महाभारतम्-03-आरण्यकपर्व-281
← आरण्यकपर्व-280 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-281 वेदव्यासः |
आरण्यकपर्व-282 → |
रामण सुग्रीवेण सख्यकरणपूर्वकं वालिहननम् ।। 1 ।। रावणेनाशोकवने सीतानिवेशनपूर्वकं तद्वशीकरणाय राक्षसीनां नियोजनम् ।। 2 ।। तत्र त्रिजटया रामरावणयोरिष्टानिष्टसूचकस्वदृष्टस्वाप्नप्रकारकथनेन सीतायाः परिसान्त्वनम् ।। 3 ।।
महाभारतस्य पर्वाणि |
---|
<spn style="font-size: 14pt; line-height: 200%">मार्कण्डेय उवाच। 3-281-1x
ततोऽविदूरे नलिनीं रप्रभूतकमलोत्पलाम्।
सीताहरणदुःखार्तः पम्पां रामः समासदत् ।। 3-281-1
मारुतेन सुशीतेन सुखेनामृतगन्धिना।
सेव्यमानो वने तस्मिञ्जगाम मनसा प्रियाम् ।। 3-281-2
विललाप सराजेन्द्रस्तत्रकान्तानुस्मरन्।
कामबाणाभिसंतप्तं सौमित्रिस्तमथाब्रवीत् ।। 3-281-3
न त्वामेवंविधो भावः स्प्रष्टुमर्हति मानद।
आत्मवन्तमिव व्याधिः पुरुषंवृद्धसेविनम् ।। 3-281-4
प्रवृत्तिरुपलब्धा ते वैदेह्या रावणस्य च।
तां त्वं पुरुषकारेण बुद्ध्या चैवोपपादय ।। 3-281-5
अभिगच्छाव सुग्रीवं शैलस्थं हरिपुङ्गवम्।
मयि शिष्ये च भृत्ये च सहाये च समाश्वस ।। 3-281-6
एवं बहुविधैर्वाक्यैर्लक्ष्मणेन स राघवः।
उक्तः प्रकृतिमापेदे कार्ये चानन्तरोऽभवत् ।। 3-281-7
निषेव्य वारि पम्पायास्तर्पयित्वा पितृनपि।
प्रतस्थतुरभौ वीरौ भ्रातरौ रामलक्ष्मणौ ।। 3-281-8
तावृश्यमूकमभ्येत्य बहुमूलफलद्रुमम्।
गिर्यग्रे वानरान्पञ्वीरौ ददृशतुस्तदा ।। 3-281-9
सुग्रीवः प्रेषयामास सचिवं वानरं तयोः।
बुद्धिमन्तं हनूमन्तं हिमवन्तमिव स्थितम् ।। 3-281-10
तेन संभाष्य पूर्वं तौ सुग्रीवमभिजग्मतुः।
रसख्यं वानरराजेन चक्रे रामस्तदा नृप ।। 3-281-11
`ततः सीतां हृतां श्रुत्वा सुग्रीवो वालिना कृतम्।
दुःखमाख्यातवान्सर्वं रामायामिततेजसे' ।। 3-281-12
तद्वासो दर्शयामास तस् कार्ये निवेदिते।
वानराणां तु यत्सीता ह्रियमाणा व्यपासृजत् ।। 3-281-13
तत्प्रत्ययकरं लब्ध्वा सुग्रीवं प्लवगाधिपम्।
पृथिव्यां वानरैश्वर्ये स्वयंरामोऽभ्यषेचयत् ।। 3-281-14
प्रतिजज्ञे चकाकुत्स्थः समरे वालिनो वधम्।
सुग्रीवश्चापि वैदेह्याः पुनरानयनं नृप ।। 3-281-15
इत्येवं समयं कृत्वाविश्वास्य च परस्परम्।
अभ्येत्य सर्वकिष्किन्धां तस्थुर्युद्धाभिकाङ्क्षिणः ।। 3-281-16
सुग्रीवः प्राप्यकिष्किन्धां ननादौघनिभस्वनः।
नसाय् तन्ममृषे वाली तारा तं प्रत्यषेधयत् ।। 3-281-17
यथानदतिसुग्रीवो बलवानेष वानरः।
मन्ये चाश्रयवान्प्राप्तो न त्वं निष्क्रान्तुमर्हसि ।। 3-281-18
हेममाली ततो वाली तारां ताराधिपाननाम्।
प्रोवाच वचनं वाग्मी तां वानरपतिः पतिः ।। 3-281-19
सर्वभूतरुतज्ञा शृणु सर्वं कपीश्वर ।।
केन चाश्रयवान्प्राप्तो ममैप भ्रातृगन्धिकः ।। 3-281-20
चिन्तयित्वा मुहूर्तं तु तारा ताराधिपप्रभा।
पतिमित्यब्रवीत्प्राज्ञा शृणु सर्वं कपीश्वर ।। 3-281-21
हृतदारो महासत्वोरामो दशरथात्मजः।
रतुल्यारिमित्रतां प्राप्तः सुग्रीवेण धनुर्धरः ।। 3-281-22
भ्राता चास्य महाबाहुः सौमित्रिरपराजितः।
लक्ष्मणो नाम मेधावी स्थितः कार्यार्थसिद्धये ।। 3-281-23
मैन्दश्च द्विविदश्चापि हनूमांश्चानिलात्मजः।
जाम्बवानृक्षराजश्च सुग्रीवसचिवाः स्थिताः ।। 3-281-24
सर्व एते महात्मानो बुद्धिमन्तो महाबलाः।
अलं तव विनाशाय रामवीर्यव्यपाश्रयाः ।। 3-281-25
तस्यास्तदाक्षिप्य वचो हितमुक्तं कपीश्वरः।
पर्यशङ्कत तामीर्षुः सुग्रीवगतमानसाम् ।। 3-281-26
तारां परुषमुक्त्वा तु निर्जगाम गुहामुखात्।
स्थितं माल्यवतोऽभ्याशे सुग्रीवं सोभ्यभाषत ।। 3-281-27
असकृत्त्वं मया क्लीव निर्जितो जीवितप्रियः।
मुक्तो गच्छसि दुर्बुद्धे कथंकारं रणे पुनः ।। 3-281-28
इत्युक्तः प्राहसुग्रीवो भ्रातरं हेतुमद्वचः।
प्राप्तकालममित्रघ्नं रामं सम्बोधयन्निव ।। 3-281-29
हृतराज्यस्य मे राजन्हृतदारस्य च त्वया।
किं मे जीवितसामर्थ्यमिति विद्धि समागतम् ।। 3-281-30
एवमुक्त्वाबहुविधं ततस्तौ सन्निपेततुः।
समरे वालिसुग्रीवौ सालतालशिलायुधौ ।। 3-281-31
उभौ जघ्नतुरन्योन्यमुभौ भूमौ निपेततुः।
उभौ ववल्गतुश्चित्रं मुष्टिभिश्च निजघ्नतुः ।। 3-281-32
उभौ रुधिरसंसिक्तौ नखदन्तपरिक्षतौ।
शुशुभाते तदा वीरौ पुष्पिताविव किंशुकौ ।। 3-281-33
न विशेषस्तयोर्युद्धे यदा कश्चन दृश्यते।
सुग्रीवस् तदा मालां हनुमान्कण्ठ आसजत् ।। 3-281-34
स मालया तदा वीरः शुशुभे कण्ठसक्तया।
श्रीमानिव महाशैलो मलयो मेघमालया ।। 3-281-35
कृतचिह्नं तु सुग्रीवं रामो दृष्ट्वा महाधनुः।
विचकर्ष धनुःश्रेष्ठं वालिमुद्दिश्य लक्षयन् ।। 3-281-36
विष्फारस्तस् धनुषो यन्त्रस्येव तदा बभौ।
वितत्रास तदा वाली शरेणाभिहतो हृदि ।। 3-281-37
स भिन्नहृदयो वाली वक्राच्छोणितमुद्वमन्।
ददर्शावस्थितं रामं ततः सौमित्रिणा सह ।। 3-281-38
गर्हयित्वास काकुत्स्थं पपात भुवि मूर्च्छितः।
तारा ददर्श तं भूमौ तारापतिमिव च्युतम् ।। 3-281-39
हते वालिनि सुग्रीवः किष्किन्धां प्रत्यपद्यत।
तां तारापतिमुखीं तारां निपतितेश्वराम् ।। 3-281-40
रामस्तु चतुरो मासान्पृष्ठे माल्यवतः शुभे।
निवासमकरोद्धीमान्सुग्रीवेणाभ्युपस्थितः ।। 3-281-41
रावणोऽपिपुरीं गत्वालङ्कां कामबलात्कृतः।
सीतां निवेशयामास भवने नन्दनोपमे ।। 3-281-42
अशोकवनिकाभ्यासे तापसास्रमसन्निभे।
भर्तृस्मरणतन्वङ्गी तापसीवेषधारिणी ।। 3-281-43
उपवासतपःशीला ततः सा पृथुलेक्षणा।
उवास दुःखवसतिं फलमूलकृताशना ।। 3-281-44
दिदेश राक्षसीस्तत्ररक्षणे राक्षसाधिपः।
प्रासासिशूलपरशुमुद्गरालातधारिणीः ।। 3-281-45
द्व्यक्षीं त्र्यक्षीं ललाटक्षीं दीर्घजिह्वामजिह्विकाम्।
त्रिस्तनीमेकपादां च त्रिजटामेकलोचनाम् ।। 3-281-46
एताश्चान्याश्च दीप्ताक्ष्यः करभोत्कटमूर्धजाः।
परिवार्यासते सीतां दिवारात्रमतन्द्रिताः ।। 3-281-47
तास्तु तामायतापाङ्गीं पिशाच्यो दारुणस्वराः।
तर्जयन्ति सदा रौद्राः परुषव्यञ्जनस्वराः ।। 3-281-48
खादाम पाटयामैनां तिलशः प्रविभज्यताम्।
येयं भर्तारमस्माकमवमत्येह जीवति ।। 3-281-49
इत्येवं परिभर्त्सन्तीस्त्रासयानाः पुनः पुनः।
भर्तृशोकसमाविष्टा निःश्वस्येदमुवाच ताः ।। 3-281-50
आर्याः खादत मां शीघ्रं न मे लोभोस्ति जीविते।
विना तं पुण्डरीकाक्षं नीलकुञ्चितमूर्धजम् ।। 3-281-51
अद्यैवाहं निराहारा जीवितप्रियवर्जिता।
शोषयिष्यामि गात्राणि बल्ली तलगता यथा ।। 3-281-52
न त्वन्यमभिगच्छेयं पुमांसं राघवादृते।
इति जानीत सत्यं मेक्रियतां यदनन्तरम् ।। 3-281-53
तस्यास्तद्वचनं श्रुत्वा राक्षस्यस्ताः खरस्वनाः।
आख्यातुं राक्षसेन्द्राय जन्मुस्तत्सर्वमादितः ।। 3-281-54
गतासु तासु सर्वासु त्रिजटा नाम राक्षसी।
सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ।। 3-281-55
सीते वक्ष्यामि ते किंचिद्विश्वासं करु मे सखि।
भयं त्वं त्यज वामोरु शृणु चेदं वचो मम ।। 3-281-56
अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः।
स रामस्य हितान्वेषी त्वदर्थे मामचूचुदत् ।। 3-281-57
सीता मद्वचनाद्वाच्या समाश्वास्य प्रसाद्य च।
भर्ता तेकुशली रामोलक्ष्मणानुगतो बली ।। 3-281-58
सख्यं वानरराजेन शक्रप्रतिमतेजसा।
कृतवान्राघवः श्रीमांस्त्वदर्थे च समुद्यतः ।। 3-281-59
मा च ते भूद्भयं भीरु रावणाल्लोकगर्हितात्।
नलकूबरशापेन रक्षिता ह्यसि नन्दिनि ।। 3-281-60
शप्तो ह्येष पुरा पापो वधूं रम्भां परामृशन्।
न शक्रोत्यवशां नारीमुपैतुमजितेन्द्रियः ।। 3-281-61
क्षिप्रमेष्यति ते भर्ता सुग्रीवेणाभिरक्षितः।
सौमित्रिसहितो धीमांस्त्वां चेतो मोक्षयिष्यति ।। 3-281-62
स्वप्ना हि सुमहाघोरा दृष्टा मेऽनिष्टदर्शनाः।
विनाशायास्य दुर्बुद्धेः पौलस्त्यस्य कुलस्य च ।। 3-281-63
दारुणो ह्येष दुष्टात्मा क्षुद्रकर्मा निशाचरः।
स्वभावाच्छीलदोषेण सर्वेषां भयवर्धनः ।। 3-281-64
स्पर्धते सर्वदेवैर्यः कालोपहतचेतनः।
मया विनासलिङ्गानि स्वप्ने दृष्टानि तस्य वै ।। 3-281-65
तैलाभिषिक्तो विकचो मज्जनप्के दशाननः।
असकृत्स्वरयुक्ते तु रथे नृत्यन्निव स्थितः ।। 3-281-66
कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः।
गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः ।। 3-281-67
श्वेतातपत्रः सोष्णीषः शुक्लमाल्यानुलेपनः।
श्वेतपर्वतमारूढ एक एव विभीषणः ।। 3-281-68
सचिवाश्चास्य चत्वारः शुक्लमाल्यानुलेपनाः।
श्वेतपर्वतमारूढा मोक्ष्यन्तेऽस्मान्महाभयात् ।। 3-281-69
रामस्यास्त्रेण पृथिवी परिक्षिप्ता ससागरा।
यशसा पृथिवीं कृत्स्नां पूरयिष्यति ते पतिः ।। 3-281-70
हस्तिसक्थिसमारूढो भुञ्जानो मधुपायसम्।
लक्ष्मणश्च मया दृष्टो दिधक्षुः सर्वतो दिशम् ।। 3-281-71
रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता।
असकृत्त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् ।। 3-281-72
हर्षमेष्यसि वैदेहि क्षिप्रं भर्त्रा समन्विता।
राघवेण सहभ्रात्रा सीते त्वमचिरादिव ।। 3-281-73
इत्येतन्मृगशावाक्षी तच्छ्रुत्वा त्रिजटावचः।
बभूवाशावती बाला पुनर्भर्तृसमागमे ।। 3-281-74
तावदभ्यागता रौद्र्यः पिशाच्यस्ताःसुदारुणाः।
ददृशुस्तां त्रिजटया सहासीनां यथापुरम् ।। 3-281-75
।। इति श्रीमन्महाभारते अरण्यपर्वणि
रामोपाख्यानपर्वणि एकाशीत्यधिकद्विशततमोऽध्यायः ।। 281 ।।
3-281- अविदूरे समीपे। नलिनीं पुष्करिणीम् ।। 3-281-2 अमृतगन्धिनाऽमृतसदृशेन ।। 3-281-5 उपपादय सफलीकुरु ।। 3-281-7 अनन्तरः संलग्नुः ।। 3-281-9 ऋश्यमूकं पर्वतम् ।। 3-281-17 ओघो जनवृन्दस्तन्निभः स्वनो यस्य ।। 3-281-18 आश्रयवान् परबलाश्रितः ।। 3-281-26 ईर्षुरीर्ष्यालुः ।। 3-281-28 मुक्तो गच्छसि दुर्बुद्धे कथं घोरे पुनरिति क. पाठः। मुक्तो ज्ञातिरिति ज्ञात्वा का त्वरा मरणे पुनः इति झ. पाठः ।। 3-281-30 जीवितसामर्थ्यं जीवनस्य श्लाप्यत्वम् ।। 3-281-47 करभोत्कटमूर्धजाः उष्ट्रसदृशकेश्यः ।। 3-281-48 परुषव्यञ्जनखरात्मकाः शब्दा यासां ताः ।। 3-281-52 व्याली तालगता ययेति ख.झ.पाठः ।। 3-281-61 वधूं स्रुषाम् ।। 3-281-70 परिक्षिप्ता व्याप्ता ।।
आरण्यकपर्व-280 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-282 |