानौ राजानौ नीतिमार्गरतावस्त्रोपास्त्रकृतिनौ ।। २ ।।
सेदुको वृषदर्भस्य बालस्यैव उपांशुव्रतमभ्यजा- नात् कुप्यमदेयं ब्राह्मणस्य ।। ३ ।।
अथ तं सेदुकं ब्राह्मणः कश्चिद् वेदाध्ययनसम्पन्न आशिषं दत्त्वा गुर्वर्थी भिक्षितवान् ।। ४ ।।
अश्वसहस्रं मे भवान् ददात्विति तं सेदुको ब्राह्मणमब्रवीत्।। ५ ।।
नास्ति सम्भवो गुर्वर्थं दातुमिति ।। ६ ।।
स त्वं गच्छ वृषदर्भसकाशम् । राजा परमधर्मज्ञो ब्राह्मण तं भिक्षस्व ।
स ते दास्यति तस्यैतदुपांशुव्रतमिति ।। ७ ।।
अथ ब्राह्मणो वृषदर्भसकाशं गत्वा अश्वसहस्रमयाचत् ।
स राजा तं कशेनाताडयत् ।। ८ ।।
तं ब्राह्मणोऽब्रवीत् । किं हिंस्यनागसं मामिति ।। ९
एवमुक्त्वा तं शपन्तं राजाऽऽह । विप्र किं यो न ददाति तुभ्यमुताहोस्विद् ब्राह्मण्यमेतत् ।। १०
इति श्रीमहाभारते वनपर्वणि मार्कण्डेयसमास्यापर्वणि सेदुकवृषदर्भचरिते षण्णवत्यधिकशततमोऽध्यायः ।। १९६