महाभारतम्-03-आरण्यकपर्व-009
← आरण्यकपर्व-008 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-009 वेदव्यासः |
आरण्यकपर्व-010 → |
व्यासेन धृतराष्ट्रंप्रति पुत्रस्नेहस्य दुस्त्यजत्वे दृष्टान्तत्वेन सुरभ्युपाख्यानाख्यानपूर्वकं कौरवाणां जीवितस्य पाण्डवैः सह शमाधीनत्वाभिधानम् ।। 1 ।।
धृतराष्ट्र उवाच।।
भगवन्नाहमप्येतद्रोचये द्यूतसंस्तवम् ।
मन्ये तद्विधिनाक्रम्य कारितोऽस्मीति वै मुने ।।१।।
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च ।
गान्धारी नेच्छति द्यूतं तच्च मोहात्प्रवर्तितम् ।।२।।
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् ।
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ।।३।।
व्यास उवाच।।
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् ।
दृढं वेद्मि परं पुत्रं परं पुत्रान्न विद्यते ।।४।।
इन्द्रोऽप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः ।
अन्यैः समृद्धैरप्यर्थैर्न सुताद्विद्यते परम् ।।५।।
अत्र ते वर्तयिष्यामि महदाख्यानमुत्तमम् ।
सुरभ्याश्चैव संवादमिन्द्रस्य च विशां पते ।।६।।
त्रिविष्टपगता राजन्सुरभिः प्रारुदत्किल ।
गवां मात पुरा तात तामिन्द्रोऽन्वकृपायत ।।७।।
इन्द्र उवाच।।
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् ।
मानुषेष्वथ वा गोषु नैतदल्पं भविष्यति ।।८।।
सुरभिरुवाच।।
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप ।
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ।।९।।
पश्यैनं कर्षकं रौद्रं दुर्बलं मम पुत्रकम् ।
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन निपीडितम् ।।१०।।
एतं दृष्ट्वा भृशं श्रन्तं वध्यमानं सुराधिप ।
कृपाविष्टास्मि देवेन्द्र मनश्चोद्विजते मम ।।११।।
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् ।
अपरोऽल्पबलप्राणः कृशो धमनिसन्ततः ।।१२।।
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ।।१२।।
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः ।
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ।।१३।।
ततोऽहं तस्य दुःखार्ता विरौमि भृशदुःखिता ।
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ।।१४।।
इन्द्र उवाच।।
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने ।
किं कृपायितमस्त्यत्र पुत्र एकोऽत्र पीड्यते ।।१५।।
सुरभिरुवाच।।
यदि पुत्रसहस्रं मे सर्वत्र सममेव मे ।
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ।।१६।।
व्यास उवाच।।
तदिन्द्रः सुरभीवाक्यं निशम्य भृशविस्मितः ।
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ।।१७।।
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् ।
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ।।१८।।
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा ।
सुतेषु राजन्सर्वेषु दीनेष्वभ्यधिका कृपा ।।१९।।
यादृशो मे सुतः पण्डुस्तादृशो मेऽसि पुत्रक ।
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ।।२०।।
चिराय तव पुत्राणां शतमेकश्च पार्थिव ।
पाण्डोः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ।।२१।।
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि ।
इति दीनेषु पार्थेषु मनो मे परितप्यते ।।२२।।
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि ।
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ।।२३।। 3.9.23
धृतराष्ट्र उवाच। | 3-9-1x |
भगवन्नाहमप्येतद्रोचये द्यूतसंभवम्। मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ।। | 3-9-1a 3-9-1b |
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च। गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ।। | 3-9-2a 3-9-2b |
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम्। पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ।। | 3-9-3a 3-9-3b |
व्यास उवाच। | 3-9-4x |
वैचित्रवीर्य नृपते सत्यमाह यथा भवान्। दृढं विझः परं पुत्रं परं पुत्रान्न विद्यते ।। | 3-9-4a 3-9-4b |
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः। अन्यैः समृद्धैरप्यर्थैर्न सुतानमन्यते परम्। | 3-9-5a 3-9-5b |
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम्। सुरभ्याश्चैव संवादमिन्द्रस्य च विशांपते ।। | 3-9-6a 3-9-6b |
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल। गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ।। | 3-9-7a 3-9-7b |
इन्द्र उवाच। | 3-9-8x |
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम्। मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ।। | 3-9-8a 3-9-8b |
सुरभिरुवाच। | 3-9-9x |
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप। अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ।। | 3-9-9a 3-9-9b |
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम्। प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम्। निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ।। | 3-9-10a 3-9-10b 3-9-10c |
`एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप।' कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ।। | 3-9-11a 3-9-11b |
एकस्तत्रबलोपेतो धुरमुद्वहतेऽधिकाम्। अपरोप्यबलप्राणः कृशो धमनिसंततः। कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ।। | 3-9-12a 3-9-12b 3-9-12c |
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः। नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ।। | 3-9-13a 3-9-13b |
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता। अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ।। | 3-9-14a 3-9-14b |
शक्र उवाच। | 3-9-15x |
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने। किं कृपायितवत्यत्र पुत्र एको निपीड्यते ।। | 3-9-15a 3-9-15b |
सुरभिरुवाच। | 3-9-16x |
यदि पुत्रसहस्राणि सर्वत्रसमतैव मे। दीनस्य तु सतः शक्र पुत्रस्याभ्यधिकाकृपा ।। | 3-9-16a 3-9-16b |
व्यास उवाच। | 3-9-17x |
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः। जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ।। | 3-9-17a 3-9-17b |
प्रववर्ष च तत्रैव सहसा तोयमुल्वणम्। कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ।। | 3-9-18a 3-9-18b |
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा। सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ।। | 3-9-19a 3-9-19b |
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक। विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ।। | 3-9-20a 3-9-20b |
चिराय तव पुत्राणां शतमेकश्च भारत। पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाःसुदुःखिताः ।। | 3-9-21a 3-9-21b |
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि। इति दीनेषु पार्थेषु मनो मे परितप्यते ।। | 3-9-22a 3-9-22b |
यदि पार्थिव कौख्याञ्जीवमानानिहेच्छसि। दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ।। | 3-9-23a 3-9-23b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि नवमोऽध्यायः ।। 9 ।। |
3-9-5 सुरभ्या देवधेन्वा ।। 3-9-7 अन्वकृपायत अनुकम्पितवान् ।। 3-9-9 कौशिक हे इन्द्र ।। 3-9-10 प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ।। 3-9-12 धुरं भारम्। धमनिसंततः शिराभिर्व्याप्तः। निर्मांस इत्यर्थः ।। 3-9-13 वधो दण्डाघातेन। तोदः प्रतोदेन ।। 3-9-15 कृपायितवती कृपांकृतवती। पुत्र एको निपीड्यते बहुषु पुत्रेषु एकः कश्चित् निपीड्यत एवेत्यर्थः ।। 3-9-18 उल्वणं उत्कटम् ।। 3-9-21 मन्दा- त्वत्पुत्रवत्कपटानभिज्ञाः ।।
आरण्यकपर्व-008 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-010 |