महाभारतम्-03-आरण्यकपर्व-010
← आरण्यकपर्व-009 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-010 वेदव्यासः |
आरण्यकपर्व-011 → |
धृतराष्ट्रेण दुर्योधनानुशासनं प्रार्थितेन व्यासेन तत्रागमिष्यन्तं मैत्रेयप्रति तत्प्रार्थनाविधानपूर्वकं स्वावासंप्रति गमनम् ।। 1 ।। तत्रागतेन मैत्रेयेण ऊर्वास्फालनपूर्वकं स्ववचनमनादृतवतो दुर्योधनस्य भीमसेनगदया तवोरुभेदो भूयादिति शापदानम् ।। 2 ।।
धृतराष्ट्र उवाच।।
एवमेतन्महाप्राज्ञ यथा वदसि नो मुने ।
अहं चैव विजानामि सर्वे चेमे नराधिपाः ।।१।।
भवांस्तु मन्यते साधु यत्कुरूणां सुखोदयम् ।
तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ।।२।।
यदि त्वहमनुग्राह्यः कौरवेषु दया यदि ।
अनुशाधि दुरात्मानं पुत्रं दुर्योधनं मम ।।३।।
व्यास उवाच।।
अयमायाति वै राजन्मैत्रेयो भगवानृषिः ।
अन्वीय पाण्डवान्भ्रातॄनिहैवास्मद्दिदृक्षया ।।४।।
एष दुर्योधनं पुत्रं तव राजन्महानृषिः ।
अनुशास्ता यथान्यायं शमायास्य कुलस्य ते ।।५।।
ब्रूयाद्यदेष राजेन्द्र तत्कार्यमविशङ्कया ।
अक्रियायां हि कार्यस्य पुत्रं ते शप्स्यते रुषा ।।६।।
वैशम्पायन उवाच।।
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत ।
पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ।।७।।
दत्त्वार्घ्याद्याः क्रियाः सर्वा विश्रान्तं मुनिपुङ्गवम् ।
प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ।।८।।
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले ।
कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः ।।९।।
समये स्थातुमिच्छन्ति कच्चिच्च पुरुषर्षभाः ।
कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ।।१०।।
मैत्रेय उवाच।।
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलम् ।
यदृच्छया धर्मराजं दृष्टवान्काम्यके वने ।।११।।
तं जटाजिनसंवीतं तपोवननिवासिनम् ।
समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ।।१२।।
तत्राश्रौषं महाराज पुत्राणां तव विभ्रमम् ।
अनयं द्यूतरूपेण महापायमुपस्थितम् ।।१३।।
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ।
सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ।।१४।।
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति ।
यदन्योन्येन ते पुत्रा विरुध्यन्ते नराधिप ।।१५।।
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान् ।
किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ।।१६।।
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन ।
तेन न भ्राजसे राजंस्तापसानां समागमे ।।१७।।
वैशम्पायन उवाच।।
ततो व्यावृत्य राजानं दुर्योधनममर्षणम् ।
उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृषिः ।।१८।।
दुर्योधन महाबाहो निबोध वदतां वर ।
वचनं मे महाप्राज्ञ ब्रुवतो यद्धितं तव ।।१९।।
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः ।
पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ।।२०।।
ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ।
सर्वे नागायुतप्राणा वज्रसंहनना दृढाः ।।२१।।
सत्यव्रतपराः सर्वे सर्वे पुरुषमानिनः ।
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम् ।।२२।।
हिडिम्बबकमुख्यानां किर्मीरस्य च रक्षसः ।।२२।।
इतः प्रच्यवतां रात्रौ यः स तेषां महात्मनाम् ।
आवृत्य मार्गं रौद्रात्मा तस्थौ गिरिरिवाचलः ।।२३।।
तं भीमः समरश्लाघी बलेन बलिनां वरः ।
जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ।।२४।।
पश्य दिग्विजये राजन्यथा भीमेन पातितः ।
जरासन्धो महेष्वासो नागायुतबलो युधि ।।२५।।
सम्बन्धी वासुदेवश्च येषां श्यालश्च पार्षतः ।
कस्तान्युधि समासीत जरामरणवान्नरः ।।२६।।
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ ।
कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ।।२७।।
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशां पते ।
ऊरुं गजकराकारं करेणाभिजघान सः ।।२८।।
दुर्योधनः स्मितं कृत्वा चरणेनालिखन्महीम् ।
न किञ्चिदुक्त्वा दुर्मेधास्तस्थौ किञ्चिदवाङ्मुखः ।।२९।।
तमशुश्रूषमाणं तु विलिखन्तं वसुन्धराम् ।
दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ।।३०।।
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः ।
विधिना सम्प्रयुक्तश्च शापायास्य मनो दधे ।।३१।।
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः ।
मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ।।३२।।
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि ।
तस्मादस्याभिमानस्य सद्यः फलमवाप्नुहि ।।३३।।
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत् ।
यत्र भीमो गदापातैस्तवोरुं भेत्स्यते बली ।।३४।।
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः ।
प्रसादयामास मुनिं नैतदेवं भवेदिति ।।३५।।
मैत्रेय उवाच।।
शमं यास्यति चेत्पुत्रस्तव राजन्यथा तथा ।
शापो न भविता तात विपरीते भविष्यति ।।३६।।
वैशम्पायन उवाच।।
स विलक्षस्तु राजेन्द्र दुर्योधनपिता तदा ।
मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ।।३७।।
मैत्रेय उवाच।।
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः ।
एष ते विदुरः सर्वमाख्यास्यति गते मयि ।।३८।।
वैशम्पायन उवाच।।
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम् ।
किर्मीरवधसंविग्नो बहिर्दुर्योधनोऽगमत् ।।३९।। 3.10.39
धृतराष्ट्र उवाच। | 3-10-1x |
एवमेतन्महाप्राज्ञ यथा वदसि मां मुने। अहं चैव विजानामि सर्वे चेमे नराधिपाः ।। | 3-10-1a 3-10-1b |
भवांश्च मन्यते साधु यत्कुरूणां सुखोदयम्। तदेव विदुरोऽप्याह भीष्मो द्रोणश्च मां मुने ।। | 3-10-2a 3-10-2b |
यदित्वहमनुग्राह्यः कौरव्येषु दया यदि। अन्वशाधि दुरात्मानं पुत्रं दुर्योधनं मम ।। | 3-10-3a 3-10-3b |
व्यास उवाच. | 3-10-4x |
अयमायाति वै राजन्मैत्रेयो भगवानृषिः। अन्वीक्ष्य पाण्डवान्भ्रातृनिहैवाऽस्मद्दिदृक्षया ।। | 3-10-4a 3-10-4b |
एष दुर्योधनं पुत्रं तव राजन्महानृषिः। अनुशास्ता यथान्यायं शमायास्य कुलस्य च ।। | 3-10-5a 3-10-5b |
ब्रूयाद्यदेष कौरव्य तत्कार्यमविशङ्कया। अक्रियायां तु कार्यस्य पुत्रं ते शप्स्यते रुषा ।। | 3-10-6a 3-10-6b |
वैशंपायन उवाच। | 3-10-7x |
एवमुक्त्वा ययौ व्यासो मैत्रेयः प्रत्यदृश्यत। पूजया प्रतिजग्राह सपुत्रस्तं नराधिपः ।। | 3-10-7a 3-10-7b |
कृत्वाऽर्ध्याद्याः क्रियाः सर्वा विश्रान्तं मुनिसत्तमम् प्रश्रयेणाब्रवीद्राजा धृतराष्ट्रोऽम्बिकासुतः ।। | 3-10-8a 3-10-8b |
सुखेनागमनं कच्चिद्भगवन्कुरुजाङ्गले। कच्चित्कुशलिनो वीरा भ्रातरः पञ्च पाण्डवाः । | 3-10-9a 3-10-9b |
समये स्थातुमिच्छन्ति कच्चिच्च भरतर्षभाः। कच्चित्कुरूणां सौभ्रात्रमव्युच्छिन्नं भविष्यति ।। | 3-10-10a 3-10-10b |
मैत्रेय उवाच। | 3-10-11x |
तीर्थयात्रामनुक्रामन्प्राप्तोऽस्मि कुरुजाङ्गलान्। यदृच्छया धर्मराजं दृष्ट्ववान्काम्यके वने ।। | 3-10-11a 3-10-11b |
तं जटाजिनसंवीतं तपोवननिवासिनम्। समाजग्मुर्महात्मानं द्रष्टुं मुनिगणाः प्रभो ।। | 3-10-12a 3-10-12b |
तत्राश्रौषं महाराज पुत्राणां तव विग्रहम्। अनयं द्यूतरूपेण महाभयमुपस्थितम् ।। | 3-10-13a 3-10-13b |
ततोऽहं त्वामनुप्राप्तः कौरवाणामवेक्षया ।। सदा ह्यभ्यधिकः स्नेहः प्रीतिश्च त्वयि मे प्रभो ।। | 3-10-14a 3-10-14b |
नैतदौपयिकं राजंस्त्वयि भीष्मे च जीवति। यदन्योन्येन ते पुत्रा विरुध्यन्ते कथंचन ।। | 3-10-15a 3-10-15b |
मेढीभूतः स्वयं राजन्निग्रहे प्रग्रहे भवान्। किमर्थमनयं घोरमुत्पतन्तमुपेक्षसे ।। | 3-10-16a 3-10-16b |
दस्यूनामिव यद्वृत्तं सभायां कुरुनन्दन। तेन न भ्राजसे राजंस्तापसानां समागमे ।। | 3-10-17a 3-10-17b |
वैशंपायन उवाच। | 3-10-18x |
ततो व्यावृत्य राजानं दुर्योधनममर्षणम्। उवाच श्लक्ष्णया वाचा मैत्रेयो भगवानृपिः ।। | 3-10-18a 3-10-18b |
मैत्रेय उवाच। | 3-10-19x |
दुर्योधन महाबाहो निबोध वदतां वर। वचनं मे महाभाग ब्रुवतो यद्धितं तव ।। | 3-10-19a 3-10-19b |
मा द्रुहः पाण्डवान्राजन्कुरुष्व हितमात्मनः। पाण्डवानां कुरूणां च लोकस्य च नरर्षभ ।। | 3-10-20a 3-10-20b |
पाण्डवान्प्राप्य तान्रात्रौ किर्मीरो नाम राक्षसः। अवृत्य मार्गं रौद्रात्मा तस्थौ गिरिवाचलः ।। | 3-10-21a 3-10-21b |
तं भीमः समरस्लाघी बलेन बलिनां वरः। जघान पशुमारेण व्याघ्रः क्षुद्रमृगं यथा ।। | 3-10-22a 3-10-22b |
पश्य दिग्विजये राजन्यथा भीमेन पातितः। जरासन्धो महेष्वासो नागायुतबलो युधि ।। | 3-10-23a 3-10-23b |
संबन्धी वासुदेवश्च श्यालाः सर्वे च पार्षताः। ते हि सर्वे नरव्याघ्राः शूरा विक्रान्तयोधिनः ।। | 3-10-24a 3-10-24b |
सर्वे नागायुतप्राणा वज्रसंहनना दृढः। सत्यव्रतधराः सर्वेसर्वे पुरुषमानिनः ।। | 3-10-25a 3-10-25b |
हन्तारो देवशत्रूणां रक्षसां कामरूपिणाम्। हिडिम्बबकमुख्यानां किर्मीरस् च रक्षसः। कस्तान्युधि समासीत जरामरणवान्नरः ।। | 3-10-26a 3-10-26b 3-10-26c |
तस्य ते शम एवास्तु पाण्डवैर्भरतर्षभ। कुरु मे वचनं राजन्मा मृत्युवशमन्वगाः ।। | 3-10-27a 3-10-27b |
वैशंपायन उवाच। | 3-10-28x |
एवं तु ब्रुवतस्तस्य मैत्रेयस्य विशांपते। ऊरुं करिकराकारं करेणाभिजघान तः ।। | 3-10-28a 3-10-28b |
दुर्योधनः स्मितं कृत्वा चरणेनोल्लिखन्महीम्। नकिंचिदुक्त्वा दुर्मेधास्तस्थौ किंचिदवाङ्मुखः ।। | 3-10-29a 3-10-29b |
तमशुश्रूषमाणं तु विलिखन्तं वसुंधराम्। दृष्ट्वा दुर्योधनं राजन्मैत्रेयं कोप आविशत् ।। | 3-10-30a 3-10-30b |
स कोपवशमापन्नो मैत्रेयो मुनिसत्तमः। विधिना संप्रयुक्तश्च शापायास्य मनो दधे ।। | 3-10-31a 3-10-31b |
ततः स वार्युपस्पृश्य कोपसंरक्तलोचनः। मैत्रेयो धार्तराष्ट्रं तमशपद्दुष्टचेतसम् ।। | 3-10-32a 3-10-32b |
यस्मात्त्वं मामनादृत्य नेमां वाचं चिकीर्षसि। तस्मादस्यातिमानस्य सद्यः फलमवाप्स्यसि ।। | 3-10-33a 3-10-33b |
त्वदभिद्रोहसंयुक्तं युद्धमुत्पत्स्यते महत्। यत्र भीमो गदाघातैस्तवोरुं भेत्स्यते बली ।। | 3-10-34a 3-10-34b |
इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः। प्रसादयामास मुनिं नैतदेवं भवेदिति ।। | 3-10-35a 3-10-35b |
मैत्रेय उवाच। | 3-10-36x |
शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा। शायो न भविता तात विपरीते भविष्यति ।। | 3-10-36a 3-10-36b |
वैशंपायन उवाच। | 3-10-37x |
सविलक्षस्तु राजेन्द्रो दुर्योधनपिता तदा। मैत्रेयं प्राह किर्मीरः कथं भीमेन पातितः ।। | 3-10-37a 3-10-37b |
मैत्रेय उवाच। | 3-10-38x |
नाहं वक्ष्याम्यसूया ते न ते शुश्रूषते सुतः। एष ते विदुरः सर्वमाख्यास्यति गते मयि ।। | 3-10-38a 3-10-38b |
वैशंपायन उवाच। | 3-10-39x |
इत्येवमुक्त्वा मैत्रेयः प्रातिष्ठत यथागतम्। किर्मीरवधसंविग्नो भयं दुर्योधनो ययौ ।। | 3-10-39a 3-10-39b |
।। इतिश्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि दशमोऽध्यायः ।। 10 ।। |
3-10-5 अनुशास्ता अनुशासिष्यति ।। 3-10-6 अक्रियायां अकरणे। कार्यस्य अवश्यकर्तव्यस्य ।। 3-10-11 यदृच्छया दैवात् ।। 3-10-15 औपयिकं योग्यम् ।। 3-10-16 मेढीभूतः खलदामस्तम्भीभूतः। प्रग्रहे अनुग्रहे ।। 3-10-18 व्यावृत् अभिमुखीभूयेत्यर्थः ।। 3-10-22 पशुमारेण पशुमारणप्रकारेण ।। 3-10-24 विक्रान्तयोधिनः विक्रान्ताश्च युद्धशीलाश्च ।। 3-10-25 वज्रसंहननाः वज्रकायाः ।।
आरण्यकपर्व-009 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-011 |