महाभारतम्-03-आरण्यकपर्व-033
← आरण्यकपर्व-032 | महाभारतम् तृतीयपर्व महाभारतम्-03-आरण्यकपर्व-033 वेदव्यासः |
आरण्यकपर्व-034 → |
भीमेन युधिष्ठिरंप्रति नीतिव्युत्पादनपूर्वकं युद्धेन राज्याहरणकर्तव्यत्वोक्तिः ।। 1 ।।
वैशम्पायन उवाच।।
याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।
निःश्वसन्नुपसङ्गम्य क्रुद्धो राजानमब्रवीत् ।।१।।
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।
धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ।।२।।
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा ।
अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ।।३।।
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् ।
आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ।।४।।
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।
अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ।।५।।
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।
अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ।।६।।
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।
हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ।।७।।
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।
धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ।।८।।
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।
आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ।।९।।
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि ।
भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ।।१०।।
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।
अवीराचरितां राजन्न बलस्थैर्निषेविताम् ।।११।।
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः ।
न चाहमभिनन्दामि न च माद्रीसुतावुभौ ।।१२।।
भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।
कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ।।१३।।
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् ।
अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ।।१४।।
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् ।
आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ।।१५।।
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः ।
अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ।।१६।।
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।
सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ।।१७।।
अथ वा वयमेवैतान्निहत्य भरतर्षभ ।
आददीमहि गां सर्वां तथापि श्रेय एव नः ।।१८।।
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।
काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ।।१९।।
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे ।
अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ।।२०।।
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा ।
व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ।।२१।।
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।
जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ।।२२।।
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः ।
न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ।।२३।।
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः ।
रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ।।२४।।
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।
स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ।।२५।।
सततं यश्च कामार्थी नेतरावनुतिष्ठति ।
मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ।।२६।।
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।
कामतो रममाणस्य मीनस्येवाम्भसः क्षये ।।२७।।
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः ।
प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ।।२८।।
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।
इतरेतरयोनी तौ विद्धि मेघोदधी यथा ।।२९।।
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।
स कामश्चित्तसङ्कल्पः शरीरं नास्य विद्यते ।।३०।।
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति ।
अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ।।३१।।
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् ।
उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ।।३२।।
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा ।
एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ।।३३।।
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति ।
स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ।।३४।।
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।
प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ।।३५।।
तस्य नाशं विनाशं वा जरया मरणेन वा ।
अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ।।३६।।
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।
विषये वर्तमानानां या प्रीतिरुपजायते ।।३७।।
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ।।३७।।
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।
न धर्मपर एव स्यान्न चार्थपरमो नरः ।।३८।।
न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ।।३८।।
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।
अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।३९।।
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् ।
वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ।।४०।।
धर्मं चार्थं च कामं च यथावद्वदतां वर ।
विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।।४१।।
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।
प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ।।४२।।
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।
जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ।।४३।।
विदितश्चैव ते धर्मः सततं चरितश्च ते ।
जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ।।४४।।
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।
एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ।।४५।।
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् ।
अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ।।४६।।
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।
धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ।।४७।।
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् ।
वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ।।४८।।
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।
तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ।।४९।।
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ।
क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ।।५०।।
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।
उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ।।५१।।
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।
क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ।।५२।।
प्रजापालनसम्भूतं फलं तव न गर्हितम् ।
एष ते विहितो राजन्धात्रा धर्मः सनातनः ।।५३।।
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।
स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ।।५४।।
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।
वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ।।५५।।
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।
पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ।।५६।।
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।
निकृत्या लभते राज्यमाहारमिव शल्यकः ।।५७।।
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।
निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ।।५८।।
एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।
जहि शत्रून्महाबाहो परां निकृतिमास्थितः ।।५९।।
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।
भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ।।६०।।
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ।।६१।।
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा ।
न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ।।६२।।
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता ।
बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ।।६३।।
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः ।
न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ।।६४।।
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः ।
बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ।।६५।।
अमित्रं मित्रसम्पन्नं मित्रैर्भिन्दन्ति पण्डिताः ।
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ।।६६।।
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।
नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ।।६७।।
सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।
अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ।।६८।।
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।
अत्ति चैव तथैव त्वं सवितुः सदृशो भव ।।६९।।
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् ।
विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ।।७०।।
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।
इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ।।७१।।
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।
कथायुक्ताः परिषदः पृथग्राजन्समागताः ।।७२।।
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते ।
समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ।।७३।।
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।
अनृतं किञ्चिदुक्तं ते न कामान्नार्थकारणात् ।।७४।।
यदेनः कुरुते किञ्चिद्राजा भूमिमवाप्नुवन् ।
सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ।।७५।।
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।
मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ।।७६।।
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।
सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ।।७७।।
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।
सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ।।७८।।
इति निर्वचनं लोके चिरं चरति भारत ।
अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ।।७९।।
स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।
त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ।।८०।।
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।
अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।।८१।।
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ।।८१।।
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा ।
श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ।।८२।।
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।
स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ।।८३।।
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत ।
यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ।।८४।।
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च ।
कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ।।८५।। 3.33.89-90
वैशंपायन उवाच। | 3-33-1x |
याज्ञसेन्या वचः श्रुत्वा भीमसेनो ह्यमर्षणः। निश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ।। | 3-33-1a 3-33-1b |
राजन्सत्पदवीं धर्म्यां व्रज सत्पुरुषोचिताम्। धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ।। | 3-33-2a 3-33-2b |
नैव धर्मेण तद्राज्यं नार्जवेण न चौजसा। अक्षकूटमधिष्ठाय हृतं दुर्योधनेन वै ।। | 3-33-3a 3-33-3b |
गोमायुनेव सिंहानां दिर्बलेन बलीयसाम्। आमिपं विघसाशेन तद्वद्राज्यं हि नो हृतम् ।। | 3-33-4a 3-33-4b |
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः। अर्थमुत्सृज्य किं राजन्दुःखेन परितप्यसे ।। | 3-33-5a 3-33-5b |
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम्। अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ।। | 3-33-6a 3-33-6b |
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः। हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ।। | 3-33-7a 3-33-7b |
भवतः प्रियमित्येवं महद्व्यसनमीदृशम्। धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ।। | 3-33-8a 3-33-8b |
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान्। आत्मानं भवतः शास्त्रैर्नियम्य भरतर्षभ ।। | 3-33-9a 3-33-9b |
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्म हि। भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ।। | 3-33-10a 3-33-10b |
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः। अवीराचरितां राजन्नबलस्थैर्निषेविताम् ।। | 3-33-11a 3-33-11b |
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयाः। न चाहमभिनन्दामि न च माद्रीसुतावुभौ ।। | 3-33-12a 3-33-12b |
भवान्धर्मो धर्म इति सततं व्रतकर्शितः। कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ।। | 3-33-13a 3-33-13b |
दुर्मनुष्या हि निर्वेदमफलं सर्वघातकम्। अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ।। | 3-33-14a 3-33-14b |
स भवान्दृष्टिमाञ्शक्तः पश्यन्नस्मासु पौरुषम्। आनृशंस्यपरो राजन्नात्मार्थमवबुध्यसे ।। | 3-33-15a 3-33-15b |
अस्मानमी धार्तराष्ट्राः क्षममाणानहिंसतः। अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ।। | 3-33-16a 3-33-16b |
तत्रचेद्युध्यमानानामजिह्ममनिवर्तिनाम्। सर्वशो हि वधः श्रेयान्प्रेत्य लोकांल्लभेमहि ।। | 3-33-17a 3-33-17b |
अधवा वयमेवैतान्निहत्य भरतर्षभ। आददीमहि गां सर्वां तथापि श्रेय एव नः ।। | 3-33-18a 3-33-18b |
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम्। काङ्खतां विषुलां कीर्ति वैरं प्रतिचिकीर्षताम् ।। | 3-33-19a 3-33-19b |
आत्मार्थं युध्यमानानां जीविते कृत्यलक्षणे। अन्यैरपि हृते राज्ये प्रशंसैव न गर्हणा ।। | 3-33-20a 3-33-20b |
कर्शनार्थो हि यो धर्मो विप्राणामात्मनस्तथा। व्यसनं नाम तद्राजन्न धर्मः स कुवर्त्मतत् ।। | 3-33-21a 3-33-21b |
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम्। जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ।। | 3-33-22a 3-33-22b |
यस्य धर्मो हि धर्मार्थँ क्लेशभाङ्ग स पण्डितः। न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ।। | 3-33-23a 3-33-23b |
यस्य चार्थार्थ एवार्थः स च नार्थस्य कोविदः। रक्ष्यते भृतकः पुण्यं यथा स्यात्तादृगेव सः ।। | 3-33-24a 3-33-24b |
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति। स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ।। | 3-33-25a 3-33-25b |
सततं यश्च कामार्थी नेतरावनुतिष्ठति। मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ।। | 3-33-26a 3-33-26b |
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम्। कामतो रममाणस्य मीनस्येवाम्भसः क्षये ।। | 3-33-27a 3-33-27b |
तस्माद्धर्मार्थयोर्नित्यं न प्रमान्द्यन्ति पण्डिताः। प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ।। | 3-33-28a 3-33-28b |
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः। इतरेतरयोर्नीतौ विद्धि मेघोदधी यथा ।। | 3-33-29a 3-33-29b |
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते। स कामश्चित्तसंकल्पः शरीरं नास्य दृश्यते ।। | 3-33-30a 3-33-30b |
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममिच्छति। अर्थमिच्छति कामार्थीन कामादन्यमिच्छति ।। | 3-33-31a 3-33-31b |
न हि कामेन कामोऽन्यः सिध्यते फलमेव तत्। उषयोगात्फलस्यैव काष्ठाद्भस्मेव पण्डितः ।। | 3-33-32a 3-33-32b |
इमाञ्शकुनकान्राजन्हन्ति वैतंसिको यथा। एतद्रूपमधर्मस्य भूतेषु च विहिंसनम् ।। | 3-33-33a 3-33-33b |
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्ति। स वध्यः सर्वभूतानां प्रेत्य चेहैच दुर्मतिः ।। | 3-33-34a 3-33-34b |
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः। प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ।। | 3-33-35a 3-33-35b |
तस्य नाशं विनाशं वा जरया मरणेन वा। अनर्थ इति मन्यन्ते सोयमस्मासु वर्तते ।। | 3-33-36a 3-33-36b |
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च। विपये वर्तमानानां या प्रीतिरुपजायते ।। | 3-33-37a 3-33-37b |
स काम इति मे बुद्धिः कर्मणां फलमुत्तमम्। एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।। | 3-33-38a 3-33-38b |
न धर्मपर एव स्यान्न चार्थपरमो नरः। न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ।। | 3-33-39a 3-33-39b |
धर्मं पूर्वे धनं मध्ये जघन्ये काममाचरेत्। अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ।। | 3-33-40a 3-33-40b |
कामं पूर्वे धनं मध्ये जघन्ये धर्ममाचरेत्। वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ।। | 3-33-41a 3-33-41b |
धर्मं चार्थं च कामं च यथावद्वदतांवर। विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ।। | 3-33-42a 3-33-42b |
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम्। प्राप्तिं वा बुद्धिमास्थाय सोपायां कुरुनन्दन ।। | 3-33-43a 3-33-43b |
तद्वाऽऽशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम्। जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ।। | 3-33-44a 3-33-44b |
विदितश्चैव मे धर्मः सततं चरितश्च ते। जानन्तस्त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ।। | 3-33-45a 3-33-45b |
दानं यज्ञाः सतां पूजा वेदधारणमार्जवम्। एष धर्मः परो राजन्फलवान्प्रेत्य चेंह च ।। | 3-33-46a 3-33-46b |
एष नार्थविहीनेन शक्यो राजन्निपेवितुम्। अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीनरे ।। | 3-33-47a 3-33-47b |
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते। धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ।। | 3-33-48a 3-33-48b |
न चार्थो भैक्ष्यचर्येण नापि क्लैब्येन कर्हिचित्। वेत्तुं शक्यस्तथा राजन्केवलं धर्मबुद्धिना ।। | 3-33-49a 3-33-49b |
प्रतिष्द्धा हि ते याच्ञा यया सिध्यति वै द्विजः। तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ।। | 3-33-50a 3-33-50b |
भैक्ष्यचर्या न विहिता न च विट्शूद्रजीविका। क्षत्रियस् विशेषेण धर्मस्तु बलमौरसम् ।। | 3-33-51a 3-33-51b |
स्वधर्मं प्रतिपद्यस्व जहि शत्रून्समागतान्। धार्तराष्ट्रवनं पार्थ मया पार्थेन नाशय ।। | 3-33-52a 3-33-52b |
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः। उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ।। | 3-33-53a 3-33-53b |
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान्। क्रूरकर्माऽभिजातोसि यस्मादुद्विजते जनः ।। | 3-33-54a 3-33-54b |
प्रजापालनसंभूतं फलं तव न गर्हितम्। एष ते विहितो राजन्धात्रा धर्मः सनातनः ।। | 3-33-55a 3-33-55b |
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि। स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ।। | 3-33-56a 3-33-56b |
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः। वीर्यमास्थाय कौरव्य धुरमुद्वह धुर्यवत् ।। | 3-33-57a 3-33-57b |
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन। पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ।। | 3-33-58a 3-33-58b |
जिह्वां दत्ता बहूनां हि क्षुद्राणां लुब्धचेतसाम्। निकृत्या लभते राज्यमाहारमिव शल्यकः ।। | 3-33-59a 3-33-59b |
भ्रातर पूर्वजाताश्च सुसमृद्धाश्च सर्वशः। निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ।। | 3-33-60a 3-33-60b |
एवं बलवतः सर्वमिति बुद्ध्वा महीपते। जहि शत्रून्महाबाहो परां निकृतिमास्थितान् ।। | 3-33-61a 3-33-61b |
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः। भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ।। | 3-33-62a 3-33-62b |
सत्वेन कुरुते युद्धं राजन्सुबलवानपि। न प्रमाणेन नोत्साहात्सत्वस्थो भव पाण्डव ।। | 3-33-63a 3-33-63b |
सत्वं हि मूलमर्थस् यवितथं यदतोऽन्यथा। न तु प्रसक्तं भवति वृक्षच्छायेन हैमनी ।। | 3-33-64a 3-33-64b |
अर्थत्यागोऽपि कार्यः स्यादर्थं श्रेयांसमिच्छता। बीजौपम्यन कौन्तेय मा ते भूदत्र संशयः ।। | 3-33-65a 3-33-65b |
अर्थेन तु समोऽनर्थो यत्र लब्धो महोदयः। न तत्र विपणः कार्यः खरकण्डूयनं हि तत् ।। | 3-33-66a 3-33-66b |
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाऽल्पकं नरः। बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितम् ।। | 3-33-67a 3-33-67b |
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डितः।। | 3-33-68a |
भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ।। | 3-33-68a |
सत्वेन कुरुते युद्धं राजन्सुबलवानपि। नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ।। | 3-33-69a 3-33-69b |
सर्वथा संहतैरेव दुर्बलैर्बलवानपि। अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ।। | 3-33-70a 3-33-70b |
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः। हन्ति चैव तथैव त्वं सदृशः सवितुर्भव ।। | 3-33-71a 3-33-71b |
एतच्चापि तपो पाजन्पुराणमिति नः श्रुतम्। विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ।। | 3-33-72a 3-33-72b |
न तथा तपसा राजँल्लोकान्प्राप्नोति क्षत्रियः। यथा सृष्टेन युद्धेन विजयेनेतरेण वा ।। | 3-33-73a 3-33-73b |
अपेयात्किल भा सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा। इतिलोको व्यवसितो दृष्ट्वेमां भवतोव्यथाम् ।। | 3-33-74a 3-33-74b |
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च। कथयन्त्यः परिषदः पृथग्राजन्समागताः ।। | 3-33-75a 3-33-75b |
इदमभ्यधिकं राजन्ब्राह्मणाः कुरवश्च ते। समेताः कथयन्तीह मुदिताः सत्यसन्धताम् ।। | 3-33-76a 3-33-76b |
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि। अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ।। | 3-33-77a 3-33-77b |
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन्। सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ।। | 3-33-78a 3-33-78b |
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः। मुच्यते वीर पापेभ्यस्तमोभ्य इव चन्द्रमाः ।। | 3-33-79a 3-33-79b |
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन। सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ।। | 3-33-80a 3-33-80b |
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा। सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ।। | 3-33-81a 3-33-81b |
इतिलोके निर्वचनं पुरश्चरति भारत। अपि चैताः स्त्रियो बालाः स्वाध्यायमधिकुर्वते ।। | 3-33-82a 3-33-82b |
इमामवस्थां च गते सहास्माभिररिंदम्। हन्त नष्टाः स्म सर्वे वै भवतोपद्रवे सति ।। | 3-33-83a 3-33-83b |
स भवान्रथमास्थाय सर्वोपकरणान्वितम्। त्वरमाणोऽभिनिर्यातु विप्रेभ्योऽर्थविभावकः ।। | 3-33-84a 3-33-84b |
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम्। अस्त्रविद्भिः परिवृतोभ्रातृभिर्दृढधन्विभिः ।। | 3-33-85a 3-33-85b |
आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा। अमित्रांस्तेजसा मृद्गन्नसुरानिव वृत्रहा। श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ।। | 3-33-86a 3-33-86b 3-33-86c |
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम्। स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ।। | 3-33-87a 3-33-87b |
न स वीरो न मातङ्गो न च सोऽश्वोस्ति भारत। यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ।। | 3-33-88a 3-33-88b |
सृञ्जयैः सहकैकेयैर्वृष्णीनां वृषभेण च। कथंस्विद्युधि कौन्तेय न राज्यं प्राप्नुयामहे ।। | 3-33-89a 3-33-89b |
शत्रुहस्तगतां राजन्कथंस्विन्नाहरेर्महीम्। इह यत्नमुपाहृत्य बलेन महताऽन्वितः ।। | 3-33-90a 3-33-90b |
।। इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयस्त्रिंशोऽध्यायः ।। 33 ।। |
टिप्पणी
सम्पाद्यताम्3-33-2 किंप्रयोजनमिति शेषः। राज्यस्यपदवीमिति झ.ठ. पाठः. ।। 3-33-3 कूटं कपटम् ।। 3-33-4 विघसो भूतबलिशेषः श्वकाकादियोग्यस्तद्भक्षकेण शुनकेनेत्यर्थः ।। 3-33-5 धर्मलेशः प्रतिज्ञापालनजस्तेन प्रतिच्छन्न आवृतः। अर्थं राज्याख्यम् ।। 3-33-7 कुणीनां हस्तविकलानाम्। पङ्गूनां पादविकलानाम्। अनादरे षष्ठी ।। 3-33-8 धर्मकामे धर्मेच्छायाम्। प्रतीतस्य विश्वस्तस्य ।। 3-33-9 शास्त्रैः शमवचनैः। न जयामः स्मशात्रवानिति क. ध. पाठः ।। 3-33-11 मृगचर्यामिव। एनां वनचर्याम्। बलस्थैर्न निषेवितां बलवद्भिरसेवितामित्यर्थः ।। 3-33-13 न आपन्न इति संबन्धः ।। 3-33-18 गां पृथिवीम् ।। 3-33-20 कृत्यलक्षणे करणीयस्वरूपे ।। 3-33-21 कुधर्मतत् इति पाठे कुधर्मं तनोतीति कुधर्मतत् कुधर्मबीजमित्यर्थः ।। 3-33-22 धर्मार्थौ बलसाध्यहेमन्तप्रातःस्नानशत्रुजयसंभवौ ।। 3-33-23 धर्मार्थे नत्वर्थकामार्थम्। अर्थं प्रयोजनम् ।। 3-33-24 यस्य चात्पार्थमेवार्थ इति झ. पाठः ।। 3-33-25 अतिवेलप्रत्यन्तम् ।। 3-33-28 साहि धर्मार्थरूपाहि ।। 3-33-29 अर्थपरिग्रहोऽर्थार्थमेवालम्बनीयः। इतरेतरयोर्नीतौ। धर्मादर्थः प्रणीयतेऽर्थाच्च धर्म इत्यर्थः। मेघादुदधिपुष्टिरुदधेर्मेघपूर्तिरिव ।। 3-33-30 द्रव्यस्य स्रक्रचन्दनादेः स्पर्शः। अर्थस्य स्वर्णादेः संयोगो लाभः ।। 3-33-31 न कामादर्थमृच्छतीति क. ध. पाठः ।। 3-33-32 साव्यते फलमेव तदिति झ. पाठः. उपयोगः साक्षात्प्रीत्युत्पादनेन कृतार्थत्वम्। काष्ठाद्भस्म साध्यं नतु भस्मतोपि भस्मान्तरे साध्यमस्ति तद्वत् ।। 3-33-33 वैतंसिको वीतंसेन जीवतीति पक्षिहन्ता। वीतंसं बन्धनोपाये मृगाणां पक्षिणामपीति विश्वः ।। 3-33-40 धर्मं पूर्वे अहनि चरेत् ।। 3-33-41 कामं पूर्वेवयसि चरेत् ।। 3-33-44 प्राप्तिर्महोदयो वा राज्यलाभजः तन्मोक्षाख्यं श्रेयः। दुःखं दुःखदम् ।। 3-33-45 कर्मचोदनां प्रवृत्तिजनकं वेदवाक्यं शंसन्ति कथयन्ति ।। 3-33-49 क्लैब्येन कातर्येण। वेत्तुं लब्धुम् ।। 3-33-50 द्विजः ब्राह्मणः ।। 3-33-51 औरसं उत्साहः ।। 3-33-53 उदारं ईश्वरभावम्। अवरे अनैश्वर्ये ।। 3-33-54 क्रूरं हिंसात्मकं क्षात्रं कर्म यस्य ।। 3-33-59 जिह्वां जिह्वायाः प्रियं साध्वन्नं उत्कोचमित्यर्थः। क्षुद्राणां शत्रुपक्षीयाणाम्। निकृत्या भेदरूपेण छलेन। शल्यकः व्याधः। स हि मृगेभ्यो भक्ष्यं दत्त्वा विश्वास्य हत्वा आहारं लभते तद्वत् ।। 3-33-63 सत्वेन बलेन। प्रमाणेन संधेन। उत्साहेन शत्रुपक्षीयैः सह संधानलक्षणेन ।। 3-33-67 एवमेव बीजौपम्येन ।। 3-33-69 होत्राभिः सान्त्वेन आह्वानैः ।। 3-33-70 संहतैर्मिलितैः। मधुहा मध्वर्थं गतः। ओहाङ्गतौ इत्यस्य रूपम्। कालप्रतीक्षायां हि शत्रुर्बलवान् भूत्वाऽस्मान् जेष्यतीति भावः ।। 3-33-71 हन्ति रसशोषणेन। पाति वर्षेण ।। 3-33-72 पुराणं अनादि ।। 3-33-73 इतरेण मरणेन ।। 3-33-74 अपेयात् अपगच्छेत्। व्यवसितः निश्चितः ।। 3-33-78 एनः पापम्। अवाप्नुवन् अवाप्तिहेतोः ।। 3-33-81 श्वदृतौ सारमेयचर्मकोशे। ब्रह्म वेदः। वृषले शूद्रे ।। 3-33-82 स्वाध्यायमधिकुर्वतेश्वदृताविति श्लोकं वेदवत् स्त्र्यादयो नित्यं पठन्तीत्यर्तः ।। 3-33-83 भवता हेतुना। उपद्रवे राज्यभ्रंशे ।। 3-33-84 अर्थविभावको जयार्जितामर्थं प्रदातुम् ।। 3-33-85 वाचयित्वा आशीर्वादान् ।। 3-33-86 धार्तराष्ट्रादिति च्छेदः ।। 3-33-90 उपाहृत्य आलम्ब्य ।।
आरण्यकपर्व-032 | पुटाग्रे अल्लिखितम्। | आरण्यकपर्व-034 |